०८ समासः

शुद्धिकौमुदी ८. अष्टमोऽध्यायः

। समासः ०१. अर्जुनः भगवतः विराट्रूपं दृष्टवान् ।

‘विराट्पम्’ इति दोषाय । “विराड्रूपम्’ इति प्रयोक्तव्यम् । समासे हि सन्धिः नित्यः । अतः पदान्ते स्थितस्य वर्गीयव्यञ्जनस्य टकारस्य मृदुव्यञ्जने रेफे परे टवर्गस्य तृतीयव्यञ्जनं (डकारः) आदेशः स्यात् ‘झलां जशोऽन्ते’ (८.२.३९) इति सूत्रेण । एवम् अत्र जश्त्वसन्धिः नित्यं प्रवर्तते, न तु विकल्पेन । तस्मात् ‘विराङ् रूपम्’ इति जश्त्वसहितं रूपम् एव साधु । एतादृशानि उदाहरणान्तराणि यथा -

| अशुद्धम् (x)| | शुद्धम् (1) षट्-अधिकेषु षडधिकेषु तत्-अनन्तरम्

तदनन्तरम् सम्पत्विनियोगः सम्पद्विनियोगः विपत्भीतिः

विपद्भीतिः भगवत्भक्तिः भगवद्भक्तिः त्वविमोचनम् त्वग्विमोचनम् भिषक्वरः

भिषग्वरः दिक्भ्रमः

दिग्भ्रमः ०२. कक्ष्यायां षड्सप्ततिः जनाः सन्ति ।

षड्सप्ततिः इति अपशब्दः । ‘षट्सप्ततिः’ इति प्रयोक्तव्यम् । ‘समासे सन्धिः नित्यः’ इति तु ज्ञायते एव । पदान्ते स्थितस्य वर्गीय व्यञ्जनस्य डकारस्य टकारः “खरि च’ (८.४.५५) इति सूत्रेण । एतादृशानि उदाहरणान्तराणि यथा -

अशुद्धम् (x)] | शुद्धम् (1) सद्कीर्तिः

सत्कीर्तिः . विराड्स्वरूपम् विराट्स्वरूपम् ऋत्विगप्रमुखः ऋत्विक्प्रमुखः

समासः

187

०३. सार्थ एकादशवादने मम विद्यालयस्य आरम्भः ।

‘साधैंकादशवादने’ इति प्रयोक्तव्यम् । समासे सन्धिः नित्यः एव खलु ? अतः अत्र वृद्धिः स्यादेव ‘वृद्धिरेचि’ (६.१.८८) इति सूत्रेण । अतः अत्र वृद्धिसहितं रूपम् एव शुद्धम् । क्वचित् ‘सार्ध-एकादशवादनम्’ इति लिख्यते प्राथमिकस्तरे बोधनाय । तन्नाम सन्ध्यर्हयोः उभयोः वर्णयोः मध्ये रेखिका(-) (लघुरेखा) लिख्यते । एषा ज्ञापयति यत् अत्र सन्धिः यद्यपि इष्टः, तथापि प्राथमिकस्तरीयाणां बोधनाय स च न कृतः इति । सन्धिः तु

अत्र नित्यः एव । ०४. रघुः मृण्मयेन पात्रेण कौत्साय अर्घ्यं दत्तवान् ।

‘मृण्मयेन’ इत्यत्र णत्वं दुर्लभम् । “मृन्मयेन’ इति णत्वरहितं रूपं प्रयोक्तव्यम् ।

अत्र प्रक्रिया किञ्चिदवगन्तव्या । मृद् + मयम् इति स्थिते ‘प्रत्यये भाषायां नित्यम्’ इति वार्तिकेन (सू. ८.४.४५) दकारस्य नकारः । एवं च एतत् सूत्रम् अष्टमाध्यायस्य चतुर्थे पादे अस्ति । णत्वविधायकं सूत्रं तु [ “रषाभ्यां नो णः…’ (८.४.१) इति सूत्रं, ‘ऋवर्णान्नस्य णत्वं वाच्यम्’ इति वार्तिकं च चतुर्थे पादे ततोऽपि प्राक् अस्ति । अतः णत्वे कर्तव्ये नकारस्य असिद्धत्वात् णत्वं न प्रवर्तते । अतः

‘मृन्मयः’ इत्येव रूपम् । ०५. रमेशः संशोधन तथा अभिवृद्धिविभागे कार्यं करोति ।

‘संशोधनाभिवृद्धिविभागे’ इति प्रयोक्तव्यम् । । समस्तपदयोः मध्ये ‘तथा’ इत्यस्य प्रवेशः न भवत्येव । संशोधनम् अभिवृद्धिः च संशोधनाभिवृद्धी । तयोः विभागः संशोधनाभिवृद्धि विभागः । एषः आशयः वक्त्रा प्रकाशयितुम् इष्टः । अतः एतादृशे समासस्थले ‘तथा’ इत्यस्य प्रयोगः न भवत्येव । प्रादेशिकभाषा प्रभावकारणतः एतादृशाः प्रयोगाः क्रियन्ते कैश्चित् । मासपर्यन्तम् एतत् कार्यं समाप्तं भविष्यति । ‘मासपर्यन्तम्’ इति शब्दः न अपेक्षितार्थाभिधायी । ‘मासाभ्यन्तरे’ इति प्रयोक्तव्यम् ।

188

शुद्धिकौमुदी “मासात्मकस्य अवधेः समाप्तितः पूर्वं कार्यं समाप्तिम् एष्यति’ इति वक्तुम् इच्छति वक्ता । हिन्दीभाषायां तु ‘महिने तक’ इति प्रयोगः क्रियते । तस्य अनुकरणं कुर्वद्भिः ‘मासपर्यन्तम्’ इति उच्यते । ‘पर्यन्त शब्दः न हि अपेक्षितम् अर्थं गमयति । अतः अत्र

‘अभ्यन्तरे’ इति प्रयोक्तव्यम् । ०७. बालकः मातरं न उक्त्वा विद्यालयं गतवान् ।

‘न उक्त्वा’ इत्ययं प्रयोगः न विवक्षितम् अर्थम् अवगमयति । ‘अनुक्त्वा ’ इति समस्तं रूपं प्रयोक्तव्यम् । नञः अर्थद्वयं - *पर्युदासः प्रसज्यप्रतिषेधश्चेति । पर्युदासे नार्थस्य अप्राधान्यम् । सः समस्यते । अतः तत्र उत्तरपदेन अन्वयः । प्रसज्यप्रतिषेधे नबर्थस्य प्रधानता । तत्र न समासः । नञः क्रियायाम्

अन्वयः । ‘बालः विद्यालयं न गच्छति’ इत्यत्र प्रसज्यप्रतिषेधः । अत्र नत्रः क्रियायाम् अन्वयः । पर्युदासः तु पूर्वोक्तः ।

यत्र स्वातन्त्र्येण नञ् प्रयुज्यते तत्र तस्य क्रियायाम् अन्वयः । अतः एव वाक्यादौ अपि तस्य प्रयोगः यथा - नाहम् आगच्छामि । ‘स्वातन्त्र्येण प्रयुक्तः नञ् क्रियायाम् एव अन्वयं प्राप्नोति’ इति तात्पर्यम् । प्रकृतवाक्ये तु प्रयोक्त्रा ‘कथनस्य अभावः गमनं च’ अपेक्ष्यते । किन्तु तदनुगुणः शब्दविन्यासः न कृतः । स्वातन्त्र्येण प्रयुक्तः नञ् प्रधानक्रियया अन्वितः भवति । तस्मात् (गमनाभावः कथनं च) ‘मातरम् उक्त्वा न गतवान्’ इति आशयः एतस्मात् वाक्यात्

अभिव्यज्यते । स च वक्तुः न इष्टः । यदि उत्तरपदेनैव नञः सम्बन्धः इष्यते तर्हि समासः अवश्यं विधेयः ।

‘अनुक्त्वा ’ इत्येव प्रयोक्तव्यम् । ०८. कटम् इदानीं पुटी न करोतु । अनन्तरं कर्तुं शक्यते ।

‘पुटी न करोतु’ इति दोषाय । ‘न पुटीकरोतु’ इति वक्तव्यम् ।

‘पुटीकरोति’ इत्यत्र पुटी इति च्चिप्रत्ययान्तं रूपम् । ‘कृभ्यस्तियोगे * पर्युदासः स विज्ञेयः यत्रोत्तरपदेन नञ् ।

प्रसज्यप्रतिषेधोऽसौ क्रियया सह यत्र नञ् ।

समासः

189

सम्पद्यकर्तरि च्विः’ (५.४.५०) इति च्विः । ‘ऊर्यादिच्चिडाचश्च’ (१.४.६१) इति सूत्रेण च्चिप्रत्ययान्तस्य क्रियायोगे गतिसंज्ञा । “ते प्राग्धातोः’ (१.४.८०) इति सूत्रेण ‘गतिसंज्ञकाः धातोः प्रागेव प्रयोक्तव्याः’ इति विधिः । अतः ‘पुटीकरोति’ इति रूपम् । नञ् तु च्च्यन्तात् एव अन्वयं प्राप्नोति, न तु ‘करोति’मात्रात् । अतः “पुटी न

