Source: TW
“पूजितो यः सुरासुरैः” इत्यत्र क्तप्रत्ययः
२७८
३.२.१०२ निष्ठा इति सूत्रेण सर्वेभ्यः धातुभ्यः क्त-प्रत्ययः भूते विधीयते ।
अयं प्रत्ययः नित्यम् भावे / कर्मणि भवति, अतः अस्य प्रयोगे कर्तृपदस्य २.३.१८ कर्तृकरणयोस्तृतीया इत्यनेन तृतीया भवति ।
यथा - रामेण पाठः पठितः ।
इच्छार्थकाः, ज्ञानार्थकाः, पूजनार्थकाः च ये धातवः, तेभ्यः विहितः क्त-प्रत्ययः तु वर्तमाने काले भवति ।
अयं प्रत्ययः अपि नित्यं भावे / कर्मणि एव भवति,
परन्तु अस्य प्रयोगे कर्तृपदस्य २.३.६७ क्तस्य च वर्तमाने इत्यनेन षष्ठीविभक्तिः भवति ।
यथा, राज्ञां मतः, राज्ञां बुद्धः, राज्ञां पूजितः ।
अयं वर्तमाने विहितः क्त-प्रत्ययः तक्र-कौण्डिन्य-न्यायेन
भूतकालवाचकं क्त-प्रत्ययं सम्पूर्णं बाधते —
इति माधवीयधातुवृत्तिकारस्य,
अन्येषाम् अपि केषाञ्चन वैयाकरणानां मतम् ।
अस्यां स्थितौ “पूजितः यः सुरासुराणाम्” इति प्रयोगः साधु स्यात् ।
तर्हि “पूजितः यः सुरासुरैः” इति प्रयोगस्य साधुत्वं कथम्
इति चेत् — पूजितो यः सुरासुरैः इति आर्षः प्रयोगः इत्याहुः — इति माधवीयधातुवृत्तिः ।
वस्तुतस्तु, वर्तमाने विहितः क्तप्रत्ययः भूतकालवाचकं क्तप्रत्ययं नैव बाधते ।
अतः पूजितः यः सुरासुरैः इत्यत्र भूते-क्त-प्रत्यये कृते न काऽपि अनुपपत्तिः ।+++(4)+++
वर्तमाने विहितः क्तप्रत्ययः भूतकालवाचकं क्तप्रत्ययं नैव बाधते इत्यस्मिन् विषये व्याख्यानेषु कुत्रचित् चर्चा कृता दृश्यते —
पूजितो यः सुरासुरैः इत्यादौ तु भूते क्तः, न तु वर्तमाने । तेन तृतीया तत्र उपपद्यते । न च मतिबुद्धि… इति सूत्रेण बाधः शङ्क्यः । तेन इत्यधिकारे उपज्ञाते इति लिङ्गेन अबाधकज्ञापनात् — २.३.६७ क्तस्य च वर्तमाने इत्यत्र तत्त्वबोधिनी ।
उपज्ञाते इति तृतीयासमर्थात् तेन प्रोक्तम् इत्यादिकारकात् प्रत्ययं कुर्वता आचार्येण ज्ञापितम् - मत्यादिभ्यो विहितस्य क्तस्य योगे तृतीयासमासे भवति एव, इति तेन ईश्वरज्ञापितम् इति निर्देशादेव अस्ति मत्यादिभ्यो भूतेऽपि क्त इति — ३.२.१८८ मतिबुद्धिपूजार्थेभ्यश्च इत्यत्र दुर्घटवृत्तिः ।
तक्रकौण्डिन्यन्यायेन एव इष्टे सिद्धे, नित्यग्रहणं तस्य न्यायस्य अनित्यत्वज्ञापनार्थम् । तेन मतिबुद्धिपूजार्थभ्यश्च इति वर्तमाने क्तेन अबाधनात् पूजार्थेभ्यो भूते क्तः सिद्ध्यति — इति ३.१.२३ नित्यं कौटिल्ये गतौ इत्यत्र तत्त्वबोधिनी ।
नित्यं कौटिल्ये गतौ इत्यत्र नित्यग्रहणेन तक्रकौण्डिन्यन्याय-अनित्यज्ञापनात् पूजितो यः सुरासुरैः इत्यत्र भूतेऽपि क्तस्य च सौलभ्येन कर्तरि तृतीयायाः न काचिदनुपपत्तिः इति मनोरमाकाराः — माधवीयधातुवृत्तेः भूमिकायां द्वारिकाप्रसादशास्त्रिवर्याणाम् विवेचनम् ।