Source: TW
धाव्-धातोः क्त-प्रत्ययः
२७३
धावुँ (गतिशुद्ध्योः) इति भ्वादिगणस्य सेट्-धातुः । परन्तु अयम् उदित् अस्ति, अतः क्त्वाप्रत्यये ७.२.५६ उदितो वा इत्यनेन इड्विकल्पे सिद्धे, निष्ठायाम् ७.२.१५ यस्य विभाषा इत्यनेन इण्निषेधः जायते, अतः धाव् + क्त → धौत इति रूपम् ।
धाव् + क्त
→ धाऊ + त [ ६.४.१९ च्छ्वोः शूडनुनासिके च इति वकारस्य ऊठ्-आदेशः ]
→ धौ + त [ ६.१.८९ एत्येधत्यूठ्सु इत्यनेन आकार-ऊकारयोः वृद्ध्यैकादेशः औकारः । ]
→ धौत
धाव्-धातोः “गतिः” अस्मिन् अर्थे धावितः, धावितवान् इति प्रयोगौ साहित्ये कुत्रचित् प्रयुक्तौ दृश्येते । यथा, कथासरित्सागरे ३.५२ इत्यत्र —
एवमस्त्विति तौ मूढौ धावितौ सोऽपि पादुके
अध्यास्योदपतद् व्योम गृहीत्वा यष्टिभाजने ॥
लोके अपि कुत्रचित् धावितवान् / धावित इति शब्दौ प्रयुक्तौ दृश्येते ।
एतेषु स्थलेषु “धाव्” इति “धातोः निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिज् उच्यते” इत्यनेन स्वार्थे णिच्-प्रत्ययं कृत्वा, “धावि” इति ण्यन्तात् क्त-प्रत्यये कृते रूपसिद्धिः वक्तुं शक्या ।
धावित इति शब्दस्य साधुत्वज्ञापनार्थम् केचन वैयाकरणाः ७.२.१५ यस्य विभाषा इति सूत्रस्य अनित्यत्वं स्वीकुर्वन्ति ।
धाव्-धातुः वस्तुतः सेट् । परन्तु अस्मात् विहितः क्त-प्रत्ययः इडागमं न स्वीकरोति, यतः क्त्वाप्रत्यये ७.२.५६ उदितो वा इत्यनेन इड्विकल्पे सिद्धे, निष्ठायाम् ७.२.१५ यस्य विभाषा इत्यनेन इण्निषेधः जायते, अतः धाव् + क्त → धौत इति रूपम् ।
परन्तु, ७.२.१५ यस्य विभाषा इति सूत्रस्य अनित्यत्वं स्वीक्रियते चेत्, धाव्-धातोः सेट्त्वात्, क्त-प्रत्यये परे इडागमे कृते धावित इति रूपम् सरलरूपेण सम्भवति ।
७.२.१५ यस्य विभाषा इति सूत्रस्य अनित्यत्वं कथम् इति चेत् —
तस्य सूत्रस्य अनित्यत्वं तु कृन्तत्यादेरीदित्करणात्, द्वितीयाश्रितातीतपतित इत्यत्र पतितग्रहणाच्च ज्ञाप्यते इति कृदन्तरूपमाला ।
अत्र मैत्रेयः, कथं धावितो धावितवानिति उपक्रम्य कृतिचृतिनृतीनामीदित्त्वं यस्य विभाषा इत्यस्यानित्यत्वे ज्ञापकमाह, नित्यत्वे ह्येतेषां सेऽसिचि कृतचृतच्छृदतृदनृतः इति सकारादाविटो विकल्पनात् निष्ठायामनिट्त्वस्य सिद्धत्वात्किं तदर्थेनेदित्त्वेन — इति माधवीयधातुवृत्तौ ।
७.२.१५ यस्य विभाषा इति सूत्रस्य अनित्यत्वस्य समर्थनम् द्विप्रकारकम् — कृतीँ, चृतीँ, नृतीँ इत्येतेषु धातुषु इत्संज्ञकः ईकारः विद्यते । इत्संज्ञक-ईकारस्य प्रयोजनम् ७.२.१४ श्वीदितो निष्ठायाम् इत्यनेन निष्ठायाम् इण्निषेधः - इति । परन्तु, कृतीँ, चृतीँ, नृतीँ इत्येतेभ्यः विहितः सकारादिः आर्धधातुकः प्रत्ययः ७.२.५७ सेऽसिचि कृतचृतच्छृदतृदनृतः इत्यनेन विकल्पेन इडागमं प्राप्नोति; अतः ७.२.१५ यस्य विभाषा इत्यनेन निष्ठायाम् तादृशः एव इण्निषेधः सिद्धः । तर्हि एतेषाम् ईदित्करणं व्यर्थम् । व्यर्थं सत् ज्ञापयति - ७.२.१५ यस्य विभाषा इति सूत्रम् कुत्रचित् अनित्यम्, इति ।
तनिपतिदरिद्रातिभ्यः सनो वा इड् वाच्यः इति वार्त्तिकेन पत् इति धातोः विहितस्य सन्-प्रत्ययस्य इडागमः विकल्प्यते । अतः अस्य धातोः ७.२.१५ यस्य विभाषा इत्यनेन निष्ठायाम् इण्निषेधः भवेत् । परन्तु पाणिनिना २.१.२४ द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः अस्मिन् सूत्रे “पतित” इति इडागमसहितं रूपं पाठितम् अस्ति । अतएव ७.२.१५ यस्य विभाषा इति सूत्रम् कुत्रचित् अनित्यम् ।