अमुक

“अमुक” इति शब्दः

स्पष्टतया अनिर्दिश्यमानः (so-and-so, referring a person or an object without a clear name) इत्यस्मिन् अर्थे “अमुक” इति शब्दः साहित्ये कुत्रचित् दृश्यते —

अमुकः ससुखोऽमुकस्तु दुःखीत्यनुभूतिर्न भवेत्तयोरभेदात् (शङ्करदिग्विजये १५.६४)

अभिवादये इति शब्दोच्चारणानन्तरम् अमुकनामाहमस्मीति स्वं नाम परिकीर्तयेत् ।

सन्निवेशं प्रमाणं मे स्वहस्तेन लिखेत् स्वयम् ।
मतं मेऽमुकपुत्रस्य अमुकस्य महीपतेः — नारदः ।

अमुकामुकगोत्रैतत् तुभ्यमन्नं स्वधा नमः — इति श्राद्धतत्वम् ।

बुद्धिस्थोपलक्षिततत्तद्धर्मावच्छिन्नम्, स्वस्ववृत्तिविशेषधर्मपुरस्कारेण तत्तद्वस्तुवाचकम् —
इति शब्दकल्पद्रुमे अमुकशब्दार्थः ।

“अमुक” शब्दः कथं सिद्ध्यति इति चेत्, ७.२.१०७ अदस औ सुलोपश्च इत्यत्र —‌ अमुकी असुकी इति च प्रयोगः असाधुरेव । एवम् अमुकशर्मा इत्यादिः अपि — इति तत्त्वबोधिनी ।

अमुक इति त्वसाधुः, सत्वेन मुत्वस्य बाधात् । एवम् अमुकी, अमुकशर्मा इत्यादयः अपि असाधवः —
इति प्रौढमनोरमा ।

अमुकः अमुकशर्मा इत्यादि त्व् असाध्वेवेत्याहुः ।
केचित्तु अदस्-शब्दपर्यायः अमुकशब्दः अव्युत्पन्नः इत्याहुः — इति बालमनोरमा ।

अदस्-शब्दात् अमुक-शब्दः नैव सिद्ध्यति ।
शिष्टप्रयोगसाधुत्वार्थम् अमुक-शब्दः अव्युत्पन्नः एव ज्ञेयः ।+++(5)+++