परिचयः
धातुः प्रथमे गणे अस्ति वा ? षष्ठे गणे अस्ति वा ?
१. प्रथमे गणे विकरण-प्रत्ययस्य ‘अ’ इति भागः अवशिष्यते | षष्ठे गणे अपि सा एव गतिः | तर्हि यत्र धातुः तिङ्-प्रत्ययः इत्यनयोः मध्ये अकारः एव अस्ति, कथं ज्ञायते कस्मिन् गणे अस्ति ?
उत्तरम्— दर्शनेन एव सर्वत्र न ज्ञातुं शक्नुमः, किन्तु बहुत्र ज्ञायते | यत्र धात्वङ्गे गुणः दृश्यते, तत्र “प्रथमे गणे अस्ति” इति ज्ञायते | अधुना अग्रे गच्छेम, पश्यामः इदं सर्वं कथं भवति |
२. व्याकरणे एकः सिद्धान्तः अस्ति, गुणः नाम्ना | सिद्धान्ते स्वरस्य परिवर्तनं भवति | विकृत-रूपस्य गुण-संज्ञा भवति | अस्मिन् कोष्ठके पश्यतु–
स्वरः
इ, ई
उ, ऊ
ऋ, ॠ
गुणः
ए
ओ
अर्
३. धातुतः क्रियापदं निर्मातुं, भ्वादिगणे गुणः भवति; तुदादिगणे गुणः न भवति | “गुणः भवति” इत्युक्ते धातोः अन्तर्भूते स्वरे गुणः आगच्छति इति |
बुध्-धातौ अन्तर्भूतः स्वरः ‘उ’ | उकारस्य गुणः ओकारः इति उपरि स्थिते कोष्ठके अस्माभिः दृष्टम् | बुध्-धातौ गुणः भवति अतः बुध् → बोध् इति अस्ति | लट्-लकारे (लटि) बोधति इति रूपम् | गुणः अस्ति अतः बुध्-धातुः प्रथमे गणे अस्ति, न तु षष्ठे |
लिख् धातौ अन्तर्भूतः स्वरः ‘इ’ | इकारस्य गुणः एकारः | किन्तु लिख्-धातोः लटि “लिखति” इत्यस्ति, न तु “लेखति” | गुणः न जातः, अतः षष्ठे गणे अस्ति | लिख्-धातुः यदि भ्वादिगणे अभविष्यत्, तर्हि लटि “लेखति” इति रूपम् अभविष्यत् | तथा नास्ति एव; तुदादिगणे अस्ति अतः “लिखति” इति रूपं भवति |
कृष् इत्यस्य धातुद्वयम् अस्ति | एकः कृष्-धातुः भ्वादिगणे अस्ति, अपरः कृष्-धातुः तुदादिगणे अस्ति | भ्वादिगणे कृष्-धातोः “कर्षति” इति रूपं लटि | ऋकारस्य गुणः अर् किल, अतः कृष् → कर्ष् भ्वादिगणे | किन्तु तुदादिगणे अन्तर्भूतः कृष्-धातुः लटि “कृषति” इति | नाम ऋकारस्य गुणः तत्र न भवति |
४. भ्वादिगणे गुणः सर्वत्र न भवति | तर्हि कुत्र भवति, कुत्र न भवति इति प्रश्नः |
सरलतया उक्तं चेत्, कस्मिंश्चित् धातौ इ/ई, उ/ऊ, ऋ/ॠ एषु स्वरेषु एकः अस्ति चेत्, तस्य स्वरस्य गुणः भवति | किन्तु तावत् एव वदामः चेत्, कुत्रचित् दोषः भवति |
अतः सम्यक्तया अवगमनार्थं किञ्चित् इतोऽपि वक्तव्यम् अस्ति | अत्र मुख्यतः नियमद्वयम् अस्ति |
अ) भ्वादिगणे, धातोः अन्तिमः वर्णः इ, ई, उ, ऊ, ऋ, ॠ अस्ति चेत्, तस्य वर्णस्य गुणः भवति |
उदा— भू → भो, जि → जे, सृ → सर्
आ) भ्वादिगणे, धातोः उपधा इ, उ, ऋ अस्ति चेत्, तस्य वर्णस्य गुणः भवति | उपधा नाम अन्तिमवर्णात् पूर्वं यः वर्णः, सः |
उदा— बुध् → बोध्, कृष् → कर्ष्
अत्र बुध्-धातौ उकारः उपधा; कृष् धातौ ऋकारः उपधा | धेयं यत् दीर्घः स्वरः उपधा चेत्, तस्य गुणः न भवति | जीव् → जीवति |
५. किमर्थं गुणः भवति भ्वादिगणे, न तु तुदादि गणे ?
पूर्वतने पाठे, अस्माभिः ज्ञातं यत् विकरणप्रत्ययेषु केचन वर्णाः सन्ति ये न तिष्ठन्ति | न तिष्ठन्ति यतः तेषां वर्णानाम् “इत्-संज्ञा” भवति, इत्-संज्ञा इति कारणतः तेषां लोपः भवति | एभिः इत्-संज्ञक-वर्णैः किञ्चित् विशिष्टं कार्यं निर्दिष्टं भवति | कीदृशं कार्यम् इति सम्प्रति पश्याम |
भ्वादिगणे विकरणप्रत्ययः शप् इति जानीमः | शप् नाम “श् + अ + प्” | लटि केवलम् अकारः तिष्ठति | इत्युक्तौ शकार-पकारयोः वर्णयोः लोपः भवति | द्वौ अपि वर्णौ गच्छतः | गमनानन्तरं, नाम लोपानन्तरं श् प् च किञ्चित् कार्यं कुरुतः | लोपानन्तरं कथं कार्यं स्यात् इति चेत्, व्याकरणे कश्चन नियमः अस्ति यत् वर्णस्य लोपानन्तरमपि तस्य लक्षणं तिष्ठति, तस्य सङ्केतः तिष्ठति | तर्हि अनयोः द्वयोः वर्णयोः कार्यं किम् इति चेत्—
विकरणप्रत्यये श् इत्यस्य कार्यं— गुणस्य कृते प्रेरयति | (धातौ अन्तर्भूतस्य स्वरस्य गुणं कारयति |)
विकरणप्रत्यये प् इत्यस्य कार्यं— प् नास्ति चेत्, गुणस्य कृते अवरोधं करोति | (प् अस्ति चेत्, गुणस्य न कोऽपि अवरोधः |)
भ्वादिगणे श् अस्ति, अतः गुणस्य कृते प्रेरणा अस्ति | प् अपि अस्ति, अतः गुणस्य कृते न कोऽपि अवरोधः | अतः गुणः भवति | कृष् + शप् + ति = कर्षति |
तुदादिगणे विकरणप्रत्ययः श इति अस्माभिः ज्ञातम् | श नाम “श् + अ” | तर्हि किं भवति ? शकारः गुणस्य कृते प्रेरयति | परन्तु, तुदादिगणे विकरणप्रत्ययः केवलं श; नाम पकारः नास्ति | पकारः नास्ति चेत्, गुणस्य कृते अवरोधः इति उक्तम् | अतः गुणः न भवति | कृष् + श + ति = कृषति |
६. धातौ अन्तर्भूतः स्वरः अकारः अस्ति चेत्, गुणस्य प्रसक्तिः नास्ति | अतः तत्र भ्वादिगणे अस्ति वा तुदादिगणे अस्ति वा इति वयं ज्ञातुं न शक्नुमः | उदाहरणार्थं पठ् (पठति), पत् (पतति), त्यज् (त्यजति), वद् (वदति) इत्यादीन् धातून् तु गुणाधारेण न ज्ञातुम् अर्हामः | किन्तु लोके एकः मार्गदर्शकः अस्ति— आधिक्येन प्रसिद्धः अकारयुक्तः धातुः अस्ति चेत्, भ्वादिगणे अस्ति | नाम एतादृशः (अकारयुक्तः) धातुः परिचितः अस्ति चेत्, प्रायः भ्वादिगणे स्यात् | (अपवादः अस्ति चल्-धातुः, लटि चलति; अयं धातुः प्रसिद्धः किन्तु तुदादिगणे न तु भ्वादिगणे |)
७. प्रश्नः उदेति यत् येषां धातूनां गुण-प्रसङ्गः नास्त्येव, तेषां केन आधारेण भ्वादिगणे तुदादिगणे वा इति निर्णयः ? यथा पठ्-धातुः किमर्थं भ्वादिगणे ? चल्-धातुः किमर्थं तुदादिगणे ? प्रत्युत्तरं प्राप्यते शत्रन्तप्रकरणे | भ्वादिगणे, शतृ-प्रत्ययस्य संयोजनेन, स्त्रियां नुमागमः (नकारः) सर्वत्र भवति | बालिका वदन्ती गच्छति; माता खादन्ती चिन्तयति | भ्वादिगणे, स्त्रियाम् अयं नकारः सर्वदा भवति | परन्तु तुदादिगणे अयं नकारः वैकल्पिकः | बालिका चलती चिन्तयति, बालिका चलन्ती चिन्तयति वा | भ्वादौ तुदादौ च अयं भेदः सर्वत्र अस्ति; शत्रन्तपदेषु भ्वादौ नुमागमः नित्यः; तुदादौ च वैकल्पिकः |
