०५ विभक्त्यादयः

५. पञ्चमोऽध्यायः

विभक्त्यादयः ०१. ‘मम पुत्रः पण्डितः भवितव्यः’ इति माता चिन्तयति ।

‘मम पुत्रेण पण्डितेन भवितव्यम्’ इति वाक्यरचना स्यात् । भवितव्यम् इत्यत्र भावे तव्यत्प्रत्ययः । भूधातुः अकर्मकः । भावे औत्सर्गिकम् एकवचनं क्लीबत्वं च । अतः ‘भवितव्यम्’ इति रूपम् । अत्र कर्ता केनापि प्रत्ययेन न उक्तः इत्यतः तस्मात् (पुत्रपदात्) तद्विशेषणात् (पण्डितपदात्) च तृतीया । अतः ‘मम पुत्रेण पण्डितेन

भवितव्यम्’ इत्येव वाक्यविन्यासेन भवितव्यम् । ०२. त्वया रामः इव पण्डितेन भवितव्यम् ।

‘रामेण इव’ इति प्रयोक्तव्यम् । पण्डितेन भवितव्यम् इति वाक्यविन्यासः साधुः । विवरणं तु पूर्ववाक्ये उक्तम् । अत्र रामस्य सादृश्यम् उच्यते । उपमानोपमेययोः समानविभक्तिः

स्यात् । अतः उपमानात् रामपदादपि तृतीया एव स्यात्, न तु प्रथमा । ०३. अनुजः इव अग्रजाय अपि क्षीरं देहि ।

‘अनुजाय इव’ इति प्रयोक्तव्यम् । ‘अग्रजाय’ इति चतुर्थी अस्ति । अतः अनुजशब्दादपि चतुर्थी स्यात् । यथास्थितस्य अर्थः तु ‘अनुजः इव यः अस्ति तस्मै अग्रजाय’ इति भवितुम् अर्हति । स च अर्थः अत्र न इष्टः । अग्रजस्य यथा सम्प्रदानसंज्ञा तथैव अनुजस्य अपि सम्प्रदानसंज्ञा । अतः ‘अनुज’

पदादपि चतुर्थी एव । ०४. ये दुराचारं कुर्वन्ति तेषां नाशः अवश्यं भाव्यः ।

‘नाशः भाव्यः’ इति अशुद्धप्रयोगः । ‘नाशेन भाव्यम्’ इति प्रयोगः

उचितः । ‘भाव्यम्’ इत्यत्र भावे अवश्यम्भावार्थे ण्यत्प्रत्ययः ‘ओरावश्यके’ (३.१.१२५) इति सूत्रेण । भावे औत्सर्गिकम् एकवचनं क्लीबत्वं च । अतः ‘भाव्यम्’ इति रूपम् । केनापि प्रत्ययेन कर्तुः अनुक्तत्वात्

तस्मात् तृतीया । अतः ‘नाशेन भाव्यम्’ इत्येव साधुः प्रयोगः । ०५. भवन्तः सर्वे एवं कुर्वन्ति चेत् भवताम् उन्नतिः भवितुं न शक्या।

5A

112

शुद्धिकौमुदी ‘उन्नतिः भवितुं शक्या’ इति वाक्यम् अशुद्धम् । ‘उन्नत्या भवितुं न

शक्यम्’ इति प्रयोक्तव्यम् । शक्लधातोः अत्र भावे यत्प्रत्ययः ‘शकिसहोश्च’ (३.१.९९ ) इति सूत्रेण । भावे यत्प्रत्ययस्य विधानात् एकवचनं नपुंसकता च । अतः ‘शक्यम्’ इति रूपम् । एतत् ‘शक्य’पदं कर्तारं न बोधयति, भावे प्रत्ययस्य विधानात् । तुमुन्नन्तम् अपि कर्तारं न बोधयति, भूधातोः अकर्मकत्वात् । केनापि कर्तुः अनुक्तत्वात् न प्रथमा, अपि तु तृतीया एव । अतः ‘उन्नत्या’ इति तृतीयान्तं रूपं सिद्धम् । अतः ‘उन्नत्या

भवितुं शक्यम्’ इति प्रयोगः एव साधुः । ०६.शिशुना तेन दश शब्दाः वक्तुं शक्यन्ते ।

‘शब्दाः वक्तुं शक्यन्ते’ इति वाक्यं साधु एव । ‘शक्यते’ इत्यत्र कर्मणि यक् । कर्मभूतस्य ‘शब्दाः’ इत्यस्य ‘शक्यन्ते’ इत्यत्र अन्वयः । कर्मणः बहुत्वे क्रियापदस्यापि बहुवचनान्तत्वम् । (शक्यन्ते इति) कर्मणिप्रयोगस्य नियमाः अत्र स्मरणीयाः । तिङा

कर्मणः उक्तत्वात् कर्मणः प्रथमा । ०७. अध्यापकेन दश श्लोकान् पाठयितुं शक्यते ।

‘श्लोकान् पाठयितुं शक्यते’ इत्यपि वाक्यं शुद्धम् एव । अत्र ‘श्लोकान्’ इत्यस्य ‘पाठयितुम्’ इत्यत्र अन्वयः । बहुवचनान्तेन स्थितस्य ‘श्लोकान्’ इत्यस्य ‘शक्यते’ इत्यत्र अनन्वयात् न तस्य बहुवचनान्तत्वेन श्रवणम् । प्रकृतवाक्ये ‘शक्यते’ इत्यत्र भावे यक् । शक्यते इत्येषः अत्र अकर्मकः । षष्ठस्य सप्तमस्य च वाक्यस्य श्रवणात् कदाचित् प्रश्रः भवेत् - ‘शक्यते इत्यत्र यक् भावे उत कर्मणि ?’ इति । यतः षष्ठे वाक्ये कर्मणि यक् दृश्यते । सप्तमे च भावे यक् । एवं तर्हि शक्लधातोः यक् भावे उत कर्मणि ? माधवीयधातुवृत्तौ एवं लिख्यते -

“विभाषा भावादिकर्मणोः इत्यत्र हरदत्तः - ‘यद्यपि शकिः केवलः अकर्मकः । तथापि तुमुन्नन्तवाच्यक्रियाविषयत्वे सकर्मकोऽपि भवति । तथा च कर्मणि लादयोऽपि दृश्यन्ते - अयं योगश्शक्यः अवक्तुम् इति ।“विभक्त्यादयः

113

वामनः अपि वदति -

“शक्यम् इति रूपं विलिङ्गवचनस्यापि कर्माभिधायां सामान्योपक्रमात्’’ (५.२.२३) इति ।

अतः शक्लधातुः कर्मणि भावे च यकं प्राप्तुम् अर्हति । ‘प्रलोकान् पाठयितुं शक्यते’ इत्यत्र श्लोकपदस्य तुमुन्नन्तपदे अन्वयः । अतः शक्यते इत्यत्र भावे यक् । ‘शब्दाः वक्तुं शक्यन्ते’ इत्यत्र कर्मणः (शब्दाः इत्यस्य) शक्लधातौ अन्वयः । अतः कर्मणि यक् । एवम् उभयथा अपि प्रयोगः । अतः ‘प्रयत्नः कर्तुं शक्यः’ ‘प्रयत्नं कर्तुं

शक्यम्’ इति उभयथा अपि प्रयोगः साधुः एव । ०८.कतिचित् दिनेषु अतीतेषु वर्षाकालः सम्प्राप्तः ।

‘कतिचित् दिनेषु’ इति प्रयोगः अशुद्धः । ‘कतिपुचित् दिनेषु’ इति वक्तव्यम् । ‘कतिपयेषु दिनेषु’ इति तु रमणीयम् । “दिनेषु’ इति सप्तम्यन्तं पदम् । तच्च विशेष्यम् । तस्य विशेषणभूतं ‘कति’ इत्येतत् पदं प्रथमान्तम् अस्ति । तस्मादपि सप्तमीविभक्तिः स्यादेव । अतः ‘कतिषुचित्’ इति सप्तम्यन्तं रूपम् एव अत्र सङ्गच्छते । कतिचित् इत्यत्र पदद्वयम् - कतिशब्दः चित् चेति । कतिशब्दः बहुवचनान्तः, सप्तसु विभक्तिषु रूपभेदं प्राप्नोति च । चित् तु अव्ययम् । कतिशब्देन तस्य अनुप्रयोगः । अनुप्रयोगमात्रेण चित् इत्यस्य इव

कतिशब्दस्य अपि न अव्ययत्वम् । ०९. कतिचनदिनानन्तरं सः उद्योगं प्राप्तवान् ।

‘कतिचनदिनानन्तरम्’ इति समासः दुष्टः । ‘कतीनाञ्चन दिनानाम्

अनन्तरम्’ इति प्रयोगः करणीयः । चनशब्दः क्वापि समासम् अनुप्रविशन् न दृष्टः । चिच्चनौ सर्वत्र पृथक्पदे भवतः । अतः अत्र कृतः समासः अनुचितः । व्यस्तप्रयोगः करणीयः । कतिशब्दात् दिनशब्दात् च षष्ठीविभक्तिः योजनीया ।

‘कतिपयदिनानन्तरम्’ इति प्रयोगः पूर्वोक्ते स्थले युज्यतेतराम् । १०.केषाश्चित् दिनानन्तरं सः नगरात् प्रत्यागतः ।

‘केषाञ्चित् दिनानन्तरम्’ इति प्रयोगः अनुचितः । ‘केषाञ्चित् दिनानाम्

अनन्तरम्’ इति प्रयोगः कर्तव्यः । दिनानन्तरयोः अत्र समासः कृतः । स च तत्पुरुषः । ‘केषाञ्चित्’

शुद्धिकौमुदी इत्येतस्य अन्वयः दिनपदेन इष्यते । तस्य समासे एकदेशभूतत्वात् तत्र अन्वयः न सम्भवति । तस्मात् व्यस्तप्रयोगः एव - ‘केषाञ्चित् दिनानाम्

अनन्तरम्’ इति । ११. लोकहितं मम करणीयम् ।

‘मम करणीयम्’ इति प्रयोगः न अशास्त्रीयः । “तव्यत्’प्रत्ययः कृत्येषु अन्यतमः । ‘कृत्यानां कर्तरि वा’ (२.३.७१) इति सूत्रेण कर्तुः षष्ठी विहिता विकल्पेन । अतः ‘मम करणीयम्’ इति वाक्यम् । षष्ठ्यभावे तु तृतीया स्यात् एव । अतः :मया करणीयम्’

‘मम करणीयम्’ इति उभयम् अपि शुद्धम् एव । १२. आचार्य ! आशीः प्रार्थये ।

‘आशीः प्रार्थये’ इति वाक्यं दोषाय । ‘आशिषं प्रार्थये’ इति प्रयोक्तव्यम् । ‘आशिस्’शब्दः सकारान्तः स्त्रीलिङ्गः । एतस्मात् द्वितीयैकवचने कृते ‘आशिषम्’ इति, बहुवचने कृते ‘आशिषः’ इति च रूपम् । ईकारान्तभ्रमेण, ‘आशीःकामयिता’ इत्यादौ समासे ‘आशीः’ इति दर्शनात् च ‘आशीः’ इति द्विवचनान्तः इति भ्रान्त्या प्रयोगः क्रियते

