०४ सुबन्ताः

. ४. चतुर्थोऽध्यायः

सुबन्ताः ०१.जीवने तत्त्वस्य प्राधान्यता स्यात् ।

‘प्राधान्यता’ इति अपशब्दः । ‘प्राधान्यम्’ इति, ‘प्रधानता’ इति ‘प्रधानत्वम्’ इति वा प्रयोक्तव्यम् । ‘प्राधान्यम्’ इत्यत्र भावार्थे ‘ष्यञ्’ । ‘प्रधानत्वम्’ इत्यत्र ‘त्व’प्रत्ययः भावार्थे । ‘प्रधानता’ इत्यत्र ‘तल्’ भावार्थे । एवं भावार्थे त्रयः प्रत्ययाः । एकस्मिन्नेव अर्थे प्रत्ययद्वयस्य प्रसक्तिः नास्ति । किन्तु लोके प्रमादवशात् भावार्थकस्य प्रत्ययद्वयस्य योजनं कृतं दृश्यते । एतत् अनुचितम् । ‘प्राधान्यता’सदृशानि अन्यानि कानिचन पदानि यथा -

अशुद्धानि (x) शुद्धानि
वैशिष्ट्यता वैशिष्ट्यम् ।
ऐक्यता ऐक्यम्
दाढयता दाय॑म्
मौर्य्यता मौर्यम्
काठिन्यता काठिन्यम्
शौर्यता शौर्यम्
वैरस्यता वैरस्यम्
नैपुण्यता नैपुण्यम्
प्रामुख्यता. प्रामुख्यम्
वैविध्यता वैविध्यम्
साफल्यता साफल्यम्
प्रावीण्यता प्रावीण्यम्
नावीन्यता नावीन्यम्
प्रामाण्यता प्रामाण्यम्

वैशिष्ट्यादीनि यथा तथैव “विशिष्टता’ “विशिष्टत्वम्’ इत्यादीनि रूपाणि अपि साधूनि एव ।।

3B

शुद्धिकौमुदी

०२. सः अत्रतः तत्र गतवान्, तत्रतः अन्यत्र गतवान् ।।

‘अत्रतः’ ‘तत्रतः’ इत्येतत् उभयम् अपि अशुद्धम् । ‘इतः’ ‘ततः’

इति प्रयोक्तव्यम् । तस्मिन् इति सप्तम्यन्तात् स्वार्थे (सप्तम्यर्थे ) त्रल्प्रत्यये कृते (सप्तम्यास्त्रल् - ५.३.१०) ‘तत्र’ इति रूपं सिद्ध्यति । एवं च ‘तत्र’ इत्यस्य प्रकृतिः ‘तत्’शब्दः । “तसिल्’प्रत्ययस्य प्रकृतिः अपि ‘तत् शब्दः एव । (पञ्चम्यास्तसिल - ५.३.७) जलप्रत्ययान्तात् सप्तम्यर्थकात् ‘तत्र’ इत्येतस्मात् तसिल न विहितः, अपि तु पञ्चम्यन्तात् तच्छब्दात् विहितः । अतः ‘तत्रतः’ इति असाधु । एवम् एव सप्तम्यन्तात् एतच्छब्दात् त्रलि ‘अत्र’ इति रूपम् । तसिलि तु इदमः ‘इतः’ इति । अत्रापि तसिल चलन्तात् सप्तम्यर्थकात् ‘अत्र’ इत्येतस्मात्

न भवति । ०३. बालकः उपरितः पतितः ।

‘उपरितः’ इति अपशब्दः । ‘उपरि’ इति, “उपरिष्टात्’ इति वा प्रयोक्तव्यम् । ऊर्ध्वशब्दात् सप्तमीपञ्चमीप्रथमार्थेषु उपादेशः रिथ्रिष्टातिलौ च ‘उपर्युपरिष्टात्’ (५.३.३१) इति सूत्रेण । तस्मात् ‘उपरि’ ‘उपरिष्टात्’ इति शब्दौ पञ्चम्यर्थको अपि । अतः “उपरि’ इति प्रयुक्ते एव ‘ऊर्ध्वभागतः’ इत्यर्थः सिद्ध्यति । पुनः तसिलः प्रयोगः न आवश्यकः । अन्यच्च ‘उपरि’शब्दात् तसिल न विहितः अपि । ‘बालकः उपरि पतितः’ इति प्रयोगः कृतः चेत् ‘ऊर्ध्वभागात्’ इत्यर्थः सिद्ध्यति एव । स्पष्टप्रतीतिः नास्ति इति यदि चिन्त्यते तर्हि ‘उपरिष्टात्’

इति प्रयुज्यताम् । ‘ऊर्ध्वभागात्’ इति वा प्रयुज्यताम् । उपरिष्टात् इत्यस्य पञ्चम्यर्थकत्वम् इति, ‘उपरि’ इत्यस्य सप्तम्यर्थ मात्रकत्वम् इति वा भ्रान्तिः मास्तु । उभयोः अपि सप्तमीपञ्चमीप्रथमार्थाः सन्ति एव । विद्यालयतः इत्यत्र तसिल्प्रत्ययः । ‘विद्यालयतः’ इति रूपं तु साधु । किन्तु अत्र ‘तसिल्’ इति कथनम् असाधु । वस्तुतः अत्र तस्प्रत्ययः । तसिल् सर्वनामशब्दमात्रात्

सुबन्ताः

विहितः, न तु सर्वस्मात् । अतः विद्यालयतः इत्यत्र तसिल न भवति । ‘तस्’ तु भवति । ‘आधादिभ्यः उपसंख्यानम्’ इति वार्तिकेन [“प्रतियोगे पञ्चम्यास्तसिः’ (५.४.४४) इति सूत्रे ] तस् । एषः एव

‘सार्वविभक्तिकः तसिः’ इत्यपि उच्यते । ०५. तत् बहिस्तात् अन्तः आनय ।

‘बहिस्तात्’ इति अपशब्दः । “बहिर्भागतः’ इति, ‘बहिः’ इत्येव वा वक्तव्यम् । अस्तातिप्रत्ययः बहिश्शब्दात् न विहितः । अतः बहिस्तात् इत्यत्र अस्तातिः अस्थाने । पाश्चिमात्याः अपि संस्कृताध्ययने आसक्ताः दृश्यन्ते । ‘पाश्चिमात्याः’ इति अपशब्दः । ‘पाश्चात्त्याः’ इति वक्तव्यम् । ‘दक्षिणापश्चात्पुरसस्त्यक्’ (४.२.९८) इति सूत्रेण पश्चाच्छब्दात् त्यक्प्रत्यये कृते ‘पाश्चात्त्यः’ इत्यस्य सिद्धिः । त्यक्प्रत्ययः पश्चाच्छब्दात् विहितः, न तु पश्चिमशब्दात् । अतः ‘पाश्चिमात्यः’ इति रूपं न भवति । ‘पाश्चात्त्यः’ इत्यत्र तकारद्वयं लेखनीयम् इति स्मर्तव्यम् । (पश्चाच्छब्दगतः एकः तकारः, त्यक्प्रत्ययगतः अपरः । आहत्य

तकारद्वयम् ।) ०७. औत्तरेयाः हिन्दीभाषया वदन्ति प्रायः ।

‘औत्तराहाः’ इति वक्तव्यम् । ‘उत्तरादाहञ्’ इति वार्तिकात् आहञ् उत्तरशब्दात् । उत्तराशब्दात् ढकि औत्तरेयः इति रूपं तु भवति । किन्तु ढक् अपत्यार्थकः । अतः उत्तरायाः अपत्यम् इति अर्थः सिद्धयति । स च अर्थः अत्र न अभिप्रेतः ।।

एवं वाराणसेयः’ इति शब्दोऽपि । (नद्यादिभ्यो ढक् - ४.१.९७)

‘वाराणसीयः’ इति तु दोषाय । ०८. एषा राष्ट्रीया समस्या अस्ति ।

‘राष्ट्रिया’ इति वक्तव्यम् । राष्ट्रशब्दात् ‘राष्ट्रावारपाराद्घखौ’ (४.२.९३) इति सूत्रेण ‘घ’प्रत्ययः । घस्य इयः ‘आयनेयीनीयियः’ (७.१.२) इति सूत्रेण । तस्मात् ‘राष्ट्रियः’ इति रूपस्य सिद्धिः । केचन - “वृद्धाच्छः (४.२.११४) इति सूत्रेण छप्रत्ययः अपि भवति । छस्य ईयः । तस्मात् ‘राष्ट्रीयः’ इत्यपि सिद्धम्’ इति वदन्ति । .