८. उपर्युक्त-गुणकार्यस्य प्रक्रिया कीदृशी इत्यस्य ज्ञानार्थं, सूत्र-सहितं स्पष्टीकरणम् अग्रे द्वितीय-पाठे पश्येम |
धातोर् अन्ते
एतावता अस्माभिः दृष्टं यत् भ्वादिगणे धात्वङ्गस्य स्वरे गुणः भवति | केषां स्वराणां गुणादेशः भवति, काभ्यां नियमाभ्याम् इत्यपि अस्माभिः दृष्टम् | कानिचन उदाहरणानि अपि निरूपितानि आसन् | इदानीं पुनः गुणविषये विचारयाम-- अस्मिन् पर्याये सूत्रसहिता चर्चा करिष्यते |
पाणिनिः अष्टाध्यायी नाम ग्रन्थं रचितवान् | तत्र संस्कृतभाषायाः संपूर्णं मानचित्रं लभ्यते | एकैकं पदं कथं निर्मितम् इति अनेन ग्रन्थेन ज्ञायते | इदं मानचित्रं सूत्ररूपेण विरचितम् | तथा च व्याकरणविषये यदा कदापि कोऽपि किमपि प्रदर्शयितुम् इच्छति, पाणिनीय-सूत्राधारेण प्रदर्शनीयं भवति | व्याकरणलोके सूत्रं प्रमाणम् |
अतः एवं रीत्या धातुविषये अपि अवलोकनीयम् | पद्धतिः अपि अत्यन्ता सुन्दरी | तर्हि अग्रे सरेम, धातुगण-व्यवस्थां, गुण-व्यवस्थां च सूत्रस्य माध्यमेन परिशीलयाम |
पूर्वम् अस्माभिः दृष्टं यत् भ्वादिगणे नियमद्वयस्य बलेन गुणः क्रियते | एकः नियमः यत्र धातोः अन्तिमः वर्णः स्वरः; अपरनियमः यत्र धातोः उपधा स्वरः इति |
अधुना प्रथमं नियमम् अवलोकयाम, भू-धातोः माध्यमेन—
“भ्वादिगणे, धातोः अन्तिमः वर्णः इ, ई, उ, ऊ, ऋ, ॠ अस्ति चेत्, तस्य वर्णस्य गुणः भवति |”
यथा भू → भो, जि → जे, सृ → सर्
अस्तु, उपरि लिखितः नियमः पूर्वमेव दृष्टः, किन्तु अयं नियमः कुतः आगतः ?
इति चेत्, “भू + शप् + ति → भवति” इति उदाहरणं पश्याम |
गुणस्य चिन्तनक्रमः
आहत्य प्रक्रिया एतादृशी—
भू + शप् + ति → लशक्वतद्धिते (१.३.८), हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९) इति सूत्रैः शकारपकारयोः लोपः → भू + अ + ति → तिङ्शित् सार्वधातुकम् (३.४.११३) इत्यनेन शप्-प्रत्ययस्य सार्वधातुक-संज्ञा → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन सार्वधातुक-प्रत्यये परे इगन्ताङ्गस्य इकः गुणः → भो + अ + ति → एचोऽयवायावः (६.१.७७) इत्यनेन ओ-स्थाने अव् → भ् + अव् + अ + ति → वर्णमेलने → भवति
अधुना सोपानेन परिशीलयिष्यामः—
१. प्रथमतया शप्-प्रत्ययः अवगन्तव्यः | शप्-प्रत्यये शकारः न तिष्ठति, अपि तु अपगच्छति किल | किमर्थम् इति जानीमः | लशक्वतद्धिते (१.३.८) इति सूत्रेण प्रत्ययस्य आदौ स्थितस्य शकारस्य इत्-संज्ञा, तदा तस्य लोपः (१.३.९) इत्यनेन इत्-संज्ञकस्य शकारस्य लोपः | इदानीम् एतत् अवगच्छतु— यस्मिन् प्रत्यये शकारः इत्-संज्ञकः वर्णः अस्ति, सः प्रत्ययः ‘शित्’ इति उच्यते | शित् = यस्मिन् शकारः इत्, सः प्रत्ययः “शित्” | शकारः इत् यस्य सः, शित् इति बहुव्रीहिसमासः | शप् विकरण-प्रत्यये शकारस्य इत्-संज्ञा अस्ति, अतः शप्-प्रत्ययः “शित्” इति उच्यते |
२. तिङ्शित् सार्वधातुकम् (३.४.११३)
तिङ्शित् सार्वधातुकम् इति संज्ञा-सूत्रम् | अनेन यः प्रत्ययः तिङ् वा शित् वा अस्ति, सः प्रत्ययः सार्वधातुकम् | सार्वधातुकम् एका संज्ञा, एकं नाम तावत् एव; व्याकरणे बहूनि नामानि सन्ति | आधिक्येन तेषां नाम्नां स्वतन्त्रतया कोऽपि अर्थो नास्ति; केवलं नामकरणम् |
तर्हि, शप् प्रत्ययः शित् इति उपरि उक्तम् | यः शित् सः सार्वधातुकः इति अत्र उक्तम्, अतः शप्-प्रत्ययः सार्वधातुक-संज्ञां प्राप्नोति |
सारांशः = अनेन सूत्रेण शप्-प्रत्ययः सार्वधातुकः इति अवगच्छामः |
पूर्णः सूत्रार्थः अत्र उक्तः—
तिङ्शित् सार्वधातुकम् (३.४.११३) = धातोः विहितः तिङ्-शित् प्रत्ययः सार्वधातुकसंज्ञको भवति | श् इत् यस्य सः शित्, बहुव्रीहिः | तिङ् च शित् च तयोः समाहारद्वन्द्वः तिङ्शित् | तिङ्शित् प्रथमान्तं, सार्वधातुकं प्रथमान्तं, द्विपदमिदं सूत्रम् | प्रत्ययः (३.१.१), परश्च (३.१.२), धातो: (३.१.९१) इत्येषाम् अधिकारः | अनुवृत्ति-सहितसूत्रम्— धातोः परश्च तिङ्-शित् प्रत्ययः सार्वधातुकम् |
३. शप् प्रत्यये, शकारपकारयोः लोपः | अकारः एव अवशिष्यते |
शकारस्य इत्-संज्ञा, लोपश्च इत्युक्तम् | पकारस्य हलन्त्यम् (१.३.३) इति सूत्रेण इत्-संज्ञा, तस्य लोपः (१.३.९) इत्यनेन इत्-संज्ञकस्य पकारस्य लोपः |
भू + शप् + ति → लशक्वतद्धिते (१.३.८), हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९) इति सूत्रैः शकारपकारयोः लोपः → भू + अ + ति
अत्र ‘अ’ तु शप् आसीत्; अधुना केवलम् “अ” दृश्यते; तथापि शकारपकारयोः प्रभावः अस्ति एव | अकारः शपः प्रतिनिधिः |
४. भू-धातुः अजन्तः (स्वरान्तः) धातुः, नाम अन्तिमवर्णः स्वरः इति | अच्-प्रत्याहारः सर्वेषां स्वराणां सङ्ग्रहः | अतः अच् इति कश्चन सङ्क्षेपः स्वराणां कृते | तथा हि अपरः प्रत्याहारः इक् | इ, ई, उ, ऊ, ऋ, ॠ, ऌ, इत्येषां प्रत्याहारः इक् इति उच्यते | भू-धातोः अन्तिमवर्णः ऊकारः, अतः भू-धातुः इगन्तः धातुः | इक् अन्ते यस्य सः इगन्तः |
यस्य धातोः अन्तिमवर्णः इ, ई, उ, ऊ, ऋ, ॠ, ऌ वा, सः धातुः इगन्त-धातुः |
५. भू + अ + ति
यत्र इत्-संज्ञां कृत्वा लोपः साध्यते, तत्र यस्य लोपः जातः, सः इत्-संज्ञावान् | इत्-संज्ञावान् इति कारणेन तस्य प्रभावः तिष्ठति | कुत्र तिष्ठति ? बहुव्रीहिसमासेन यस्य इत्-संज्ञकवर्णः, तस्मिन् प्रभावः | यथा शप्-प्रत्यये शकारपकारयोः इत्-संज्ञां कृत्वा लोपः | इत्-संज्ञावान् शकारः यस्य सः शित् | शप्-प्रत्ययस्य इत्-संज्ञावान् शकारः, अतः शप्-प्रत्ययः शित् | शप् शित् अतः तिङ्शित् सार्वधातुकम् (३.४.११३) इत्यनेन शप्-प्रत्ययः सार्वधातुक-संज्ञकः | एतस्मात् कारणात् नूतन-सूत्रस्य कार्यं भवति—
