Source: TW
पत्-धातोः क्तान्तं रूपम्
२७५
पतॢँ (गतौ) इति भ्वादिगणस्य सेट् धातुः ।
अस्मात् धातोः विहितस्य सन्-प्रत्ययस्य इडागमः
“तनिपतिदरिद्रातिभ्यः सनो वा इड् वाच्यः” इति वार्त्तिकेन विकल्प्यते ।
अतः निष्ठाप्रत्यये परे अस्य धातोः ७.२.१५ “यस्य विभाषा” इत्यनेन इण्निषेधः भवेत्, येन “पत् + क्त → पत्त” इति रूपं सिद्ध्येत् ।
परन्तु पाणिनिना २.१.२४ द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः अस्मिन् सूत्रे “पतित” इति इडागमसहितं रूपं पाठितम् अस्ति ।
तर्हि पतित इति रूपम् साधु उत पत्त इति रूपं साधु उत उभयथा साधुत्वम् अस्ति ?
प्रयुक्त-साधुता
परिभाषा ११९ — बाधकान्येव निपातनानि = यदि सूत्राणाम् आधारेण (नियमरूपेण) सिद्धस्य रूपस्य बाधं कृत्वा ,
तत्स्थले अपरम् एव रूपम् पाणिनिना अन्यस्मिन् सूत्रे प्रयुक्तं दृश्यते;
तर्हि पाणिनिना साक्षात् प्रयुक्तम् रूपमेव निपातनेन साधु स्वीकर्तव्यम् ।
अतः अतः पत् + क्त → पतित इत्येव साधुरूपम् ।+++(5)+++
तत्त्वबोधिन्याम् २.१.२४ द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः इत्यत्र — वस्तुतस्तु, चुरादौ अदन्तेषु पठितस्य पत गतौ वा इत्यस्य आश्रयणेन पतितः सिद्ध्यति, यस्य विभाषा इत्यत्र एकाचः इत्यनुवृत्तेः सर्वसम्मतात् ।
कृदन्तरूपमालायाम् पतॢँ गतौ धातोः विवरणावसरे — वस्तुतस्तु, सूत्रकाररीत्या धातोः अस्य कुत्रापि इड्विकल्पाभावात् निष्ठायाम् अत्र यस्य विभाषा इति सूत्रं न प्रवर्तते । ततश्च पतितः इत्यस्य साधुत्वे न निर्देशादिरूपप्रमाणान्तराणि मृग्यानि । सन्-प्रत्ययस्य इड्विकल्पः केवलं वार्त्तिककारमतेन, न हि पाणिनिमतेन, अतः पाणिनिपक्षे निष्ठायाम् इण्निषेधः नैव प्रवर्तते इत्याशयः ।
कृदन्तरूपमालायाम् पतॢँ गतौ धातोः विवरणावसरे एतदपि निर्दिष्टम् — अबाधकान्यपि निपातनानि इति न्यायाश्रयणे तु पत्तम्-पत्तः इत्यादीनि अपि रूपाणि अत्र साधूनि एव इति प्रतिभाति, तत्र विद्वांसः प्रमाणम् ।
उभय-साधुता
परिभाषा १२० - अबाधकानि अपि निपातनानि —
पाणिनिना साक्षात् प्रयुक्तानि रूपाणि
सूत्रसिद्धानां रूपाणां बाधकानि नैव भवन्ति,+++(5)+++
अतः उभयथा रूपसाधुत्वं स्वीकर्तुं शक्यते ।
अतः सूत्रप्रयुक्तः पतित इति शब्दः,
तथा च प्रक्रियासिद्धः पत्त इति शब्दः - द्वौ अपि साधू एव ।
अयं पक्षः अपि कैश्चित् वैयाकरणैः स्वीकृतः अस्ति ।
परन्तु वस्तुतः इयं परिभाषा भाष्यसम्मता न इति नागेशेन प्रतिपादितम् । अतः अस्माभिः तु पतित इत्येव रूपं प्राथम्येन प्रयोक्तव्यम् ।