शुद्धिकौमुदी

एतत् असत् । छप्रत्ययः सामान्यतया विहितः । घप्रत्ययः तु विशेषतः विहितः । छघप्रत्यययोः बाध्यबाधकभावः अस्ति एव । अतः छप्रत्ययं

बाधित्वा घप्रत्ययः एव प्रवर्तते । तस्मात् ‘राष्ट्रियः’ इत्येव रूपम् । ०९. महाराष्ट्रियाः मराठीभाषया भाषन्ते ।

“महाराष्ट्रीयाः’ इति रूपं साधु । नात्र राष्ट्रशब्दः अस्ति, येन ‘राष्ट्रियः’ इति इकारस्य ह्रस्वः स्यात् । महाराष्ट्रशब्दः राष्ट्रशब्दात् अन्यः । अतः न ‘घ’प्रत्ययः । अपि तु भवार्थे छप्रत्ययः । येन विधिस्तदन्तस्य’ (१.१.७२) इति सूत्रस्य बलात् राष्ट्रशब्दस्य यत् विहितं तत् महाराष्ट्रशब्दस्यापि भवति इति न चिन्तनीयम् । ‘समासप्रत्ययविधौ प्रतिषेधः’ इति वार्तिकेन प्रत्ययविघौ तस्य निषेधात् । ‘राष्ट्रावार…’ इति सूत्रेण प्रत्ययः खलु विधीयते ।

अतः महाराष्ट्रीयः इत्यत्र ईकारः एव । एवं राष्ट्रशब्दात् पूर्वं (समासाङ्गत्वेन) किञ्चन पदम् अस्ति चेत् न घप्रत्ययः, अपि तु छप्रत्ययः । तस्मात् न ह्रस्वता । अतः ‘बहुराष्ट्रीया’ “हिन्दुराष्ट्रीया’ इत्यादिषु दीर्घः एव । केवलस्य राष्ट्रशब्दस्य प्रयोगे तु

हस्वः । १०. दुष्टैः जनानां हत्या कृता ।

‘हननं कृतम्’ इति वक्तव्यम् । ‘हत्या’ इत्यत्र हनधातोः क्यप् कृतः । स च सुप्युपपदे एव विहितः, न तु निरुपपदे । हत्या इत्यत्र उपपदं किमपि नास्ति । अतः क्यप् न भवति । ‘हनस्त च’ (३.१.१०८) इति सूत्रस्य वृत्तौ ‘सुप्युपपदे’ इति स्पष्टम् उक्तम् । बालमनोरमाटीकायां ‘निरुपपदं हत्येति तु असाध्वेव’ इति पतिरपि लिखिता । अतः निरुपपदं ‘हत्या’ इति रूपम् असाधु ।

‘ब्रह्महत्या’ ‘आत्महत्या’ इत्यादयः तु साधवः ।। ११. आरक्षकभटैः हन्तकः मारितः ।

‘हन्तकः’ इति अपशब्दः । ‘हननकर्ता’ इत्यर्थः अत्र अपेक्षितः । हनधातोः कर्बर्थे ण्वुल्प्रत्ययः अत्र कृतः । हनधातोः ण्वुलि ‘हनस्तोऽचिण्णलोः’ (७.३.३२) इति हन्तेः तकारः । ‘हो हन्तेः…’ (७.३.५४) इति कुत्वेन हकारस्य घकारः । ‘युवोरनाकौ’ इति ण्वुलवयवभूतस्य वकारस्य अकादेशः । तस्मात् ‘घातकः’ इति रूपं

सुबन्ताः

सिद्ध्यति । कर्थे तृच्शिनिप्रभृतयः अपि सन्ति । तृचि ‘हन्ता’ इति रूपम् । णिनि ‘घाती’ इति । ‘हन्तकः’ इति रूपं तु कथमपि न

भवति । १२. अपत्यहीनाः वृद्धाप्ये कष्टम् अनुभवन्ति ।

‘वार्थके’ इति, “वार्थक्ये’ इति वा वक्तव्यम् । वृद्धः एव वृद्धकः । स्वार्थे कः । वृद्धकस्य भावः वार्धक्यम् । ‘गुणवचनब्राह्मणादिभ्यः ष्यञ्’ इति सूत्रेण ष्यञ् । वृद्धस्य आप्तुं योग्यं यत्किञ्चित् वृद्धाप्यं भवितुम् अर्हति । स च अर्थः अत्र न अभिप्रेतः । बाल्ययौवनादिः दशाविशेषः अत्र वक्तुम् इष्टः । सः भावार्थकः एव स्यात् । वार्धक्यविषये अपरः अपि साधुत्वकथनक्रमः दृश्यते । स च इत्थम् - “वृद्धस्य भावः वार्द्धकम् । ‘द्वन्द्वमनोज्ञादिभ्यश्च’ - ५.१.१३३ इति सूत्रेण भावे वुञ् । वार्द्धकम् एव वार्धक्यम् । ‘चतुर्वर्णादीनां स्वार्थे ष्यञ् वक्तव्यः’ इति वार्तिकेन स्वार्थे ष्यञ् । अतः भावार्थकः वुञ्, वुञर्थकः एव ष्यञ् वा प्रयोक्तव्यः’’ इति । किन्तु कौमुद्यां दत्तानि उदाहरणानि पश्यामः चेत् एतेन क्रमेण समर्थनम् अनुचितम्

इति भाति । अतः अस्माभिः पूर्वदर्शितक्रमः आश्रितः । १३. केरलेषु सर्वे अक्षरस्थाः एव ।

‘अक्षरज्ञाः एव’ इति, ‘साक्षराः एव’ इति वा प्रयोक्तव्यम् । यः अक्षरे तिष्ठति सः अक्षरस्थः स्यात् । अत्र तु अक्षरज्ञता अपेक्ष्यते । अतः ‘अक्षरज्ञः’ इति प्रयोगः करणीयः । ‘साक्षरः’

इत्यस्यापि सः एव अर्थः । १४. अध्यक्षभाषणं श्रुत्वा सर्वे सभिकाः करताडनं कृतवन्तः ।

‘सभ्याः ’ इति वक्तव्यम् । ‘सभायां ये भवन्ति ते’ इत्यर्थः अत्र अपेक्षितः । सभायां साधवः ‘सभ्याः’ भवन्ति । सभिकाः नाम द्यूतकाराः । तथा हि कोषः - ‘सभिकाः द्यूतकारकाः’ इति । (अमरः) सभा नाम द्यूतस्थानम् अपि । सभा द्यूतम् आश्रयत्वेन अस्य अस्ति इति सभिकः । एवं सभिकाः भवन्ति द्यूतकाराः । सभायां ये भवन्ति ते सभ्याः । “सभासदः सभास्ताराः सभ्याः सामाजिकाश्च ते’ इति अमरः । अतः सभ्यसभिकयोः अर्थभेदं मनसि निधाय शब्दप्रयोगः

शुद्धिकौमुदी करणीयः । अन्यथा सम्मानयोग्याः सभ्याः सभिकशब्दप्रयोगेण

निन्दिताः स्युः । १५. सम्भवतः सः अद्य न आगच्छति ।

‘प्रायः’ ‘प्रायशः’ इति वा प्रयोक्तव्यम् । सम्भवपदस्य उत्पत्त्यादयः अर्थाः । तथा हि कोषः - ‘सम्भवो जनने हेतौ मेलके चारजन्मनि । आधेयस्याधारानतिरिक्तत्वे समयेऽपि च’ इति । ते च अर्थाः अत्र न अभिप्रेताः । प्रायः, प्रायशः, प्रायेण इत्यादयः शब्दाः अपेक्षितम्

अर्थं गमयन्ति । १६. सभायाम् अनुमानतः त्रिशतं जनाः आसन् ।

अत्रापि प्रायः, प्रायेण, प्रायशः इत्यादिषु अन्यतमः शब्दः प्रयोक्तव्यः । ‘अनुमानतः’ इत्येषः शब्दः अपेक्षितम् अर्थं गमयितुम् असमर्थः । अनुमितेः करणं = हेतुः ‘अनुमानम्’ इत्येतत् तर्कशास्त्रीय पारिभाषिकं किञ्चन पदम् । अनुमानपदस्य यः अर्थः सः अत्र न

अभिप्रेतः । १७. अहम् अनुमानं करोमि यत् ….

‘अहम् ऊहां करोमि यत्’ ‘अहं चिन्तयामि यत्’ ‘अहं तर्कयामि

यत्’ इत्येवं स्यात् वाक्यस्य आनुपूर्वी । अनुमानपदस्य अर्थः पूर्वं विवृतः एव । तादृशः अर्थः अत्र न अपेक्षितः । न पत्र हेत्वादिकं दृष्ट्वा व्याप्तिज्ञानपुरस्सरं पक्षे किमपि निश्चीयते ।

ऊह्यते, तय॑ते, चिन्त्यते वा । अतः तदनुगुणम् एव वाक्यं रचनीयम् । १८. कृपया मम सहायं करोतु मित्र !

‘साहाय्यम्’ इति प्रयोक्तव्यम् । सहायः नाम सहकर्ता सहैव स्थितः वा । एतस्मिन् वाक्ये तु सहायस्य भावः कर्म वा अपेक्षितम् । तस्मिन्नर्थे

ष्यञ् । ततः ‘साहाय्यम्’ इति रूपम् । । १९. एषः मम साहाय्यकः ।

“सहायकः’ इति पदेन एव इष्टसिद्धिः । सहायः नाम सहकर्ता । सहायः एव सहायकः । स्वार्थे कप्रत्ययः । तथा हि कोषः - ‘अनुप्लवः

सहायश्चानुचरोऽभिसरः समाः’ इति । (अमरः) २०. अद्यतनं गायनम् अत्युत्तमम् आसीत् ।

“गानम्’ इति वक्तव्यम् । अत्र गानक्रिया अभिप्रेता । तन्नाम गैधातोः ।

सुबन्ताः

भावे ल्युटि कृते ‘गानम्’ इति रूपम् । गायनः नाम गानकर्ता । ‘ण्युट’ च’ (३.१.१४७) इति सूत्रेण कर्बर्थे ण्युट् । कुशलः गायकः इति

तस्य अर्थः । गायकगायनौ समानार्थको । (गानकर्तारौ इत्यर्थः ) २१. तस्य पुस्तकस्य एका प्रतिः प्रेषणीया ।।

‘प्रतिकृतिः’ इति प्रयोक्तव्यं, शब्दान्तरं वा । । ‘प्रति’ इति अव्ययम् । तस्य प्रयोगे विभक्तिप्रत्ययस्य लुक् । अतः विभक्तिप्रत्ययः न दृश्यते । अन्यच्च प्रतिशब्दः प्रतिकृत्यर्थे न प्रयुक्तपूर्वः

अपि । हिन्द्यादिभाषाप्रभावकारणतः एतादृशाः शब्दाः प्रयुज्यन्ते । २२. अष्टावधानकार्यक्रमे पुच्छकाः विविधान् प्रश्नान् पृच्छन्ति ।

‘प्रच्छकाः’ इति प्रयोगः वरम् । ज्ञीप्सार्थकस्य प्रच्छधातोः कर्बर्थे ण्वुलि प्रच्छकः इति रूपम् । अत्र सम्प्रसारणस्य न कापि प्रसक्तिः ।