करोति’ इति प्रयोगः असाधुः । ०९. शास्त्रीमहोदयः अद्य अस्माकं गृहम् आगच्छति ।

‘शास्त्रीमहोदयः’ इति अपशब्दः । ‘शास्त्रिमहोदयः’ इति

प्रयोक्तव्यम् । समासे पूर्वपदस्य विभक्तिश्रवणं न । (अलौकिकविग्रहोत्तरम् उभयोः अपि पदयोः विभक्तेः लोपः भवति । ततः समस्तात् पदात् सुबुत्पत्तिः । तस्मात् उत्तरपदोत्तरम् एव विभक्तिः दृश्यते, न तु पूर्वपदस्य अनन्तरम्) पूर्वपदं *प्रातिपदिकरूपेण तिष्ठति । “शास्त्री’ इति प्रथमान्तं रूपम् । तस्य प्रातिपदिकं ‘शास्त्रिन्’ इति । पूर्वपदस्थस्य प्रातिपदिकान्तस्य नकारस्य लोपः भवति ‘नलोपः प्रातिपदिकान्तस्य’ (८.२.७) इति सूत्रेण । तस्मात् ‘शास्त्रिमहोदयः’ इति रूपम् । इन्नन्तस्य नकारान्तस्य च प्रथमान्ते दीर्घः श्रूयते इत्यतः केचन समासप्रक्रियाम् अज्ञात्वा समस्तपदस्य पूर्वपदस्यापि दीर्घं कुर्वन्ति भ्रान्त्या । येषां विषये भ्रान्तिः भवितुम् अर्हति तादृशाः केचन शब्दाः - शर्ममहोदयः, वर्ममहोदयः, द्विवेदिवर्यः, घनपाठिमहोदयः, वाजपेयि

वर्यः इत्यादयः । १०. महात्मागान्धिवर्येण श्रेष्ठः आचारः दर्शितः ।

‘महात्मगान्धिवर्येण’ इति प्रयोक्तव्यम् । महात्मशब्दः नकारान्तः । पूर्वपदत्वेन तस्य प्रयोगे नकारलोपे च ‘महात्मगान्धिवर्यः’ इति रूपम् । यदि व्यस्तप्रयोगः इष्यते तर्हि

‘महात्मना गान्धिवर्येण’ इति प्रयोगः करणीयः । ११. रमाकान्तः शास्त्रीपरीक्षाम् उत्तीर्णः अस्ति ।। * नामपदानां मूलप्रकृतिः ‘प्रातिपदिकम्’ इति उच्यते । यत् प्रतिपदं भवति तत् उच्यते

प्रातिपदिकम् इति ।

1900

शुद्धिकौमुदी ‘शास्त्रीपरीक्षाम्’ इति अपशब्दः । ‘शास्त्रिपरीक्षाम्’ इति प्रयोक्तव्यम् । उपाधेः नाम ‘शास्त्री’ इति । स च इन्नन्तः । समासे पूर्वपदस्य नकारलोपे ‘शास्त्रिपरीक्षा’ इति । नलोपस्तु सर्वेषु अपि समासेषु भवति एव । शास्त्री इति परीक्षा शास्त्रिपरिक्षा इति सम्भावनापूर्वपदः

कर्मधारयः । १२. संस्कृतस्य केवलेन महिमावर्णनेन न किमपि प्रयोजनम् ।

‘महिमावर्णनम्’ इति अपशब्दः । ‘महिमवर्णनम्’ इति प्रयोक्तव्यम् । महिमशब्दः नकारान्तः । “महिमन्’ इति प्रातिपदिकम् । समासे पूर्वपदस्थस्य नकारस्य लोपे (सूत्रं - पूर्वोदाहरणे दत्तम्) ‘महिमवर्णनम्’ इति रूपम् । केचन भ्रान्त्या महिमशब्दम् आकारान्तं मत्त्वा ‘महिमावर्णनम्’ इति प्रयुञ्जते । महिमशब्दः नकारान्तः पुल्लिङ्गः, न तु आकारान्तः । एतत्सदृशः ‘सीमन्’ इति कश्चन शब्दः अपि अस्ति । सः नकारान्तः स्त्रीलिङ्गः । तस्य तु आकारान्तता अपि अस्ति । अतः ‘सीमा सीमानौ सीमानः’ इति, ‘सीमा सीमे सीमाः’ इति च रूपाणि तस्य ।

महिमशब्दः न आकरान्ततायुक्तः । १३. अद्य संस्कृतछात्राः नाटकं प्रदर्शयन्ति ।

“संस्कृतछात्राः’ इति अपशब्दः । ‘संस्कृतच्छात्राः’ इति प्रयोक्तव्यम् । हस्वस्य छकारे परे तुगागमः नित्यः ‘छे च’ (६.१.७३) इति सूत्रेण । तुगागमे कृते श्चुत्वे ‘संस्कृतच्छात्रः’ इति रूपम् । दीर्घात् पदान्तात् छे परे तुगागमः विकल्पेन । ह्रस्वस्य छे परे तु तुक् नित्यः एव । अतः ‘च’काररहितं रूपम् असाधु । एवमेव प्रियच्छात्राः, अद्यतनच्छात्राः, विद्यालयच्छात्राः, पुरुष च्छात्रावासः, श्वेतच्छत्रम् इत्यादिषु अपि तुगागमः । तत्र तुगागमरहितं

रूपं नास्ति । १४. सीतायाः पतये मया धनं दत्तम् ।

‘पतये’ इति अपशब्दः । ‘पत्ये’ इति प्रयोक्तव्यम् ।

समासः

191

पतिशब्दः हरिशब्दात् अन्यः । हरिशब्दः ‘घि’संज्ञकः । अतः हरिणा हरये इत्यादीनि रूपाणि भवन्ति । पतिशब्दस्य समासे एव घिसंज्ञा, अन्यत्र न । घिसंज्ञाभावात् पतये इति रूपं न शुद्धम् । ‘पत्ये’

इत्येव शुद्धम् । १५. सीतापत्ये मया धनं दातव्यम् ।

‘सीतापत्ये’ इति अपशब्दः । “सीतापतये’ इति प्रयोक्तव्यम् ।

समासे पतिशब्दः घिसंज्ञकः । ‘पतिः समास एव’ (१.४.८) इति सूत्रेण समासे ‘घेर्डिति (७.३.१११) इति सूत्रेण गुणः । तस्मात् ‘सीतापतये’ इति रूपम् ।। सीतापतिशब्दः (पत्यन्तः शब्दः) हरिशब्दवत् । केवलः पतिशब्दः

घिसंज्ञानिमित्तकानि कार्याणि न प्राप्नोति । १६. त्रिविक्रमः मध्यरात्रौ श्मशानभूमौ सञ्चरति स्म ।

‘मध्यरात्रौ’ इति अपशब्दः । ‘मध्यरात्रे’ इति प्रयोक्तव्यम् । केवलः रात्रिशब्दः इकारान्तः । मध्यशब्दः एकदेशवाची । अतः मध्यशब्दात् परो यो रात्रिशब्दः तस्मात् अच्प्रत्ययः ‘अहःसर्वैक देशसङ्ख्यातपुण्याच्च रात्रेः’ (५.४.८७) इति सूत्रेण । तन्नाम अकारान्तता । ‘रात्राहाहाः पुंसि’ इति पुंस्त्वं च । अतः ‘मध्यरात्रः’ इति साधु रूपम् । एवमेव अर्धरात्रः, पूर्वरात्रः, अपररात्रः, सर्वरात्रः, संख्यातरात्रः,

पुण्यरात्रः इत्यादयः अपि । १७. नवरात्र्युत्सवदिने सर्वे आनन्दम् अनुभवन्ति ।

‘नवरात्र्युत्सवदिने’ इति अपशब्दः । ‘नवरात्रोत्सवदिने’ इति प्रयोक्तव्यम् । नवानां रात्रीणां समाहारः नवरात्रम् । संख्यया रात्रिशब्दस्य समासे ‘अहःसर्वैकदेश…’ इति सूत्रेण अच्प्रत्ययः । तन्नाम अकारान्तता । ‘सङ्घयापूर्वं रात्रं क्लीबम्’ इति . लिङ्गानुशासनसूत्रेण सङ्ख्यापूर्वस्य रात्रिशब्दस्य नपुंसकता ।

एवमेव एकरात्रं, द्विरात्रं, त्रिरात्रम् इत्यादिषु सर्वेषु संख्यापूर्वेषु ज्ञेयम् । १८. अहश्च रात्रिश्च इति विग्रहे अहोरात्रम् इति रूपम् ।

‘अहोरात्रः इति रूपम्’ इति प्रयोक्तव्यम् ।

अहोरात्रशब्दस्य ‘अहश्च रात्रिश्च’ इति विग्रहस्तु युक्तः एव । द्वन्द्व

192

शुद्धिकौमुदी समासः अत्र । द्वन्द्वे कृते ‘रात्राहाहाः पुंसि’ (२.४.२९) इति सूत्रेण रात्रिशब्दः पुंस्त्वं प्राप्नोति । तस्मात् ‘अहोरात्रः’ इति रूपम् । ‘बालकः अहोरात्रं पठति’ इत्यत्र तु अहोरात्रशब्दोत्तरं यत् ‘अम्’ दृश्यते तत् न नपुंसकगतम्, अपि तु द्वितीयाविभक्तिगतम् । तत्

नंपुसकत्वभ्रमं जनयति इति तु सत्यम् । १९. राष्ट्रनायकः गान्धिवर्यः पथप्रदर्शकः आसीत् ।

‘पथिप्रदर्शकः’ इति रूपं वरम् । ‘मार्गप्रदर्शकः’ इति तु युक्तः प्रयोगः । ‘पथिन्’ इति नान्तः शब्दः सः । पूर्वपदत्वेन तस्य प्रयोगे नकारलोपे ‘पथिप्रदर्शकः’ इति रूपम् । ‘पथप्रदर्शकः’ इति यदि प्रामाणिकः प्रयोगः स्यात् तर्हि सः कथञ्चित् समर्थयितुम् अपि शक्यः । मार्गार्थे एव अकारान्तः ‘पथ’शब्दः कश्चन अस्ति । ‘वाटः पथश्च मार्गश्च’ इति त्रिकाण्डकोषः । तं पूर्वपदत्वेन उपयुज्य ‘पथप्रदर्शकः’ इत्यपि समर्थयितुं शक्यम् । एवमेव ‘पथसञ्चलनम्’ इत्यत्रापि । ‘पथिसञ्चलनम्’ इति प्रयोगः प्रशस्तः । प्रामाणिके प्रयोगे सत्येव ‘पथसञ्चलनम्’ इत्येतस्य समर्थन