कैश्चित् । १३. अहम् अद्य मित्रं गृहम् आहूतवान् अस्मि ।।

“मित्रं गृहम् आहूतवान्’ इति वाक्यं दोषाय । “मित्रं गृहं प्रति

आहूतवान्’ इति प्रयोगः वरम् । आह्वयतिः न हि द्विकर्मकः । एतस्मिन् वाक्ये तु मित्रं गृहं चेति कर्मद्वयं प्रयुक्तम् अस्ति । अतः दोषः । ‘प्रति’शब्दस्य निवेशात् तु प्रतियोगे द्वितीया भवति इति गृहशब्दात् द्वितीया साधुः भवति ।

आह्वयतेः स्थाने निमन्त्रयतेः उपयोगः अपि वरं स्यात् । १४. सः मित्रं नगरं प्रेषयित्वा आगतवान् ।

‘नगरं प्रति प्रेषयित्वा’ इति प्रयोक्तव्यम् । ‘प्रेष’धातुः सकर्मकमात्रं, न तु द्विकर्मकः । अत्र वाक्ये तु मित्रशब्दः नगरशब्दः च कर्मत्वेन प्रयुक्तः । सकर्मकमात्रस्य कर्मद्वयं भवितुं न अर्हति अण्यन्तावस्थायाम् । अतः नगरशब्दोत्तरं ‘प्रति’शब्दः प्रयोक्तव्यः । ‘प्रति योगे द्वितीया । अतः नगरशब्दोत्तरं श्रूयमाणा

विभक्त्यादयः

115

द्वितीया उपपन्ना भवति । अन्यथा सकर्मकमात्रस्य धातोः द्वि

कर्मकत्वेन प्रयोगः अनुपपन्नः एव स्यात् । १५. माता शिशवे क्षीरं पाययति ।

“शिशवे पाययति’ इति प्रयोगः दोषाय । “शिशुं क्षीरं पाययति’ इति प्रयोक्तव्यम् । ‘गतिबुद्धि….’ (१.४.५२) इति सूत्रेण अण्यन्तस्य कर्तुः कर्मसंज्ञा विहिता । अतः ‘शिशुम्’ इति द्वितीयान्तं प्रयोक्तव्यम् । शिशुः क्षीरं पिबति । पिबति इति अण्यन्तोपेतं क्रियापदम् । पान क्रियायाः कर्ता तु शिशुः । अतः एतस्य ‘अण्यन्तकर्ता’ इति व्यवहारः । ‘माता शिशुं क्षीरं पाययति’ इत्यत्र पाययति इत्येतत् ण्यन्तोपेतं क्रियापदम् । ण्यन्तस्य प्रयोगे अण्यन्तस्य कर्तुः (शिशोः) कर्मसंज्ञा । अतः “शिशु क्षीरं पाययति’ इति प्रयोगः । एवमेव गत्यर्थकानां, बुद्ध्यर्थकानां, प्रत्यवसानार्थकानां, शब्दकर्मणाम्, अकर्मकाणां च धातूनां विषये व्यवस्था ज्ञेया । (प्रत्यवसानं नाम भक्षणम्) एकैकम् उदाहरणं यथा - १. गत्यर्थकम् - पिता पुत्रं विद्यालयं गमयति । २. बुद्ध्यर्थकम् - अध्यापकः शिष्यं व्याकरणं बोधयति । ३. प्रत्यवसानार्थकम् - माता शिशुं क्षीरं पाययति । ४. शब्दकर्मकम् - अध्यापिका शिष्यां गीतं गापयति ।

५. अकर्मकम् - माता शिशुं शाययति । १६.गुरुः शिष्याय व्याकरणं बोधयति ।

गुरुः शिष्याय वेदं पाठयति । ‘शिष्याय व्याकरणं बोधयति’ ‘शिष्याय वेदं पाठयति’ इति वाक्यद्वयम् अपि असाधु । “शिष्यं व्याकरणं बोधयति’. “शिष्यं वेदं पाठयति’ इति प्रयोक्तव्यम् । प्रथमवाक्ये बुद्ध्यर्थकधातोः, द्वितीयवाक्ये शब्दकर्मकधातोः च सद्भावात् ‘गतिबुद्धि…’ इति सूत्रेण अण्यन्तकर्तुः (शिष्यस्य) कर्मसंज्ञा ।

तस्मात् “शिष्यम्’ इति द्वितीयान्तं प्रयोक्तव्यम् । १. णिजन्तसम्बद्धानां सर्वेषां नियमानां ज्ञानाय ‘णत्वणिजन्त’पुस्तकं द्रष्टव्यम् ।

‘कारक’नामके पुस्तके तु विषयमेतम् अधिकृत्य शास्त्रीय विवरणं प्रदत्तम् अस्ति ।

116

शुद्धिकौमुदी.

१७. कलाकारः प्रेक्षकेभ्यः चित्रं दर्शयति ।

‘प्रेक्षकेभ्यः दर्शयति’ इति प्रयोगः न दोषाय । ‘दृशेश्च’ इति वार्तिकेन दर्शयतेः प्रयोगे कर्मसंज्ञा विहिता । कौमुद्याः उदाहरणं तु - ‘गुरुः भक्तान् हरिं दर्शयति’ इति । किन्तु लोके अण्यन्तकर्तुः चतुर्थी अपि दृश्यते । शिष्टप्रयोगाः अपि चतुर्थ्यन्तपदयुक्ताः बहुधा दृश्यन्ते । अतः अण्यन्तकर्तुः चतुर्थी न दुष्यति । शिष्टप्रयोगाः यथा -

तत्तद्भूमिपतिः पल्यै दर्शयन् प्रियदर्शनः ।

  • रघुवंशे - १.४७ - धनुर्दर्शय रामाय इति होवाच पार्थिवम् ।

. - रामायणे - १.६७.१ - दर्शयामास पार्थाय परमं रूपमैश्वरम् ।

__- भगवद्गीतासु - ११.९ १८. वत्से ! बालाय अन्नं खादय ।

‘बालाय अन्नं खादय’ इति वाक्यम् अशुद्धम् । ‘बालेन अन्नं खादय’ इति वक्तव्यम् । ण्यन्ते ‘गतिबुद्धि….’ इत्यादिना अण्यन्तकर्तुः यत् कर्मत्वं प्राप्तं तत् निषिद्धम् ‘आदिखाद्योः न’ इति वार्तिकेन । अतः ‘बालम् अन्नं खादय’ इत्यपि न भवति । बालात् चतुर्थी तु कुत्रापि न दृष्टपूर्वा ।

अतः सा हेया एव । ‘बालेन’ इति तृतीया एव प्रयोक्तव्या । १९. भवान् माम् एतं विषयं श्वः स्मारयतु कृपया ।

“मां स्मारयतु’ इति प्रयोगः न दोषाय । ‘गतिबुद्धि…..’ इति सूत्रेण बुद्ध्यर्थकानां प्रयोगे अण्यन्तकर्तुः कर्मसंज्ञा विहिता । (ततः द्वितीया) कौमुद्याः पतिरस्ति - “सूत्रे ज्ञान सामान्यार्थानामेव ग्रहणं, न तु तद्विशेषार्थानाम् इत्यनेन (‘दृशेश्च’ इति वार्तिकस्य कथनात्) ज्ञाप्यते । तेन स्मारयतिजिघ्रत्यादीनां न । स्मारयति घ्रापयति वा देवदत्तेन’’ इति । एतस्य पठनात् स्मारयतेः प्रयोगे अण्यन्तकर्तुः तृतीया एव इति भासते । एतद्विषये तत्त्वबोधिनीकारः लिखति - “आध्यानार्थकस्यैव स्मरतेः,

विभक्त्यादयः

117

न चिन्तार्थकस्य । ‘स्मारयत्येनं वनगुल्म’ इत्यत्र तु ‘णेरणौ….’ इति सूत्रे भाष्ये प्रयोगादेव कर्मत्वं बोध्यम्’ इति । इदं तु तात्पर्यम् - ‘स्मृ’धातुद्वयम् अस्ति । एकः आध्यानार्थकः । (आध्यानं नाम उत्कण्ठापूर्वकं स्मरणम् ।) अपरः चिन्तार्थकः । तत्र आध्यानार्थकस्य स्मृधातोः प्रयोगे अण्यन्तकर्तुः तृतीया । चिन्तार्थकस्य स्मृधातोः प्रयोगे अण्यन्तकर्तुः द्वितीया, कर्मसंज्ञायाः सद्भावात् ।

देवदत्तः प्रियां स्मरति । अत्र आध्यानार्थकता अस्ति । (प्रिया खलु सा ! अतः उत्कण्ठापूर्वकं स्मरणम्) अतः ‘यज्ञदत्तः देवदत्तेन प्रियां स्मारयति’ इति अण्यन्तकर्तुः देवदत्तात् तृतीया । रामः विषयं स्मरति । अत्र न आध्यानम् । स्मरणमात्रम् अस्ति अत्र । अतः “पिता राम

विषयं स्मारयति’ इति अण्यन्तकर्तुः कर्मता, ततः द्वितीया च । २०. तेन ग्रामे कानिचन दिनानि उषितानि ।

‘उषितानि’ इति बहुवचनप्रयोगः असाधुः । ‘उषितम्’ इति एकवचन प्रयोगः स्यात् । वसधातुः अकर्मकः । अतः तस्य क्तप्रत्ययः भावे । भावार्थे क्तप्रत्यये कृते औत्सर्गिकम् एकवचनं नपुंसकता च प्राप्यते । बहुवचनस्य कथमपि न प्रसक्तिः । अतः ‘तेन उषितम्’ इति प्रयोगः एव शुद्धः । ‘कानिचन दिनानि’ इत्यस्य बहुवचनान्ततां दृष्ट्वा प्रयोक्त्रा ‘उषितानि’ इति बहुवचनान्तप्रयोगः कृतः स्यात् । किन्तु कालवाचिनः द्वितीयान्त पदस्य क्रियापदस्य च न कोऽपि वचनसम्बन्धः । (कर्मणिप्रयोगे तु फलाश्रयस्य कर्मणः क्रियापदगतायाः संख्यायाः च सम्बन्धः भवति ।) अतः अत्यन्तसंयोगद्योतकं कालवाचि द्वितीयान्तं पदं बहुवचनान्तं चेदपि क्रियापदम् एकवचनान्तम् एव भवति भावेप्रयोगे । २१. यदि सन्देहः तर्हि मां प्रष्टव्यम् आसीत् ।

‘मां प्रष्टव्यम् आसीत्’ इति वाक्यरचना दोषयुक्ता । ‘अहं प्रष्टव्यः

आसम्’ इति प्रयोगः उचितः । ज्ञीप्सार्थकः प्रच्छधातुः सकर्मकः । तस्मात् तव्यत्प्रत्ययः कर्मार्थे । सः कर्म अभिधत्ते । एवं तव्यता अभिधानात् कर्मणः प्रथमाविभक्तिः स्यात् । अस्मच्छब्दस्य प्रथमैकवचनान्तं रूपम् ‘अहम्’ इति । तस्य पुंस्त्वात् प्रष्टव्यशब्दस्यापि पुंस्त्वम् । (यदि स्त्री वक्त्री स्यात् तर्हि