सार्वधातुकार्धधातुकयोः (७.३.८४) |
अस्य सूत्रस्य अर्थः एवम्— इगन्त-धातोः अनन्तरं सार्वधातुकः अथवा आर्धधातुकः प्रत्ययः अस्ति चेत्, तर्हि इगन्तस्य अङ्गस्य इक्-वर्णस्य गुणः भवति |
पूर्णः सूत्रार्थः अत्र उक्तः—
सार्वधातुकार्धधातुकयोः (७.३.८४) = इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | सार्वधातुकञ्च आर्धधातुकञ्च तयोरितरेतरद्वन्द्वः सार्वधातुकार्धधातुके, तयोः सार्वधातुकार्धधातुकयोः | सार्वधातुकार्धधातुकयोः सप्तम्यन्तम्, एकपदमिदं सूत्रम् | मिदेर्गुणः (७.३.८२) इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | इको गुणवृद्धी (१.१.३) इत्यनेन परिभाषा-सूत्रेण, इक् स्थानी भवति यत्र स्थानी नोक्तम् | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन ‘इकः अङ्गस्य’ इत्युक्ते न केवलम् इक् इति अङ्गं, किन्तु तादृशम् अङ्गं यस्य अन्ते इक्; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अङ्गस्य स्थाने गुणादेशः इति न, अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुणादेशः | अनुवृत्ति-सहितसूत्रम्— इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः |
अधुना भू + अ + ति इति स्थितौ अस्य सूत्रस्य प्रसक्तिः अस्ति न वा इति पश्येम | प्रसक्तिः इत्युक्ते प्रसङ्गः | भू-धातुः इगन्तधातुः | ‘अ’ शपः प्रतिनिधिः; शप् शित् अस्ति अतः तिङ्शित् सार्वधातुकम् (३.४.११३) इति सूत्रेण तस्य सार्वधातुक-संज्ञा |
इगन्तः भू-धातुः पूर्वम् अस्ति; परम् अस्ति सार्वधातुक-संज्ञक-‘अ’ प्रत्ययः | अतः सार्वधातुकार्धधातुकयोः इत्यस्य प्रसक्तिः | सूत्रस्य निकषाः पूरिताः | अधुना अनेन सूत्रेण किं कार्यं सिध्यति ? अङ्गस्य अन्तिमवर्णः यः इक्, तस्य गुणादेशः | भू-धातौ यः ऊकारः, तस्य गुणादेशः | अतः भू → भो | भो + अ + ति इति स्थितिः |
६. परिभाषासूत्राणि
पाणिनिः सूत्राणां लघुत्वम् इच्छति | तदर्थं वारं वारं सूत्रेषु यत्र समानप्रकारक-सन्देशः अपेक्ष्यते, तस्य वारं वारम् आवृत्तेः स्थाने परिभाषासूत्रम् पाणिनिना विरच्यते | इमानि सूत्राणि कस्यचित् सूत्रार्थस्य पूरणाय साहाय्यं कुर्वन्ति |
यथा सार्वधातुकार्धधातुकयोः (७.३.८४) इति सूत्रस्य अर्थपूरणार्थं त्रीणि परिभाषासूत्राणि अपेक्षितानि |
इको गुणवृद्धी (१.१.३) इति सूत्रेण ‘इक्’ स्थानी भवति यत्र स्थानी नोक्तम् |
येन विधिस्तदन्तस्य (१.१.७२) = विशेषणं तदन्तस्य अपि भवति, स्वस्यापि भवति | सोऽन्ते यस्य स तदन्तः, तस्य तदन्तस्य बहुव्रीहिः | विधीयते इति विधिः | येन तृतीयान्तं, विधिः प्रथमान्तं, तदन्तस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | स्वं रूपं शब्दस्याऽशब्दसंज्ञा (१.१.६८) इत्यस्मात् स्वम्, रूपम् इत्यनयोः अनुवृत्तिः | विभक्तिपरिणामः इत्यनेन षष्ठ्यन्ते भवतः, स्वस्य रूपस्य | अनुवृत्ति-सहितसूत्रम्— येन विधिः तदन्तस्य स्वस्य रूपस्य (च) |
विधिः इत्युक्ते कार्यम् | सार्वधातुकार्धधातुकयोः (७.३.८४) इति सूत्रे विधिः अस्ति गुणकार्यं; गुणः विधीयते | कस्य गुणः ? इक्-वर्णस्य | तर्हि येन विधिस्तदन्तस्य (१.१.७२) इति सूत्रे अत्र ‘येन’ इत्युके इक्-वर्णेन | इक्-वर्णेन गुणकार्यं विधीयते | येन इक्-वर्णेन गुणकार्यं विधीयते, तदन्तस्य (इगन्तस्य) शब्दस्य अपि गुणकार्यं विधीयते |
अलोऽन्त्यस्य (१.१.५२) = षष्ठीविभक्ति-द्वारा यस्य पदस्य स्थाने आदेशः प्राप्तः, सः आदेशः अन्त्यस्य अल्-वर्णस्य स्थाने भवति | अलः षष्ठ्यन्तम्, अन्त्यस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | षष्ठी स्थानेयोगा (१.१.४९) इत्यस्मात् षष्ठी, स्थाने इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— षष्ठ्या अन्त्यस्य अलः स्थाने (विद्यमानः आदेशः) |
६. भो + अ + ति
सन्धिप्रकरणे एकं सूत्रम् अस्ति— एचोऽयवायावः (६.१.७७) | यान्तवान्तसन्धिः इति लोके उच्यते | अनेन सूत्रेण एकवर्णसमूहस्य अन्ते ओकारः अस्ति चेत्, तस्य अनन्तरं कोऽपि स्वरः अस्ति चेत्, तर्हि ओकारस्य स्थाने “अव्”-आदेशः भवति |
भो + अ + ति → एचोऽयवायावः (६.१.७७) इत्यनेन ओ-स्थाने अव् → भ् + अव् + अ + ति |
पूर्णः सूत्रार्थः अत्र उक्तः—
एचोऽयवायावः (६.१.७७) = एचः (ए, ओ, ऐ, औ इत्येषां) स्थाने क्रमेण अय्, अव्, आय्, आव् इत्यादेशाः भवन्ति अचि परे | क्रमेण इत्युक्तं यथासंख्यमनुदेशः समानाम् (१.३.१०) इति परिभाषा सूत्रस्य साहाय्येन | अय् च, अव् च, आय् च, आव् च, तेषाम् इतरेतरद्वन्द्वः, अयवायावः | एचः षष्ठ्यन्तम्, अयवायावः प्रथमान्तं, द्विपदमिदं सूत्रम् | इको यणचि (६.१.७६) इत्यस्मात् अचि इत्यस्य अनुवृत्तिः; संहितायाम् (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— एचः अयवायावः अचि संहितायाम् |
७. भ् + अव् + अ + ति
भ् + अव् + अ + ति → वर्णानां मेलने → “भवति” इति अस्ति |
आहत्य प्रक्रिया एतादृशी—
भू + शप् + ति → लशक्वतद्धिते (१.३.८), हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९) इति सूत्रैः शकारपकारयोः लोपः → भू + अ + ति → तिङ्शित् सार्वधातुकम् (३.४.११३) इत्यनेन शप्-प्रत्ययस्य सार्वधातुक-संज्ञा → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन सार्वधातुक-प्रत्यये परे इगन्ताङ्गस्य इकः गुणः → भो + अ + ति → एचोऽयवायावः (६.१.७७) इत्यनेन ओ-स्थाने अव् → भ् + अव् + अ + ति → वर्णमेलने → भवति |
८. भ्वादिगणे यत्र यत्र इगन्तधातुः, तत्र तत्र एतादृशः क्रमः |
यथा जि जये इति धातुः |
जि + शप् + ति
लशक्वतद्धिते (१.३.८), हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९)
जि + अ + ति