चिन्तयितुं शक्येत । २०. भवता महदुपकारः अनुष्ठितः ।

‘महोपकारः’ इति, ‘महान् उपकारः’ इति वा प्रयोक्तव्यम् । ‘महदुपकारः’ इति अपशब्दः । महान् उपकारः इति विग्रहः । कर्मधारये बहुव्रीहौ च महतः तकारस्य

आत्वं विहितम् - ‘आन्महतः समानाधिकरणजातीययोः’ (६.३.४६) इति सूत्रेण । आत्वे महा + उपकारः इति सिद्धे गुणेन ‘महोपकारः’ इति रूपं सिद्धयति । यदि समासः न इष्यते तर्हि ‘महान् उपकारः’ इति रूपम् । समानाधिकरणसमासे सति पूर्वपदस्थस्य महतः तकारस्य आत्वं नित्यम् । अतः ‘महदुपकारः’ इति न भवति । महतः (महापुरुषस्य) उपकारः इति षष्ठीतत्पुरुषः यदि क्रियेत तर्हि तु ‘महदुपकारः’ इत्येव । तत्र महतः न आत्वं सामानाधिकरण्यस्य अभावात् । स च अर्थः अत्र न अभिप्रेतः । अतः महोपकारः इत्येव रूपम् ।समासः

193

एवमेव महानन्दः इत्यादिषु अपि । २१. इदं महदाश्चर्यम् ।

‘महदाश्चर्यम्’ इति प्रयोगः न दोषाय । “महाश्चर्यम्’ इत्यपि प्रयोगः

भवितुम् अर्हति । ‘महत् आश्चर्यम्’ इति व्यस्तप्रयोगः । सन्धौ कृते ‘महदाश्चर्यम्’ इति रूपम् । यदि समासः इष्यते तर्हि महतः तकारस्य आत्वं स्यादेव । तदा तु ‘महाश्चर्यम्’ इति रूपम् । आश्चर्यशब्दस्य नपुंसकलिङ्गत्वात् महच्छब्दस्यापि नपुंसके ‘महत् ’ इति रूपम् । महोपकारः इत्यत्र तु

उपकारशब्दस्य पुंस्त्वात् महतः पुंस्त्वे महान् इति रूपम् । २२. देवशर्मराज्ञः शासनम् अत्युत्तमम् आसीत् ।

‘देवशर्मराज्ञः’ इति अपशब्दः । “देवशर्मराजस्य’ इति प्रयोक्तव्यम् । केवलस्य राजशब्दस्य षष्ठ्यन्तं रूपं ‘राज्ञः’ इति । किन्तु तत्पुरुषे राजशब्दः यदा अन्ते भवति तदा तस्य ‘टच’प्रत्ययः । ‘राजाहः सखिभ्यष्टच्’ (५.४.९१) इति सूत्रेण । तेन अकारान्तता । ‘देवशर्मा इति राजा’ इत्यत्र कर्मधारयः । स च तत्पुरुषभेदः । अतः अत्रापि टचप्रत्ययकारणतः अकारान्तता । तेन ‘देवशर्मराजः’ इति रूपम् । तस्य षष्ठीविभक्त्यन्तं रूपं - ‘देवशर्मराजस्य’ इति । एतादृशानि एव अन्यानि उदाहरणानि यथा -

अशुद्धम् (x) | | शुद्धम् () सामन्तराजानः

सामन्तराजाः मोगलराजानः

मोगलराजाः अस्मद्राज्ञः

अस्मद्राजस्य अवन्तिराजानम् अवन्तिराजम् स्वराज्ञः

स्वराजस्य रघुनामकराजानम् रघुनामकराजम् २३. वत्स ! पाणिपादान् प्रक्षाल्य भोजनार्थम् आगच्छ ।

‘पाणिपादान्’ इति अपशब्दः । ‘पाणिपादम्’ इति प्रयोक्तव्यम् । अत्र पाण्योः पादयोः च समासः इष्यते । पाणी च पादौ च

194

शुद्धिकौमुदी प्राण्यङ्गानि । (मानवानाम् अङ्गानि । मानवाः अपि प्राणिनः । प्राणाः येषां सन्ति ते प्राणिनः ।) प्राण्यङ्गानां द्वन्द्वः यदा इष्यते तदा समाहारद्वन्द्वः एव करणीयः । एकवद्भावस्य विधायकं सूत्रम् अस्ति - ‘द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्’ (२.४.२) इति । अतः पाण्योः पादयोः च समाहारः ‘पाणिपादम्’ । अत्र इतरेतरद्वन्द्वः निषिद्धः ।

एष. यमाहारः “नित्यसमाहारः’ इति उच्यते । २४. पितापुत्रौ नगरं गच्छतः ।

“पितापुत्रौ’ इति रूपं न दोषय । पिता च पुत्रः च इति विग्रहः । पूर्वपदस्य प्रातिपदिकत्वे ‘पितृपुत्रौ’ इति स्यात् । किन्तु ‘आनङ् ऋतो द्वन्द्वे’ (६.३.२५) इति सूत्रेण पुत्रशब्दे परे अपि आनङः विधानात् ‘पितापुत्रौ’ इति रूपम् । पुत्रशब्दे परे एव आनङ्, पितामहादिषु परेषु न । अतः “पितृपितामहौ’ .इत्यादीनि आनहितानि रूपाणि ।

‘माता च पुत्री च’ इति विग्रहे पूर्वपदस्य आनङि ‘मातापुत्र्यौ’ इति रूपम् । ‘प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्’ इति

परिभाषया पुत्रशब्देन पुत्रीशब्दः अपि गृह्यते । तस्मात् आनङ् । २५. पिताकार्यकर्तारौ इह न आगतौ ।

“पिताकार्यकर्तारौ’ इति अपशब्दः । “पितृकार्यकर्तारौ’ इति प्रयोक्तव्यम् । पिता च कार्यकर्ता च इति विग्रहः । यद्यपि उभौ शब्दौ ऋकारान्तौ, तथापि न अत्र तयोः विद्यासम्बन्धः योनिसम्बन्धः वा । ‘आनङ् ऋतो….’ इति सूत्रे न केवलम् ऋकारान्तता उक्ता, अपि तु ‘विद्या योनिसम्बन्धः अपि स्यात्’ इति उक्तम् । अतः तादृशस्य सम्बन्धस्य

अभावात् न आनङ् । २६. कार्यकर्तृभिः लघुलघुकार्येषु अपि अवधानं दातव्यम् ।

“लघुषु अपि कार्येषु’ इति वाक्यविन्यासः वरम् । ‘लघूनि यानि कार्याणि भवन्ति तेषु’ इति वक्तुम् इच्छति वाक्यप्रयोक्ता | कार्यशब्दस्य बहुवचनत्वे तद्विशेषणस्य लघुशब्दस्यापि बहुत्वं स्यात् । तस्मात् ‘लघुषु कार्येषु’ इति वाक्यविन्यासः करणीयः । । अथवा लघु-कार्ययोः यदि समासः इष्यते तर्हि पूर्वपदस्य प्रातिपदिकत्वे

समासः

19

‘लघुकार्येषु’ इति प्रयोगः । प्रयोक्त्रा तु लघुशब्दः द्विः उच्चारितः । द्विः उच्चारणमात्रेण परमलघुत्वं तु न सिध्यति । अन्यच्च, यदा द्विः उच्चारणं भवति तदा एकशेषस्य प्रसक्तिः निवारयितुं न शक्या । अतः एकस्यैव अवशेषः भवितुम् अर्हति । (लघूनि च लघूनि च लघूनि इति एकशेषः, ‘रामाः’ इत्यादिषु यथा तथा ।) यदि द्विरुच्चारणे एव प्रीतिः तर्हि व्यस्तप्रयोगः क्रियताम् - ‘लघुषु लघुषु कार्येषु’ इति । एवमेव -

१. स्वस्वकार्याणि २. दीर्घदीर्घवाक्येषु ३. सहस्रसहस्त्रजनाः ४. कोटिकोटिरूप्यकाणि ५. भिन्नभिन्नकार्यक्रमाः ६. शतशतनमस्काराः ७. बहुबहुसन्तोषः८. शतशतसमस्याः

९. महामहानगरेषु १०. बृहबृहत्पात्रेषु इत्यादयः ये प्रयोगाः श्रूयन्ते तेषु अपि द्विरुक्तेः परिहारः वरम् । २७. कार्यक्रमे संस्कृतज्ञाः आसन् । तदितराः अपि आसन् ।

‘तदितराः’ इति अपशब्दः । ‘तदितरे’ इति प्रयोक्तव्यम् । इतरशब्दः सर्वनामसंज्ञायुक्तः । तस्य बहुवचनरूपम् ‘इतरे’ इति, न तु ‘इतराः’ इति । तत्पुरुषसमासे अपि तस्य बहुवचनरूपम् ‘इतरे’ इति, न तु ‘इतराः’ इति । तत्पुरुषसमासे अपि तस्य सर्वनामता तु न

अपगच्छति । अतः ‘तदितरे’ इति रूपम् । एवमेव तदितरस्मै, तदितरस्मात्, तदितरेषाम् इत्यादीनि अपि रूपाणि । “सर्वनामसम्बद्धानि कार्याणि अवश्यं करणीयानि अत्र’ इति तु सारः। ‘इतरशब्दः कथं समस्यते ?’ इति कश्चन प्रश्नः अत्र उदेति । ‘सः