118

शुद्धिकौमुदी

‘प्रष्टव्या’ इति रूपम् ।) अस्मच्छब्दयोगे उत्तमपुरुषता स्यात् । अतः ‘अहं प्रष्टव्यः आसम्’ इति वाक्यं प्रयोक्तव्यम् । प्रादेशिकभाषायाः प्रभावस्य कारणतः केचन साधुत्वासाधुत्वादिकम् अविचिन्त्य ‘मां प्रष्टव्यम् आसीत्’ इति वदन्ति । पदपदार्थसम्बन्धादिकं प्रायः न

चिन्तयन्ति ते । २२. इन्द्रः वरम् अनुगृह्णाति ।

‘वरम् अनुगृह्णाति’ इति दोषाय । ‘वरेण अनुगृह्णाति’ इति प्रयोक्तव्यम् ।

भक्तः प्रार्थयते । इन्द्रः भक्तम् अनुगृह्णाति । अनुग्रहक्रियायाः कर्म ‘भक्तः, न तु वरः । ग्रहधातोः द्विकर्मकत्वं तु नास्ति । अतः वरस्य न कर्मत्वम्, अपि तु करणत्वम् । करणे तृतीया । अतः ‘वरेण अनुगृह्णाति’

इति प्रयोक्तव्यम् । २३. एतानि वाक्यानि संस्कृतभाषायाम् अनुवदत ।

‘संस्कृतभाषया अनुवदत’ इति प्रयोक्तव्यम् ।

अनुवादकार्ये भाषायाः करणत्वम्, न तु अधिकरणत्वम् । अतः

‘संस्कृतभाषया अनुवदत’ इति वाक्यरचना एव साध्वी । २४. लोकयाने विद्यालयं गच्छामि, त्रिचक्रिकायां वा गच्छामि ।

‘लोकयानेन’ “त्रिचक्रिकया’ इति तृतीयान्तं पदं प्रयोक्तव्यम् । गमनक्रियायां यानं साधनं भवति । अतः यानात् तृतीया । शिष्टाः

यानस्य अधिकरणत्वम् उक्तवन्तः न दृश्यन्ते कुत्रापि अस्मिन्नर्थे । २५.मह्यं महती शिरोवेदना ।

“मम महती शिरोवेदना’ इति प्रयोक्तव्यम् । शिरोवेदना मत्सम्बन्धिनी । अत्र सम्प्रदानस्य निमित्तस्य वा न कोऽपि अवसरः, येन चतुर्थी प्रयुज्येत । अतः ‘मम शिरोवेदना’ इत्येव प्रयोक्तव्यम् । ‘मम’ इति षष्ठ्यन्तं पदं सम्बन्धं द्योतयति । एवमेव ‘मम दुःखम्’ ‘मम सुखम्’ ‘मम सन्तोषः’ इत्यादयः प्रयोगाः । ‘शिरोवेदना मां बाधते’ इति भङ्गयन्तरेण अपि एतस्य वाक्यस्य

आशयः प्रकटयितुं शक्यः । २६. एतत् चलचित्रं मह्यं नितरां प्रियम् । '

‘मह्यं प्रियम्’ इति प्रयोगः न युक्तः । ‘मम प्रियम्’ इति प्रयोक्तव्यम् । प्रियशब्दः कप्रत्ययान्तः । ‘इगुपधज्ञाप्रीकिरः कः’ (३.१.१३५)

विभक्त्यादयः

119

इति सूत्रेण ‘क’प्रत्ययः कर्बर्थे । कप्रत्ययः कृत् । अतः ‘कर्तृकर्मणोः कृति’ (२.३.६५) इति सूत्रेण षष्ठी स्यात् । चतुर्थ्याः तु न अवसरः

अत्र । २७. मम मरणस्य भीतिः सर्वथा नास्ति ।

‘मरणात् भीतिः’ इति प्रयोगः उचितः । ‘भीत्रार्थानां भयहेतुः’ (१.४.२५) इति सूत्रेण भयहेतोः अपादानं विहितम् । मरणम् एव अत्र भयहेतुः । तस्मात्, ‘मरण’शब्दात् पञ्चमी स्यात् । अतः मरणात् भीतिः इति प्रयोगः ।।

“मरणसम्बन्धिनी भीतिः’ इति व्याख्याय समाधानं तु अगतिकगत्या । २८. सप्ताहत्रयात् प्रवृत्तः प्रशिक्षणवर्गः अद्य समाप्यते ।

“सप्ताहत्रयं प्रवृत्तः’ इति प्रयोक्तव्यम् । वर्गः अतीते सप्तात्रये प्रतिदिनम् अपि आसीत् एव । अतः सप्ताह त्रयशब्दस्य ‘कालाध्वनोरत्यन्तसंयोगे’ (२.३.५) इति सूत्रेण द्वितीया

अत्यन्तसंयोगत्वात् । २९.दशवादनात् अनन्तरं सः गृहे न भवति ।

‘दशवादनात् अनन्तरम्’ इति प्रयोगः न दोषाय ।

अनन्तरशब्दयोगे पञ्चमी प्राचीनैः बहुधा प्रयुक्ता एव । तद्यथा -

• पुराणपत्रापगमात् अनन्तरम् ।

  • कालिदासः (रघु.३.७)

• अथातो धर्मजिज्ञासा वेदाध्ययनात् अनन्तरम् ।

  • आचार्याः

• नीलादनन्तरश्चैत्रः …….

___ - भा. भीष्म ५६.१३

• तत्र लोकेऽयमथशब्दो वृत्तादनन्तरस्य प्रक्रियार्थे दृष्टः ।

_ - शाबरभाष्ये प्रथमसूत्रे ३०. पितुः उत्थानस्य अनन्तरं पुत्रः उत्तिष्ठति ।

‘उत्थानस्य अनन्तरम्’ इति प्रयोगः अपि न दोषाय ।

अनन्तरशब्दयोगे षष्ठी अपि प्रयुज्यते बहुधा । सम्बन्धमात्रे षष्ठी । भाष्ये अपि प्रयोगः - “तस्य अनन्तरम्’ इति । . अन्ये प्रयोगाः यथा -

120

शुद्धिकौमुदी

• सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् ।

____- भा. शां. २५.२३

• सर्गशेषप्रणयनात् विश्वयोनेरनन्तरम् ।

  • कुमारसम्भवे ६.९ ‘दुर्जनं प्रथमं वन्दे सज्जनं तदनन्तरम्’ इत्यादिप्रयोगदर्शनात् समासोऽपि

भवति । अतः अनन्तरशब्दयोगे त्रिधा गतिः -

१. पञ्चमी - तस्मात् अनन्तरम् २. षष्ठी - तस्य अनन्तरम्

३. समासः - तदनन्तरम् ३१.सः मां मूर्खमिति भावयति ।

“मूर्खमिति’ इति प्रयोगः असाधुः । ‘मूर्खः इति’ इति प्रयोक्तव्यम् । ‘इति’ इति कश्चन निपातः । सः कर्म अभिधत्ते । एवं निपातेन कर्मणः अभिधानात् ‘मूर्ख’शब्दात् प्रथमा । “निपातेनाप्यभिहिते कर्मणि न कर्मविभक्तिः’ इति वामनस्य उक्तिः अत्र प्रमाणम् । ‘क्रमादमुं नारद

इत्यबोधि सः’ इति माघस्य प्रयोगोऽपि प्रसिद्धः । ३२.१) तं पण्डितं भावयन्ति ते ।

२) ‘सः पण्डितः’ इति भावयन्ति ते । ३) तं ‘पण्डितः’ इति भावयन्ति ते । एतानि त्रिविधानि अपि वाक्यानि साधूनि एव । प्रथमे वाक्ये तच्छब्द पण्डितशब्दाभ्यां परा द्वितीया, ‘इति’ शब्दः नास्ति । द्वितीये वाक्ये तच्छब्द-पण्डितशब्दाभ्यां परा प्रथमा, “इति’शब्दप्रयोगश्च । तृतीये तच्छब्दात् द्वितीया, पण्डितशब्दात् प्रथमा, इतिशब्दप्रयोगश्च । प्रथमवाक्यस्य विषये नाधिकं किमपि वक्तव्यम् अस्ति । द्वितीये वाक्ये ‘इति’शब्देन ‘सः पण्डितः’ इत्येतावान् भागः परामृष्टः । अतः उभयतः अपि प्रथमा । तृतीये वाक्ये ‘पण्डित’शब्दमानं सगृहीतम् ‘इति’

शब्देन । अतः पण्डितशब्दात् प्रथमा । तच्छब्दात् तु द्वितीया एव । ३३. यः मृतः इति विभावितः सः जीवति ।

“विभावितम्’ इति प्रयोक्तव्यम् ।

भावितम् इत्यत्र यद्यपि कर्मणि क्तप्रत्ययः, तथापि कर्मभूतस्य इति पदस्य अव्ययत्वात् ‘भावित पदस्य औत्सर्गिकम् एकवचनं नपुंसकत्वं च ।

विभक्त्यादयः

121

प्रयोक्त्रा तु ‘मृत’शब्दस्य ‘भावित’शब्दस्य च सम्बन्धं कल्पयता पुंस्त्वं प्रयुक्तम् । किन्तु तयोः न विशेषणविशेष्यसम्बन्धः । अतः ‘भावित पदस्य नपुंसकत्वम् एव । एतादृशानि अन्यानि उदाहरणानि यथा -

अशुद्धम् (X)

| शुद्धम् (1) ‘सेवा करणीया’ इति तेन उक्ता । ‘सेवा करणीया’ इति तेन उक्तम् । ‘पाठः करणीयः’ इति तेन ‘पाठः करणीयः’ इति तेन

स्मृतः ।

स्मृतम् । ‘वृक्षः कर्तनीयः’ इति तेन वृक्षः कर्तनीयः’ इति तेन

___चिन्तितः ।

चिन्तितम् । ३४. छात्रान् अध्यापकान् इत्यादीन् आह्वय ।

‘छात्राः अध्यापकाः इत्यादीन् आह्वय’ इति प्रयोक्तव्यम् । इत्यादिशब्देन ये गृह्यन्ते ते प्रथमाविभक्त्यन्तेन बोध्याः भवेयुः, न तु द्वितीयाद्यन्तेन । अपेक्षिता विभक्तिः तु इत्यादिशब्दोत्तरं योजनीया ।

अधोनिर्दिष्टानि वाक्यानि परिशीलयत -

अशुद्धम् (x)

| शुद्धम् (D रामं कृष्णम् *इत्यादीन् आह्वय । रामः कृष्णः इत्यादीन् आह्वय । रामेण कृष्णेन इत्यादिभिः कृतम् । रामः कृष्णः इत्यादिभिः कृतम् । रामाय कृष्णाय इत्यादिभ्यः देहि । रामः कृष्णः इत्यादिभ्यः देहि । रामात् कृष्णात् इत्यादिभ्यः आनय । रामः कृष्णः इत्यादिभ्यः

