द्वितीय

सायण-टीका

https://ashtadhyayi.com/courses/bhaashaapaak3/

“द्वितीय” इति शब्दः
[[२१२]]
द्वितीय इति शब्दः बह्वर्थः ।
मुख्यः अर्थः तु द्वयोः पूरणम् (second) इति । द्वयोः पूरणम् अस्मिन् अर्थे “द्वि” शब्दात् ५.२.५४ द्वेस्तीयः इत्यनेन तीय-प्रत्यये कृते “द्वितीय” इति शब्दः सिद्ध्यति ।
स्त्रीलिङ्गे ४.१.४ अजाद्यतष्टाप् इति टापि द्वितीया ।
द्वितीयः वृक्षः, द्वितीया शाखा, द्वितीयं पुष्पम् — इति उदाहरणानि ।

द्वितीय इति शब्दस्य अन्येऽपि केचन अर्थाः सन्ति ।
पुत्रः, सहायः इत्यादिषु अर्थेषु पुंलिङ्गे प्रयोगः ।
पत्नी, विभक्तिः, तिथिः इत्यादिषु अर्थेषु स्त्रीलिङ्गे प्रयोगः ।
पत्नी पाणिगृहीती च द्वितीया सहधर्मिणी — इत्यमरः ।
सा चन्द्रस्य द्वितीयकलाक्रियारूपा, शुक्लपक्षे २ कृष्णपक्षे १७ इत्यङ्कबोधिता — इति ज्योतिषम् ।

सर्वेऽपि द्वितीयशब्दाः समानरूपेणैव (तीय-प्रत्ययेन) सिद्ध्यन्ति — इति कोषकाराणाम् मतम् ।
परन्तु भाष्ये भिन्नं मतम् प्रदर्शितम् ।

अयं तीयान्तः शब्दः अस्ति एव पूरणम्, अस्ति सहायवाची ।
तद् यः सहायवाची तस्य इदं ग्रहणम् … — २.२.२४ अनेकमन्यपदार्थे इत्यत्र भाष्यम् ।

अत्र भाष्यकारस्य आशयं
“पूरणार्थः द्वितीयः पृथक्, सहायवाची द्वितीयः पृथक्”
इति स्वीकृत्य कैयटेन अव्युत्पन्नः इत्यर्थः इति अस्मिन्नेव सूत्रे प्रदीपे निर्दिष्टम् ।

सहायवाची द्वितीयशब्दस्तु अव्युत्पन्नं प्रातिपदिकम् । अनेन (पूरणार्थे विहितेन तीयप्रत्ययने) तु नास्ति साधुत्वम् —‌ इति तत्त्वबोधिनी ।