इतरः यस्मात् सः’ इति बहुव्रीह्याश्रयणात् शक्यते इति दुर्घटवृत्ति १. ‘स्वीयानि कार्याणि’ इति व्यस्तः प्रयोगः शोभते । ३. ‘सहस्राधिकाः जनाः’ इति प्रयोगः भवितुम् अर्हति । ५. “विभिन्नाः कार्यक्रमाः’ इति प्रयोगः वरं स्यात् । ७. ‘महान् सन्तोषः’ इति प्रयोगः वरम् । ‘बहुसन्तोषः’ इति तु निस्सारः प्रयोगः ।

196

शुद्धिकौमुदी कारस्य कथनम् । (एतस्य अङ्गीकारे तु सर्वनामता अपगच्छति) ‘सुप्सुपा’ इति समासः इति कथनं तु युक्ततरम् इति भाति । इतरशब्देन समासस्तु बहुधा दृश्यते । “सितेतरस्य’ इति कुमारसम्भवे कालिदासः । ‘संस्कृतज्ञेतरेषाम्’ इति चारुदेवशास्त्रिणः शब्दाप शब्दविवेके प्रकीर्णप्रकरणे । ‘तदितरः’ इति कौमुद्याः तत्त्वबोधिनी

टीकायाम् । अन्यत्रापि एतादृशाः प्रयोगाः लभ्यन्ते बहुधा । २८. एतत् सविवरं ज्ञातुम् इच्छामि अहम् ।

‘सविवरणम्’ इति, “विस्तरेण’ इति वा वक्तव्यम् । विवरशब्दस्य अर्थः रन्ध्रम् इति । अत्र तु विस्तरः विवरणं वा अपेक्ष्यते । विवरशब्देन नार्थः । अतः ‘सविवरणम्’ इति प्रयोक्तव्यम् । एतस्मिन् एव अर्थे “विस्तरेण’ इति प्रयोगः अपि वरम्

एव । २९. यथा कुम्भं करोति इति कुम्भकारः तथा गङ्गां धरतीति गङ्गाधरः ।

गङ्गाधरशब्दस्य ‘गङ्गां धरति’ इति विग्रहप्रदर्शनम् अयुक्तम् । तथा विग्रहे कुम्भकारः इतिवत् ‘गङ्गाधारः’ इति स्यात् । अतः धरतीति घरः (पचादित्वात् अच्) गङ्गायाः धरः गङ्गाधरः इति विग्रहः

प्रदर्शनीयः । ३०. तस्य कृषिकस्य गोविन्दः इति नामकः पुत्रः आसीत् ।

‘गोविन्दनामकः’ इति प्रयोक्तव्यम् । ‘गोविन्दः इति नाम यस्य सः’ इति विग्रहः । तदा ‘गोविन्दनामकः’ इति रूपं सिद्धयति । प्रकृतवाक्ये तु समासः न कृतः । अतः समासकृतस्य ‘कप्’प्रत्ययस्य प्राप्तिः असम्भवा । समासे कृते एव ‘शेषाद्विभाषा’ (५.४.१५४) इति सूत्रेण कप्प्रत्ययः विकल्पेन । कप्प्रत्यये ‘गोविन्दनामकः’ इति रूपम् । कप्प्रत्ययाभावे ‘गोविन्द नामा’ इति रूपम् । अत्र उभयत्रापि ‘नाम’ इत्यस्य अभिधानम्

अर्थः । ‘गोविन्दो नाम कश्चित् …’ इति प्रयोगान्तरम् अपि सम्भवति । तत्र नामशब्दः न अभिधानार्थकः । प्रसिद्ध्यर्थकम् अव्ययं तत् । ‘गोविन्दः इति प्रसिद्धः कश्चित्’ इति तस्य तात्पर्यं भवति । तस्मात् अयं निष्कर्षः - कप्प्रत्यये इष्टे ‘गोविन्दनामकः’ इति प्रयोगः

समासः

197

क्रियताम् । (समासः क्रियताम् इत्यर्थः ।) नामशब्दमात्रे इष्टे ‘गोविन्दो नाम’ इति व्यस्तप्रयोगः क्रियताम् । व्यस्तप्रयोगे “इति’शब्दः परिहियताम् । यदि ‘इति शब्दे प्रीतिः तर्हि व्यस्तप्रयोगं कृत्वा प्रसिद्ध

ख्यातादिपदं प्रयुज्यताम् । ‘नाम’शब्दः परिहियताम् । ३१. बालिका प्राप्तलेखनी सती सन्तुष्टा जाता ।

‘प्राप्तलेखनीका’ इति प्रयोक्तव्यम् । ‘प्राप्तलेखनी’ इति

अपशब्दः । ‘प्राप्ता लेखनी यया सा’ इति विग्रहे ‘नघृतश्च’ (५.४.१५३) इति सूत्रेण नित्यं कप्प्रत्ययः । तस्मात् ‘प्राप्तलेखनीका’ इति रूपम् । अन्ये केचन प्रयोगाः यथा -

• बहुवधूकं गृहम् (बह्वयः वध्वः यस्मिन् तत्)

• बहुकर्तृकं कार्यम् (बहवः कर्तारः यस्मिन् तत्)

• प्रोषितभर्तृका (प्रोषितः भर्ता यस्याः सा)

(प्रोषितः - परस्थलं गतः)

• देवमातृकः देशः (देवः पर्जन्यः मातेव यस्य)

• धृतघटीका (धृता घटी यया सा) ३२. क्रीतमालकः सः गृहं गतवान् ।

“क्रीतमालकः’ इति रूपं युक्तम् एव । क्रीता माला येन सः क्रीतमालः । ‘शेषाद्विभाषा’ (५.४.१५४) इति सूत्रेण विकल्पेन कप्प्रत्ययः । कप्प्रत्यये “क्रीतमालाकः’ इति रूपम् । तदभावे तु ‘क्रीतमालः’ इति । आपोऽन्यतरस्याम्’ (७.४.१५) इति सूत्रेण आकारस्य ह्रस्वः विकल्पेन । तदा ‘क्रीतमालकः’ इत्यपि रूपम् । एवं क्रीतमालकः, क्रीतमालाकः, क्रीतमालः इति त्रीणि रूपाणि । एवमेव -

• अधीतविद्यः / अधीतविद्यकः / अधीतविद्याकः

•बहुशाखः / बहुशाखकः / बहुशाखाकः

•श्रितशय्यः / श्रितशय्यकः/श्रितशय्याकः

• पोषितलतः / पोषितलतकः / पोषितलताक इत्यादयः अपि । ३३. सर्वे कार्यकर्तारः सोत्साहेन कार्यं कृतवन्तः ।

‘सोत्साहेन’ इति प्रयोगः अत्र असाधुः । ‘सोत्साहम्’ इति द्वितीयान्तं

198

शुद्धिकौमुदी

पदम्, ‘उत्साहेन’ इति तृतीयान्तं पदं वा प्रयोक्तव्यम् । उत्साहेन सहितः सोत्साहः । अयं धर्मिपरः । धर्मिपरः शब्दः तृतीयान्तेन क्रियायाम् अन्वयं न प्राप्नोति । प्रकृतवाक्ये क्रियायाम् अन्वयः इष्यते । अतः ‘सोत्साहम्’ इति प्रयोक्तव्यम् । क्रियैकदेशे फले तस्य अभेदेन अन्वयः भवति । यदा धर्मपरता तदा तृतीयान्तेन क्रियायाम अन्वयः । अतः “उत्साहेन’ इत्यपि प्रयोगः । एवमेव आनन्देन, दुःखेन, सरलतया, सम्यक्तया

इत्यादयः अपि । ३४. दशमकक्ष्योत्तीर्णः सः उद्योगान्वेषणं करोति ।

दशमकक्ष्याम् उत्तीर्णः इति वक्तव्यम् । दशमकक्ष्योत्तीर्णः इति समासः अस्थाने । ‘दशमकक्ष्याम् उत्तीर्णः’ इत्यत्र द्वितीयातत्पुरुषसमासः भवितुं न अर्हति । यतः उत्तीर्णपदेन द्वितीयातत्पुरुषसमासः केनापि सूत्रेण न विहितः । एवं विधायकसूत्रस्य अभावात् उत्तीर्णपदं द्वितीयान्तेन न

समस्यते । अतः व्यस्तप्रयोगः एव शरणम् । ३५. दशमकक्ष्यायाः उत्तीर्णानन्तरं सः अन्यत्र गतः ।

‘उत्तीर्णानन्तरम्’ इति प्रयोगः असाधुः । ‘उत्तरणानन्तरम्’ इति, ‘..कक्ष्याम् उत्तीर्य’ इति वा प्रयोक्तव्यम् । एतस्मिन् वाक्ये उत्तरणं गमनं चेति क्रियाद्वयम् अस्ति । उत्तरणं पूर्वक्रिया । गमनं च उत्तरक्रिया । एवं पौर्वापर्यभावसद्भावात् उदुपसर्गपूर्वकात् तृधातोः क्त्वाप्रत्यये ल्यपि ‘उत्तीर्य’ इति रूपम् । यदि अनन्तरशब्दस्य प्रयोगः एव इष्यते तर्हि तस्मात् पूर्वम् उत्तरणम् उत्तीर्णता इत्यादयः भाववाचकाः शब्दाः प्रयोक्तव्याः । उत्तीर्णः इति धर्मी । धर्मिणः क्रियायाः च पौर्वापर्यभावः न घटते । क्रिययोः एव पौर्वापर्यभावः घटते । अतः पूर्वक्रियां द्योतयितुं भाववाची शब्दः एव