तिङ्शित् सार्वधातुकम् (३.४.११३), सार्वधातुकार्धधातुकयोः (७.३.८४)
जे + अ + ति
एचोऽयवायावः (६.१.७७) [एकारस्य स्थाने अय्-आदेशः]
ज् + अय् + अ + ति
वर्णानां मेलने
जयति
इति तिङन्तपदं निष्पन्नम् |
अग्रे स्रु गतौ, क्षि क्षये, हृञ् हरणे इत्येषां विषये चिन्त्यताम् |
उपधायाम्
From Samskrita Vyakaranam
< धातुगणाः - सूत्रसहित-दृष्टिः02A—-dhAtugaNAH—sUtra-sahita-dRuShTiH/2—upadhAyAm-api-guNaH—sUtrasahitA-dRuShTiH
Jump to navigation Jump to search
Expandध्वनिमुद्रणानि
१) upadhAyAm-api-guNaH—sUtrasahitA-dRuShTiH—pugantalaghUpadhasya_ca_2015-12-02
२) pugantAnge-upadhAyAM-diirgha-ikaH-guNaH_2015-12-09
भ्वादिगणे, अवस्थाद्वये गुणः भवति इति अस्माभिः दृष्टम् |
अ) भ्वादिगणे, धातोः अन्ते इक्-वर्णः (इ, ई, उ, ऊ, ऋ, ॠ) अस्ति चेत्, तस्य वर्णस्य गुणः भवति |
यथा— भू → भो, जि → जे, सृ → सर्
आ) भ्वादिगणे, धातोः उपधायां लघु इक्-वर्णः (इ, उ, ऋ) अस्ति चेत्, तस्य वर्णस्य गुणः भवति | उपधा नाम अन्तिमवर्णात् पूर्वं यः वर्णः, सः |
यथा— बुध् → बोध्, कृष् → कर्ष्
अत्र बुध्-धातौ उकारः उपधा-संज्ञकः; कृष्-धातौ ऋकारः उपधा-संज्ञकः |
गते पाठे प्रथमदशायाम् (इगन्त-अवस्थायां) गुणः कथं भवति इति अस्माभिः दृष्टम् | यस्य धातोः अन्तिमवर्णः इ, ई, उ, ऊ, ऋ, ॠ, ऌ (नाम इक्-प्रत्याहारे कश्चन वर्णः), सः धातुः इगन्तः धातुः | सार्वधातुक-प्रत्यये परे, इगन्तधातोः अङ्गस्य इकः गुणः, सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन सूत्रेण |
इदानीं द्वितीयदशायाम् (इक्-उपधा-अवस्थायां) गुणः कथं भवति इति पश्याम | अवगमनार्थं लघुकथा (सङ्क्षिप्ता दृष्टिः) अपि अस्ति, पूर्णदृष्टिः अपि अस्ति | आदौ लघुकथाम् अवलोकयाम |
लघु कथा
१. बुध् → बोधति | अत्र उकारः = ह्रस्वः, बुध्-धातोः उपधायाम्, इक्-प्रत्याहारस्य सदस्यः च | अस्याम् अवस्थायां बुध्-धातुः भ्वादिगणे सन्, उकारस्य गुणः | शप्-विकरणप्रत्ययः एव कारणम् | किमर्थम् इति चेत्—
२**. पुगन्तलघूपधस्य च** (७.३.८६) = धातोः उपधायां लघु-इक् चेत्, तस्य गुणः भवति सार्वधातुके परे (सार्वधातुक-संज्ञक-प्रत्ययः धातोः अनन्तरम्) |
३. बुध् + शप् + ति → शप् ‘शित्’ अस्ति अतः ‘सार्वधातुकम्’; अतः पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन उकारस्य गुणः → बोधति |
पूर्णा कथा
१.
बुध्
[लट्-लकार-विवक्षा (वक्तुम् इच्छा) → लट्-प्रत्ययः विधीयते]
२.
बुध् + लट्
[लट्-स्थाने प्रथमपुरुषैकवचने तिप् प्रत्ययस्य आदेशः]
३.
बुध् + तिप्
[हलन्त्यम् इत्यनेन सूत्रेण पकारस्य इत्संज्ञा; तस्य लोपः इत्यनेन पकार-लोपः]
४.
बुध् + ति
[तिङ्शित् सार्वधातुकम् (३.४.११३) इत्यनेन ति ‘तिङ्’ अतः सार्वधातुक-संज्ञकः]
[कर्तरि शप् इत्यनेन सूत्रेण कर्तरि अर्थे “ति” इति सार्वधातुके परे, शप्-प्रत्ययः विहितः]
५.
बुध् + शप् + ति
[लशक्वतद्धिते इत्यनेन सूत्रेण ल्,श्,क-वर्गे स्थिते वर्णानां इत्संज्ञा प्रत्ययस्य आदौ, तद्धित प्रत्ययः नास्ति चेत्]
[हलन्त्यम् इत्यनेन सूत्रेण पकारस्य इत्संज्ञा; तस्य लोपः इत्यनेन शकार-पकारयोः लोपः]
६.
बुध् + अ + ति
पुगन्तलघूपधस्य च – पूर्वतने पाठे अस्माभिः दृष्टं यत् ‘अ’, ‘शप्’ इत्यस्य प्रतिनिधिः | शकारपकारयोः लोपः भवति, किन्तु तयोः लक्षणं तिष्ठति एव | शकारस्य इत्-संज्ञा अतः अवशिष्टः अकारः शित् अस्ति | शित् अस्ति अतः तिङ्शित् सार्वधातुकम् इत्यनेन सूत्रेण शप् (अधुना अकारः) सार्वधातक-संज्ञक-प्रत्ययः | तदा पुगन्तलघूपधस्य च इत्यनेन सूत्रेण धातौ उपधायाः ह्रस्व-इकः गुणः भवति |
७. बोध् + अ + ति [वर्णमेलने]
८. बोधति
“बुध् + शप् + ति” इति प्रसङ्गे पुगन्तलघूपधस्य च (७.३.८६) इत्यस्य अर्थः
१. “पुगन्तस्य लघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः” [अनुवृत्ति-सहितं सूत्रम्]
२. “पुगन्तस्य” इति भागम् अधः* अवलोकयाम | बुध्-धातोः कृते प्रसङ्गः नास्ति |
३. “लघूपधस्य अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः” इति अस्माकं कृते मुख्यः भागः अत्र |
४. लघ्वी + उपधा (लघु = ह्रस्वः वर्णः; लघ्वी इति लघु-शब्दः स्त्रीलिङ्गे)
५. लघ्वी + उपधा → लघूपधा (= ह्रस्वा इक्-उपधा; ह्रस्व इक् = इ, उ, ऋ) | बुध्-धातौ, लघूपधा नाम बुध्-धातोः ह्रस्व-उकारः |
६. लघूपधस्य = लघ्वी उपधा यस्य तत् लघूपधम् बहुव्रीहिः, तस्य लघूपधस्य | तस्य लघूपधस्य अङ्गस्य | प्रत्ययात् पूर्वं यः संपूर्णभागः, सः तस्य प्रत्ययस्य अङ्गम् | अत्र शप् इति प्रत्ययः; तस्मात् प्रत्ययात् पूर्वं बुध्-धातुः, अतः बुध्-धातुः शप्-प्रत्ययस्य अङ्गम् | बुध्-धातौ लघूपधा (ह्रस्वः उकारः) अपि अस्ति, अतः बुध्-धातुः स्वयं लघूपधम् | आहत्य बुध्-धातुः शप्-प्रत्ययस्य लघूपधम् अङ्गम् |
७. सार्वधातुकार्धधातुकयोः इति सप्तम्यन्तं पदम् | पाणिनीय-सूत्रेषु सप्तमीविभक्तिः इत्युक्तौ पूर्वकार्यम् | अतः सार्वधातुक-संज्ञक-प्रत्ययात् पूर्वं (नाम शप् प्रत्ययात् पूर्वम्) लघूपधम् (नाम बुध्-धातुः) अस्ति चेत, तस्य अङ्गस्य (नाम बुध्-धातोः) लघ्वी-उपधायाः इकः (इक् षष्ठीविभक्तिः = इकः; नाम उकारस्य) गुणः भवति | अतः उकारस्य स्थाने ओकारादेशः | बुध् + शप् + ति → बोधति |
भ्वादिगणे अन्यानि उदाहरणानि - पुगन्तलघूपधस्य च (७.३.८६) —
शुच्
→
शोचति (शोकम् अनुभवति)
कृष्
→
कर्षति (आकर्षणे)
क्रुश्
→
क्रोशति (रोदिति)
रुह्
→
रोहति (वर्धते)
क्षुभ्
→
क्षोभते (मथनं, क्रोधानुभवनम्)
घुष्
→
घोषति (शब्दं करोति)
घृष्
→
घर्षति (घर्षणे)
पुष्
→
पोषति (पालन-पोषणे)
अत्र न प्रसक्तिः—