आनय । तत् रामस्य कृष्णस्य इत्यादीनां तत् रामः कृष्णः इत्यादीनां

गृहे अस्ति ।

गृहे अस्ति । रामे कृष्णे इत्यादिषु मम स्नेहः । रामः कृष्णः इत्यादिषु मम

स्नेहः । एतेषु वाक्येषु इत्यादिशब्दं परिहृत्य ‘प्रभृति’शब्दयोगपुरस्सरं समासेन * इत्यादयः ये सन्ति तान् इत्यर्थः । ‘इत्यादिभिः’ इत्यत्र ‘इत्यादयः ये सन्ति तैः’

इत्यर्थः । एवमेव इतरत्रापि ।

शुद्धिकौमुदी ‘रामकृष्णप्रभृतीन्’ ‘रामकृष्णप्रभृतिभिः’ इत्येवमादिरूपेण वाक्य

विन्यासः अपि कर्तुं शक्यः । ३५. आरक्षकाः चोरस्य हस्ते निगडं बद्धवन्तः ।

‘चोरस्य हस्तं निगडेन बद्धवन्तः’ इति वाक्यप्रयोगः उचितः । आरक्षकाः बन्धनकर्तारः । चोरस्य हस्तः कर्म । अतः कर्मणः द्वितीया स्यात् । निगडः अत्र साधनम् । साधनात् तृतीया स्यात् । अतः ‘हस्तं निगडेन बद्धवन्तः’ इति वाक्यं साध । यदि चोरस्यैव कर्मत्वम् इष्यते (न तु हस्तस्य) तदा तु - ‘आरक्षकाः चोरं हस्ते निगडेन बद्धवन्तः’ इति प्रयोगः स्यात् । बन्धनविषयी भूतस्य अङ्गस्य सप्तमी प्रयुज्यते शिष्टैः । यथा - केशेषु केशेषु गृहीत्वा इदं युद्धं प्रवृत्तम् इति । ‘निगडं बद्धवन्तः’ इति प्रयोगः न युक्तः । निगडस्य कर्मता वक्तुः न अभिप्रेता । प्रादेशिकभाषासु या आनुपूर्वी दृश्यते तद्बलात् एतादृशानि

वाक्यानि प्रयुज्यन्ते कैश्चित् पदपदार्थसम्बन्धम् अचिन्तयद्भिः । ३६. वटुः शिखां बध्नाति ।

अयं प्रयोगः साधुः एव । शिथिलाः केशाः बध्यन्ते तेन । अत्र बन्धनं नाम आरचनम् । पूर्ववाक्ये अपि बध्नातिः एव प्रयुक्तः, तथापि तत्र

तस्य यः अर्थः स एव नार्थः अत्र । ३७. सः मित्रस्य हस्ते रक्षां बध्नाति ।

अयम् अपि प्रयोगः साधुः एव । बन्धनक्रियायां रक्षायाः साधनत्वं (निगडेन हस्तं बध्नाति इत्येतस्मिन् वाक्ये इव) स्यात् खलु इति भ्रमः मास्तु । अत्र बनातेः धारणम् अर्थः । धारणक्रियायां रक्षायाः

कर्मत्वम् एव । ३८. कर्मकरः प्रन्थिं बध्नाति ।

अयम् अपि प्रयोगः साधुः एव । ‘ग्रन्थिं बध्नाति’ इति प्रयोगः बहुधा श्रूयते लोके । अत्र बनातेः रचनम् अर्थः । रचनक्रियायां ग्रन्थेः

कर्मत्वम् । ३९. बालः स्तम्भे रज्जुं बध्नाति ।

अयम् अपि प्रयोगः साधुः । यद्यपि अत्र ‘बन्ध’धातोः एव प्रयोगःविभक्त्यादयः

123

४०.

अस्ति, रज्जोः उपयोगः अपि अस्ति, तथापि रज्ज्वाः न तृतीया । तत्र कारणं तु धातोः अर्थः । अत्र बन्धनं नाम एकदेशे योजनम् । तस्यां क्रियायां रज्जोः एव कर्मत्वम् । एवं ‘बन्ध’धातोः प्रयोगाः विविधेषु अर्थेषु सम्भवन्ति । अतः अर्थं विविच्य कस्य पदस्य कर्मत्वं, कस्य साधनत्वम् इत्यादयः अंशाः निर्णेतव्याः ।

राजा हस्ते खडं गृहीतवान् । ‘हस्ते’ इति सप्तमी अस्थाने । ‘हस्तेन’ इति प्रयोक्तव्यम् ।

अत्र ग्रहणक्रिया उच्यते । ग्रहणकर्मीभूतः अस्ति खड्गः । अतः तस्मात् द्वितीया । ग्रहणक्रियायां हस्तः भवति साधनम् । तदेव करणम् । तस्मात् तृतीया भवेत् ‘कर्तृकरणयोः तृतीया’ इति सूत्रेण । करणवाचकस्य अधिकरणत्वं न सिध्यति । तस्मात् सप्तमी अस्थाने । ग्रहणानन्तरं खड्गः हस्ते तिष्ठति इति तु सत्यम् । अतः खड्गस्य हस्ते स्थितिः यदा उच्येत तदा सप्तमी सूपपन्ना स्यात् । प्रकृतवाक्ये तु ग्रहणक्रिया कथनविषयः । तदवसरे हस्तस्य करणत्वम् एव । तस्मात्

तृतीया एव युक्ता, न तु सप्तमी । ४१. अनुजः तथा पित्रा सह सः गतवान् ।

‘अनुजेन पित्रा च सह’ सः गतवान् इति वक्तव्यम् । ‘सः’ प्रधानकर्ता । अप्रधानकर्ता पिता । अतः अस्मात् तृतीया ‘सहयुक्ते अप्रधाने’ (२.३.१९) इति सूत्रेण । अनुजः अपि अप्रधानकर्ता । अतः तस्मादपि तृतीया स्यादेव । उभयोः समुच्चयबोधनाय चकार

प्रयोगः एव वरम् । ४२. अत्र अव्यवस्थायाः लेशमात्रम् अपि अवकाशः नास्ति ।

‘लेशमात्रेण’ इति प्रयोक्तव्यम् । ‘लेशमात्रम्’ इति प्रथमान्तं पदम् । अवकाशः अपि प्रथमान्तम् । तयोः विशेषणविशेष्यभावः वक्तव्यः भवेत् । किन्तु स च तयोः न घटते । तन्नाम लेशमात्रम् इत्यस्य ‘नास्ति’ इत्यत्र अन्वयः । अतः लेशमात्रपदात् तृतीया स्यात् । अतः ‘लेशमात्रेण अपि अवकाशः नास्ति’ इति वाक्यस्य आनुपूर्वी स्यात् ।

124

शुद्धिकौमुदी ४३. पुरुषाणां कृते अत्र प्रवेशः निषिद्धः ।

एतस्मिन् वाक्ये ‘कृते’ इति पदं परिहरणीयम् । निषिद्धः तु प्रवेशः । सः केषाम् इति जिज्ञासायां ‘पुरुषाणाम्’ इति उत्तरम् । उत्तरं षष्ठ्यन्तेन । एवं षष्ट्यन्तस्य ‘पुरुषाणाम्’ इत्यस्य ‘प्रवेशः’ इत्यत्र अन्वयः । तयोः मध्ये ‘कृते’ इत्यस्य निवेशस्य न आवश्यकता । ‘कृते’ इत्यस्य निमित्तार्थकता । निमित्तार्थस्य न कापि प्रसक्तिः अत्र । अतः तस्य परिहारः एव युज्यते । ‘पुरुषाणां प्रवेशः निषिद्धः’ इत्येषा (‘कृते रहिता) आनुपूर्वी एव

अपेक्षितम् अर्थं गमयितुं समर्था अस्ति । ४४. सः सुमहत् उपकारं कृतवान् ।

‘महत्’ इति रूपम् अत्र असाधु । ‘सुमहान्तम्’ इति प्रयोक्तव्यम् । उपकारः पुंसि । तद्विशेषणं महच्छब्दः अपि पुंसि एव स्यात् । उपकारशब्दस्य द्वितीयान्तत्वात् महच्छब्दः अपि द्वितीयान्ततया प्रयोक्तव्यः । तदा ‘महान्तम्’ इति रूपम् । उपकारशब्दः नपुंसके इति

मत्वा भ्रान्त्या नपुंसकलिङ्गविशिष्टं विशेषणं प्रयुक्तं स्यादत्र । ४५. एषः महान् सन्तोषस्य विषयः ।

“महतः’ इति प्रयोक्तव्यम् ।

सन्तोषः अत्र षष्ट्यन्तत्वेन प्रयुक्तः । तद्विशेषणं महच्छब्दः अपि षष्ट्यन्तः एव खलु स्यात् ? अतः ‘महतः’ इति प्रयोगः साधुः । प्रथमान्तस्य ‘महान्’ इत्यस्य “विषये’ अन्वयः वक्तुं शक्यः । तदा ‘महान् विषयः’ इति वाक्यविन्यासः भवेत् । किन्तु वक्तुः आशयः तु

• महत्त्वं ‘सन्तोषे’ भवेत् इति, न ‘विषये’ । सन्तोषस्य आधिक्यं प्रतिपादयितुम् इच्छति सः । तस्मात् ‘सन्तोषे’ एव तस्य अन्वयः

भवेत् । ततः षष्ट्यन्तता एव साधु । ४६. भूषणभ्रात । अत्र आगच्छ ।

‘भूषणभ्रात’ इति सम्बोधनम् अयुक्तम् । ‘भूषणभ्रातः !’ इति सम्बोधनीयम् । भूषणः इति भ्राता भूषणभ्राता । तस्य सम्बुद्ध्यन्तं रूपं ‘भूषणभ्रातः’ इति । ऋकारान्तस्य सम्बोधने विसर्गस्य श्रवणम् । ‘भ्रातः’, ‘मातः’, “पितः’ इत्यादीनि उदाहरणानि ।

विभक्त्यादयः

125

वस्तुतः तु ‘भ्रातः ! भूषण !’ इति व्यस्तः प्रयोगः एव शोभते । ४७. अन्नदाता सुखी भव ।

‘अन्नदातः’ इति प्रयोगः वरम् ।

अन्नदातारम् उद्दिश्य उच्यमानं वचनम् एतत् । अतः ‘अन्नदातृ’शब्दस्य सम्बोधनम् अत्र प्रयोक्तव्यम् । अन्नदातृशब्दस्य सम्बोधनरूपम् ‘अन्नदातः’ इति । विसर्गः तत्र श्रूयते ।

लौकिकाः संस्कृतम् अजानानाः (संस्कृतं किञ्चित् जानन्तः अपि शब्दरूपाणि, प्रक्रियां वा अजानानाः ) एतादृशान् प्रयोगान् कुर्वन्ति । यदि ‘अन्नदाता सुखी भव’ इत्येतदपि समर्थनीयम् एव इति तीवेच्छा