अतः पृच्छकः इति रूपं न । ये तु प्रच्छधातोः ण्वुलि ‘पृच्छकः’ इति रूपम् इति वदन्ति ते तु भ्रान्ताः । वर्तमाने ‘पृच्छति’ इति यत् रूपं भवति तस्य सादृश्यं मनसि निधाय ते तादृशं रूपं वदन्ति । लटि प्रथमपुरुषैकवचने तु विकरण प्रत्ययः शः । तस्य सार्वधातुकत्वम् । तस्मात् ङिद्वद्भावः । (‘सार्वधातुकमपित्’ इति सूत्रेण) । ततः सम्प्रसारणम् । ण्वुल् तु आर्धधातुकम् । अतः न तस्य ङिद्वद्भावः । तस्मात् न सम्प्रसारणम् । केचन तु - पृच्छां प्रश्नं करोति इत्यस्मिन्नर्थे पृच्छाशब्दात् णिचि ण्वुलि

“पृच्छकः’ इति सिद्धम् इति वदन्ति । २३. अद्य शारीरिकाध्यापकः अनुपस्थितः अस्ति ।

‘शारीरकाध्यापकः’ इति, “दैहिकाध्यापकः’ इति वा वक्तव्यम् । शरीरस्य अयं शारीरः । ततः स्वार्थे कः । शरीरसम्बन्धी इत्यर्थः । शारीरकः अध्यापकः शारीरकाध्यापकः इति कर्मधारयः । ‘शारीरिकः’ इति रूपम् अपि भवति । तेन निर्वृत्तम् इत्यर्थे ठक् । ठस्य इकः । तस्मात् शारीरिकपदस्य सिद्धिः । किन्तु अयमर्थः अत्र न अभिप्रेतः । अतः अपेक्षितस्य अर्थस्य ज्ञापनाय ‘शारीरक पदम् एवं प्रयोक्तव्यम् । ‘शारीरकीयम्’ इति छप्रत्ययान्तम् अपि प्रयोक्तुं शक्यम् । ‘दैहिकाध्यापकः’ इति प्रयोगः शोभतेतराम् ।

शुद्धिकौमुदी

२४. भवता न्यायेन मार्गेण गन्तव्यम् ।

‘न्याय्येन’ इति प्रयोक्तव्यम् । न्यायशब्दः पुंलिङ्गविशिष्टः कश्चन अस्ति । स तु न धर्मिपरः । अत्र तु मार्गस्य विशेषणत्वेन धर्मिपरः शब्दः अपेक्षितः । अतः ‘न्याय्य’पदं प्रयोक्तव्यम् । ‘न्यायादनपेतः’ इत्यादयः अर्थाः भवन्ति न्याय्यपदस्य । तथा हि भर्तृहरिप्रयोगः - ‘न्याय्यात्पथः प्रविचलन्ति पदं न धीराः’

इति । २५. सः निराशया एवम् उक्तवान् ।

“निराशतया’ इति वक्तव्यम् । निर्गता आशा यस्मात् सः निराशः । निराशस्य भावः निराशता । ‘प्रकृत्यादिभ्यः उपसंख्यानम्’ इति

तृतीयान्तस्य तस्य क्रियायाम् अन्वयः । २६. भवता सावधानतया पठनीयम् ।

भवता सावधानं पठनीयम् । भवान् सावधानेन पठेत् । ‘सावधानतया’ ‘सावधानम्’ ‘सावधानेन’ इति त्रिधा अपि प्रयोगः

युक्तः एव । अवधानेन सहितः सावधानः । तस्य भावः सावधानता । तस्य प्रकृत्यादित्वात् (प्रकृत्यादिगणे प्रवेशात्) तृतीयान्ततया क्रियायाम् अन्वयः । “सावधानम्’ इत्यत्र कर्मत्वेन क्रियायाम् अन्वयः । ‘अवधानेन सह यथा स्यात् तथा’ इति अर्थः । ‘सावधानेन’ इत्यत्र ‘मनसा’ इति पदम् अध्याहार्यम् । ‘अवधानसहितेन मनसा’ इति तात्पर्यं भवति । ‘सावधानेन भोक्तव्यम्’ इत्यादयः प्रयोगाः बहुधा श्रूयन्ते इत्यतः मनश्शब्दस्य अध्याहारः चिन्तितः । स्थितस्य

गतेः चिन्तनार्थम् एषः मार्गः आश्रितः । २७. भवता सावधानेन गन्तव्यं, न तु वेगेन ।

अत्र ‘मन्दगत्या’ इति, ‘मन्दम्’ इति वा प्रयोक्तव्यम् । मन्दगत्यर्थे अत्र सावधानपदप्रयोगः कृतः । तम् आशयं स्पष्टीकर्तुम् एव वेगस्य निषेधः कृतः । किन्तु मन्दगत्यर्थे सावधानपदं न युज्यते । कश्चित् अवधानसहितः यदा भवति तदा गतिः मन्दा भवेत् नाम । तथापि सावधानपदस्य तु मन्दगतिः इति अर्थः नास्ति । अतः तस्य प्रयोगः अत्र औचित्यं न आवहति ।सुबन्ताः

२८. किं भोः, अपरूपदर्शनं भवतः !

“विरलदर्शनः भवान्’ इति प्रयोक्तव्यम् । प्रादेशिकभाषाप्रभावकारणतः विरलार्थे अपरूपशब्दस्य प्रयोगः कृतः अत्र । तत् अयुक्तम् । अपगतं रूपं यस्मात् सः अपरूपः । तन्नाम

रूपहीनः । तादृशः अर्थः न अत्र अभिप्रेतः । २९. राज्ञः धनागारे यथेच्छं धनम् अस्ति ।

“प्रभूतम्’ इति प्रयोक्तव्यम् ।

अत्र धनस्य बाहुल्यम् इष्यते, न तु यथेष्टता । इच्छाम् अनतिक्रम्य यथेच्छम् । धनस्य सत्तायां कस्यापि इच्छायाः प्रसक्तिः नास्ति । क्वचित् ‘यथेच्छम्’ ‘प्रभूतम्’ इति उभयोः अपि प्रयोगः शक्यः । (सूक्ष्मः अर्थभेदः तु तत्र भवति एव ।) यथा - सः यथेच्छं/प्रभूतं कार्यं करोति । अत्र पर्यायेण उभयोः अपि पदयोः प्रयोगे न विसङ्गतिः । एतावता तयोः पर्यायार्थकता न।। यत्र यथेच्छशब्दः न सङ्गच्छते तादृशं स्थलं तु उपरि दर्शितम् । यत्र प्रभूतपदस्य प्रयोगः न सङ्गच्छते तादृशं स्थलं यथा - त्वं मम गृहे यथेच्छं वस ।

अतः यथेच्छ-प्रभूतयोः नियतप्रयोगस्थलानि सन्ति, पर्यायेण प्रयोगोऽपि

क्वचित् सङ्गच्छते एव । अतः तयोः प्रयोगविषये सावधानता अपेक्ष्यते । ३०. भवतः आगमनेन मम गृहं पुनीतं जातम् ।

‘पुनीतम्’ इति अपशब्दः । “पूतम्’ इति प्रयोक्तव्यम् । पवनार्थकस्य पूधातोः क्तप्रत्यये पूतः इति रूपम् । एतस्मिन् एव अर्थे

पवित्रशब्दोऽपि प्रयोक्तुं शक्यः । ३१. अद्यत्वे जनाः धनैकपराः दृश्यन्ते ।

‘अद्यत्वे’ इति प्रयोगः न दोषाय । ‘आज कल’ इत्यर्थे ‘अद्यत्व’ शब्दः प्रयुज्यते बहुधा । तत् असहमानाः केचन - ‘अस्मिन् अहनि इत्यर्थकात् अद्यशब्दात् भावार्थकः त्वप्रत्ययः न दृष्टचरः, भवार्थे ट्युप्रत्ययात् अद्यतनः इत्येव साधु’ इति वदन्ति । तत् असत् । ‘अद्यत्वे’ इति भाष्यकारैः एव निपातितं दृश्यते । ‘अस्मिन् काले’ इत्येव अर्थः तस्य ।

64

शुद्धिकौमुदी

भाष्यप्रयोगः यथा - ‘पुराकल्प एवमासीत्….। अद्यत्वे न तथा । वेदमधीत्य…’

  • पस्पशाह्निके प्रयोजनचिन्तनावसरे ३२. अद्य सृजनात्मकप्रतिभा विरला जाता अस्ति ।

“सर्जनात्मकम्’ इति वक्तव्यम् । ‘सृजनम्’ इति अपशब्दः ।

सृजधातोः ल्युटि गुणः तु दुर्वारः । गुणे कृते ‘सर्जनम्’ इति रूपम् । ३३. अयं श्रेष्ठतमः पण्डितः ।

‘श्रेष्ठतमः’ इति साधुः एव इति वदन्ति प्रसिद्धाः वैयाकरणाः श्रीमन्तः

चारुदेवशास्त्रिवर्याः । अतिशयेन प्रशस्यः भवति श्रेष्ठः । ‘प्रशस्यस्य श्रः’ (५.३.६०) इति सूत्रेण प्रशस्यस्य श्रादेशः । इष्ठन्प्रत्ययः ‘अतिशायने तमबिष्ठनौ’ (५.३.५५) इति सूत्रेण । प्रशस्यतमार्थे एव अत्र इष्ठन्प्रत्ययः । एतादृशात् आतिशायनिकान्तात् आतिशायनिकः तमप् पुनः न भवति इति केचन अभिप्रयन्ति । चारुदेवशास्त्रिणां पतिः तु एषा -

“यदा च प्रकर्षवतां पुनः प्रकर्षो विवक्ष्यते तदा आतिशायनिकान्तात् अपरः आतिशायनिकः प्रत्ययः भवत्येव इति वृत्तौ उक्तम् । तेन

श्रेष्ठतमः इति साधु” इति । ३४. अद्य समाजे जागतिः न दृश्यते ।

‘जागर्या’ इति प्रयोक्तव्यम् । जागृतिः इति अपशब्दः । ‘जागर्तेरकारो वा’ इति वार्तिकेन अकारः विकल्पेन । अकारे कृते जागरा’ इति रूपम् । अकाराभावे शः । शे परतः सार्वधातुके यक् । ‘जाग्रोऽविचिण्…’ इति गुणः । ततः ‘जागर्या’ इति रूपं सिद्धम् । क्तिनः अपवादत्वेन एषः विधिः अस्ति । अतः जागृधातोः

क्तिनन्तं रूपं नास्ति । ३५. समाजजागति विना संस्कृतविकासः असाध्यः ।

‘जागर्तिः’ इत्यस्य परिहारः वरम् । ‘जागरा’ इति, ‘जागर्या’ इति वा

प्रयोक्तव्यम् । ‘जागृधातोः क्तिन्नन्तं रूपं नास्ति’ इति पूर्वम् उक्तम् एव । ‘जागतिः इत्यत्र क्तिच् वक्तव्यः । चारुदेवशास्त्रिणः शब्दापशब्दविवेके वदन्ति - ‘जागर्तिरिति क्तिचि कथञ्चित् व्युत्पाद्यम् । प्रयोगस्तु जागर्तेः

सुबन्ताः

सुदुर्लभः’ इति । अतः जागर्तेः प्रयोगस्य परिहारः अपि वरम् एव । ३६. भवता कतमं पुस्तकम् इष्यते ?