१) धातौ स्वरः इक्-प्रत्याहारे च उपधायां च, किन्तु दीर्घः; तत्र गुणः असम्भवः | जीव् (जीवति), क्रीड् (क्रीडति), क्षीव् (क्षीवति), मील् (मीलति) |
२) धातौ स्वरः उपधायां, किन्तु इक् नास्ति; तत्र गुणः असम्भवः | एज् → एजति (एकारः इक्-प्रत्याहारे नास्ति) |
३) धातौ ह्रस्वः इक्-वर्णः अस्ति, किन्तु उपधायां न स्थितः; तत्र गुणः असम्भवः | निन्द् → निन्दति (नकारः उपधा-संज्ञकः; इकारः उपधायां नास्ति); हिंस् → हिंसति (अनुस्वारः उपधायां); भिक्ष् → भिक्षते (ककारः उपधायां); मुण्ड् → मुण्डति (णकारः उपधायां) |
पूर्णसूत्रार्थः—
पुगन्तलघूपधस्य च (७.३.८६) = पुगन्तस्य अङ्गस्य लघूपधस्य च इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | पुक् अन्ते यस्य तत् पुगन्तम्, लघ्वी उपधा यस्य तत् लघूपधम् | पुगन्तञ्च लघूपधञ्च तयोः पुगन्तलघूपधं समाहारद्वन्द्वः, तस्य पुगन्तलघूपधस्य | पुगन्तलघूपधस्य षष्ठ्यन्तं पदम्, च अव्ययपदं, द्विपदमिदं सूत्रम् | मिदेर्गुणः (७.३.८२) इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः; सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यस्य पूर्णानुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | इको गुणवृद्धी (१.१.३) इत्यनेन परिभाषा-सूत्रेण, इकः स्थानी भवति यत्र स्थानी नोक्तम् | अनुवृत्ति-सहितसूत्रम्— पुगन्तलघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः |
ध्येयं यत् सार्वधातुकार्धधातुकयोः (७.३.८४) इति सूत्रस्य अनुवृत्ति-सहितसूत्रम् एवम्— इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः | अत्र इकः अङ्गस्य गुणः इत्यस्य वदनेन अङ्गस्य अन्ते यः इक्-वर्णः, तस्य गुणः इति अर्थः | तत्र येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन ‘इकः अङ्गस्य’ इत्युक्ते न केवलम् इक् इति अङ्गं, किन्तु तादृशम् अङ्गं यस्य अन्ते इक्; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अङ्गस्य स्थाने गुणादेशः इति न, अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुणादेशः | किन्तु पुगन्तलघूपधस्य च (७.३.८६) इति सूत्रे इकः गुणः अङ्गस्य अन्ते न अपि तु उपधायाम् | एतदर्थं येन विधिस्तदन्तस्य (१.१.७२), अलोऽन्त्यस्य (१.१.५२) इत्यनयोः प्रसक्तिः नास्ति | अपि च अनुवृत्ति-सहितसूत्रे अङ्गस्य इकः गुणः इति अस्ति न तु इकः अङ्गस्य गुणः | पुगन्तलघूपधस्य च (७.३.८६) इति सूत्रे ‘अङ्गस्य’, ‘इकः’ अनयोः पदयोः समानाधिकरणं न इष्टम् |
*“पुगन्तस्य” इत्यस्य सूत्रसहितं रूपम्— पुगन्तस्य अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः | अनेन केषाञ्चित् विशिष्ट-धातूनाम् अङ्गस्य उपधायां यः इक्-वर्णः, सः लघुः नास्ति चेदपि गुणादेशः भवति | अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुग्णौ (७.३.३६) इति सूत्रेण ऋ, ह्री, व्ली, री, क्नूयी, क्ष्मायी इत्येषां धातूनाम्, आकारान्तधातूनां च पुक्-आगमः भवति णिच्-प्रत्यये परे | यथा— दा-धातुः, लटि ददाति → णिचि दापयति | दा + णिच् → अनुबन्धलोपे → दा + इ → पुगागमः → दा + प् + इ → दापि इति णिजन्तधातुः | दापि + शप् + ति → दापयति | एतादृशीषु स्थितिषु धातु-णिच्प्रत्यययोः मध्ये पुक्-आगमः (पुगागमः) भवति | यथा दापि इति धातौ दाप् इति धातोः पुगन्तम् अङ्गम् इति उच्यते | पुक् अन्ते यस्य, तत् पुगन्तम् |
तर्हि णिच्-प्रत्यये परे, आकारान्तधातूनां पुगागमः भवति, यथा दा → दाप् → दापि → दापयति | परन्तु तत्र पुगन्ताङ्गस्य उपधायाम् आकारः (दाप्), अतः गुणकार्यस्य प्रसङ्गः एव नास्ति | किन्तु अन्ये धातवः अपि सूत्रे सूचिताः सन्ति येषां पुगन्ताङ्गस्य उपधायाम् इक्-स्वरः अस्ति, यथा— ऋ, ह्री, व्ली, री | एषां पुगन्तम् अङ्गम्— ऋप्, ह्रीप्, व्लीप्, रीप् | अत्र यद्यपि उपधायां ह्रस्व-इक्-वर्णः (लघूपधा) नास्ति अपि तु दीर्घ-इक्-वर्णः, तथापि पुगन्तलघूपधस्य च इत्यनेन पुगन्ताङ्गस्य दीर्घ-इकः गुण-आदेशः भवति— ऋप् → अर्प्, ह्रीप् → ह्रेप्, व्लीप् → व्लेप्, रीप् → रेप् |
लट्-लकारे ऋप् → अर्प् → अर्पि → अर्पयति; ह्रीप् → ह्रेप् → ह्रेपि → ह्रेपयति; व्लीप् → व्लेप् → व्लेपि → व्लेपयति; रीप् → रेप् → रेपि → रेपयति |
अलोऽन्त्यात् पूर्व उपधा (१.१.६५) = वर्णसमुदायस्य यः अन्तिमवर्णः, तस्मात् पूर्ववर्णस्य उपधासंज्ञा भवति | संज्ञासूत्रम् | अलः पञ्चम्यन्तम्, अन्त्यात् पञ्चम्यन्तं, पूर्वः प्रथमान्तम्, उपधा प्रथमान्तम्, अनेकपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— अन्त्यात् अलः पूर्व उपधा |
चुरादिगणे
१) चुरादिगणे पुगन्तलघूपधस्य च इति सूत्रस्य प्रसक्तिः | चुर् → चोरयति; तुल् → तोलयति; घुष् → घोषयति; चुद् → चोदयति; विल् → वेलयति |
२) चुरादिगणे धात्वङ्गे सार्वधातुकार्धधातुकयोः इति सूत्रस्य प्रसक्तिः अस्ति किन्तु प्राप्तिः न भवति | चुरादिगणे इगन्तधातवः तु सन्ति, परन्तु तत्र इगन्तधातुषु वृद्धिः भवति |
यथा घृ प्रस्रवणे इति चुरादिगणीयधातुः—
घृ + णिच् → अचो ञ्णिति (७.२.११५) इत्यनेन वृद्धि-आदेशः (न तु गुणः) → घार् + इ → घारि → घारि + शप् + ति → घारयति
एवमेव प्रेरणार्थे णिच्-प्रत्यये परे—
नी + णिच् → वृद्धि-आदेशः (न तु गुणः) → नै + इ → सन्धिः (आय्-आदेशः) → नाय् + इ → नायि → नायि + शप् + ति → नाययति
भू + णिच् → वृद्धि-आदेशः (न तु गुणः) → भौ + इ → सन्धिः (आव्-आदेशः) → भाव् + इ → भावि → भावि + शप् + ति → भावयति
कृ + णिच् → वृद्धि-आदेशः (न तु गुणः) → कार् + इ → कारि → कारि + शप् + ति → कारयति
तिङन्तप्रकरणे गुण-विधायक-सूत्रद्वयम् अस्ति— सार्वधातुकार्धधातुकयोः (७.३.८४), पुगन्तलघूपधस्य च (७.३.८६) इति | इदानीं सूत्रद्वयस्य अपि परिचयः जातः |