तर्हि - ‘अन्नस्य दानकर्ता त्वं सुखी भव’ व्याख्यानेन सन्तुष्यताम् । ४८. शिवरामः स्नातककक्ष्यायाम् उत्तीर्णः ।

‘स्नातककक्ष्याम्’ इति प्रयोगः प्रशस्ततरः । ‘उत्तीर्णः’ इत्यत्र उदुपसर्गपूर्वकात् तरणार्थकात् तृधातोः क्तप्रत्ययः । उदुपसर्गपूर्वकः तरतिः सकर्मकः । तस्य कर्म भवति कक्ष्या* । अतः कक्ष्यायाः द्वितीया एव स्यात् । यदि सप्तमी प्रयुज्येत तर्हि कक्ष्यायाः अधिकरणता एव स्यात् । तदानीं कर्मत्वम् अन्यस्य स्यात् । वक्त्रा तु कक्ष्यायाः एव उत्तरणम् इष्यते । अतः ‘कक्ष्याम्’ इति द्वितीया एव साध्वी । यदि कक्ष्यायाः अधिकरणता एव इष्यते तर्हि ‘स्नातक कक्ष्यायाम् उत्तीर्णता प्राप्ता अस्ति’ इति उच्यताम् । अथवा “शिवरामः स्नातकपदवी प्राप्तवान् अस्ति’ इति वा

उच्यताम् । ४९. बालकः चित्रे वर्ण लिम्पति ।

‘वर्णम्’ इति द्वितीया अयुक्ता । ‘वर्णेन’ इति तृतीयान्तं प्रयोक्तव्यम् । लिम्पतेः प्रयोगे कर्ता बालकः । चित्रम् एव कर्म । कर्मणः द्वितीया । अतः ‘बालकः चित्रं लिम्पति’ इति वाक्यम् । लेपनक्रियायां वर्णस्य साधनत्वम् । तस्मात् तृतीया । अतः ‘वर्णेन’ इति तृतीयान्तपदस्य

प्रयोगः साधुः । * ‘कक्षा’ इति यकाररहितं रूपम् अपि साधु एव । कोषः यथा - ‘कक्षा त्विभरज्जौ

काभ्यां गेहप्रकोष्ठके’ - हेम । ‘कक्ष्या ….. हादीनां प्रकोष्ठेऽपि’

  • मेदिनी।

126

शुद्धिकौमुदी

५०. महान् वृक्षः पर्वतशिखरात् अधः अपतत् ।

‘पर्वतशिखरस्य अधः’ इति प्रयोगः साधुः । ‘अधः’ इत्येतत् अव्ययम् । अधश्शब्दात् अस्तात्यर्थे ‘असि’प्रत्ययः, अधादेशश्च । ‘षष्ठयतसर्थप्रत्ययेन’ (२.३.३०) इति सूत्रेण पञ्चम्याः अपवादत्वेन षष्ठी । अतः ‘पर्वतशिखरस्य अधः’ इति प्रयोगः साधुः । ‘अत्र पतनम् उच्यते, अतः वियोगे अवधिभूतात् पञ्चमी साधुः’ इति यदि उच्यते तर्हि पर्वतशिखरात् अपतत्’ इति प्रयुज्यताम् । अधश्शब्दः निवार्यताम् । अधश्शब्दः यदि प्रयुज्यते तर्हि षष्ठी प्रयोक्तव्या एव । भवतः आगमनात् पञ्चभ्यः दिनेभ्यः पूर्वम् एषा घटना घटिता । ‘आगमनस्य पश्चभ्यः दिनेभ्यः पूर्वम्’ इति प्रयोक्तव्यम् । ‘आगमन शब्दोत्तरं पञ्चमी अस्थाने । पूर्वशब्दस्य दिग्वाचकत्वात् ‘अन्यारादितरर्त …’ (२.३.२९) इति सूत्रेण पञ्चमी । (दिशि दृष्टः शब्दः दिक्शब्दः इति उक्तत्वात् कालवाचिनः अपि दिग्वाचकत्व व्यपदेशः ।) तस्मात् “पञ्चभ्यः दिनेभ्यः’ इति पञ्चमी साध्वी । ‘पूर्व’शब्दस्य ‘आगमन’शब्देन योगः तु नास्ति । अतः सम्बन्धार्थे षष्ठी । ‘आगमनस्य’ इति प्रयोगः । यदि अत्र पूर्वशब्दस्य योगः आगमनशब्देन इष्यते तदा तु ‘पञ्चभ्यः दिनेभ्यः’ इत्येतत् अनन्वितं तिष्ठेत् । अतः आगमनशब्देन योगो

नास्ति पूर्वशब्दस्य । अतः तस्मात् अपि पञ्चमी न । ५२. विद्या प्राप्तजन्मनः मनुष्यस्य मोक्षमार्गम् उपदिशति ।

“प्राप्तजन्मनः मनुष्यस्य’ इति षष्ठी अस्थाने । ‘प्राप्तजन्मानं मनुष्यम्’ इति द्वितीयान्तं प्रयोक्तव्यम् । उपदिशतिः द्विकर्मकः । संस्कृते द्विकर्मकाः परिगणिताः - ‘दुह्याच्पच् दण्ड्…. ’ इति श्लोकेन । तेषु वदतिः (ब्रू) अपि अन्तर्भूतः । श्लोके उक्ताः, तदर्थकाः च धातवः द्विकर्मकाः । मोक्षमार्गः एकं कर्म । मनुष्यः अपरं कर्म । तस्मात् मनुष्यात् द्वितीया । ‘प्राप्तजन्मा’ इत्येतत् मनुष्यस्य विशेषणम् । अतः तस्मादपि द्वितीया । अतः

‘प्राप्तजन्मानं मनुष्यम्’ इति द्वितीयान्तः प्रयोगः शुद्धः । ५३. तिरुमलाम्बाप्रभृतिनीनां प्रशंसा सर्वैः क्रियते ।

‘प्रभृतिनीनाम्’ इति अपशब्दः । ‘प्रभृतीनाम्’ इति प्रयोक्तव्यम् ।

विभक्त्यादयः

127

प्रभृतिशब्दः अनव्ययम् अव्ययं चेति द्विधा । अव्ययस्य ‘आरभ्य’ इत्यर्थः । ‘अद्यप्रभृत्यवनतानि तवास्मि दासः’ इति कालिदासप्रयोगः अत्र उदाहरणम् । अनव्ययस्य तदादयः अर्थाः । तच्च विशेषणम् । षष्ठीबहुवचने तु पुंसि स्त्रियां नपुंसके च समान रूपम् ‘प्रभृतीनाम्’ इति । [ ‘नामि’ (६.४.३) इति सूत्रेण दीर्घः] प्रभृतिशब्दः न इन्नन्तः । तस्मात् स्त्रियां प्रभृतिनी इति रूपं (प्रथमैकवचने) न । षष्ठ्यां

‘प्रभृतिनीनाम्’ इति रूपम् अपि न । ५४. रामः पितुः आदेशं मस्तके वहन् अरण्यं गतवान् ।

‘मस्तके’ इति सप्तम्यन्तम् अयुक्तम् । ‘मस्तकेन’ इति तृतीयान्तं

साधु ।

यानस्य करणत्वं भवति संस्कृते । एतद्विषये चारुदेवशास्त्रिणः वदन्ति -

“न केवलं मुख्यं यानम्, अपितु उपचरितयानभावाः अपि भावाः करणत्वेन व्यवह्नियन्ते, न च व्यभिचारं सहन्ते । स्कन्धेन भारं वहति’ इत्यत्र स्कन्धे यानत्वाध्यारोपेण करणत्वमेव अभिप्रयन्ति, न कदाचित् अधिकरणत्वम् । तेन ‘स्कन्धे भारं वहति’ इति

अपप्रयोगः’ इति । प्राचीनप्रयोगाः यथा -

*वहेदमित्रं स्कन्धेन….।

___- पञ्चतन्त्रम् *…… हारमुरसा दधानम् ।

  • हर्षचरितम् * मौलिना पाण्डुरमुष्णीषमुद्वहता …..।

  • हर्षचरितम् * गामधास्यत्कथं नागः मृणालमृदुभिः फणैः ।

_- कुमार. ६.६८ * अङ्घनादाय वैदेही पपात भुवि रावणः ।

__- रामायणम् - ६.५१.१९ एतेषु उदाहरणेषु ये तृतीयान्ताः ते वस्तुतः अधिकरणभूताः एव । तथापि करणत्वविवक्षा, तस्मात् तृतीया च । विषयेऽस्मिन् चारुदेव

128

शुद्धिकौमुदी

शास्त्रिणां वाक्यम् इत्थम् -

“अत्रोदाहरणेषु गतिर्वा प्रापणं वा नार्थः, येन करणस्य अवकाशः स्यात् । धारणमेव तु सर्वत्र अभिप्रेयते । तेन अधिकरणत्वं प्राप्नोति । करणं चेह नितान्तमसत् । अधिकरणं

च परमार्थसत् । तथापि करणत्वमेव विवक्षन्ति शिष्टाः” इति । तस्मात् ‘मस्तकेन वहन्’ इति तृतीयान्तम् एव युक्तम् । ५५. सन्धिः समासः इत्यादिनाम् अर्थः अध्यापकेन बोधितः ।

‘इत्यादिनाम्’ इति अपशब्दः । “इत्यादीनाम्’ इति प्रयोक्तव्यम् । इत्यादिशब्दः इकारान्तः । स्वरान्तानां षष्ठीबहुवचने “नामि’ (६.४.३.) इति सूत्रेण दीर्घः एव । अतः ‘इत्यादीनाम्’ इति रूपम् । [दकारोत्तरं दीर्घः (ईकारः)] हलन्तशब्दानां तु षष्ठीबहुवचने दीर्घस्य

प्रसक्तिः नास्ति । ५६. मया अरण्ये व्याघ्रः चक्षुभ्यां दृष्टः ।

‘चक्षुभ्याम्’ इति अपशब्दः । ‘चक्षुाम्’ इति प्रयोक्तव्यम् ।

चक्षुश्शब्दः सकारान्तः । द्वितीयाद्विवचने चक्षुस् + भ्याम् इति स्थिते हश्परत्वात् सकारस्य रुत्वे ‘चक्षुर्ध्याम्’ इति रूपम् । रेफस्य लोपस्य

प्रसक्तिः तु नास्ति, येन चक्षुभ्याम् इति रेफरहितं रूपं प्राप्येत । ५७. शाकुन्तलम् इंग्लीष् जर्मन् इत्यादिभाषया अनूदितम् अस्ति ।

‘इत्यादिभाषया’ इति एकवचनान्तप्रयोगः दुष्यति । ‘इत्यादिभिः

भाषाभिः’ इति बहुवचनान्तप्रयोगः एव वरम् । इंग्लीष्प्रभृतयः भाषाः सन्ति बह्वयः । इत्यादिशब्देन ताः सर्वाः सङ्गृह्यन्ते । तस्मात् इत्यादिशब्दोत्तरं ‘भाषाभिः’ इति तृतीया बहुवचनान्तं युक्तम् । अतः ‘इत्यादिभिः भाषाभिः’ इति बहुवचनान्त

