परम्परा

Source: TW

“परम्परा” इति शब्दः
[[२२५]]

परम्परा = Lineage, Progeny, Uninterrupted convention or series
गगनादवतीर्णा सा यथा वृद्धपुरस्सरा । तोयान्तर्भास्करालीव रेजे मुनिपरम्परा — इति कुमारसम्भवे ।
एवं परम्पराप्राप्तं तथा राजर्षयो विदुः — इति भगवद्गीतायाम् ।
महतीयं खल्वनर्थपरम्परा — इति कादम्बर्याम् ।

५.२.१० परोवरपरम्परपुत्रपौत्रमनुभवति
इत्यत्र‌ सूत्रकारेण “परम्पर” इति कश्चन अकारान्तः शब्दः प्रयुक्तः दृश्यते ।
परन्तु अयं पृथक् शब्दः न ।
“पर” तथा “परतर” एतयोः ख-प्रत्ययस्य उपस्थितौ मेलनं कृत्वा,
प्रक्रियायाम् मकारस्य आगमं कृत्वा,
परतर-शब्दस्य च पर इति आदेशं कृत्वा परम्पर इति शब्दः सिद्ध्यति —
परं च परतरं च अनुभवति = पर + परतर + ख → पर + म् + पर + ख → … → परम्परीण ।

एतादृशं परिवर्तनम् केवलं ख-प्रत्ययस्य उपस्थितौ,
परम्परीण-शब्दस्य सिद्धौ एव दृश्यते;
अत्र निर्मितः परम्पर इति शब्दः पृथक् रूपेण प्रयोगं न अर्हति;
अतः तस्मात् “परम्परा” इति शब्दः नैव सिद्ध्यति ।

अमरकोशे अपि “परम्परा” इति शब्दः न दत्तः अस्ति ।
परन्तु तस्मात् सिद्धः “पारम्पर्य” इति शब्दः “उपदेश” इत्यस्य विशेषणरूपेण प्रयुक्तः दृश्यते —

“पूर्व + पूर्वतर” इति स्थिते,
विनाऽपि ख-प्रत्यये, द्वयोः अपि शब्दयोः “पर” इति आदेशः भवति;
ततः मकारस्य आगमः भवति,
अनेन “परम्पर” इति अकारान्तशब्दः सिद्ध्यति;
तस्मात् टाप्-प्रत्यये कृते परम्पराशब्दः सिद्ध्यति —

इति रयमुकुटेन तस्य अमरकोशस्य व्याख्याने निर्दिष्टं दृश्यते ।
परन्तु एतत् अनुचितम् ।
ख-प्रत्ययस्य उपस्थितौ एव परम्पर-शब्दस्य निर्माणं शक्यम्,
तत्र परम्परा इति शब्दः नैव सिद्ध्यति;
अतः परम्परा इति शब्दः अव्युत्पन्नः एव स्वीकर्तव्यः — इत्येव प्रमुखः पक्षः ।

अतएव कौमुद्याम् अपि - परम्पराशब्दः तु अव्युत्पन्नम्, शब्दान्तरं स्त्रीलिङ्गम् इति निर्देशः दृश्यते ।

शब्दकल्पद्रुमे “परम्पर” इति कश्चन अकारान्तः शब्दः पृथक् रूपेण (ख-प्रत्ययस्य सन्दर्भं विना) पाठितः अस्ति ।
परम् (अतिशयेन) पिपर्ति (takes care) सः = परम् + पृ + अच् → परम् + पर → परम्पर । प्रक्रियायां वस्तुतः “परम्” इत्यस्य मकारस्य लुक् प्राप्नोति; परन्तु ६.३.१४ तत्पुरुषे कृति बहुलम् इति सूत्रेण सः निषिध्यते; येन “परम्पर” इति शब्दः सिद्ध्यति । प्रपौत्रादिः (great grandson and the subsequent generation) इति अस्य अर्थः ।

नप्तारो पौत्रदौहित्रौ प्रतिनप्ता प्रपौत्रकः । परम्परस्तु तत्पुत्रः तत्पुत्रोऽपि परम्परः — इति वैजयन्तीकोशः ।

परम्परो मृगभेदे प्रपौत्रे तनयस्य च । परम्परा परिपाट्यां हिंसासन्तानयोरपि — इति मेदिनी । एतादृशात् परम्परशब्दात् टाप्-प्रत्यये कृते परम्परा इति शब्दः कैश्चित् साध्यते; परन्तु तत् भिन्नार्थकत्वात् चिन्त्यम् । कल्पद्रुमे अपि “परम्परा” शब्दस्य व्युत्पत्तिः नैव दत्ता दृश्यते ।

परम्परा इति शब्दः अव्युत्पन्नः एव ज्ञेयः — इत्याशयः ।