तुदादिगणे न गुणः
From Samskrita Vyakaranam
< धातुगणाः - सूत्रसहित-दृष्टिः02A—-dhAtugaNAH—sUtra-sahita-dRuShTiH/3—tudAdigaNe-na-guNaH
Jump to navigation Jump to search
Expandध्वनिमुद्रणानि
१) tudAdigaNe-guNaH-na—paricayaH_2015-12-09
२) tudAdigaNe-guNaH-na—सार्वधातुकमपित्_+_क्क्ङिति च_2015-12-16
भ्वादिगणः तुदादिगणः इत्यनयोः विकरणप्रत्ययस्य अनुबन्ध-लोपानन्तरम्, ‘अ’ एव अवशिष्यते इति अस्माभिः दृष्टम् | तयोः गणयोः तिङन्तपदानां साम्यम् अपि अस्ति— यथा भ्वादौ ‘भवति’, तुदादौ ‘लिखति’— उभयत्र ‘ति’ इत्यस्मात् पूर्वम् अकारः | तर्हि किमर्थं गणद्वयम् ? एतावता प्रायः सर्वे जानीयुः यत् भ्वादिगणे गुणकार्यं भवति, तुदादिगणे च गुणकार्यं निषिध्यते | अस्मिन् पाठे किमर्थं तुदादिगणे गुणः न भवति इति परिशीलयिष्यामः |
दृष्टान्ते, भू-धातुः इगन्तः अस्ति | शप्-प्रत्यये परे इगन्त-भू-धातोः ऊकारस्य गुणादेशो भवति, सार्वधातुकार्धधातुकयोः (७.३.८४) इति सूत्रेण | बुध्-धातोः उपधायां लघु इक्-वर्णः अतः शप्-प्रत्यये परे तस्य बुध्-धातोः उकारस्य गुणादेशो भवति पुगन्तलघूपधस्य च (७.३.८६) इति सूत्रेण | आहत्य भ्वादिगणे इगन्तधातूनाम् इक्-वर्णस्य गुणः; उपधायां ह्रस्व-इक्-वर्णस्य गुणः च | अधुना तुदादिगणे तत् अवस्थाद्वयम् अस्ति चेदपि गुणः न | इत्युक्तौ, (१) इगन्तधातूनाम् इक्-वर्णस्य गुणः न; (२) तथा हि उपधायां ह्रस्व-इक्-वर्णस्य गुणः न | यद्यपि तुदादिगणे श-विकरणप्रत्ययः शित् अस्ति (भ्वादिगणस्य शप् इव), तथापि तुदादौ गुणः न भवति |
भ्वादिगणस्य धात्वङ्गे गुणः यत्र यत्र भवति, तस्य गुणस्य कारणम् अस्माभिः ज्ञायते | इगन्तधातुः भवतु, लघूपधधातुः भवतु, उभयत्र गुणस्य निमित्तं शप् इति विकरणप्रत्ययः |
शप्-विकरणप्रत्यये शकारस्य इत्-संज्ञा, लोपः च इति कारणतः शप् “शित्” (यस्य शकरः इत्, सः शित्); तिङ्-शित्सार्वधातुकम् इत्यनेन सूत्रेण शप् सार्वधातुकम्; शप् सार्वधातुकसंज्ञक-प्रत्ययः इति कारणात् सार्वधातुकार्धधातुकयोः इति सूत्रेण इगन्तधातौ इकः गुणः, पुगन्तलघूपधस्य च इति सूत्रेण धातोः उपधायां ह्रस्व-इकः गुणः च इति दृष्टवन्तः | नाम गुणकार्ये शपः प्रेरणादायिनी शक्तिः अस्ति इति ज्ञातवन्तः |
अधुना तुदादिगणे विकरणप्रत्ययः श; स च विकरणप्रत्ययः श इत्यस्य शकारस्य इत्-संज्ञा, लोपः च इति कारणतः श “शित्” (यस्य शकरः इत्, सः शित्); तिङ्-शित्सार्वधातुकम् इत्यनेन सूत्रेण श-प्रत्ययः सार्वधातुकसंज्ञ्कः; तर्हि तुदादिगणे अपि सार्वधातुकार्धधातुकयोः इति सूत्रेण इगन्तधातौ इकः गुणः भवेत्, पुगन्तलघूपधस्य च इति सूत्रेण धातोः उपधायां ह्रस्व-इकः गुणः च भवेत् | इदं सर्वं सत्यं सत्यपि गुणः न भवति | तर्हि कः भेदः ? श-प्रत्यये गुणकार्यार्थं प्रेरणादायिनी शक्तिः अस्ति चेत्, किमर्थं भ्वादिगणे यत्र गुणः भवति, तत्र तुदादिगणे न भवति ?
अत्र केचन प्रश्नाः
- शपि (शप् प्रत्यये) पकारस्य किं कार्यम् ?
- पकारः नास्ति चेत् कः प्रभावः ?
- तुदादि गणे विकरणप्रत्ययः श एव, शप् न; नाम, पकारः नास्ति | तर्हि पकारस्य अभावे किं भवति ?
अस्माकम् अध्ययनस्य आरम्भे एव एवम् उक्तम् आसीत् –
१) विकरणप्रत्यये इत्-संज्ञक-शकारस्य कार्यं— गुणस्य कृते प्रेरयति | (धातौ अन्तर्भूतस्य स्वरस्य गुणं कारयति |)
२) विकरणप्रत्यये इत्-संज्ञक-पकारस्य कार्यं— तस्य पकारस्य अभावे गुणस्य अवरोधः भवति |
इत्-संज्ञक-शकारस्य कार्यं कथं भवति इति अधुना सूत्रसहितां व्याख्यां जानीमः | सूत्र-दृष्ट्या पकारस्य कार्यं कथं भवति ?
भ्वादिगणे, विकरणप्रत्ययस्य पकारस्य उपस्थितौ गुणकार्यार्थम् अनुमतिः अस्ति— अतः सारल्यार्थं भ्वादिगणे पकार-संबद्ध-सूत्रसहित-चर्चा न जाता | परन्तु तुदादिगणे, पकारस्य अभावे गुणावरोधः | स च अवरोधः कथम् इति अवश्यं द्रष्टव्यम् |
लिख्-धातोः उदाहरणम् अत्र अवलोकयाम—
१. लिख् [लट्लकार-विवक्षायां, प्रथमपुरुषैकवचने; विकरणप्रत्ययस्य योजने]
२. लिख् + श + ति [लशक्वतद्धिते इत्यनेन सूत्रेण शकारस्य इत्संज्ञा, तस्य लोपः इत्यनेन शकार-लोपः]
३. लिख् + अ + ति
श (‘अ’) शित् अस्ति अतः तिङ्-शित्सार्वधातुकम् इत्यनेन सूत्रेण श-प्रत्ययः सार्वधातुक-संज्ञकः अपि अस्ति | पुगन्तलघूपधस्य च इत्यनेन सूत्रेण लिख्-धातोः उपधायां ह्रस्व-इकारस्य गुण-प्रसक्तिः अस्ति | अतः अनेन “लेखति” इति स्यत् |
किन्तु श-विकरणप्रत्ययः न केवलं शित्, अपि तु अपित् |
अपित् = यस्मिन् इत्-संज्ञकः पकारः नास्ति, सः अपित् इति उच्यते |
[विकरणप्रत्ययः श शित् अस्ति इति स्मरतु | नाम, यद्यपि शकारस्य लोपः जातः, तथापि शकारस्य प्रभावः अस्ति एव यतः लोपः इत्युक्ते अदृश्यः, न तु अपगतः | परन्तु तुदादिगणे, विकरणप्रत्ययस्य पकारः नासीत् एव | पकार-लोपः इति न; पकारः नास्ति एव | अतः श-विकरणप्रत्ययः अपित् इति उच्यते |]
४. सार्वधातुकमपित् (१.२.४) [अपित् = ङित्]
अनुवृत्ति-सहितं सूत्रम्— सार्वधातुकम् अपित् ङित् | अर्थः एवम्— अपित् सार्वधातुकम् ङित् इव अस्ति | अयम् “अतिदेशः” इत्युच्यते | अतिदेशः नाम यस्य स्वभावः तथा नास्ति, सः “तथा भवतु” इति विधानम् | यथा “सिंहो माणवकः”— माणवकः (बालकः) सिंहः नास्ति परन्तु वीरो माणवकः सिंहः इव, अतः माणवके सिंहस्य वीरलक्षणम् अध्यारोपितम् |
यस्मिन् प्रत्यये ङकारस्य इत्-संज्ञा अस्ति, सः प्रत्ययः ङित् (यस्य ङकारः इत्, सः ङित्) | ङित् प्रत्ययानां किञ्चन विशिष्टं कार्यम् अस्ति | तत् किं कार्यम् इति सम्प्रति उच्यते; अत्र तावदेव अवगच्छतु— सार्वधातुकमपित् इति सूत्रेण यः प्रत्ययः अपित्, सः यद्यपि साक्षात् ङित् नास्ति, तथापि ङित् इव भवति | अतः यथा ङित्-प्रत्ययः कार्यं करोति, तथा अपित्-प्रत्ययः अपि कार्यं करोतु | तच्च कार्यं किम् इति इदानीं पश्याम |
