पृषोदरादीनि

Source: TW

पृषोदरादीनि यथोपदिष्टम्
२४०

६.३.१०९‌ पृषोदरादीनि यथोपदिष्टम् —

पृषोदरादीनि शब्दरूपाणि, येषु लोप-आगम-वर्णविकाराः शास्त्रेण न विहिताः;
दृश्यन्ते च, तानि यथोपदिष्टानि साधूनि भवन्ति ।
यानि यानि यथोपदिष्टानि, शिष्टैः उच्चारितानि प्रयुक्तानि, तानि तथा एव अनुगन्तव्यानि — काशिका ।

पृषोदरप्रकाराणि शिष्टैर्यथोच्चरितानि तथैव साधूनि स्युः‌ — सिद्धान्तकौमुदी ।

शिष्टाः इति किम् ?
एतस्मिन् आर्यावर्ते आर्यनिवासे
ये ब्राह्मणाः कुम्भीधान्या अलोलुपा अगृह्यमाणकारणाः
किंचिदन्तरेण कस्याश्चिद् विद्यायाः पारं गतास्
तत्र भवन्तः शिष्टाः — भाष्यकारः ।+++(5)+++

यदि तर्हि शिष्टाः शब्देषु प्रमाणम्, किमष्टाध्याय्या क्रियते ?
शिष्टपरिज्ञानार्थाऽष्टाध्यायी ।

कथं पुनरष्टाध्याय्या शिष्टाः शक्या विज्ञातुम् ?
अष्टाध्यायीम् अधीयानोऽन्यं पश्यत्य् अनधीयानं
ये वाऽस्यां विहिताः शब्दास् तान् प्रयुञ्ञ्जानम् ।
स पश्यति - नूनमस्य देवानुग्रहः स्वभावो वा,
योऽयं न चाष्टाध्यायीम् अधीते,
ये चास्यां विहिताः शब्दास् तांश्च प्रयुङ्क्ते ।
नूनम् अयम् अन्यान् अपि जानाति - इति ।
एवमेषा शिष्ट-ज्ञानार्थाऽष्टाध्यायी

  • इति । — भाष्यकारः ।

हंस इति शब्दस्य सिद्धौ वर्णस्य आगमः भवति । हन् / हस् + अच् → हन्स् + अ → हंस ।

सिंह इति शब्दस्य सिद्धौ वर्णविपर्ययः । हिंस् + अच् → सिंह् + अच् → सिंह ।

गूढोत्मा इति शब्दस्य सिद्धौ आदेशः भवति । गूढः आत्मा यस्य सः = गूढ + आत्मा → गूढात्मा → गूढोत्मा ।

पृषोदरम् इति शब्दस्य सिद्धौ वर्णलोपः भवति ।
पृषद् + उदर → पृष + उदर → पृषोदर ।
पृषद् (spotted) उदरं यस्य सः पृषोदरः ।
पृषदः (जलकणाः) उदरे यस्य सः पृषोदरः ।
पृषद् (जलकणम्) इव उदरं यस्य सः पृषोदरः ।
one with a bulging stomach like that of a drop of water.+++(5)+++

भवेद् वर्णागमात् हंसः,
सिंहो वर्णविपर्ययात् ।
गूढोत्मा वर्णविकृतेः,
वर्णनाशात् पृषोदरम् ।

पृषोदरादिगणः आकृतिगणः ।
अतः शिष्टमतेन अनेके शब्दाः तत्र भवितुम् अर्हन्ति ।

यथा, दक्षिणतीरम् इत्यत्र ईकारस्य (कथञ्चित्) आकारादेशं कृत्वा सिद्धः दक्षिणतारम् इति शब्दः
पृषोदरादित्वात् साधुत्वं प्राप्नोति ।
तदर्थमेव ६.३.१०९‌ पृषोदरादीनि यथोपदिष्टम् इत्यत्र दिक्शब्देभ्यः तीरस्य तारभावो वा इति वार्त्तिकं पाठ्यते ।

दक्षिणः (दक्षिणदिशि स्थितः) तीरः = दक्षिण + तीर = दक्षिण + तार → दक्षिणतार ।

तेन लुम्पेदवश्यमः कृत्ये तुंकाममनसोरपि,
समो वा हितततयोर्मासस्य पचि युड्घञोः इत्यपि संगृहीतम् — इति तत्त्वबोधिनी ।

अवश्यगन्तव्यादौ मकारलोपः

तव्य/अनीयर्/य-प्रत्ययान्तशब्दः उत्तरपदरूपेण अस्ति चेत्
“अवश्यम्” शब्दस्य मकारः लुप्यते । अवश्यं गन्तव्यः = अवश्यगन्तव्यः । एवमेव, अवश्यं सेव्यः = अवश्यसेव्यः ।

काम/मनस्-इति शब्दः उत्तरपदरूपेण अस्ति चेत् तुमुन्-प्रत्ययान्तशब्दस्य मकारः लुप्यते । गन्तुम् कामः = गन्तुकामः । गन्तुम् मनः यस्य सः = गन्तुमनाः ।

हित/तत-इति शब्दः उत्तरपदरूपेण अस्ति चेत् सम्-उपसर्गस्य मकारः विकल्पेन लुप्यते । सहित, संहित । सतत, संतत ।

पचन/पाक-इति शब्दः उत्तरपदरूपेण अस्ति चेत् “मांस”शब्दस्य अकारः लुप्यते । मांस्पचनम् / मांस्पचनी । मांस्पाकः ।