‘कतमम्’ इति अशुद्धम् । ‘कतमत्’ इति वक्तव्यम् ।

कतमशब्दः ‘डतमच्’प्रत्ययान्तः । नपुंसके तु ‘अड्डतरादिभ्यः पञ्चभ्यः’ (५.१.२५) इति अद्डादेशः । ततः कतमत् इति रूपम् । कतमच्छब्दस्य पुंलिङ्गरूपं ‘कतमः’ इति । तत् अकारान्तम् । पुंसि यः

अकारान्तः भवति सः नपुंसके अमन्तः भवति एव इति न । ३७. अन्यतमत् उदाहरणं वदतु भोः ।

‘अन्यतमत्’ इति अपशब्दः । ‘अन्यतमम्’ इति प्रयोक्तव्यम् । यद्यपि अन्यतमशब्दः कतमशब्दः इव दृश्यते, तथापि सः कतमशब्दः इव डतमच्प्रत्ययान्तः न । अव्युत्पन्नः सः डतमच्प्रत्ययान्तार्थं बोधयति

स्वभावात् । ३८.(अत्र चिकित्सार्थं धनं न स्वीक्रियते ।) ‘उचिता’ चिकित्सा अत्र ।

अत्र ‘उचित’शब्दः अस्थाने । “निश्शुल्का’ इति प्रयोक्तव्यम् । ‘उचित शब्दः ‘योग्यः’ ‘अर्हः’ इत्यादीन् अर्थान् बोधयति । ते च अर्थाः अत्र न अपेक्षिताः । शुल्कं विना या चिकित्सा सा भवति

‘निश्शुल्का’ । ३९. एषः धनिकः उदारी अस्ति ।

‘उदारी’ इति अपशब्दः । ‘उदारः’ इति प्रयोक्तव्यम् । उदारः स्वयं धर्मिपरः । औदार्यवान् इत्यर्थः । अतः तस्य धर्मिपरतां

गमयितुम् अन्यः मतुबर्थकः प्रत्ययः न आवश्यकः । ४०. यदि सर्वाणि घटकानि सम्यक् कार्यं कुर्वन्ति तर्हि संस्था वर्धते ।

“घटकानि’ इति प्रयोगः न दोषाय । शब्दान्तरम् अपि प्रयोक्तुं

शक्यम् । ‘Unit’ इत्यर्थं ज्ञापयितुम् अयं शब्दः प्रयुज्यते । ‘सूत्रघटकम् इदं पदम्’ इत्यादयः प्रयोगाः श्रूयन्ते शास्त्रेषु । अत्र ‘घटक पदस्य सम्बन्धकल्पकम्, अङ्गम् इत्यादयः अर्थाः । तस्मात् ‘घटक पदं परम्परया Unit इति अर्थ बोधयितुम् अर्हति । यदि एतेन पदेन न तुष्टिः तर्हि पदान्तरं प्रयुज्यतां नाम ।

शुद्धिकौमुदी

४१. एतस्य पुस्तकस्य मुद्रणाय उत्तमस्य कर्गजस्य उपयोगः कृतः ।

‘कर्गजस्य’ इत्येतस्य परिहारः वरम् । ‘कागदस्य’ इति प्रयोगः उचितः । कर्गजशब्दस्य प्रयोगः बहुत्र क्रियमाणः दृश्यते । किन्तु तस्य व्युत्पत्तिः का इति न ज्ञायते । ‘Paper’ इत्यर्थः बोधयितुम् इष्टः । तस्मिन् अर्थे ‘कागद’शब्दस्य प्रयोगः वरम् । स च शब्दः प्रयुक्तपूर्वः, प्रकृतिप्रत्ययादिविवेकयुक्तः च । “कागः कागवर्णो मस्यादिः दीयते अत्र’ इति विग्रहः । प्रयोगो यथा

. भूर्जे वा वसने रक्ते क्षौमे वा तालपत्रके ।

कागदे वाष्टगन्धेन …….

    • मन्त्रकल्पद्रुमः ४२. अत्र सर्वाणि सौविध्यानि सन्ति । .

अत्र ‘आनुकूल्यानि’ इति शब्दः, शब्दान्तरं वा प्रयोक्तव्यम् । शोभना विधा सुविधा । ततः स्वार्थे ष्यजि सौविध्यम् इति रूपस्य सिद्धिः । विधा नाम प्रकारः । अत्र प्रकारार्थस्य न कोऽपि सम्बन्धः । अतः अस्थाने एतस्य शब्दस्य प्रयोगः । आनुकूल्यम् इति प्रयोगः, सौलभ्यम् इति प्रयोगो वा अत्र औचित्यम् आवहति । अथवा शिष्टप्रयोगः यदि कोऽपि स्यात् तर्हि इत्थं तस्य समर्थन शक्यम् - ‘सुकरतया विधत्ते इति सुविधः । ‘आतश्चोपसर्गे’ (३.१.१३६) इति कः । सुविधस्य भावः सौविध्यम्’ इति । स्थितस्य गतिः दर्शिता अत्र । तथापि ‘आनुकूल्य’शब्दस्य प्रयोगः

एव वरम् इत्यत्रैव नैर्भर्यम् अस्माकम् । ४३.ग्रामान्तरप्रदेशे मम गृहम् अस्ति ।

‘ग्रामान्तरप्रदेशे’ इति प्रयोगः अयुक्तः । “ग्रामप्रदेशे’ इति, ‘अमुक ग्रामजनपदे’ इति वा प्रयोक्तव्यम् । ग्रामान्तरं भवति अन्यः ग्रामः । अन्यस्मिन् ग्रामे वसामि इत्यर्थः अत्र न विवक्षितः । केषाश्चित् महानगराणां नाम्ना एव जनपदाः (जिल्ला) अपि भवन्ति । तादृशे वसन् कश्चित् उपर्युक्तं वचनं वदति । अतः अत्र ग्रामान्तरशब्दः परिहरणीयः । तत् जिल्लाक्षेत्रं सूचयितुं समुचितं पदान्तरं प्रयोक्तव्यम् ।

सुबन्ताः

67

४४. येन सम्मानम् अवमानं च समानतया दृश्यते सः समदर्शी ।

‘सम्मानः अवमानः च’ इति प्रयोक्तव्यम् । सम्मानावमानशब्दौ पुंलिने एव । ‘गर्वोऽभिमानोऽहङ्कारः’ इति अमरकोषः अत्र प्रमाणम् । (सम्मानावमानयोः उपसर्गभेदः, प्रत्ययः तु समानः ।) अनयोः एव अर्थयोः सम्माननम् इति, अवमाननम् इति च ल्युडन्तरूपम् अपि अस्ति । ल्युडन्तं च नपुंसकम् । अपमानशब्दः

अपि कश्चन अस्ति । अवमानः इत्येव अर्थः तस्य । ४५. भारतम् इदम् एकम् । अत्र विघटनं कदापि न भवेत् ।

‘भारतम् इदम् अखण्डम्’ इति प्रयोक्तव्यम् । ‘एकम्’ इति पदम् एकत्वं द्योतयति, तन्नाम द्वित्वादिकं निवारयति । भारतस्य एकत्वं तु स्वतः सिद्धम् एव । प्रकृतवाक्ये अखण्डत्वं हि विवक्षितं, न तु एकत्वम् । “एक शब्दस्य अखण्डार्थप्रतिपादकत्वं कुत्रापि न दृष्टचरम् ।

अतः ‘भारतम् इदम् अखण्डम्’ इति प्रयोगः एव उचितः । ४६. पण्डिताः भवन्तः कुत्र, पामराः वयं कुत्र ?

‘भवन्तः क, वयं क’ इति प्रयोगः एव उचितः स्यात् । महदन्तरं यदा द्योतयितुम् इष्यते तदा उभौ क्वौ प्रयुज्यते । तथा च वचनम् - ‘द्वौ क्वौ महदन्तरं सूचयतः’ इति । प्राचीनप्रयोगः यथा - ० क्व सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः ।

  • रघु. १.२

• क्व वयं व परोक्षमन्मथो……..