प्रयोक्तव्यः । ३६. उदारचेतः सः दीनानां साहाय्यं करोति ।

‘उदारचेतः’ इति अपशब्दः । ‘उदारचेताः’ इति, ‘उदारचेतस्कः’ इति वा प्रयोक्तव्यम् ।

चेतश्शब्दः नपुंसकः सकारान्तश्च । ‘उदारचेताः’ इत्यत्र उदारं चेतः

समासः

यस्य सः इति विग्रहः । बहुव्रीहिः अत्र । बहुव्रीहौ अन्यपदप्राधान्यम् । अतः अन्यपदस्य यत् लिङ्गं तदेव लिङ्गं भवति समस्तपदस्यापि । किन्तु उत्तरपदस्य चेतश्शब्दस्य या सकारान्तता भवति सा तु पुंसि अपि अनुवर्तते एव । सकारान्तपुंलिङ्गस्य प्रथमैकवचनान्तं रूपम् ‘उदारचेताः’ इति । तत्र विकल्पेन ‘कप्’प्रत्ययः अपि अस्ति ‘शेषात् विभाषा’ (५.४.१५४) इति सूत्रेण । कपि ‘उदारचेतस्कः’ इति

रूपम् । कपः अभावे तु ‘उदारचेताः’ इति । ३७. बहुदिनारभ्य एतत् एवमेव प्रचलति ।

‘बहुदिनारभ्य’ इति असाधु । ‘बहुभ्यः दिनेभ्यः आरभ्य’ इति प्रयोक्तव्यम् । ‘आरभ्य’ इत्येतस्य योगे पञ्चमी प्रभृत्यर्थकत्वात् । पञ्चम्यन्तेन

समासः तु न विधायकसूत्राभावात् । अतः ‘बहुभ्यः दिनेभ्यः आरभ्य’ इति व्यस्तप्रयोगः एव करणीयः ।। ‘बहुदिनात् आरभ्य’ इति प्रयोगः अपि दोषाय । दिनानां बहुत्वं खलु इष्यते ? बहुषु बहुवचनम् । अतः दिनशब्दोत्तरं बहुवचनप्रत्ययः योजनीयः । ततः ‘बहुदिनेभ्यः’ इति वक्तव्यम् । यदि प्रयोगस्य

प्रशस्तता इष्यते तर्हि ‘बहुभ्यः दिनेभ्यः’ इति प्रयोगः करणीयः । ३८. पतिपत्नी नगरम् अगच्छताम् ।

पतिपत्नी इति अपशब्दः । पतिपत्न्यौ इति, पतिः पत्नी च इति वा प्रयोक्तव्यम् । पतिः च पत्नी च पतिपल्यौ इति द्वन्द्वसमासः । द्वयोः सत्त्वात् द्विवचनान्तः स्यात् ‘पतिपत्नी’शब्दः । द्विवचने च ‘पतिपल्यौ’ इति

रूपम् । व्यस्तप्रयोगे तु ‘पतिः पत्नी च’ इति प्रयोगः । ३९. पतिपल्यौ गृहं प्रत्यागतवन्तौ ।

‘प्रत्यागतवत्यौ’ इति प्रयोक्तव्यम् । पतिपल्यौ इत्यत्र द्वन्द्वसमासः । ‘परवल्लिङ्ग द्वन्द्वतत्पुरुषयोः’ (२.४.२३) इति सूत्रेण परवल्लिङ्गता पतिपत्नीशब्दस्य । अतः तस्य ईकारान्तस्त्रीलिङ्गता सिद्धा । तस्मात् तिङन्तस्थानिकं भूतकृदन्तान्तं पदं स्त्रीलिङ्गे एव स्यात्, न तु पुंलिने । अतः ‘प्रत्यागतवत्यौ’ इति स्त्रीलिङ्गप्रयोगः एव साधुः ।

2010

शुद्धिकौमुदी

‘पतिः पत्नी च’ इति व्यस्तप्रयोगे कृते तु पुंलिङ्गरूपस्यापि साधुता । ४०. अहं व्याख्यातारूपेण कार्यं करोमि ।

‘व्याख्यातारूपेण’ इति प्रयोगः दोषाय । ‘व्याख्यातृरूपेण’ इति

प्रयोक्तव्यम् । व्याख्यातृशब्दः अत्र समासस्य पूर्वपदम् अस्ति । पूर्वपदस्य प्रातिपदिकरूपेण स्थितिः भवति समासे । “व्याख्याता’ इत्येतत् प्रथमान्तं पदम् । तस्य प्रातिपदिकं ‘व्याख्यातृ’ इति । अतः

‘व्याख्यातृरूपेण’ इति प्रयोगः शुद्धः । ४१. महामना मालवीयस्य कार्यम् असाधारणम् ।

‘महामनसः’ इति, ‘महामनोमालवीयस्य’ इति वा प्रयोक्तव्यम् । महत् मनः यस्य सः महामनाः । सकारान्तः पुंलिङ्गः शब्दः सः ‘मालवीयस्य’ इति पदस्य विशेषणम् । ‘मालवीयस्य’ इति षष्ट्यन्तं पदम् । तस्मात् ‘महामनसः’ इति रूपम् । (कप्प्रत्ययोऽपि अत्र कर्तुं .

शक्यः । तदा तु अकारान्तता । ‘महामनस्कस्य’ इति रूपम् । यदि समासः इष्यते तर्हि ‘महामनोमालवीयस्य’ इति रूपं स्यात् । सकारान्तः महामनश्शब्दः प्रातिपदिकरूपेण तिष्ठति । सस्य रुत्वे

हश्परत्वात् उत्वे गुणे च ‘महामनोमालवीयः’ इति रूपम् । ४२. रमेशः मध्येमार्ग / मार्गमध्ये मिलितः ।

‘मध्येमार्गम्’ ‘मार्गमध्ये’ इति उभयम् अपि साधु ।। ‘मध्येमार्गम्’ इत्यत्र अव्ययीभावसमासः “पारे मध्ये षष्ट्या वा’ (२.१.१८) इति सूत्रेण । (एदन्तत्वं तु निपातनात्) अव्ययीभावस्य

प्राप्तिः विकल्पेन । तदभावे षष्ठीसमासः । मार्गस्य मध्ये मार्गमध्ये । ४३. वत्स ! अलं त्वरया । उदरपूर्ण भोजनं कुरु।

‘उदरपूर्णम्’ इति अपशब्दः । ‘पूर्णोदरम्’ इति प्रयोक्तव्यम् । पूर्णशब्दः विशेषणम् । कर्मधारयसमासे विशेषणस्य पूर्वप्रयोगः ‘विशेषणं विशेष्येण बहुलम्’ (२.१.५७) इति सूत्रेण । अतः . ‘पूर्णम् उदरं यस्मिन् कर्मणि यथा तथा’ इति विग्रहे ‘पूर्णोदरम्’ इति

सिद्धम् । क्रियाविशेषणं तत् । ४४. सा ह्यः पितगृहं गतवती । ।

‘मातगृहं गतवती’ इति युक्तम् । ‘जनकस्य गृहं गतवती’ इति वा

समासः

201

वक्तव्यम् । पितरः नाम पितृदेवताः अपि । ऊर्ध्वलोके निवासः तेषां पितॄणाम् । यदा समासः क्रियते तदा “पितृ’शब्दस्य पितृदेवताव्यञ्जकत्वं भवति प्रायः । पितृशब्दघटिताः समासाः प्रायः तादृशमेव अर्थम् अव गमयन्ति । तस्मात् ‘पितृगृहम्’ इति समासस्य अकरणम् एव वरम् । ‘जनकस्य गृहं गतवती’ इति प्रयोगे तु न अन्यार्थस्य भानम् ।। मातुः गृहं ‘मातृगृहम्’ । अत्र समासे न अन्यार्थस्य भानम् । अतः

‘मातृगृहम्’ इति समस्तपदस्य प्रयोगः अपि भवितुम् अर्हति । ४५. सः अर्शव्याधिना ग्रस्तः अस्ति ।

‘अर्शव्याधिना’ इति अशुद्धम् । ‘अर्शोव्याधिना’ इति प्रयोक्तव्यम् । समासे पूर्वपदत्वेन स्थितः अर्शश्शब्दः रुत्वोत्वादिकं गुणं च प्राप्नोति । तस्मात् ‘अर्शोव्याधिना’ इति रूपम् । अर्शश्शब्दः सकारान्तः, न तु

अकारान्तः । ४६. अत्र उपस्थितस्य प्रत्येकस्यापि जनस्य परिचयः मम नास्ति ।

‘प्रत्येकस्य’ इति अपशब्दः । “एकैकस्य’ इति प्रयोक्तव्यम् । एकम् एकं प्रति प्रत्येकम् । अव्ययीभावसमासः अत्र । तस्मात् ‘प्रत्येक शब्दः अपि अव्ययम् । ‘प्रत्येकस्य’ इति रूपं तस्य नास्ति । एकशब्दस्य वीप्सायां द्विर्भावे एकैकशब्दस्य सिद्धिः । स च शब्दः अकारान्तः विशेषणं च । तस्य षष्ठ्यन्तं रूपम् ‘एकैकस्य’ इति ।

‘प्रत्येकं जनस्य’ इत्यपि प्रयोगः सम्भवति । ४७. पूर्वं प्रत्येकस्मिन् गृहे जनाः संस्कृतं जानन्ति स्म ।