प्रयोगः एव साधुः । ५८. कर्णाटकाङ्ग्लसंस्कृतभाषया वा उत्तरं लिखत ।

“कर्णाटकभाषया, आङ्ग्लभाषया संस्कृतभाषया वा’ इति वक्तुम् इच्छति वक्ता । तेन समासः कृतः - ‘कर्णाटकाङ्ग्लसंस्कृत भाषया’ इति । कर्णाटकं च आंग्लं च संस्कृतं च कर्णाटकांग्लसंस्कृतानि इति द्वन्द्वसमासः । द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकम् अभिसम्बद्धयते । तस्मात् ‘कर्णाटकभाषा, आङ्ग्लभाषा, संस्कृतभाषा च’ इति

विभक्त्यादयः

129

समुच्चयस्य भानं भवति । समस्तात् पदात् बहिः ‘वा’शब्दं निवेश्य वक्ता इच्छति यत् तस्य अन्वयः समासगतेन एकैकेन अपि शब्देन भवतु इति । किन्तु ‘वा’शब्दस्य तादृशं सामर्थ्यं नास्ति । तस्मात् अत्र समासः न उचितः । ‘कर्णाटकभाषया, आंग्लभाषया, संस्कृतभाषया वा’ इति व्यस्तः

एव प्रयोगः साधुः अत्र । (…भाषायाम् अनुवदत’ इति सप्तम्यन्तप्रयोगः अनुचितः इति तु

पूर्वम् उक्तम् एव ।) ५९. अध्यापकः विद्यार्थिन्यः आहूतवान् ।

‘विद्यार्थिन्यः’ इति प्रथमान्तम् अस्थाने । “विद्यार्थिनीः’ इति द्वितीयान्तं

रूपं प्रयोक्तव्यम् । विद्यार्थिनीशब्दः अत्र कर्म । कर्मणः द्वितीया । ‘विद्यार्थिन्यः’ इति तु प्रथमाबहुवचनान्तं रूपम् । “विद्यार्थिनी शब्दस्य द्वितीयाबहुवचनान्तं रूपं विद्यार्थिनीः’ इति । तस्मात् तदेव रूपम् अत्र प्रयोक्तव्यम् । प्रथमाबहुवचनान्त-द्वितीयाबहुवचनान्तरूपयोः भेदस्य अज्ञानात्

कदाचित् एतादृशाः प्रयोगाः क्रियन्ते । अन्यानि उदाहरणानि यथा - ___ अशुद्धम् (x)

शुद्धम् (1)

• सः लेखन्यः क्रीतवान् । सः लेखनीः क्रीतवान् ।

• सा अङ्कन्यः दत्तवती । सा अङ्कनीः दत्तवती ।

• बालः भगिन्यः सूचितवान् । " बालः भगिनीः सूचितवान् ।

• रामः मातरः नमस्कृतवान् । रामः मातृः नमस्कृतवान् ।

• अध्यापकः चत्वारः बालिकाः अध्यापकः चतस्त्रः बालिकाः

बोधितवान् ।

बोधितवान् । ६०. अहं धर्मश्रीं पठितवान् ।

‘धर्मश्रियम्’ इति प्रयोगः साधुः । ‘धर्मश्रीः’ कश्चन कथाग्रन्थः । ‘श्री’शब्दात् द्वितीयैकवचने ‘श्रियम्’ इति रूपम् । तस्मात् ‘धर्मश्रियम्’ इति प्रयोक्तव्यम् । ‘धर्मश्री’ इति किञ्चन अव्युत्पन्नं नाम इति यदि प्रयोक्तुः आशयः तर्हि

130

शुद्धिकौमुदी ‘धर्मश्रीम्’ इत्येतदपि समर्थनार्ह स्यात् । किन्तु ‘धर्म’पदं, ‘श्री’पदं च संस्कृतम् । समासवृत्त्या तयोः योगः । अतः ‘धर्मश्री’पदस्य व्युत्पन्नत्वकथने एव औचित्यम् । संज्ञापदानां केषाञ्चित् अव्युत्पन्नत्वं क्वचित् अङ्गीक्रियते । यथा - ‘सविता’ । एतेन पदेन काचित् बालिका निर्दिश्यते । यदि अत्र प्रकृतिप्रत्ययादिकं चिन्त्येत तर्हि तस्य पदस्य ऋकारान्तता पुंस्त्वं च आपद्येत । तेन व्यवहारः दुश्शकः स्यात् । तस्मात् अत्र ‘सविता’ इति आकारान्तः कश्चन अव्युत्पन्नः शब्दः इति उच्यते । अगतिकगत्या

कथनम् एतत् । ६१. उदुपसर्गपूर्वकस्य तरणार्थकस्य तुधातोः क्तप्रत्यये तीर्णः इति

रूपम् । ‘उदुपसर्गपूर्वकात् तरणार्थकात् तधातोः’ इति पञ्चम्यन्तं रूपम् एव प्रयोक्तव्यम् । प्रत्ययः यस्मात् विधीयते तस्मात् पञ्चमी स्यात्, न तु षष्ठी । प्रत्ययः सदापि परः एव भवति । यदा षष्ठी प्रयुज्यते तदा षष्ठ्यन्तस्य ‘स्थाने’ इत्यर्थः सिद्ध्यति । तस्मात् धातोः स्थाने एव प्रत्ययः स्यात् । (तन्नाम धातुम् अपनीय प्रत्ययः तिष्ठेत्) स च आशयः अत्र न अभिप्रेतः । अतः षष्ट्यन्तस्य प्रयोगः अनुचितः । पञ्चम्यन्तानि पदानि एव प्रयोक्तव्यानि ।

अन्यानि उदाहरणानि यथा -

अशुद्धम् (x) | शुद्धम् (1) * अतः तस्य द्वितीया । अतः तस्मात् द्वितीया । * तस्य तव्यत्प्रत्ययः कर्मार्थे । तस्मात् तव्यत्प्रत्ययः कर्मार्थे । * यत्प्रत्ययः अजन्तस्य यत्प्रत्ययः अजन्तात् विहितः ।

विहितः । * तस्य चतुर्थी विहिता। तस्मात् चतुर्थी विहिता । ६२.

‘अहं गन्तव्यम्’ इत्यत्र ‘मया’ इति तृतीया प्रयोक्तव्या । ‘मया इति तृतीयान्तं प्रयोक्तव्यम्’ इति आनुपूर्वी उचिता ।

अत्र ‘मया’ इत्येतत् एव विभक्तिरूपं न । ‘टा’ इति विभक्तिप्रत्ययः ।

विभक्त्यादयः

131

‘मया’ इत्येतत् विभक्तिप्रत्ययान्तं रूपम् । अतः ‘मया’ इत्येतत् तृतीयान्तं भवति, न तु तृतीया । तस्मात् ‘तृतीयान्तं प्रयोक्तव्यम्’ इति कथनं युक्तं भवति । अन्यानि उदाहरणानि यथा -

अशुद्धम् (X)

शुद्धम् (1) * ‘तेन’ इति तृतीया साध्वी । तेन’ इति तृतीयान्तं साधु । * एकवचनप्रयोगः न दोषाय । एकवचनान्तः प्रयोगः न दोषाय । * द्वितीये वाक्ये एकवचनं द्वितीये वाक्ये एकवचनान्तं

प्रयुक्तम् ।

प्रयुक्तम् । * एकवचनप्रयोगः युज्यते । एकवचनान्तः प्रयोगः युज्यते । ६३. तस्मै क्षीरं दीर्घचषके ददातु ।

‘दीर्घचषके’ इति प्रयोगः अस्थाने । ‘दीर्घचषकेण’ इति प्रयोक्तव्यम् । दानक्रियायां चषकः भवति साधनम् । अतः साधनार्थकस्य तृतीया स्यात् ‘कर्तृकरणयोस्तृतीया’ इति सूत्रेण । सप्तमी तु अस्थाने । प्रादेशिकभाषायाम् एतादृशाः प्रयोगाः क्रियन्ते । तान् अनुकुर्वद्भिः कैश्चित् संस्कृते अपि तादृशः प्रयोगः क्रियते भ्रान्तिवशात् । सेनानिना शत्रवः धैर्येण सम्मुखीकृताः । ‘सेनानिना’ इति अपशब्दः ‘सेनान्या’ इति प्रयोक्तव्यम् । ‘सेनानीः’ नाम सेनानायकः । ‘सेनानी ‘शब्दः ईकारान्तः पुंलिङ्गः । सः इन्नन्तः इकारान्तः वा न । ‘सेनान्या’ इत्यत्र ‘एरनेकाचोऽसंयोग पूर्वस्य’ (६.४.८२) इति सूत्रेण यण् । घिसंज्ञाभावात् न ‘ना देशः । आपाततः दर्शनात् सेनानीशब्दः भ्रमं जनयति एव । अतः प्रथमाबहुवचनान्त-द्वितीयैकवचनान्तादीनां रूपाणां विषये (सेनान्यः सेनान्यम्, सेनान्ये, सेनान्याम् इत्यादीनां विषये) विशेषावधानं भवेत् । शब्दरूपावल्यादिषु तस्य रूपाणां दर्शनं वरम् । एवमेव ग्रामणी

शब्दविषयेऽपि । ६५. वर्गाधिकारी शिक्षार्थीन् उद्बोधितवान् ।

‘शिक्षार्थीन्’ इति अपशब्दः । “शिक्षार्थिनः’ इति प्रयोक्तव्यम् । शिक्षार्थिशब्दः नकारान्तः । अगन्तत्वाभावात् न पूर्वसवर्णदीर्घः

132

शुद्धिकौमुदी ‘प्रथमयोः…’ (६.१.१०२) इति सूत्रेण । पूर्वसवर्णदीर्घाभावात् “तस्माच्छसो नः पुंसि’ (६.१.१०३) इति सूत्रेण शसः सकारस्य

नकारः अपि न । ६६. स्त्रियः रूपं कस्य मनः न हरेत् ?

“स्त्रियाः’ इति प्रयोक्तव्यम् । स्त्रीशब्दस्य षष्ठ्यन्तं (पञ्चम्यन्तं च) रूपं ‘स्त्रियाः’ इति । स्त्रीशब्दः ईकारान्तः । अतः सः नदीसंज्ञायुक्तः । तस्मात् ‘आ. Tः’ (७.३.११२) ‘आटश्च’ (६.१.९०) इत्येताभ्यां सूत्राभ्याम्

आडागमः वृद्धिश्च । तस्मात् “स्त्रियाः’ इति रूपम् । .. प्रथमाबहुवचने द्वितीयाबहुवचने च इयङादेशः भवति । तस्मात् “स्त्रियः’ इति रूपम् । अनयोः रूपयोः स्मरणं प्रायः भ्रमं जनयति षष्ठ्यैकवचने पञ्चम्यैकवचने च । अतः स्त्रीशब्दस्य रूपाणां विषये

अवधानवद्भिः भवितव्यम् । ६७. वाराणसेः नाम केन वा न श्रुतम् ?