  • शाकुन्तलम् - २.१८ एतस्मिन् एव अर्थे द्वयोः “कुत्र’पदयोः प्रयोगः न दृष्टपूर्वः । अतः एव चारुदेवशास्त्रिणः वदन्ति - “द्वौ क्वौ महदन्तरं सूचयतः । तत्कस्मात्

इति चेत् । व्यवहारे परतन्त्राः वयं, न स्वतन्त्राः” इति । ४७.कुत्र कुत्र शक्यं तत्र सर्वत्र अहं संस्कृतेन वदामि ।

‘यत्र यत्र शक्यं तत्र सर्वत्र’ इति प्रयोक्तव्यम् । यत्तच्छब्दाभ्यां यः अर्थः अवगम्यते तं द्योतयितुम् इच्छति वक्ता । यच्छब्दस्थाने किंशब्दः प्रयुक्तः अस्ति तेन । अयं प्रयोगः अपेक्षितम् अर्थं न अवगमयति । अधिकरणजिज्ञासायां ‘कुत्र’ इत्येतत् प्रयुज्यते । अत्र तादृशी जिज्ञासा नास्ति । अतः अत्र यच्छब्दः एव प्रयोक्तव्यः ।

शुद्धिकौमुदी

४८. काया वाचा मनसा अहं देशसेवां करोमि ।

‘कायेन’ इति प्रयोक्तव्यम् । ‘काया’ इति रूपम् असाधु ।

देहपर्यायः कायशब्दः पुंसि । सः अकारान्तः । तस्मात् तृतीयाविभक्तौ तस्य रूपं भवति - ‘कायेन’ इति । अतः ‘काया’ इति प्रयोगः

भ्रान्त्या एव । ४९. संस्कृतभाषायाः उगमः कदा अभूत् इति केनापि न ज्ञायते ।

‘उगमः’ इति अपशब्दः । ‘उद्गमः’ इति, ‘उत्पत्तिः’ इति वा प्रयोक्तव्यम् । ‘उद्गमः’ इत्यत्र उदुपसर्गपूर्वकस्य गम्धातोः भावे अप् । ‘उत्पत्तिः’ इत्यत्र अपि उपसर्गः उत् एव । पत्लधातोः क्तिन् तत्र । उभयत्रापि अर्थः समानः । ‘उ’ इति उपसर्गः न कोऽपि अस्ति, येन धातोः पूर्व तस्य प्रयोगः स्यात् । उपसर्गस्तु ‘उत्’ इति । अतः उत्पूर्वकः गम्धातुः

पत्लधातुर्वा प्रयोक्तव्यः उत्पत्त्यर्थे । ५०. ‘किमर्थम् आगतम्’ इति पृष्टे तेन उक्तं - ‘तूष्णीम् आगतम्’ इति ।

‘निष्कारणम् आगतम्’ “विशेषकारणं विनैव आगतम्’ इत्यादीनि वाक्यानि प्रयोक्तव्यानि ।

अत्र ‘तूष्णीम्’ इति पदम् अस्थाने । तूष्णीम् इति मौनार्थकम् अव्ययम् । तथा हि अमरः - ‘मौने तु तूष्णीं तूष्णीकाम्’ इति । मौनं नाम निर्वचनस्थितिः । प्रकृतवाक्ये निर्वचनस्थितेः सवचनस्थितेः वा जिज्ञासा नास्ति । कारणजिज्ञासा अत्र । अतः उत्तररूपेण निष्कारणादयः शब्दाः प्रयोक्तव्याः । प्रादेशिकभाषायां केषाञ्चित् पदानाम् अर्थद्वयं भवति । प्रसङ्गानुगुणं स स अर्थः अवगम्यते । अर्थसूक्ष्मताम् अजानानाः केचन सर्वत्रापि

एकमेव पदं प्रयुञ्जते अनुवादाद्यवसरे । ५१. सभायाम् अतिथिं परिचाययता कार्यकर्ता उक्तं - ‘भवन्तः महान्तः

कवयः’ इति । ‘एषः महाकविः’ इति वाक्यविन्यासः वरं स्यात् । परिचयकथनसमये अनलिनिर्देशपूर्वकं हिन्दीभाषया उच्यते ‘आप’ इति । सा तु हिन्दीशैली । संस्कृतशैली ततः भिन्ना । सन्निकृष्टस्य जनस्य निर्देशाय एतदादयः शब्दाः प्रयुज्यन्ते, न तु भवच्छब्दः । अतः

सुबन्ताः

‘एषः’ इति प्रयोगः एव युक्तः । आदरार्थे सर्वत्र बहुवचनान्तप्रयोगः अपि न युक्तः । प्रादेशिकभाषायां तु आदरद्योतनाय बहुवचनान्तता एव प्रयुज्यते । संस्कृतभाषायां तु वर्यमान्यादयः आदरसूचकाः शब्दाः । एकवचनान्तं तान् (आदरान्)ि अपि निर्दिशति एव । अतः आदर द्योतनाय वर्यमहोदयादीनां प्रयोगपुरस्सरम् एकवचनान्तप्रयोगः न दोषाय

सर्वथा । ५२. तत्रभवन्तो भवन्तः सर्वे प्रणम्यन्ते अस्माभिः ।

‘तत्रभवन्तः सर्वे’ इति प्रयोगः प्रशस्ततरः । ‘तत्रभवन्तः’ ‘अत्रभवान्’ इत्यादयः पदसमुदायाः पूज्यवचनाः । ‘तत्र’पदसन्निधाने पूज्यार्थाभिधानेऽपि भवच्छब्दः सर्वनामत्वं तु न जहाति । अतः एव नाटकादिषु तत्रभवच्छब्दस्य अनन्तरं नाम्नः एव प्रयोगो दृश्यते । यथा - “तत्रभवान् कालिदासः आह…’ इत्येवम् । किन्तु ‘तत्रभवन्तो भवन्तः’ इत्येषा आनुपूर्वी तु प्राचुर्येण दृश्यते लोके । तस्मात् करिकलभादिषु यथा तथैव अत्रापि तत्रभवच्छब्दस्य पूज्यार्थ मात्रभिधायकत्वम् इति अभिप्रयन्ति वैयाकरणाः । अतः तत्रभवन्तो भवन्तः इति प्रयोगः अशुद्धः’ इति वक्तुं न शक्यते । अप्रशस्तता तु

आरोप्येत कैश्चित् । ५३.वराकेन तेन महत् कष्टम् अनुभूतम् ।

“वराकेन’ इति अशुद्धम् । ‘वराकेण’ इति वक्तव्यम् ।

णत्वस्य निमित्तं - रेफः, षकारः ऋकारः च । रेफषकारयोः परः ऋकारात् परश्च नकारः णत्वं प्राप्नोति । ‘रषाभ्यां नो णः समानपदे’ (८.४.१) इति सूत्रम्, ‘ऋवर्णान्तस्य णत्वं वाच्यम्’ इति वार्तिकं च अत्र प्रमाणम् । निमित्तनकारयोः मध्ये अट्कुप्वादयः सन्ति चेदपि णत्वं प्रवर्तते - ‘अट्कुप्वाङ्नुम्व्यवायेऽपि’ (८.४.२) इति सूत्रेण । “वराकेण’ इत्यत्र निमित्तस्य रेफस्य अनन्तरं आकार-ककार-एकाराः सन्ति । अतः णत्वं प्रवर्तते एव । तच्च णत्वं नित्यम् । अतः ‘वराकेण’ इत्येव प्रयोक्तव्यम् ।

शुद्धिकौमुदी

एतादृशानि अन्यानि उदाहरणानि यथा -

अशुद्धम् (x) || | शुद्धम् (V) शुष्कानि

शुष्काणि वैशेषिकानाम्

वैशेषिकाणाम् वृषभानाम्

वृषभाणाम् निरूपकेन

निरूपकेण द्रवद्रव्येन

द्रवद्रव्येण विश्वासार्हानाम्

विश्वासार्हाणाम् पितृव्यानाम्

पितृव्याणाम् क्षत्रियानाम्

क्षत्रियाणाम् तक्षकेन

तक्षकेण त्रिवर्षीयेन

त्रिवर्षीयेण ५४. विषयेऽस्मिन् विमर्शकाणाम् आशयः अन्यः एव अस्ति ।

“विमर्शकानाम्’ इति वक्तव्यम् । णत्वम् अत्र न सम्भवति । अत्र णत्वस्य निमित्तं रेफः । रेफनकारयोः मध्ये शकारः अपि अस्ति । स च णत्वस्य बाधकः । अतः अत्र णत्वं न भवति । एतादृशानि सन्ति बहूनि उदाहरणानि । अतः निमित्तनकारयोः मध्ये विघ्नकारकाः वर्णाः सन्ति किम् इति परिशील्य एव णत्वं कर्तव्यम् । .

एतादृशानि अन्यानि उदाहरणानि यथा -

अशुद्धम् (5) | शुद्धम् (1)| कार्यदर्शिणा

कार्यदर्शिना राजकीयेण

राजकीयेन प्रतिमाणाम्

प्रतिमानाम् नर्तकाणाम्

नर्तकानाम् अर्चकेण

अर्चकेन चर्च्यमाणः

चर्च्यमानः दृश्यमाणम्

दृश्यमानम् ५५. केनचित् महानुभावेन ‘सीतायणम्’ इति ग्रन्थः लिखितः ।

‘सीतायनम्’ इति प्रयोक्तव्यम् । ‘सीतायणम्’ इति अपशब्दः ।

सुबन्ताः

णत्वप्राप्तेः निमित्तं भवति रेफः षकारः वा । अट्कुप्वादीनां व्यवधाने सत्यपि णत्वं भवति निमित्ते सति । निमित्ताभावे तु णत्वं कथमपि न भवति । सूर्यस्यैव अभावे सूर्यकिरणानां प्रसक्तिः कथम् ? ‘सीतायणम्’ इत्यत्रापि एषैव गतिः । णत्वनिमित्तभूतः रेफः षकारः वा नास्ति तत्र । तस्मात् ‘सीतायनम्’ इत्येव रूपम् । णत्वप्रकरणम् अपरिशीलितवद्भिः प्रयुज्येरन् ‘सीतायणम्’ इत्यादीनि पदानि ।

एतादृशानि कानिचन उदाहरणानि यथा

अशुद्धम् (X)

| शुद्धम् (/) अनुधाव्यमाणः

अनुधाव्यमानः चिन्त्यमाणे

चिन्त्यमाने शशाङ्केण

शशाङ्केन माण्डलिकाणाम्

माण्डलिकानाम् उट्टङ्कणम्

उट्टङ्कनम् ५६.दौर्भाग्येन मया णत्वविषये अधिकं न ज्ञायते ।

‘दौर्भाग्येण’ इति प्रयोक्तव्यम् । ‘दौर्भाग्येन’ इति अपशब्दः । निमित्तस्य सद्भावे उत्तरपदे यदा कवर्गः भवति तदा (प्रातिपदिकान्तनुम् विभक्तिषु) णत्वं नित्यम् । ‘कुमति च’ (८.४.१३) इति सूत्रम् ।