‘प्रत्येकस्मिन् गृहे’ इति प्रयोगः न दोषाय । एकम् एकं प्रति प्रत्येकम् । अव्ययीभावसमासः अत्र । ‘अव्ययीभावश्च’ (१.१.४१) इति सूत्रेण अव्ययत्वम् । प्रत्येकशब्दः अकारान्तः इत्यतः ‘नाव्ययीभावादतोऽम् त्वपञ्चम्याः (२.४.९३) इति सूत्रेण अमादेशः । ‘अपञ्चम्याः’ इति सूत्रे उक्तत्वात् पञ्चम्यां तु ‘प्रत्येकस्मात्’ इति रूपम् । ‘तृतीयासप्तम्योर्बहुलम्’ (२.४.८४) इति सूत्रेण बहुलम् अम्भावः । तस्मात् ‘प्रत्येकेन’ ‘प्रत्येकस्मिन्’ इति रूपद्वयं सिद्धम् । एवं तृतीयापञ्चामीसप्तम्यन्तानि रूपाणि सिद्धानि भवन्ति । प्रथमान्तं (अमन्तं) तु अस्ति एव । प्रथमान्तद्वितीयान्तयोः समान रूपम् ।

प्रत्ये

चतुर्थी

202

शुद्धिकौमुदी

कथनस्य एषः सारः- प्रथमायां द्वितीयायां च अमन्तं रूपम् । (पञ्चम्याः ऋते अन्यासु सर्वासु विभक्तिषु अपि) तृतीयायां, पञ्चम्यां, सप्तम्यां च तत्तद् विभक्त्यन्तरूपाणि अपि । तस्मात् एतत् उक्तं भवति - विभक्तिः

अमन्तं रूपम् तत्तविभक्त्यन्तं रूपम् प्रथमा

प्रत्येकम् द्वितीया - प्रत्येकम् तृतीया -

प्रत्येकेन प्रत्येकम् पञ्चमी

प्रत्येकस्मात् षष्ठी - प्रत्येकम् सप्तमी - प्रत्येकम्

प्रत्येकस्मिन् एवम् अव्ययीभावे सर्वेषाम् अपि अकारान्तानां पञ्चम्याः ऋते अन्यासु सर्वासु विभक्तिषु अमन्तं रूपम् । तृतीयायां, पञ्चम्यां, सप्तम्यां च तत्तद्विभक्त्यन्तं रूपम् अपि । चतुर्थ्यन्तं षष्ठयन्तं च रूपं तु नास्ति इति स्मरणीयम् । एतदत्र अवधेयम् - ‘प्रत्येकस्मिन् गृहे’ इत्यस्य स्थाने ‘प्रतिगृहे’ इत्येव प्रयोगः शक्यः । (गृहं गृहं प्रतिगृहम्) ‘प्रतिगृह’शब्दात् एव अपेक्षितार्थस्य सिद्धिः । तस्मात् ‘प्रत्येक शब्दः परिहर्तुम् एव शक्यः

एतादृशेषु प्रसङ्गेषु । ४८. कूपपतितः इत्यस्य ‘कूपे पतितः’ इति विग्रहः ।

‘कूपे पतितः’ इति विग्रहः अयुक्तः । ‘कूपं पतितः’ इति विग्रहः

वक्तव्यः । तत्पुरुषसमासे विधायकसूत्रानुगुणं विग्रहवाक्यम् उच्यते । द्वितीयातत्पुरुष विधायकं सूत्रं ‘द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः (२.१.२४) इति । तस्य तात्पर्यम् - ‘श्रितपतितादीनि पदानि द्वितीयान्तेन एव समस्यन्ते’

इति । तस्मात् ‘कूपं पतितः’ इत्येव विग्रहः । ४९. आचारनिपुणः इत्यत्र ‘आचारेण निपुणः’ ‘आचारे निपुणः’ इति

उभयथा अपि विग्रहः ।

आम् । ‘आचारेण निपुणः’ ‘आचारे निपुणः’ इति उभयथा अपिसमासः

203

विग्रहः सङ्गच्छते । तृतीयातत्पुरुषविधायके ‘पूर्वसदृश….’ (२.१.३१) इति सूत्रे निपुणशब्दः अपि अन्तर्भूतः । तस्मात् ‘आचारेण निपुणः’ इति तृतीयान्तपदोपेतं विग्रहवाक्यम् । शौण्डादिगणे अपि तस्य पाठः । तस्मात् ‘सप्तमी शौण्डैः’ (२.१.४०) इति सूत्रेण सप्तम्यन्तेन अपि

निपुणशब्दः समस्यते । अतः ‘आचारे निपुणः’ इत्यपि विग्रहवाक्यम् । ५०. एषः निरपराधी अस्ति ।

‘निरपराधी’ इति अयुक्तम् । ‘निरपराधः’ इति प्रयोगः युक्तः । निर्गताः अपराधाः यस्मात् सः निरपराधः । बहुव्रीहिसमासः अत्र ।

अकारान्तपुंलिङ्गत्वम् अपि । यः अपराधान् कृतवान् भवति सः ‘अपराधी’ भवति । अपराधाः सन्ति अस्य इति अपराधी । ‘अत इनिठनौ’ (५.२.११५) इति सूत्रेण इनिः । तस्मात् इन्नन्तता । किन्तु निरपराधशब्दः न इन्नन्तः । बहुव्रीहित्वात् तस्य । एवम् ‘अपराधी’ इन्नन्तः । “निरपराधः’ अकारान्तः। यदि इन्नन्तः एव इष्यते तर्हि नञ्तत्पुरुषः क्रियताम् । न अपराधी अनपराधी । ‘अनपराधी’ इत्येषः इन्नन्तः । ‘न विद्यते अपराधः यस्य सः’ इति विग्रहः उक्तः चेत् बहुव्रीहिः । ‘अनपराधः’ इति समस्तं पदम् । तदा अकारान्तता । तस्मात् ‘अनपराधः’ ‘अनपराधी’ इति उभौ अपि साधू । एकः अकारान्तः, अपरः इन्नन्तः ।

अपराधस्य अभावः निरपराधम् इति अव्ययीभावः । निरपराधम् अस्य अस्तीति निरपराधी इति विवरणं तु अगतिकगत्या । शिष्टप्रयोगे सत्येव स्थितस्य गतेः चिन्तनार्थं कष्टमार्गः कोऽपि एतादृशः आश्रीयते । सर्वत्र एतादृशं दुर्घटं व्याख्यानं शिष्टैः न सह्यते । तस्मात् तादृशं

व्याख्यानं सर्वत्र न करणीयम् । ५१. एषः अनपराधी / अनपराधः अस्ति ।

‘अनपराधी’ ‘अनपराधः’ इति उभौ अपि शुद्धौ एव । ‘अनपराधः’

इत्येषः प्रयोगः प्रशस्ततरः । ‘अनपराधी’ ‘अनपराधः’ इत्यनयोः उभयोः अपि विग्रहः पूर्वं दर्शितः

204

शुद्धिकौमुदी

एव । अनपराधी इत्यत्र आदौ तद्धितवृत्तिः आश्रिता, (अपराधः अस्य अस्ति इत्यत्र) ततः समासवृत्तिः आश्रिता । (न अपराधी इति ) एवं वृत्तिद्वयम्

आश्रितम् । अनपराधः इत्यत्र ‘न विद्यते अपराधः यस्य सः’ इति बहुव्रीहिः । एका एव वृत्तिः अत्र । वृत्तिद्वयस्य आश्रयणात् अपि एकस्याः एव वृत्तेः आश्रयणं लाघवाय खलु कल्पते ? वैयाकरणानां समयः अस्ति - ‘न कर्मधारयात् मत्वर्थीयः बहुव्रीहिश्चेत्तदर्थप्रतिपत्तिकरः’ इति । ‘यत्र बहुव्रीहिसमासात् एव इष्टसिद्धिः भवति तत्र कर्मधारयं कृत्वा पुनः मत्वर्थीयस्य प्रत्ययस्य योजनं न करणीयम्’ इति तस्य वाक्यस्य अर्थः । अतः एव उक्तम् - ‘अनपराधः’ एव प्रशस्ततरः इति । किन्तु पूर्वोक्तस्य समयस्य अनित्यत्वम् अङ्गीक्रियते इत्यतः ‘अनपराधी’ ‘अनपराधः’ इति उभयथा अपि प्रयोगः भवितुम् अर्हति इति उच्यते । एवमेव ‘देवतास्वरूपः / देवतास्वरूपी’ ‘दीर्घहस्तः / दीर्घहस्ती’

‘दीर्घकेशा / दीर्घकेशिनी’ इत्यादयः अपि । ५२. ‘तेन पठ्यते’ इत्येतत् कर्मवाच्यम् ।

‘कर्मवाच्यम्’ इति प्रयोगः अनुचितः । ‘कर्मणिप्रयोगः’ इति कथनं

युज्यते । एतस्मिन् प्रयोगे “तिङ्’प्रत्ययेन कर्म वाच्यं भवति । यत्र वाच्यं कर्म भवति तत् ‘वाच्यकर्मकं’ भवति, न तु ‘कर्मवाच्यम्’ । यदा समासः क्रियते तदा अर्थः मनसि स्थापनीयः एव । कस्य पदस्य प्राधान्यं, कस्य पूर्वनिपातः इत्यादिकम् अपि चिन्तनीयम् एव । यत्र कर्म वाच्यं भवति तत्र बहुव्रीहिः एव स्यात् । तदा तु वाच्यपदस्य प्राधान्यम्, उत्तरपदत्वेन प्रयोगो वा न स्यात् । ‘कर्मणिप्रयोगः’ इत्यत्र तु अलुक्समासः । कर्मार्थे यत्र ‘तिङ् प्रत्ययस्य प्रयोगः भवति सः कर्मणिप्रयोगः । एवमेव ‘कर्तरिप्रयोगः’ ‘भावेप्रयोगः’ इत्यादिषु अपि । कर्तृवाच्य-कर्मवाच्यादयः शब्दाः बहुधा उपयुज्यन्ते इति तु सत्यम् । किन्तु तेषां साधुत्वं कथमिति न ज्ञायते । असाधुशब्दस्य प्रयोगः