५. क्क्ङिति च (१.१.५) [गुण-बाधकं सूत्रम्]
अनुवृत्ति-सहितं सूत्रम्— क्क्ङिति च इकः गुणवृद्धी न | यः प्रत्ययः गित्, कित् अथवा ङित् अस्ति, अपि च तस्य प्रत्ययस्य कारणात् अङ्गे इकः स्थाने गुणः अथवा वृद्धिः भवति स्म, सः न भवति | गुणस्य वृद्धेः च बाधकं सूत्रं इदम् | (सम्प्रति अस्माकम् अवधानं गुणे, न तु वृद्धौ |)
“क्क्ङिति” सप्तम्यन्तं हलन्तं पदम् | तस्य अर्थः एवम्— ग् च क् च ङ् च ते इत्-संज्ञक-वर्णाः यस्य सः प्रत्ययः क्क्ङित् | तस्मिन् इति | सप्तम्यन्तं यतः कार्यं तस्मात् पूर्वं भवति स्म; तस्मात् प्रत्ययात् पूर्वम् इकः गुणः च वृद्धिः च न भवति |
६. सार्वधातुकमपित् इत्यनेन सूत्रेण यः प्रत्ययः अपित्, सः ङित् इव अस्ति | अतः यत् कार्यं ङित् प्रत्ययः करोति, तदेव कार्यं अपित् प्रत्ययः अपि करोति | तुदादिगणे श-विकरणप्रत्ययः अपित् अस्ति, अतः ङित् इव कार्यं करोति | नाम, गुण-बाधकं-कार्यं करोति |
७. गुणाभावे, वर्णमेलने लिख् + अ + ति → लिखति इति भवति |
तर्हि सारांशः एवं यत् यत्र विकरणप्रत्यये पकारः नास्ति, तत्र शकारस्य गुणार्थं प्रेरणादायिनी शक्तिः अवरुद्धा भवति | तुदादिगणे, विकरणप्रत्यये गुणार्थं प्रेरणादायकः शकारः अस्ति, किन्तु स च शकारः स्वस्य कार्यं कर्तुं न अर्हः यतः इत्-संज्ञक-पकारस्य अभावे गुणार्थं बाधा भवति |
पूर्णसूत्रार्थः
सार्वधातुकमपित् (१.२.४) = सार्वधातुकं यदपित् तद् ङिद्वत् भवति | सार्वधातुकम् प्रथमान्तम्, अपित् प्रथमान्तं, द्विपदमिदं सूत्रम् | गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यस्मात् ङित् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— सार्वधातुकम् अपित् ङित् |
क्क्ङिति च (१.१.५) = यः प्रत्ययः गित्, कित् अथवा ङित् अस्ति, अपि च तं प्रत्ययं निमित्तीकृत्य इकः स्थाने गुणः अथवा वृद्धिः भवति स्म, सः (गुणः वृद्धिः) न भवति | ग् च क् च ङ् च तेषाम् इतरेतरद्वन्द्वः क्क्ङः; क्क्ङः इतः यस्य सः क्क्ङित्, तस्मिन् परे क्क्ङिति | द्वन्द्वगर्भबहुव्रीहिसमासः | अत्र ग्-स्थाने ककारः खरि च इत्यनेन चर्त्वसन्धिः | क्क्ङिति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | इको गुणवृद्धी (१.१.३) इत्यस्य पूर्णतया अनुवृत्तिः; न धातुलोप आर्धधातुके (१.१.४) इत्यस्मात् न इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— क्क्ङिति च इकः गुणवृद्धी न |
पाणिनीयसूत्राणि षड्विधा—
संज्ञा च परिभाषा च विधिर्नियम एव च |
अतिदेशोऽधिकारश्च षड्विधं सूत्रलक्षणम् |
क्क्ङिति च (१.१.५) निषेधकं सूत्रम्; नाम अनेन कार्यं निषिध्यते | निषेधकं सूत्रं विधिसूत्रेषु अन्तर्भवति |
सार्वधातुकमपित् (१.२.४) कीदृशं सूत्रम् ?
केषु गणेषु?
एतावता अस्माभिः दृष्टं यत् भ्वादिगणे चुरादिगणे च गुणकार्यं सम्भवति यथासङ्गम् | तुदादिगणे गुणः नार्हः इत्यपि दृष्टम् | अपरेषु गणेषु का गतिः ? तेषु गुणः अर्हः चेत् किमर्थं; नार्हः चेत् किमर्थमित्यपि प्रश्नः उदेति | तत्र स्थितिः कीदृशी इति अवलोकयाम | नाम आहत्य सर्वदशगणान् मनसि निधाय किं वक्तुं शक्येत ?
१. प्रथमतया “गुणः सम्भवति न वा” इत्यनेन “धातौ गुणः सम्भवति न वा” इति अत्र आशयः | तिङन्तपदे भागत्रयं वर्तते— धातुः, विकरणप्रत्ययः, तिङ्-प्रत्ययः च | केषुचित् गणेषु विकरणप्रत्यये अपि गुणः सम्भवति (शक्नु → शक्नोति); इदम् अग्रे, अपरस्मिन् पाठे परिशीलयाम | अधुना केवलं धात्वङ्गे गुणः कुत्र-कुत्र सम्भवति इति प्रश्नः |
२. सूत्रद्वयेन एव गुणः सिद्धः इति पूर्वमेव ज्ञातम् अस्माभिः— सार्वधातुकार्धधातुकयोः, पुगन्तलघूपधस्य च इति | अनुवृत्ति-सहितसूत्रे द्वयोः अपि ‘सार्वधातुकार्धधातुकयोः’ इति पदम् आगच्छति |
सार्वधातुकार्धधातुकयोः (७.३.८४) इति सूत्रस्य तात्पर्यं— सार्वधातुकार्धधातुकयोः परयोः इगन्तस्य अङ्गस्य इकः गुणः स्यात् |
पुगन्तलघूपधस्य च (७.३.८६) इति सूत्रस्य तात्पर्यं— सार्वधातुकार्धधातुकयोः परयोः पुगन्तस्य लघूपधस्य च अङ्गस्य इकः गुणः स्यात् |
तर्हि द्वयोः सूत्रयोः ‘सार्वधातुकार्धधातुकयोः’ इति पदं भवति | नाम अङ्गम् इगन्तं चेदपि, अङ्गस्य उपधायां ह्रस्व-इक्-वर्णः चेदपि गुणः तदा सम्भवति यदा सार्वधातुकप्रत्ययः वा आर्धधातुकप्रत्ययः वा परे अस्ति | अतः सार्वधातुकसंज्ञा आर्धधातुकसंज्ञा इति संज्ञाद्वयं सम्यक्तया अवगन्तव्यम् | इदं संज्ञाद्वयं सम्प्रति पश्याम |
३. सार्वधातुकसंज्ञा का इति पूर्वमेव दृष्टम् | तिङ्शित् सार्वधातुकम् (३.४.११३) इति सूत्रेण यः प्रत्ययः तिङ् वा शित् वा अस्ति, तस्य प्रत्ययस्य सार्वधातुकसंज्ञा भवति | भवति-भवतः-भवन्ति इत्यादिषु रूपेषु -ति, -तः, -अन्ति इति तिङ्-प्रत्ययाः | यस्मिन् प्रत्यये शकारः इत्-संज्ञकवर्णः अस्ति, सः शित् |
आर्धधातुकसंज्ञा का इति एतावता न उक्तम् | वस्तुतः अतिसरलम् अस्ति— सूत्रं आर्धधातुकं शेषः(३.४.११४) | धातुभ्यः ये प्रत्ययाः विहिताः, तेषां सर्वेषां प्रत्ययानां सार्वधातुकसंज्ञा अथवा आर्धधातुकसंज्ञा भवति | अतः ये ये प्रत्ययाः धातोः परे सन्ति, ते सार्वधातुकसंज्ञकाः न सन्ति चेत्, अवश्यम् आर्धधातुकसंज्ञकाः सन्ति एव | आर्धधातुकं शेषः(३.४.११४) इति सूत्रेण अयमेव सन्देशः— धातोः अनन्तरं यः प्रत्ययः सः सार्वधातुकम् नास्ति चेत्, आर्धधातुकः अस्ति एव |
४. विकरणप्रत्ययाः धातोः परे सन्ति, अतः सर्वे विकरणप्रत्ययाः सार्वधातुकसंज्ञकाः अथवा आर्धधातुकसंज्ञकाः |