अतः ‘दौर्भाग्येण’ इति रूपम् एव प्रयोक्तव्यम् । विस्तरः तु एषः -

यत्र खण्डद्वयं भवति (व्रीहिवापिणा इत्यादिषु) तत् सखण्डं पदम् इति उच्यते । तत्र निमित्तं पूर्वपदे, नकारश्च उत्तरपदे यदा भवति तदा “प्रातिपदिकान्त…’ इति सूत्रेण विकल्पेन णत्वम् । (स च नकारः प्रातिपदिकान्ते स्थितः, विभक्तिसम्बद्धः, नुम्सम्बद्धः वा भवेत् इति नियमः ।’) यदि उत्तरपदं कवर्गवत् (‘कु’मत्) भवति तदा णत्वं नित्यं

‘कुमति च’ इति सूत्रेण ।

अन्यानि उदाहरणानि यथा -

| अशुद्धम् (x)|

| शुद्धम् (/) शुष्कमेघानाम्

शुष्कमेघाणाम् १. णत्वसम्बद्धाः विशेषाः ‘णत्वणिजन्त’नामके लघुपुस्तके द्रष्टव्याः । अत्र तु

णत्वप्रकरणं ज्ञापयितुं न उद्युक्तम् । अतः णत्वसम्बद्धदोषस्थानमात्रं दर्शितम् ।

2

शुद्धिकौमुदी

चक्रवाकेन

चक्रवाकेण वर्षभोगिना

वर्षभोगिणा रविमयूखेन

रविमयूखेण वरयुवकानाम्

वरयुवकाणाम् गिरिगुहानाम्

गिरिगुहाणाम् ५७. सः नियमिततया योगासनकक्ष्यां गच्छति ।

‘नियमिततया’ इति शब्दः अस्थाने । “नियततया’ इति प्रयोक्तव्यम् । ‘नियमितः’ इत्यत्र इतच्प्रत्ययः वक्तव्यः स्यात् । तदस्य सञ्जातं तारकादिभ्यः इतच्’ (५.२.३६) इति हि सूत्रम् । “नियमयुक्तः’ इति तात्पर्यं भवति । ‘नियमयुक्तता’ अत्र न विवक्षिता । ‘सातत्येन’ इत्यर्थः अत्र अपेक्षितः । तम् अवगमयितुम् अर्हति ‘नियत’शब्दः । अतः

‘नियततया’ इति प्रयोगः एव औचित्यम् आवहति अत्र । ५८.आगतवतेभ्यः सर्वेभ्यः धन्यवादाः समर्प्यन्ते ।

‘आगतवतेभ्यः’ इति अपशब्दः । ‘आगतवद्ध्यः’ इति वक्तव्यम् । ‘आगतवद्भ्यः’ इत्यस्य प्रातिपदिकम् ‘आगतवत्’ इति । तकारान्तः शब्दः सः । ‘बहुवचने झल्येत्’ (७.३.१०३) इति एकारः अदन्ताङ्गस्य विहितः, न तु तकारान्तस्यापि । अतः अत्र एकारश्रवणं नास्ति । आगतवत् + भ्यस् इति स्थिते सन्धिकार्ये रुत्वविसर्गे च ‘आगतवद्भयः’ इति रूपम् । ‘आगतवतेभ्यः’ ‘आगतवतानाम्

इत्यादयः तु बालिशाः प्रयोगाः । ५९. अद्य मन्त्रिमण्डलस्य पुनर्रचना विहिता ।

‘पुनर्रचना’ इति अपशब्दः । ‘पुनारचना’ इति वक्तव्यम् ।

पुनर् इति रेफान्तम् अव्ययम् । रचनाशब्दः रेफादिः । पुनर् + रचना इत्यत्र रेफात् रेफः परः अस्ति रेफस्य रेफे परे लोपः ‘रो रि’ (८.३.१४) इति सूत्रेण । लोपे कृते पूर्वस्य अकारस्य दीर्घः ‘द्रलोपे पूर्वस्य दीर्घोऽणः’ (६.३.१ ११) इति सूत्रेण । तदा च ‘पुनारचना’ इति रूपम् । ‘पुनर्रचना’ इति रूपं प्रादेशिकभाषासु प्रयुज्यते । असंस्कृतं रूपं तत् ।

अन्यानि उदाहरणानि यथा -

पुनः + रोषः = पुनारोषःसुबन्ताः

73

अन्तः + राज्यीयम् = अन्ताराज्यीयम्

पुनः + रूपम् = पुनारूपम् एवमेव नीरोगता (निर् + रोगता), नीरसः (निर् + रसः) धनूराशिः

(धनुस् + राशिः) इत्यादयः अपि । ६०. तस्य नायकस्य महानता जनैः न ज्ञाता एव ।

‘महानता’ इति अपशब्दः । ‘महत्ता’ इति प्रयोक्तव्यम् ।

वक्ता अत्र भाववाचकं “ता प्रत्ययं कर्तुम् इच्छति । स च प्रत्ययः प्रातिपदिकात् भवति । ‘महान्’ इत्यस्य प्रातिपदिकं ‘महत्’ इति । तस्य ‘ता’प्रत्यये ‘महत्ता’ इति रूपम् । प्रथमान्तात् ‘ता’प्रत्ययः न

भवति । अतः ‘महानता’ इति रूपम् अपि न भवति । ६१. एतत् पत्रं भवतः अवगाहनाय प्रेष्यते ।

‘अवगाहनाय’ इति प्रयोगः अस्थाने । “विषयज्ञापनाय भवते प्रेष्यते’ इति, भङ्यन्तरेण वा प्रयोक्तव्यम् ।

अवगाहनं नाम अवतरणम्, अन्तः प्रवेशः वा । स च अर्थः अत्र न अभिप्रेतः । परिशीलनं, ज्ञापनम्, अवधानाकर्षणं वा अत्र अपेक्ष्यते । अतः तदनुगुणः वाक्यप्रयोगः एव करणीयः । प्रादेशिकभाषासु अवगाहनपदस्य परिशीलनाद्यर्थाः स्युः नाम । संस्कृते तु तादृशस्य

अर्थस्य द्योतनसामर्थ्य तस्य पदस्य नास्ति। ६२. कार्यक्रमोपरान्तं सः गृहं गतवान् ।

‘उपरान्त शब्दः न संस्कृतः । ‘कार्यक्रमानन्तरम्’ इति प्रयोक्तव्यम् । प्रादेशिकभाषायां योऽयम् उपरान्तशब्दः श्रूयते सः न संस्कृतशब्दः ।

संस्कृताभासः सः । अतः तस्य प्रयोगः सर्वथा परिहरणीयः । ६३. आश्रमे जनानाम् आवागमनं विशेषतः दृश्यते ।

‘आवागमनम्’ इति अपशब्दः । ‘गमनागमनम्’ इति प्रयोक्तव्यम् । प्रकृतवाक्ये (जनानां) गमनम् आगमनं च वक्तुम् इष्टम् । तम् अर्थं . बोधयितुम् ‘आवागमनम्’ इति शब्दः न समर्थः । आवागमनम् इत्यत्र आ + अव + आ इत्येतेषाम् उपसर्गाणां सद्भावः वक्तव्यः भवेत् । तावता अपि अपेक्षितस्य अर्थस्य अभिव्यञ्जने तत् पदं न समर्थम् ।

अतः तस्य पदस्य प्रयोगस्य त्यागः एव श्रेयसे । ६४. भारतेन ‘क्षिपणिः’ सज्जीकृता अस्ति ।

शुद्धिकौमुदी “क्षिपणिः’ इत्यस्य परिहारः वरम् । ‘क्षेपणी’ इति प्रयोक्तव्यम् । क्षिपधातोः करणार्थे ल्युट्प्रत्ययः ‘करणाधिकरणयोश्च’ (३.३.११७) इति सूत्रेण । ल्युटः ‘टित्त्वात् ‘टिडाणञ्…’ इति सूत्रेण ङीप् । ‘सुगन्तलघूपधस्य च’ (७.३.८६) इति सूत्रेण गुणः । तस्मात् ‘क्षेपणी’ इति रूपम् ।। ‘संज्ञापूर्वको विधिः अनित्यः’ इति परिभाषायाः आधारेण गुणविधेः अनित्यत्वम् अङ्गीकृत्य गुणाभावयुक्तं “क्षिपणी’ इति रूपं समर्थयितुं शक्यं, यदि प्रामाणिकः प्रयोगः दृष्टः स्यात् । तादृशस्य अदर्शनात्

‘क्षेपणी’ इति प्रयोगः एव वरम् । ६५. पत्रवितरकः पत्राणि वितरति ।

“वितारकः’ इति प्रयोक्तव्यम् । ‘ण्वुल्तृचौ’ (३.१.१३३) इति सूत्रेण ण्वुलि ‘इत्वोत्वाभ्यां गुणवृद्धी विप्रतिषेधेन’ (वा - ७.१.१०२) इति वृद्धिः । तस्मात् (वि)तारकः इति रूपम् । ण्वुलि तरकः इति रूपं तु न भवति । ‘वितारकः’ इत्येव प्रयोक्तव्यम् । अथवा, यदि वितरकः’ इत्यपि साधनीयः एव इत्याग्रहः तर्हि एवं व्युत्याद्यताम् - (वि)तरतीति (वि)तरः । पचाद्यच् । (वि)तरः एव (वि)तरकः इति स्वार्थे कप्रत्ययः ।

एतदत्र स्मर्तव्यं यत् स्थितस्य गतेः चिन्तनाय दर्शितः मार्गः एषः । प्रामाणिकप्रयोगाभावे तु अस्माभिः क्रियमाणः “वितरक’शब्दस्य