शास्त्रेण निषिद्धः ।

समासः

205

कर्मवाच्यादिपदानां साधुत्वकथनक्रमं यदि कश्चित् प्रदर्शयेत् तर्हि वयम्

अनुगृहीताः स्याम । ५३. औषधस्य सेवनानन्तरं ज्वरः अपगतः ।

‘औषधस्य सेवनानन्तरम्’ इति प्रयोगः न दोषाय । सेवनस्य अनन्तरं सेवनानन्तरम् । षष्ठीतत्पुरुषः अत्र । ‘औषधस्य’ इत्यत्र षष्ठी । षष्ठ्यन्तस्य तस्य समासघटकीभूतेन ‘सेवन पदेन अन्वयः । तन्नाम समस्तपदस्य एकदेशे अन्वयः । एषः एकदेशान्वयः निषिध्यते शास्त्रेण । तस्मात् कथम् अत्र साधुता इति प्रश्नः । यद्यपि एकदेशान्वये समासः निराक्रियते, तथापि नित्यसापेक्षस्थले तु सः अङ्गीक्रियते । ‘सेवनम्’ इति पदं यदा श्रूयते तदा ‘कस्य सेवनम् ?’ इति प्रश्नः उदेति एव । एषा एव नित्यसापेक्षता नाम । एतादृशे स्थले समासः अङ्गीक्रियते । ‘देवदत्तस्य गुरुकुलम्’ इति प्राचीनम् उदाहरणम् । गुरुशब्दश्रवणात् ‘कस्य गुरुः ?’ इति जिज्ञासा उदेति एव । अतः अत्र नित्यसापेक्षता । तस्मात् देवदत्तपदस्य गुरुपदे अन्वयः अङ्गीकृतः । एतद्विषये भर्तृहरिः वदति -

सम्बन्धिशब्दः सापेक्षः नित्यं सर्वः समस्यते ।

वाक्यवत्सव्यपेक्षा सा वृत्तावपि न हीयते ।। इति । अतः एतादृशः एकदेशान्वयः शास्त्रकारैः अनुमतः एव । तस्मात् -

० पत्रिकायाः पठनानन्तरम् ० गीतस्य श्रवणानन्तरम् ० वाक्यस्य उच्चारणानन्तरम् ० भवतः आगमनानन्तरम्

० अर्चकस्य पूजानन्तरम् इत्यादयः सर्वे प्रयोगाः निश्शङ्ख भवितुम् अर्हन्ति । (एतेषु आदिमेषु

त्रिषु कर्मसम्बन्धः, अनन्तरीयेषु त्रिषु कर्तृसम्बन्धः च अस्ति ।) ५४. विदुरेण कृतोपदेशः अत्र सगृहीतः ।

‘विदुरेण कृतः उपदेशः’ इति व्यस्तः प्रयोगः एव प्रशस्यते । कृतः उपदेशः = कृतोपदेशः । कर्मधारयसमासः अत्र । तृतीयान्तस्य ‘विदुर ‘पदस्य समासघटकीभूतस्य ‘कृत पदेन अन्वयः । तस्मात् अत्रापि एकदेशान्वयः । ‘कृत पदस्य श्रवणात् ‘केन’ इति आकाङ्क्षा उदेति

216

शुद्धिकौमुदी एव, पूर्वस्मिन् उदाहरणे यथा तथैव । पूर्वस्मिन् उदाहरणे तु उक्तम् अस्ति - ‘नित्यसापेक्षस्थले समासः अङ्गीक्रियते’ इति । अत्रापि नित्यसापेक्षता अस्तीत्यतः अयं प्रयोगः दोषाय तु न । तथापि एतादृशस्य प्रयोगस्य त्यागः एव वरम् । पूर्वं यानि उदाहरणानि दर्शितानि तानि अप्रयलेन कृतानि, क्रियमाणानि च । अतः तेषाम् अनुग्रहप्रकारः दर्शितः । “विदुरेण कृतोपदेशः’ इत्येषः तु प्रयत्नेन कृतः । एतादृशे स्थले व्यस्तप्रयोगः एव शोभते । तस्मात् ‘विदुरेण कृतः उपदेशः’ इति व्यस्तः प्रयोगः एव वरम् इति उच्यते । किन्तु एतदत्र स्मर्तव्यं यत् ‘विदुरेण कृतोपदेशः’ इत्यत्र यः समासः

कृतः सः दोषाय तु न इति । ५५. देवः भक्तस्य पुरतः प्रत्यक्षः जातः ।

‘प्रत्यक्षः जातः’ इत्यत्र न कोऽपि दोषः । ‘अक्षम् अक्षं प्रति प्रत्यक्षम् इति अव्ययीभावः । अतः ‘प्रत्यक्ष’शब्दः नपुंसके स्यात्, अव्ययं वा’ इति केचन अभिप्रयन्ति । किन्तु ‘प्रत्यक्ष’शब्दस्य विग्रहः ‘अक्षम् अक्षं प्रति’ इति न उच्यते, प्रत्युत ‘प्रतिगतम् अक्षम् इन्द्रियं यस्मिन् तत्’ इति उच्यते । तदा तु बहुव्रीहिः । बहुव्रीहौ अन्यपदार्थप्राधान्यम् । अतः तस्य विशेष्यनिघ्नता । प्राचीनप्रयोगो यथा - ‘प्रत्यक्षाभिः प्रपन्नः तनुभिरवतु वस्ताभिरष्टाभिरीशः’

  • शाकुन्तलम् - १.१ अतः ‘प्रत्यक्षः’ इति प्रयोगः न दोषाय । ५६. पतिपल्यौ सम्भाषणं कुर्वन्तौ आस्ताम् ।

‘कुर्वत्यौ’ इति प्रयोक्तव्यम् । ‘पतिपत्नी’शब्दः ईकारान्तः स्त्रीलिङ्गः । “कुर्वत्’शब्दस्यापि स्त्रीत्वम् एव स्यात् । अतः ‘कुर्वत्यौ’ इति प्रयोक्तव्यम् । यदि व्यस्तप्रयोगः कृतः स्यात् तर्हि ‘कुर्वन्तौ’ इत्यस्य साधुता स्यात् एव । ‘पुमान् स्त्रिया’ (१.२.६७) इति सूत्रेण पुंलिङ्गरूपस्यैव शेषात् । (कुर्वन् च कुर्वती च कुर्वन्तौ इति विग्रहः)

समासः

207

एतदत्र स्मर्तव्यं यत् ‘पतिपत्न्यौ’ इति तु न संस्कृतशैली । ५७. सालङ्कृता कन्या योग्याय वराय दातव्या ।

‘अलङ्कृता’ इत्येतावता एव इष्टसिद्धिः अत्र । अथवा ‘सालङ्कारा’ इति प्रयुज्यताम् । ‘अलङ्कारयुक्ता कन्या’ वाक्येऽस्मिन् विवक्ष्यते । स च ‘अलङ्कृता’ (अलं + कृ + क्तः) इत्यनेन एव सिद्ध्यति । यदि ‘अलङ्कारेण सहिता’ इति विग्रहवाक्यम् एव इष्यते तर्हि ‘सालङ्कारा’ इति प्रयुज्यताम् । ‘सालङ्कृता’ इत्यस्य अर्थः तु ‘अलङ्कारसहितया (कन्यया) सहिता’

इति भवति । स च अर्थः अत्र न अभिप्रेतः । ५८. राजा सालङ्कृते रथे उपविश्य प्रस्थितवान् ।

‘अलङ्कृते रथे’ इति प्रयोगेण एव इष्टसिद्धिः । ‘अलङ्कृतः’ इत्यस्य अर्थः ‘अलङ्कारयुक्तः’ इति । ‘सालङ्कृतः’ इत्यस्य तु अर्थः ‘अलङ्कारयुक्तेन युक्तः’ इति । एतस्मिन् वाक्ये अलङ्कारयुक्तत्वम् एव अपेक्ष्यते, न तु अलङ्कारयुक्तयुक्तत्वम् । अतः ‘अलङ्कृते रथे’ इति प्रयोगः एव समुचितः ।।

एषु दिनेषु उपभोक्तावादः अभिवर्धते । ‘उपभोक्तावादः’ इति अपशब्दः । ‘उपभोक्तवादः’ इति प्रयोक्तव्यम् । उपभोक्तृसम्बद्धः वादः = उपभोक्तृवादः । ‘उपभोक्ता’ इत्येतत् प्रथमान्तं पदम् । तस्य प्रातिपदिकम् ऋकारान्तम् । समासे पूर्वपदं

प्रातिपदिकरूपेण तिष्ठति । अतः ‘उपभोक्तृवादः’ इति रूपं साधु । ६०. भवान्याः पतिः ‘भवानिपतिः’ इति उच्यते ।

‘भवानीपतिः’ इति प्रयोक्तव्यम् । ‘भवानिपतिः’ इति अपशब्दः । ‘भवानी पदम् ईकारान्तम् । तस्य प्रथमान्तं पदम् अपि तदेव । समासे पूर्वपदस्य ईकारन्तस्य ह्रस्वता न केनापि सूत्रेण विहिता । अतः ‘भवानीपतिः*’ इति प्रयोगः एव साधुः ।

‘शास्त्री + महोदयः = शास्त्रिमहोदयः’ ‘घनपाठी + महोदयः =

  • ‘भवानीपतिः’ इति प्रयोगः एव न करणीयः इति आलङ्कारिकाः । भवस्य पत्नी = भवानी । भवान्याः पतिः = भवानीपतिः । एवं च “मम पल्ल्याः पतिः’ इति प्रयोगः इव भवति एतादृशः प्रयोगः ।

.