धातुगणम् अनुसृत्य विकरणप्रत्ययाः—
१. भ्वादिगणे शप्
२. अदादिगणे नास्ति (शपः लुक्, नाम लोपः)
३. जुहोत्यादिगणे नास्ति (शपः श्लु, नाम लोपः)
४. दिवादिगणे श्यन्
५. स्वादिगणे श्नु
६. तुदादिगणे श
७. रुधादिगणे श्नम्
८. तनादिगणे उ
९. क्र्यादिगणे श्ना
१०. चुरादिगणे शप्
अधुना, प्रत्येकं विकरणप्रत्ययः कीदृशः इति परिशीलयाम |
- यत्र यत्र प्रत्यये इत्-संज्ञकः शकारः वर्तते, तत्र तत्र सार्वधातुकसंज्ञा भवति | किमर्थम् इति चेत्, तिङ्शित् सार्वधातुकम् (३.४.११३) इति सूत्रेण यः प्रत्ययः शित्, तस्य सार्वधातुकसंज्ञा भवति |
- यः विकरणप्रत्ययः सार्वधातुक-संज्ञकः नास्ति, सः आर्धधातुक-संज्ञकः अस्ति एव |
अग्रे पठनात् पूर्वं, एकैकस्य विकरणप्रत्ययस्य स्वभावः कः इति उच्चार्यताम् | (सार्वधातुक-संज्ञकः वा आर्धधातुक-संज्ञकः वा इति)
५. उत्तरम्
सार्वधातुक-संज्ञक-विकरणप्रत्ययाः = शप्, श्यन्, श्नु, श, श्नम्, श्ना
आर्धधातुक-संज्ञक-विकरणप्रत्ययाः = उ
६. शित्त्वात् सार्वधातुकसंज्ञकः प्रत्ययः अस्ति चेत्, सार्वधातुकार्धधातुकयोः, पुगन्तलघूपधस्य च इति सूत्राभ्यां गुणकार्यस्य प्रसक्तिः अस्ति इति ज्ञातम् | किन्तु गतपाठे अस्माभिः दृष्टं यत् सार्वधातुकमपित् (१.२.४) इत्यनेन सूत्रेण यः प्रत्ययः अपित्, सः ङिद्वत् | तथा च क्क्ङिति च (१.१.५) इति गुण-बाधक-सूत्रेण यः ङित् (अथवा ङित् इव) अस्ति, तस्य गुणकार्यं बाधितम् | अतः येषु सार्वधातुकप्रत्ययेषु इत्-संज्ञक-पकारस्य अभावः, तैः प्रत्ययैः गुणकार्यस्य प्राप्तिः न भवति | श्यन्, श्नु, श, श्नम्, श्ना इति प्रत्ययाः शितः तु सन्ति अतः शित्त्वात् गुणकार्यस्य प्रसक्तिरस्ति, परन्तु पित्त्वस्य अभावात् न गुणः | तर्हि दिवादिगणे, स्वादिगणे, तुदादिगणे, रुधादिगणे, क्र्यादिगणे च गुणकार्यस्य प्रसक्तिः आसीत्, किन्तु अपित्त्वात् बाधितम् |
सारांशः एवम्— सार्वधातुकसंज्ञक-विकरणप्रत्ययं निमित्तीकृत्य, भ्वादिगणे चुरादिगणे चैव गुणकार्यं सम्भवति |
आर्धधातुक-विकरणप्रत्ययाः के ? केवलम् उ | स च कस्य गणस्य विकरणप्रत्ययः ? तनादिगणस्य | सार्वधातुकार्धधातुकयोः इत्यनेन सूत्रेण यत्र आर्धधातुकप्रत्ययः अस्ति, तत्र गुणः विहितः | अत्रापि क्क्ङिति च (१.१.५) इत्यनेन गित्त्वात्, कित्त्वात्, ङित्त्वात् च गुणकार्यं बाध्यते; अतः गित्, कित्, ङित् च नास्ति चेत् बाधा नास्ति | आर्धधातुकप्रत्ययस्य प्रसङ्गे सार्वधातुकमपित् (१.२.४) इति सूत्रस्य प्रसङ्गः नास्त्येव, अतः अपित्त्वात् न बाधा | तनादिगणे उ इति विकरणप्रत्ययः; गित्, कित्, ङित् च नास्ति अतः अत्रापि गुणः अर्हः | यथा— कृ + उ → कर् + उ → करु → करु + ति → करोति |
७. तर्हि भ्वादौ, तनादौ, चुरादौ च धात्वङ्गे गुणः अर्हः | दिवादिगणे, स्वादिगणे, तुदादिगणे, रुधादिगणे, क्र्यादिगणे च धात्वङ्गे गुणकार्यस्य प्रसक्तिः आसीत्, किन्तु अपित्त्वात् बाधितम् |
अधुना अदादिगणे जुहोत्यादिगणे च ? तयोः का गतिः ? तयोः विकरणप्रत्ययः नास्ति | अत्र अङ्गं नाम किमिति स्मर्यताम् | अङ्गसिद्धान्तम् अनुसृत्य प्रत्ययात् प्राक् यावत् अस्ति, तत् सर्वम् अङ्गम् इति उच्यते | अङ्गं नाम प्रत्ययस्य कार्यक्षेत्रम् | १,४,५,६,७,८,९,१० इत्येषु गणेषु तिङ्-प्रत्ययान् निमित्तीकृत्य अङ्गम् (कार्यक्षेत्रम्) अस्ति धातुः + विकरणप्रत्ययः (चुरादिगणे धातुः + णिच् + विकरणप्रत्ययः) | किन्तु अदादिगणे जुहोत्यादिगणे च गणयोः तिङ्-प्रत्ययानाम् अङ्गम् (कार्यक्षेत्रम्) अस्ति धातुः एव |
भवति-भवतः-भवन्ति इत्येषु रूपेषु -ति, -तः, -अन्ति इति तिङ्प्रत्ययाः इत्युक्तम् | तेषां प्रत्ययानां मूलरूपाणि एवम्— तिप्, तस्, झि | तिप् इत्यस्मिन् पकारस्य इत्-संज्ञां कृत्वा लोपं कृत्वा ‘ति’ इति शेषः | तथा अन्येषामपि तिङ्-प्रत्ययानाम् अनुबन्ध-लोपानन्तरं सिद्ध-रूपाणि सन्ति |
एवं च मूल-परस्मैपदिधातूनां तिङ् प्रत्ययाः—
ए.व.
द्वि.व.
ब.व.
प्र.पु.
तिप्
तस्
झि
म.पु.
सिप्
थस्
थ
उ.पु.
मिप्
वस्
मस्
एते सर्वे तिङः, अतः तिङ्शित् सार्वधातुकम् (३.४.११३) इत्यनेन सूत्रेण सार्वधातुकसंज्ञकाः | एकवचने तिप्, सिप्, मिप् इत्येते प्रत्ययाः पितः, अतः तत्र गुणः विहितः | द्विवचने बहुवचने च तिङ्प्रत्ययः सर्वत्र अपित् इति कारणतः सार्वधातुकमपित्, क्क्ङिति च इत्याभ्यां सूत्राभ्याम् अङ्गे गुणः नार्हः |
यथा— अदादिगणे इ-धातुः गतौ, इ + तिप्, सार्वधातुकार्धधातुकयोः इत्यनेन सूत्रेण इगन्ताङ्गस्य इकः गुणः, एति इति रूपं सिद्धम् | किन्तु द्विवचने तस् इति तिङ्-प्रत्ययः अपित् अतः गुण-निषेधः, इ + तः → इतः इति रूपम् |
विस्तरेण प्रदर्श्यते चेत्—
इ + तस् → सकारस्य रुत्वविसर्गौ ‘तः’ इति सिद्धप्रत्ययः → इ + तः → तः इति तिङ्-प्रत्ययः सार्वधातुकसंज्ञकः अतः सार्वधातुकार्धधातुकयोः (७.३.८४) इति सूत्रेण गुणस्य प्रसक्तिः → तः-प्रत्ययस्य अपित्त्वात् सार्वधातुकमपित् (१.२.४) इत्यनेन तः ङिद्वत्; क्क्ङिति च (१.१.५) इत्यनेन ङिद्वत्त्वात् गुणनिषेधः → इ + तः → इतः इति रूपं निष्पन्नम् |
तथैव अदादिगणे रुद्-धातुः, रुद् + तिप्, पुगन्तलघूपधस्य च इत्यनेन सूत्रेण एकवचने उपधायाम् इकः गुणः, रोदिति इति सिद्धम् | किन्तु द्विवचने तस् इति तिङ्-प्रत्ययः अपित् अतः गुण-निषेधः, रुद् + तः → रुदितः इति रूपम् | जुहोत्यादिगणे अपि तथा— हु-धातोः द्वित्वं कृत्वा जुहु इति अङ्गं; जुहु + ति → गुणकार्यं → जुहोति इति रूपं निष्पन्नम् | परन्तु द्विवचने जुहु + तस् → जुहुतः; अपित्त्वात् गुणाभावः |
८. सारांशः कः इति चेत्, १,२,३,८,१० इत्येषु गणेषु धात्वङ्गे गुणः सम्भवः; ४,५,६,७,९ इत्येषु गणेषु धात्वङ्गे गुणः नार्हः |