प्रयोगः अनुचितः एव स्यात् । ६६. सः चलचित्रं द्रष्टुं गतवान् ।।

‘चलचित्रम्’ इति रूपं साधु एव । एतस्मिन् एव अर्थे ‘चलच्चित्रम्’ इति, ‘चलनचित्रम्’ इति वा अपि प्रयोक्तुं शक्यम् । यत् चित्रं चलं (चञ्चलं) भवति तत् ‘चलचित्रम्’ । ‘चलं लोलं चलाचलम्’ इति हि अमरः । यत् चित्रं चलत् भवति तत् ‘चलच्चित्रम्’ । कर्मधारयसमासः अत्र । चलनोपेतं चित्रं चलनचित्रम् । अतः त्रीणि अपि पदानि साधूनि एव । '

सुबन्ताः

PI

६७. सः तैत्तरीयोपनिषदं पठति ।

‘तैत्तरीयम्’ इति अपशब्दः । “तैत्तिरीयम्’ इति प्रयोक्तव्यम् । तित्तिरिः नामः कश्चन ऋषिः । तत्सम्बद्धं तैत्तिरीयम् । यदि ऋषेः नाम तैत्तरिः इति स्यात् तर्हि तैत्तरीयम् इति शब्दः साधुः स्यात् । किन्तु तन्नामकः ऋषिः नास्ति । ऋषेः नाम तु “तित्तिरिः’ इति । तस्मात्

‘तैत्तिरीयम्’ इत्येव शुद्धम् । ६८. पुनश्चिन्तनाय एषः सकालः ।

‘सकालः’ इति प्रयोगः अस्थाने । ‘सुकालः’ इति, ‘योग्यः कालः’ इति वा प्रयोक्तव्यम् । ‘सकालः’ इत्यस्य अर्थः भवेत् कालेन सहितः इति । कालसहितत्वं नात्र अभिप्रेतम् । शोभनः/योग्यः कालः अभिप्रेतः । अतः तदनुगुणः एव पदप्रयोगः अत्र करणीयः । ‘सकालः’ इति प्रादेशिकभाषायां प्रयुज्यते । तत् अनुकुर्वद्भिः

औचित्यम् अचिन्तयद्भिः कैश्चित् सुकालार्थे ‘सकाल’शब्दः प्रयुज्येत ।

स च दोषाय एव । ६९. सः भिक्षुकः सदृढः दृश्यते ।

‘सदृढः’ इति अस्थाने । ‘सुदृढः’ इति ‘दृढकायः’ इति वा प्रयोक्तव्यम् । ‘सदृढ’पदस्य अर्थः भवति - ‘दृढेन सहितः’ इति । दृढकायत्वम्

अत्र इष्यते । अतः तदनुगुणः एव पदप्रयोगः अत्र औचित्यम् आवहेत् । ७०. सः एतत् कार्यं कर्तुं सक्षमः अस्ति ।

‘सक्षमः’ इति अस्थाने । ‘क्षमः’ इत्येतावता एव अलम् । ‘क्षमः’ नाम समर्थः । ‘सः कार्यकरणे समर्थः अस्ति’ इत्येषः अर्थः

अत्र विवक्षितः । तं गमयितुं ‘क्षम’शब्दः समर्थः । ‘सक्षमः’ नाम ‘क्षमेण (समर्थेन) सहितः’ । अत्र तु समर्थः एव विवक्ष्यते, न तु समर्थेन सहितः कश्चित् अन्यः । तस्मात्

क्षमशब्दप्रयोगमात्रं पर्याप्तम् । ‘सक्षम’शब्देन नार्थः । एवमेव ‘सशक्त प्रभृतयः अपि । ‘शक्तः’ इत्यनेनैव इष्टसिद्धिः । .

‘स’ इत्यस्य योजनं न आवश्यकम् । ७१. एतादृशः दृष्टिकोणः न युक्तः ।

शुद्धिकौमुदी

‘दृष्टिकोणः’ इति अस्थाने । “दृष्टिः’ इति, “चिन्तनम्’ इति वा प्रयोक्तव्यम् । दृष्टिः नाम दर्शनं ज्ञानं वा । कोणशब्दस्य गृहादीनाम् एकदेशः, दिशोः विदिशोः वा मध्यभागः, रेखयोः सन्धिस्थानम् इत्यादयः अर्थाः । प्रकृतवाक्ये ‘कोण’शब्दवाचकस्य अर्थस्य न कापि प्रसक्तिः । चिन्तनस्य (ज्ञानस्य वा ) अयुक्तता वक्तुम् इष्यते । तदर्थं ‘दृष्टि शब्दप्रयोगमानं पर्याप्तम् । कोणशब्दस्य प्रयोगः अत्र न

आवश्यकः । ७२. अधीनस्थाभ्यः संस्थाभ्यः तेन पत्रं प्रेषितम् ।

‘अधीनस्थाभ्यः’ इति प्रयोगः अस्थाने । ‘अधीनाभ्यः’ इति

प्रयोक्तव्यम् । अधीनः नामः अस्वतन्त्रः आश्रितः वा । ‘अधीनाः संस्थाः’ इति प्रयोगेण एव इष्टसिद्धिः । ‘गृहस्थः’ इत्यादौ ‘गृहेषु तिष्ठति इति गृहस्थः’ इति विग्रहः । तत्र गृहशब्दस्य अधिकरणता । तथा अधिकरणता अधीनशब्दस्य अत्र

नास्ति, येन अधीनस्थशब्दः व्युत्पाद्येत । ७३. चातकपक्षिरपि मेघं न याचते ।

‘चातकपक्षिः’ इति अपशब्दः । ‘चातकपक्षी’ इति प्रयोक्तव्यम् । पक्षौ अस्य स्तः इति पक्षी । इनिप्रत्ययः अत्र ‘अत इनिठनौ’ (५.२.१ १५) इति सूत्रेण । इनिप्रत्ययान्तत्वात् सः शब्दः नकारान्तः (इन्नन्तः), न तु इकारान्तः । इन्नन्तस्य प्रथमैकवचनान्ते ईकारस्य श्रवणम् । (‘पक्षी’ इति रूपम् ।) तत्र इकारस्य ह्रस्वत्वं विसर्गश्रवणं वा नास्ति । अतः पक्षिरिति प्रयोगः अज्ञानमूलः एव । कार्यस्य सफलतायै विशेषप्रयत्नः करणीयः । “विशेषप्रयलः’ इति प्रयोगः न दोषाय । ‘प्रयत्नविशेषः’ इत्यपि प्रयोगः कर्तुं शक्यः ।। “विशेषप्रयलः’ इत्यत्र “प्रयत्नः’ विशेष्यम् । “विशेषः’ इति तु विशेषणम् । किन्तु “विशेष पदं तु धर्मबोधकम् । अतः तत् विशेषणं भवितुं न अर्हति । “विशेषेण’ युक्तः भवति ‘विशिष्टः’ । स च भवति धर्मिबोधकः । अतः “विशिष्टः प्रयत्नः’ इत्येव प्रयोगः साधुः

७४

सुबन्ताः

इति केषाञ्चित् कथनम् । तत् असत् । ‘विशेष’पदं पुंलिङ्गवाचि धर्मपरम् एव इति तु सत्यम् । वैशिष्ट्यादयः अर्थाः तस्य । किन्तु धर्मपरत्वमात्रम् एव तस्य नार्थः । धर्मिपरत्वम् अपि अस्ति तस्य । एतद्विषये कालिदासप्रयोगो यथा -

शशाम वृष्ट्यापि विना दवाग्निः आसीत् विशेषा फलपुष्पवृद्धिः ।।

___ - रघु. २.१४ अत्र ‘विशेष’शब्दः धर्मिपरत्वेनैव प्रयुक्तः इति तु स्फुटम् । तस्मात् ‘विशेष’शब्दः धर्मिपरं प्रयोगम् अर्हति इति सिद्धम् । अतः एव लोके “विशेषप्रयत्नः’ “विशेषवार्ता’ ‘विशेषकार्यक्रमः’ इत्यादयः प्रयोगाः

क्रियमाणाः दृश्यन्ते । ७५. अत्र न कापि विशेषता ।

“विशेषता’ इति प्रयोगः न दोषाय । ‘विशेष’शब्दः धर्मिपरः अपि अस्ति इति पूर्वम् उक्तम् एव । विशेषस्य भावः विशेषता । भावार्थे ‘तस्य भावस्त्वतलौ’ (५.१.१ १९) इति सूत्रेण तल् । ‘तलन्तं स्त्रियाम्’ (लि - १७)।

अतः विशेषता इति सिद्धम् । ७६. * एतत् कार्यं नितरां कष्टकरम् ।

कष्टं कार्यं मया कृतम् । * भवतः गमनं मम कष्टाय कल्पेत । उपरि त्रीणि वाक्यानि सन्ति । त्रिषु अपि वाक्येषु कष्टशब्दः प्रयुक्तः । प्रथमे वाक्ये ‘कष्ट शब्दः धर्मपरः । कष्टं करोति इति कष्टकरः । द्वितीये वाक्ये कष्टशब्दः कार्यस्य विशेषणम् । तस्मात् तत् धर्मिपरम् । (धर्मी एव विशेषणं भवति ।) तृतीये वाक्ये कष्टशब्दः धर्मपरः । एवं तर्हि कष्टशब्दः धर्मिपरः उत धर्मपरः ? ‘कष्टं कार्यम्’ इति प्रयोगः भवितुम् अर्हति, उत ‘कष्टकरं कार्यम्’ इत्येव प्रयोगः साधुः ? उभयथा इत्येव उत्तरम् । कष्टशब्दस्य धर्मपरत्वे न कस्यापि

शुद्धिकौमुदी विप्रतिपत्तिः । ‘धर्मिपरत्वं किम् अस्ति ?’ इत्यस्ति बहूनां सन्देहः ।

