Source: TW
विस्मृतः इति रूपम्
२७६
स्मृ (चिन्तायाम्, to remember) इति भ्वादिगणस्य सकर्मकः धातुः । वि + स्मृ + क्त → विस्मृत इति क्तान्तं रूपम् ।
अयं धातुः गत्यर्थकः नास्ति, अकर्मकः नास्ति,
श्लिषादिषु अपि अस्य परिगणनं न भवति,
अतः ३.४.७२ गत्यर्थाकर्मकश्लिष… इति सूत्रेण
अत्र कर्तरि क्त-प्रत्ययः न सम्भवति ।
अतः विस्मृत इत्यत्र कर्मणि क्तप्रत्ययः ।
यथा — मया गीता विस्मृता । एवमेव, त्वं विस्मृतोऽसि इत्यत्र त्वम् इति कर्मपदम् । केनचित् त्वं विस्मृतः (You have been forgotten) इत्याशयः ।
परन्तु साहित्ये बहुत्र “त्वं विस्मृतः असि” इत्यत्र कर्तरि-क्त-प्रत्ययः दृश्यते । You have forgotten इत्याशयः । यथा —
एनां च्यूतमञ्जरीं कथं विस्मृतोऽसि — इति शाकुन्तले ।
किं विस्मृतोऽसि मां स्मरशतशौण्डस्य — इति हर्षचरिते ।
तदा मया वचः प्रोक्तं तत्त्वं कि विस्मृतोऽसि हि — इति आनन्दरामायणे ।
स्थितस्य गतिश्चिन्तनीया इति न्यायेन एतेषां कथञ्चित् साधुता वक्तव्या !
तदर्थम् इयं युक्तिः — वि + स्मृ इत्यत्र ३.३.११४ नपुंसके भावे क्तः इत्यनेन क्त-प्रत्यये कृते विस्मृतम् इति शब्दः विस्मरणम् अस्मिन् अर्थे सिद्ध्यति ।
ततः विस्मृतम् अस्य अस्ति सः इत्यस्मिन् अर्थे ५.२.१२७ अर्शआदिभ्योऽच् इत्यनेन अच् इति तद्धितप्रत्यये कृते विस्मृत इति शब्दः सिद्ध्यति ।
त्वं विस्मृतोऽसि = तव विस्मरणम् अस्ति इत्याशयः ।