उपसर्गसमानाकार-शब्दाः

Source: TW

उपसर्गसमानाकारस्य पदस्य पृथक्करणम्

२८२
३.१.१२ भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः इत्यत्र सिद्धान्तकौमुदी —
अभूततद्भावविषयेभ्यो भृशादिभ्यो भवत्यर्थे क्यङ् स्यात्
हलन्तानामेषां लोपश्च ।
सुमनस् । अस्य सलोपः - सुमनायते ।
चुरादौ संग्राम युद्धे इति पठ्यते ।…
युद्धे योऽयं ग्रामशब्द इत्युक्तेऽपि
सामर्थ्यात् संग्रामशब्दे लब्धे विशिष्टपाठो ज्ञापयति ।
उपसर्गसमानाकारं पूर्वपदं धातुसंज्ञाप्रयोजके प्रत्यये चिकीर्षिते पृथक् क्रियते इति । तेन मनश्शब्दात्प्रागट् । स्वमनायत । उन्मनायते । उदमनायत ।+++(5)+++

असुमनाः सुमनाः भवति इत्यस्मिन् अर्थे
सुमनस् इति शब्दात् क्यङ्-प्रत्यये कृते
सुमनाय इति आतिदेशिकधातुः सिद्ध्यति ।
अस्य लट्लकारस्य रूपम् सुमनायते इति ।
अस्य लङ्लकारस्य रूपम् तु असुमनायत इति न,
अपितु स्वमनायत इति भवति ।
अत्र यद्यपि सु इति उपसर्गः नास्ति,
तथापि अडागमः “सु” इत्यस्मात् अनन्तरम् एव विधीयते ।
एतत् किमर्थम् इति चेत्,
उपसर्गसमानाकारं पूर्वपदं धातुसंज्ञाप्रयोजके प्रत्यये चिकीर्षिते
पृथक् क्रियते इति सिद्धान्तः ।+++(5)+++
सनादिप्रत्ययेण यदा धातुसंज्ञा विधीयते
तदा उपसर्गसदृशं पदं पृथक् कृत्वा अवशिष्टस्य अंशस्य एव
धातुसंज्ञा भवति इति अस्य आशयः ।

धातुपाठे चुरादिगणे विद्यमानः सङ्ग्राम (युद्धे) इति धातुः
अस्य सिद्धान्तस्य ज्ञापकरूपेण स्वीक्रियते ।+++(5)+++
तत्कथम् इति चेत्‌ — “सङ्ग्राम” इति प्रातिपदिकात्
तत्करोति तदाचष्टे इति णिच्-प्रत्यये कृते अपि सङ्ग्रामयति इति रूपम् अवश्यं सिद्ध्यति ।
परन्तु तथापि धातुपाठे सङ्ग्राम इति पृथक् धातुः प्रयुक्तः अस्ति ।
तत्किमर्थम् इति चेत्, अस्य धातोः विषये लङ्लकारे “असङ्ग्रामयत्”, क्त्वा-प्रत्यये परे च “सङ्ग्रामयित्वा” इति रूपम् इष्यते ।
यदि सङ्ग्राम-प्रातिपदिकात् सनादिसंज्ञकस्य णिच्-प्रत्ययस्य विधानं क्रियते,
तर्हि लङ्लकारे “समग्रामयत्” इति अनिष्टं रूपं स्यात् ।