.

BA

208

शुद्धिकौमुदी

घनपाठिमहोदयः’ इत्यादिषु प्रथमान्तं पदम् ईकारान्तम् । समासे नलोपानन्तरं पूर्वपदे इकारान्तत्वं दृश्यते । एतत् दृष्टा केचन चिन्तयन्ति यत् समासे ईकारान्तस्य इकारान्तता इति । भ्रान्तिः तेषाम् । पूर्वपदस्थस्य नकारान्तस्थस्य नकारस्य लोपः उक्तः शास्त्रेण, न तु ईकारान्तस्य

ह्रस्वता । ६१. एषः अध्यापकः इदानीम् अवकाशप्राप्तः अस्ति ।

‘निवृत्तः’ इति प्रयोगः अत्र वरं स्यात् ।। ‘अवकाशप्राप्तः’ इत्यत्र समासवृत्तिः तु घटते । अवकाशं प्राप्तः =

अवकाशप्राप्तः । ‘द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नः’ (२.१.२४) इति सूत्रेण द्वितीयातत्पुरुषः । ‘प्राप्तः अवकाशः येन सः’ इति विग्रहे ‘प्राप्तावकाशः’ इत्यपि रूपं भवितुम् अर्हति । अतः तत्पुरुषं बहुव्रीहिं वा वक्तुं शक्नुयाम एव वयम् अत्र । किन्तु विप्रतिपत्तिः तु ‘अवकाश’शब्दस्य अर्थस्य विषये । यस्य सेवाजीवनं समाप्तं तं निर्देष्टुम् इच्छति वक्ता । तदर्थं तेन अवकाशशब्दः प्रयुक्तः । किन्तु अवकाशशब्दस्य तादृशः अर्थः न उक्तः केनापि कोषकारेण । अवस्थानदेशः, अवसरः, सुयोगः, कालभेदः, रन्ध्रम्, आश्रयः इत्यादयः अर्थाः वर्णिताः कोषकारैः । तेषु कोऽपि अर्थः वृत्तिरहितस्य जीवनस्य निर्देशे समर्थः । अतः अत्र अवकाशशब्दस्य परिहारः एव वरम् इति भाति । “निवृत्तः’ इति पदम् अपेक्षितार्थाभिधायी

अस्ति । तस्मात् तस्यैव प्रयोगः वरम् । ६२. अयम् अस्ति पूर्वनिदेशकः ।।

‘पूर्वनिदेशकः’ इत्यस्य अर्थस्य विषये किञ्चित् चिन्तनीयम् । अत्र केन सूत्रेण समासः, पूर्वशब्दस्य अर्थश्च कः इति चिन्तनीयम् । ‘पूर्वापराधरोत्तर…’ (२.२.१) इति सूत्रेण नात्र समासः । यतः पूर्वपदस्य एकदेशार्थकत्वम् अत्र न इष्यते । ‘निदेशकचरः’ इत्यर्थे (भूतपूर्वः निदेशकः) स च शब्दः प्रयुक्तः । ‘भूतपूर्वः निदेशकः’ इति प्रयोगे तु न कापि विप्रतिपत्तिः । ‘पूर्वनिदेशकः’ इति प्रयोगे तु ‘पूर्वापरप्रथमचरम…’ (२.१.५८) इति सूत्रेण कर्मधारयसमासः इति वक्तव्यं स्यात् । तदा तु ‘पूर्वनिदेशकः’ इति शब्दस्तु सिद्धः । किन्तु अर्थः ? स च अर्थः अत्र न अभिप्रेतः । भूतपूर्वत्वम् अपेक्षितम् ।

समासः

200

भूतपूर्वार्थे पूर्वशब्दः न रूढः इत्येव भाति । यदि तथा रूढिः स्यात् तर्हि पाणिनिः ‘भूतपूर्वे चरट्’ इति कथनं परित्यज्य ‘पूर्वे चरट्’ इत्येव अवदिष्यत् । अतः ‘भूतपूर्व’शब्दः अन्यः, ‘पूर्व’शब्दः अन्यः एव इति भाति । तस्मात् ‘भूतपूर्वः निदेशकः’ इति प्रयोगः एव समुचितः

स्यात् । विद्वांसः अत्र प्रमाणम् । ६३. आङ्ग्लशिक्षितानां जनानाम् अभिप्रायः भवति विलक्षणः ।

“शिक्षिताग्लानाम्’ इति, ‘प्राप्ताग्लशिक्षणानाम्’ इति वा

• प्रयोक्तव्यम् । ‘ये आङ्ग्लभाषया शिक्षणं प्राप्तवन्तः’ ‘ये च

आङ्ग्लसंस्कृतिप्रधानं शिक्षणं प्राप्तवन्तः’ ते अत्र निर्देष्टुम् इष्टाः । समासे समुचितः पदप्रयोगः कृतः चेदेव अपेक्षितः अर्थः प्राप्येत । ‘आङ्ग्लशिक्षिताः’ इत्यस्य पदस्य अर्थः भवेत् - ‘ये आङ्ग्लाः सन्तः शिक्षिताः (शिक्षणवन्तः) सन्ति ते’ इति । स च अर्थः अत्र न अभिप्रेतः । अत्र द्वितीयासमासः (तत्पुरुषः) वक्तुं न शक्यः । विधायके सूत्रे (‘द्वितीया श्रितातीत…’ इत्यस्मिन्) “शिक्षित’पदस्य अनन्तर्भावात् । अन्यः समासः उक्तः चेत् शिक्षितपदम् उत्तरपदं न भवेत् । ‘शिक्षितम् आङ्ग्लं यैः ते’ इति ‘प्राप्तम् आङ्ग्लशिक्षणं यैः ते’ इति

वा विग्रहे उक्ते समुचितार्थावबोधकं समस्तं पदं प्राप्येत । समासे अर्थः, विधायकसूत्रस्य सद्भावः च अवश्यं मनसि स्थापनीयः

एव । ६४. भवन्तः सर्वे सकुशलिनः खलु ?

‘सकुशलाः’ इति ‘कुशलिनः’ इति वा प्रयोक्तव्यम् । ‘सकुशलिनः’ इति पदं न अपेक्षितार्थद्योतकम् । वाक्यप्रयोक्ता कुशलसहिततां प्रष्टुम् इच्छति । ‘कुशल’पदस्य क्षेमादयः अर्थाः । कुशलम् अस्य अस्तीति कुशली । कुशलेन सह वर्तते इति सकुशलः । उभयोः अपि समानः अर्थः । सकुशलशब्देन एव इष्टे सिद्धे तस्मात् पुनः मतुबर्थकः प्रत्ययः करणीयः नास्ति । ‘अपि कुशलं भवतां सर्वेषाम् ?’ इत्यपि आनुपूर्वी भवितुम् अर्हति

एतादृशे प्रसङ्गे । ६५. एषः आपणः सुगन्धिः अस्ति ।

210

शुद्धिकौमुदी “सुगन्धः’ अस्ति इति वक्तव्यम् । “सुगन्धिः ’ इत्यत्र इत्प्रत्ययः अन्तादेशत्वेन । सूत्रं च ‘गन्धस्येदुत्यूति सुसुरभिभ्यः’ (५.४.१३५) इति । अत्र वार्तिकं ज्ञापयति ‘गन्धस्येत्त्वे तदेकान्तग्रहणम्’ इति । यत्र गन्धः अविभागेन लक्ष्यते तत्रैव इत् इति तस्य तात्पर्यम् । ‘सुगन्धिः वायुः’ इत्यादीनि एतस्य उदाहरणानि । आपणे तु गन्धः तावत् एव तिष्ठेत्, यावत् गन्धयुक्तानि वस्तूनि तिष्ठेयुः । वस्तूनाम् अभावे गन्धस्यापि अभावः । अतः गन्धः अत्र अविनाभावेन

स्थितः न । तस्मात् न इत्त्वम् । शोभनः गन्धः यस्य सः = सुगन्धः । ६६. एषः आपणः चन्दनगन्धिः अस्ति ।

‘चन्दनगन्धः’ इति प्रयोक्तव्यम् । यस्मिन् आपणे चन्दनस्य गन्धः अनुभूयते तम् आपणम् उद्दिश्य प्रयुक्तमिदं वाक्यम् । ‘उपमानाच्च’ (५.४.१३७) इति सूत्रेण उपमानवाचिपूर्वपदात् परस्यापि गन्धशब्दस्य इत् विहितः एव । अतः एव ‘पद्मगन्धि’प्रभृतयः प्रयोगाः सङ्गच्छन्ते । प्रकृतवाक्ये तु न सादृश्यं विवक्ष्यते, प्रत्युत चन्दनस्य एव गन्धः विवक्ष्यते । अतः ‘चन्दनगन्धः’ इति प्रयोगः । यदि सादृश्यम् इष्येत (चन्दनगन्धः इव गन्धः यस्य सः)

तर्हि ‘चन्दनगन्धिः’ इति प्रयोगः साधुः स्यात् एव । ६७. आधुनिके काले सुगन्धद्रव्याणि प्राप्यन्ते बहुधा ।

‘सुगन्धिद्रव्याणि’ इति प्रयोक्तव्यम् । ‘शोभनः गन्धः यस्य सः’ इति विग्रहे ‘गन्धस्येत्…’ इति सूत्रेण इत् । स च नित्यः उत्पूतिसुसुरभिपदयोगे सति । द्रव्येषु गन्धः अविभागेन लक्ष्यते । (ततः गन्धः पृथक्कर्तुं न शक्यः) अतः ‘सुगन्धिः’ इति इत्युक्तः एव प्रयोगः करणीयः । इतः अभावे तु गन्धस्य सत्तायाः

अस्थिरता द्योत्येत ।

सहत्या

. 21