‘वाराणस्याः’ इति प्रयोक्तव्यम् । ‘वाराणसेः’ इति अपशब्दः । ‘वाराणसी शब्दः ईकारान्तः, न तु इकारान्तः । अतः तस्य रूपाणि ईकारान्तशब्दस्य इव एव भवन्ति, न तु इकारान्तशब्दस्य इव । यदि सः इकारान्तः स्यात् तर्हि ‘वाराणसेः’ इत्यपि रूपं साधु अभविष्यत् । ईकारान्तात् नदीसंज्ञा नित्या । (इकारान्तस्य तु विकल्पेन । अतः तत्र रूपद्वयम्) नदीसंज्ञात्वात् आट वृद्धिः च स्यादेव । तस्मात् ‘वाराणस्याः’

इत्येव रूपम् । ६८. भगवतः ध्यानं निःश्रेयसे भवति ।

‘निःश्रेयसाय भवति’ इति प्रयोक्तव्यम् । ‘निःश्रेयसे’ इति असाधुः । ‘श्रेयः’ इत्येषः शब्दः सान्तः नपुंसकः च । ‘श्रेयः, श्रेयसी, श्रेयांसि’ इत्यादीनि तस्य रूपाणि । किन्तु ‘निःश्रेयस’शब्दः अकारान्तः । ‘अचतुर…’(५.४.७७) इति सूत्रेण तस्य अजन्तत्वं निपातनात् । अतः सः शब्दः अकारान्तत्वेन एव प्रयोक्तव्यः । कोषो यथा - “निःश्रेयसं तु कल्याणमोक्षयोः शङ्करे पुमान्’ इति । एतदप्यत्र स्मर्तव्यं यत् ‘निःश्रेयसम्’ इत्यत्र इकारोत्तरं विसर्गस्य शकारस्य वा श्रवणं स्यात् एव । श्रेयश्शब्दगतः अपरः शकारः तु अस्ति एव । (निश्चितंविभक्त्यादयः

. 133

श्रेयः निःश्रेयसम् ।) ६९. नामश्रवणमात्रेण सः भीतः ।

‘नामश्रवणमात्रात्’ इति प्रयोगः वरम् । नाम्नः श्रवणं भीतेः हेतुः । भयहेतोः अपादानं विहितं - ‘भीत्रार्थानां भयहेतुः’ (१.४.२५) इति सूत्रेण । तस्मात् ‘नामश्रवणमात्र’पदात् पञ्चमी प्रयोक्तव्या । ‘नामश्रवणमात्र’शब्दस्य हेतुत्वम् अस्ति, तस्मात् ‘हेतौ’ (२.३.२३) इति सूत्रेण तृतीया भवतु इति यदि भवन्तः

आगृह्णन्ति तर्हि न तत्र विवदामहे वयम् । ७०. बहुभ्यः दिनेभ्यः एवमेव प्रचलति ।

‘आ बहुभ्यः दिनेभ्यः’ इति प्रयोक्तव्यम् । ‘बहुभ्यः दिनेभ्यः’ इत्यत्र या पञ्चमी अस्ति सा अत्र अनन्विता अस्ति । वक्ता पञ्चानां दिनानां व्याप्तिम् इच्छति । तत्र ‘आ’ इत्यस्य प्रयोगात् इष्टं सिद्धयेत् । ‘आङ्’ इत्यस्य अभिविधिः (व्याप्तिः) अर्थः । ‘आ’ इत्यस्य अप्रयोगे तु अपेक्षितस्य अर्थस्य प्रतीतिः न भवति । ‘बहुत दिनों से’ इति हिन्दीभाषायां प्रयोगः । अन्यासु प्रादेशिकभाषासु अपि एतादृशी आनुपूर्वी एव दृश्यते । किन्तु सा न संस्कृतानुसारिणी । एतादृशानि अन्यानि वाक्यानि यथा - . बहुभ्यः मासेभ्यः भवान् मम गृहं न आगतः ।

• बहुभ्यः वर्षेभ्यः संस्कृतस्य स्थितिः एतादृशी एव अस्ति ।

बहुभ्यः वासरेभ्यः अहम् एतादृशम् एव प्रयोगं कुर्वन् आसम् ।

बहुभ्यः वर्षेभ्यः एषा भूमिः ममैव आसीत् । . बहुभ्यः दिनेभ्यः भवतः व्यवहारम् अहं पश्यन् अस्मि । , बहुभ्यः दिवसेभ्यः विचारोऽयं मम मनसि आवर्तते ।

. बहुभ्यः दिनेभ्यः भवतः दर्शनम् एव नास्ति । ७१. आ बहुमासात् एवमेव प्रचलति ।

‘आ बहुभ्यः मासेभ्यः’ इति प्रयोगः वरम् । ‘आ’ इत्यस्य प्रयोगः तु अत्र कृतः अस्ति । अतः अभिव्याप्तिः तु सिद्धा । किन्तु मासशब्दात् या एकवचनता दृश्यते सा अयुक्ता ।

134

शुद्धिकौमुदी

वाक्येऽस्मिन् बहुत्वम् इष्यते । बहुत्वं च परिमाणवाचकं सङ्ख्यावाचकं चेति द्विधा । तथा हि कोषः - ‘बहु स्यात् त्र्यादिसङ्ख्यासु विपुलेऽप्यभि धेयवत्’ इति मेदिनी । प्रकृतवाक्ये तु संख्यागतं बहुत्वम् इष्यते । तदा च तस्य बहुवचनं स्यात् । मासशब्दात् अपि बहुवचनप्रत्ययः एव स्यात् । अतः ‘आ बहुभ्यः मासेभ्यः’ इत्येव प्रयोगः भवेत् । यदि बहुमासात् इति कथञ्चित् समर्थनीयं तर्हि मार्गः इत्थम् - पञ्चानां मासानां समाहारः पञ्चमासम् । अकारान्तत्वं तु पात्रादिगणे प्रवेशात् । पात्रादिः आकृतिगणः । ‘पञ्चमास’पदस्य पञ्चम्यन्तं रूपं - “पञ्चमासात् इति । कार्यक्रमेऽस्मिन् सहस्राधिकाः आगताः आसन् । ‘कार्यक्रममेतम्’ इति प्रयोक्तव्यम् ।

अत्र ‘आगताः’ इति क्तान्तं प्रयुक्तम् । तद्गतः गम्धातुः सकर्मकः । गम्धातोः कर्म ‘कार्यक्रमः’ । अतः कार्यक्रमात् द्वितीया स्यात् । ‘कार्यक्रमे सहस्त्राधिकाः समुपस्थिताः आसन्’ इति प्रयोगे कृते तु कार्यक्रमशब्दात् सप्तमी युज्यते एव । (‘सम्मिलिताः आसन्’ इति प्रयोगे कृते अपि सप्तमी साध्वी स्यात् ष्ठाधातुः अकर्मकः । तस्मात् कार्यक्रमपदात् सप्तमी साध्वी । उपर्युक्ते वाक्ये ‘समुपस्थिताः’ इति न प्रयुक्तं, प्रत्युत आगताः’ इति प्रयुक्तम् । प्रयुक्तस्य धातोः आनुगुण्येन विभक्तिप्रयोगः चिन्तनीयः । समुपस्थितार्थे आगतशब्दप्रयोगः न

उचितः । समुपस्थितिः अन्या । आगमनम् अन्यत् । ७३. सर्पः बिलस्य अन्तः प्राविशत् ।।

“बिलं प्राविशत्’ इति प्रयोक्तव्यम् । प्रवेशनार्थकः विशधातुः सकर्मकः । प्रकृतवाक्ये बिलम् एव कर्म । कर्मणः द्वितीया । तस्मात् ‘बिलम्’ इति द्वितीयान्तं प्रयोक्तव्यम् । प्रवेशनं नाम अन्तः गमनम् । अतः विशधातुः प्रयुक्तः चेत् पुनः ‘अन्तः’ इति पदं प्रयोक्तव्यं नास्ति । (अन्तः इत्यस्य प्रयोगस्य अभावे बिलशब्दात् षष्ठी अपि न) ‘अन्तः’ इत्यस्य प्रयोगे कृते तु ‘गम’धातुः एव प्रयोक्तव्यः, न तु विशधातुः । एतदत्र अवधातव्यं यत् प्रवेशनान्तर्गमनयोः अर्थः तु समानः । किन्तु कर्मभेदः तु अस्ति तयोः । यत् क्रियापदं प्रयुक्तं तदनुगुणं कर्मादिप्रयोगः

विभक्त्यादयः

135

चिन्तनीयः ।

यदि ‘सकीचकैर्मारुतरन्ध्रपूर्णैः’ इति प्रयोगः यथा तथैव अत्रापि

“विशिः गत्यर्थकः’ इति भवन्तः कथयेयुः तर्हि तु सङ्गतिः भवेत् । ७४. बालः ज्वालाभिः आत्मानं रक्षन् धावितवान् ।

‘ज्वालाभ्यः’ इति प्रयोक्तव्यम् । वाक्येऽस्मिन् रक्षणम् इष्यते । यतः रक्षणम् इष्यते तस्मात् पदात् पञ्चमी ‘भीत्रार्थानां भयहेतुः’ (१.४.२५) इति सूत्रेण । यद्यपि हेतोः तृतीया विहिता, तथापि भयहेतोः पञ्चम्याः विशेषतः विधानात्

पञ्चमी एव, न तु तृतीया । ७५. विद्वान् महादेववर्यस्य भाषणम् अस्ति अद्य ।

“विदुषः’ इति प्रयोक्तव्यम् । महादेववर्यशब्दोत्तरं षष्ठी श्रूयते । विद्वच्छब्दः तस्य विशेषणम् । विशेष्यस्य या विभक्तिः सा एव विभक्तिः स्यात् खलु विशेषणस्यापि ।

अतः “विदुषः’ इति षष्ठ्यन्तं पदं प्रयोक्तव्यम् । एतादृशाः एव अनवधानकृताः प्रयोगाः केचन यथा - " श्रीमान् द्विवेदिमहोदयेन इदानीं भाषणं क्रियते । . स्वामी दयानन्दवर्याः अत्र उपस्थिताः सन्ति । . श्रीमती रमावर्यया धन्यवादाः समर्प्यन्ते इदानीम् । . चिरञ्जीवी भास्कराय प्रथम पारितोषिकं दीयते ।

विदुषी सहनादेवीवर्यां वेदिकां प्रति निमन्त्रयामि । (एतेषु स्थूलाक्षरैः निर्दिष्टानि पदानि परिष्कारम् अर्हन्ति इति भवन्तः जानन्ति एव ।)

एवमेव ‘विद्वान् द्विवेदिमहोदया’ इत्यादयोऽपि । ७६. मधुमक्षिकाः छात्रेभ्यः दष्टवत्यः ।

‘छात्रान्’ इति प्रयोक्तव्यम् । दंशधातुः सकर्मकः । तस्य कर्म अस्ति छात्रपदम् । कर्मणः द्वितीया कर्तरिप्रयोगे । अतः ‘छात्रान्’ इति प्रयोगः समुचितः । ‘छात्रेभ्यः’

इति चतुर्थ्यन्तः प्रयोगः तु प्रादेशिकभाषाप्रभावकारणतः । ७७. ज्येष्ठः सर्वान् बहुमूल्यं मार्गदर्शनं कृतवान् । .

‘ज्येष्ठः सर्वेषां मार्गदर्शनं कृतवान्’ इति, ‘ज्येष्ठः सर्वान् मार्गम्

136

शुद्धिकौमुदी

उपादिशत्’ इति वा प्रयोक्तव्यम् । . मार्गस्य दर्शनं (प्रदर्शनम्) मार्गदर्शनम् । दर्शनम् इत्यत्र ल्युट्प्रत्ययः । स च कृत् । ‘कर्तृकर्मणोः कृति’ (२.३.६५) इति सूत्रेण कृयोगे कर्मणः षष्ठी । (“न लोकाव्यय…’ इति षष्ठीनिषेधसूत्रं तु अत्र न प्रवर्तते, अवसराभावात् ।) अतः सर्वशब्दात् षष्ठी स्यात् । तस्मात् सर्वेषाम् इति रूपम् ।

अथवा ‘सर्वान् मार्गम् उपादिशत्’ इति प्रयुज्यताम् । तदा सर्वशब्दात् मार्गशब्दाच्च द्वितीया । उपदिशतेः द्विकर्मकत्वात् ।

सः नाममात्र कार्यदर्शी अस्ति । ‘नाममात्रेण’ इति प्रयोक्तव्यम् । ‘प्रकृत्यादिभ्यः उपसङ्ख्यानम्’ इति वार्तिकेन ( ‘कर्तृकरणयोः तृतीया’ इति सूत्रे) तृतीया । कौमुद्याः तत्त्वबोधिनीव्याख्याने लिख्यते - ‘आकृतिगणोऽयम् । तेन ‘नाम्ना सुतीक्ष्णः, चरितेन दान्तः’ इत्यादि सिद्धम्’ इति । ‘नाममात्रम्’ इति प्रथमान्तः प्रयोगः यः कृतः स च

अनन्वितः तिष्ठति । अतः तृतीया एव साध्वी । ७९. बालस्य लेशमात्रम् अपि भयं नास्ति ।

‘भयस्य लेशमात्रम्’ इति प्रयोक्तव्यम् । अत्र भयस्य विशेषणत्वेन प्रयुक्तः अस्ति लेशशब्दः । लेशः तु एकदेशवाची । स च षष्ठ्यन्तेन अन्वयं प्राप्नोति, न तु अभेदेन । अतः ‘भयस्य लेशः’ इति प्रयोगः स्यात् । लेशः एव लेशमात्रम् ।

तस्मात् ‘भयस्य लेशमात्रम् अपि नास्ति’ इति प्रयोगः साधुः । ८०. रमेशः स्वागतं, सुरेशः धन्यवादान् च समर्पितवन्तौ ।

“स्वागतं व्याहृतवान्’ ‘धन्यवादान् समर्पितवान्’ इति वक्तव्यम् । वाक्येऽस्मिन् ‘समर्पितवान्’ इति एकमेव क्रियापदं प्रयुक्तम् । तस्मात् सिद्धयति यत् ‘रमेशः स्वागतं समर्पितवान्’, ‘सुरेशः धन्यवादान् समर्पितवान्’ इति । वस्तुतः तु स्वागतं वचनविषयः, धन्यवादः च समर्पणविषयः । अतः ‘स्वागतं व्याहृतम्’ ‘स्वागतवचनानि उक्तानि’ इत्यादयः आनुपूर्व्यः प्रयोक्तव्याः । ‘स्वागतं समर्पितवान्’ इति तु न

प्रशस्ता शैली। ८१. तस्मिन् उक्ते सति मया कार्यं स्मृतम् ।

विभक्त्यादयः

137

‘तेन उक्ते सति’ इति प्रयोक्तव्यम् । भावलक्षणसप्तमीसम्बद्धम् उदाहरणम् एतत् । क्रियया क्रियान्तरं यत्र लक्ष्यते तत्र क्रियाश्रयपदात् सप्तमी विधीयते ‘यस्य च भावेन भावलक्षणम्’ (२.३.३७) इति सूत्रेण | उपरितने वाक्ये कथनं स्मरणं चेति द्वे क्रिये ।’ कदा स्मृतम् ?’ इति प्रश्न कृते ‘तेन उक्ते सति’ इति उत्तरम् । अत्र कथनं ज्ञातम् । तस्य कालः अपि ज्ञातः । किन्तु स्मरणं ज्ञातं, तस्य कालः न ज्ञातः । अतः कथनक्रियायाः कालः निर्जातः । स्मरणक्रियायाः कालः अनिर्जातः । अतः निर्घातकालकथनक्रिया ज्ञापिका । अनिख़तकालस्मरणक्रिया ज्ञाप्या । निर्मातक्रियाश्रयः वाक्यादिकम् । (तदत्र न उपात्तम् ।) तस्मात्, तद्विशेषणात् च सप्तमी । तच्छब्दात् तु तृतीया ‘कर्तृकरणयोः

तृतीया’ (२.३.१८) इति सूत्रेण । ८२. स्वामिनि गृहे प्रविष्टवति चोराः धावितवन्तः ।

‘स्वामिनि गृहं प्रविष्टवति’ इति प्रयोक्तव्यम् ।

अत्र प्रवेशक्रिया ज्ञापिका । तदाश्रयः स्वामी । अतः क्रियाश्रयात् स्वामिपदात् तद्विशेषणात् क्तवतुप्रत्ययान्तात् च सप्तमी - ‘यस्य च भावेन..’ इति सूत्रेण । कर्मभूतः गृहशब्दः न क्रियाश्रयः । अतः तस्मात् द्वितीया ‘कर्मणि द्वितीया’ (२.३.२) इति सूत्रेण । गृहपदात्

सप्तमी तु अयुक्ता एव । ज्ञापकक्रियाश्रयाः भवितुम् अर्हन्ति क्तवत्वन्तेन, क्त्वान्तेन, शत्रन्तेन, तव्यदनीयरन्तेन, शानजन्तेन वा बोध्यमानाः । अतः भावलक्षणसप्तमी प्रयोगे तेषां सर्वविधानाम् अपि उपयोगः भवितुम् अर्हति ।

कर्तरि

कर्मणि

क्तवतु - गतवान्

क्त - पठितः

क्त- गतः

तव्यत् - गन्तव्यम् शत् - गच्छन्

अनीयर् - गमनीयम् शानच् - वन्दमानः । शानच् - गम्यमानः

• यदा कर्बर्थे विहितेन प्रत्ययेन युक्तेन पदेन ज्ञापकक्रियाश्रयः ज्ञाप्यते

138

शुद्धिकौमुदी

तदा कर्तुः तद्विशेषणात् प्रत्ययान्तपदात् च सप्तमी । . . यदा कर्मार्थे विहितेन प्रत्ययेन युक्तेन पदेन ज्ञापकक्रियाश्रयः ज्ञाप्यते

तदा कर्मणः तद्विशेषणात् प्रत्ययान्तपदात् च सप्तमी । एतान् अंशान् मनसि निधाय वाक्यानि प्रयोक्तव्यानि । अवगमन साहाय्याय कानिचन अशुद्धानि शुद्धानि च वाक्यानि अधः दत्तानि सन्ति ।

अशुद्धम् (x)

| शुद्धम् (1)

• भक्तेन देवे वन्दमाने…. ० भक्ते देवं वन्दमाने….

• भक्ते वन्द्यमाने…. . भक्तेन (देवे) वन्द्यमाने…

• बाले पुस्तके पठिते… ० बालेन पुस्तके पठिते…

• शिशौ स्वप्ने दृश्यमाने… ० शिशुना स्वप्ने दृश्यमाने…

• बाले स्नानं क्रियमाणे… ० बालेन स्नाने क्रियमाणे…

• रामे सीतां दृष्टे…

० रामेण सीतायां दृष्टायाम्.. ८३. सम्मेलनं कथं भवितव्यम् इति सम्यक् चिन्त्यताम् ।

‘सम्मेलनेन’ इति प्रयोगः स्यात् । ‘भवितव्यम्’ इत्यत्र भावे तव्यत्, यतः भूधातुः अकर्मकः । तस्मात् एतस्मिन् वाक्ये सम्मेलनशब्दात् प्रथमा भवितुं न अर्हति । क्रियया अनुक्तत्वात् ‘कर्तृकरणयोः तृतीया’ (२.३.१८) इति सूत्रेण तृतीया एव । प्रादेशिकभाषासु या आनुपूर्वी दृश्यते सा संस्कृते क्वचित् न

सनच्छते इत्येतत् सदा स्मर्तव्यम् । ८४. गोलिकाः प्रहत्य सैनिकेन दश जनाः मारिताः ।

‘गोलिकाभिः प्रहत्य’ इति, ‘गोलिकाः प्रयुज्य’ इति वा

वक्तव्यम् । यदा प्रहरणक्रिया भवति तदा गोलिकानां करणत्वं स्यात् । अतः ‘गोलिकाभिः प्रहृत्य’ इति वाक्यविन्यासः करणीयः । ‘गोलिकाः’ इत्यस्यैव यदि कर्मत्वम् इष्यते तदा धात्वन्तरं (प्रयुज्य इत्यादयः) प्रयोक्तव्यम् ।

विभक्त्यादयः

139

‘गोलिकाः प्रहृत्य’ इति वाक्यविन्यासः अस्ति चेत् ‘सैनिकः गोलिकाः एव प्रहरति’ इत्यस्य अर्थस्य प्रतीतिः भवति । सैनिकः तु शत्रून् प्रहर्तुम् इच्छति । तस्यां शत्रुप्रहरणक्रियायां गोलिकानां करणत्वम् एव युज्यते । अतः ‘गोलिकाभिः प्रहृत्य’ इति वाक्य

विन्यासः औचित्यम् आवहति । ८५. भीमसमानाः केऽपि न सन्ति ।

‘कोऽपि नास्ति’ इति प्रयोगः समुचितः । ‘केऽपि न सन्ति’ इत्यत्र सत्तायाः बहुत्वं निषिध्यते । बहुत्वस्य निषेधेन द्वित्वस्य एकत्वस्य वा निषेधः भवेत् एव इति नास्ति । अर्थतः क्वचित् ‘कोऽपि नास्ति’ इति बोधः कैश्चित् प्राप्येत । वक्ता तु “एकोऽपि नास्ति’ इत्येव वक्तुम् इच्छति । अतः कोऽपि नास्ति’ इत्यस्याः आनुपूर्व्याः एव आश्रयणं

वरम् । ८६. माता बालाय वस्त्रं धारयति ।

‘बालेन’ इति प्रयोक्तव्यम् । ‘बालाय’ इत्यत्र चतुर्थी अस्थाने । ‘बालः वस्त्रं धरति’ इत्येतत् अण्यन्तं वाक्यम् । अत्र बालः कर्ता । ण्यन्तावस्थायां सः भवति प्रयोज्यकर्ता । ‘गतिबुद्धिप्रत्यवसानार्थ….’ इत्यादिभिः सूत्रैः धृधातुयोगे कर्मसंज्ञा तु न विहिता । अतः प्रयोज्यकर्तुः तृतीया एव साध्वी ।

140

शुद्धिकौमुदी