धर्मिपरत्वम् अपि तस्य अस्ति एव । प्राचीनप्रयोगाः यथा -

• बन्धनानि च कष्टानि परप्रेष्यत्वमेव च ।

__ - मनु. १२.७८

• कष्टमाहुररि बुधाः ।

_____- मनु. ७. २१० अमरकोशः वदति - ‘स्यात्कष्टं कृच्छ्रमाभीलं विष्वेषां भेनगामि यत्’ इति । ‘कष्टादिषु शब्देषु यत् द्रव्यगामि (धर्मिपरं) तत् त्रिषु लिनेषु भवति’ इति तस्य तात्पर्यम् । तस्मात् कष्टशब्दः धर्मिपरः अपि । अतः ‘कष्टकरं कार्यम्’ ‘कष्टं कार्यम्’ इति उभयथा अपि प्रयोगः साधुः । ‘कष्टकर

कार्यम्’ इत्येवंरूपः प्रयोगः तु आधिक्येन दृश्यते लोके । “त्रिष्वेषां भेद्यगामि यत्’ इति वदन् अमरटीकाकारः (‘सुधा’कारः) ‘दुःखा सेवा’ ‘दुःखः सुतो निर्गुणः’ ‘सर्वं दुःखं विवेकिनः’ इति त्रीणि वाक्यानि उदाहरति । तस्मात् दुःखशब्दः धर्मिपरः अपि

अस्ति इति ज्ञायते । (तस्य धर्मपरत्वे तु न कस्यापि सन्देहः) प्राचीनप्रयोगो यथा - * सुसुखा न च दुःखा सा न शीता न च धर्मदा ।

  • हरिवंशः - २२९.४९ * भेकाभः पीड्यते दुःखैः शोणितक्षयसम्भवैः ।

(दुःखैः रोगैः इति तट्टीका)

  • भावप्रकाशः (अर्थोरोगाधिकारे) ७७. तेन फलार्धः खादितः ।

तेन अर्धफलं खादितम् ।।

अत्र स्थितम् उभयविधम् अपि वाक्यं शुद्धम् एव । आदौ अर्धशब्दस्य स्वरूपं ज्ञातव्यम् अस्माभिः । सः संमाशवाची अंशसामान्यवाची चेति द्विधा । समे अंशे अर्धशब्दः नपुंसकलिङ्गः एव । अंशसामान्यवाची तु पुंसि (नपुंसके वा) । अत्र अमरकोष प्रामाण्यं यथा - ‘वा पुंस्योऽर्धं समेंऽशके’ इति । भाष्ये तु -

सुबन्ताः

‘समप्रविभागे नपुंसकलिङ्गोऽर्धशब्दः । अंशसामान्यवाची तु पुंलिङ्गः’ इति उक्तम् । यदा किमपि वस्तु छिद्यते, कर्त्यते, विदार्यते वा तदा भागद्वयं भवति । उभौ अपि भागौ समानाकारको यदा भवतः तदा ‘अर्धम्’ इति नपुंसकलिङ्गविशिष्टस्य प्रयोगः । यदा भागयोः समता नास्ति तदा ‘अर्धः’ इति पुंलिङ्गप्रयोगः । नपुंसकलिङ्गवाची अर्धशब्दः (‘अर्धम्’ इत्येतत्) प्रथमातत्पुरुष समासं प्राप्नोति । ‘अर्धं नपुंसकम्’ (२.२.२) इति सूत्रम् । अर्धशब्दस्य पूर्वनिपातः उपसर्जनसंज्ञत्वात् । (प्रथमानिर्दिष्टं समास उपसर्जनम् - १.२.४३, उपसर्जनं पूर्वम् - २.२.३०)

अतः ‘अर्धफलम्’ इति प्रयोगः । अत्र अर्धशब्दः समांशवाची एव स्यात् इति स्मर्तव्यम् । यदि अर्धशब्दः समांशवाची न, तर्हि फलस्य अर्धः फलार्धः इति षष्ठीतत्पुरुषः । षष्ठीतत्पुरुषस्थले अर्धशब्दः अंशसामान्यवाची, समांशवाची न । एतदत्र उक्तं भवति - अर्धशब्दः द्विधा - समांशवाची अंशसामान्यवाची चेति ।

नपुंसके

पुंसि

‘अर्धम्’ इति रूपम्

‘अर्धः’ इति रूपम्

प्रथमातत्पुरुषसमासं प्राप्नोति ।

षष्ठीतत्पुरुषसमासं प्राप्नोति ।

उदा - अर्धफलम् उदा - फलार्धः

(अ) फलस्य) (फलस्य अर्धः) ७८. तेन अर्ध फलं खादितम् ।

‘अर्ध फलम्’ इति प्रयोगः अपि साधुः एव । ‘अर्ध फलम्’ इति प्रयोगः असाधुः स्यात् इति कश्चन भ्रमः भवितुम्

अर्हति । तत्र कारणं तु -

4A

शुद्धिकौमुदी

अर्धशब्दः एकदेशवाची । अर्धः, अर्धं वा कश्चन भागः एव खलु ? एकदेशवाची अवयविना अभेदेन सम्बन्धं न अर्हति । अवयवाव यविनोः न अभेदेन सम्बन्धः । अतः अवयववाची शब्दः षष्ठ्यन्तेन अवयविना अभिसम्बद्ध्यते । तस्मात् अर्धं फलस्य, अपरं कायस्य, पूर्वं कायस्य इत्यादयः प्रयोगाः सम्भवन्ति । ‘अर्धं फलम्’ इत्यत्र अर्धशब्दः विशेषणत्वेन प्रयुक्तः अस्ति । अत्र अर्धशब्दः अवयवः विशेषणत्वेन । ‘फलम्’ शब्दः अवयवी । अनयोः अवयवाव यविनोः (एकदेशवाचि-एकदेशिवाचिनोः) सामानाधिकरण्यम् (अभेदेन सम्बन्धः) न युक्तम् इति भावः भवितुम् अर्हति । तस्मात् ‘अर्धं फलम्’ इति प्रयोगः असाधुः इति चिन्तनं स्यात् कदाचित् । एतत् चिन्तनं सर्वथा अयुक्तम् । यतः महाभाष्यस्यैव प्रयोगः अस्ति - “समानाधिकरणं समासो भविष्यति । अर्धं च सा पिप्पली च अर्धपिप्पलीति’’ इति । (परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः इति सूत्रे) अत्र अर्ध-पिप्पल्योः सामानाधिकरण्येन प्रयोगः तु स्फुटः । भाष्यस्यैव प्रयोगस्य सद्भावात् “एतादृशः प्रयोगः किं साधुः’ इति प्रश्नः एव न उद्भवति । तदा अपरः प्रश्नः उद्भवेत् - ‘अवयवावयविभावः अस्ति - अर्धं फलम्’ इत्यत्र । तथा सति तयोः अभेदेन सम्बन्धः कथम् ?’ इति । भाष्यव्याख्याने प्रदीपाख्ये कैयटः लिखति - ‘अवयवे समुदायोप चारात् सामानाधिकरण्यम्’ इति । कौमुद्याः व्याख्यायां तत्त्वबोधिन्यां लिख्यते - ‘समुदाये दृष्टाः शब्दाः अवयवेष्वपि वर्तन्ते इति न्यायात्’ इति । तस्मात् सिद्धं यत् ‘अर्धं फलम्’ इत्यत्र अवयववाचिनि अर्धशब्दे अवयवित्वम् आरोप्य सामानाधिकरण्यं प्रतिपाद्यते इति ।

अतः ‘अर्धं फलम्’ इति प्रयोगः अपि साधुः एव । ७९. सभायाम् अर्धजनानां व्यवहारः अशोभनः आसीत् ।

‘जनानाम् अर्धस्य’ इति प्रयोगः करणीयः । ‘अर्धं नपुंसकम्’ इति समासविधायकं सूत्रम् । तत्र “एकाधिकरणे’ इति पदं पूर्वसूत्रात् अनुवर्तते । तस्मात् अवयवी एकत्वसंख्याविशिष्टः चेदेव अयं समासः । ‘जनानाम्’ इत्यत्र बहुत्वं स्फुटम् । अतः प्रथमातत्पुरुषस्य प्राप्तिः न भवति । यदि षष्ठीतत्पुरुषः इष्यते तर्हि

सुबन्ताः

___81

‘जनार्धस्य’ (जनानाम् अर्धस्य इति विग्रहः) इति प्रयोगः भवितुम्

अर्हति । ८०. अत्र अर्धफलानि दृश्यन्ते ।

पूर्वं यथा उक्तं तथा, ‘फलानाम् अर्धानि’ इति विग्रहवाक्यं यदि कथयामः तर्हि ‘अर्धफलानि’ इति प्रयोगः असाधुः एव । तदा तु ‘फलानाम् अर्धानि’ इति व्यस्तः एव प्रयोगः । तथापि ‘अर्धफलानि’ इत्येतत् सर्वथा समर्थनानहँ तु न । इत्थं समर्थयितुं शक्यम् - अर्धं फलस्य अर्धफलम् । अर्धफलं च अर्धफलं च अर्धफलं च अर्धफलानि इति खण्डसमुच्चयः । तदा तु न असाधुता ।

अयं क्रमः सिद्धान्तकौमुद्याः तत्त्वबोधिनीटीकायाम् एव प्रदर्शितः । ८१. अस्वस्थः सः ओषधिं सेवितवान् ।

‘ओषधिम्’ इति अस्थाने । ‘औषधम्’ इति प्रयोक्तव्यम् ।

ओषधिः अन्यः, औषधम् अन्यत् । तयोः न समानार्थकता । ओषधयः व्रीह्यादयः भवन्ति । ‘ओषध्यः फलपाकान्ताः’ इति अमरः । ओषधयः पेयाः न । ‘ओषधेरजातौ’ (५.४.३७) इति सूत्रेण अणि ‘औषधम्’ इति रूपम् । तत् तु पानयोग्यम् ।’ कौमुद्याम् अपि ‘ओषधेरजातौ’ इति सूत्रे वृत्तौ ‘औषधं पिबति’ इति उदाहृत्य ‘ओषधयः क्षेत्रे रूढाः’ इति उक्तम् । तस्मात् सिद्धं यत् पानयोग्यम् ‘औषधम्’, क्षेत्रेषु वर्धमानः ‘ओषधिः’ इति भेदः सुस्पष्टः ।

‘औषधं’ नपुंसके, ‘ओषधिः’ पुंसि । ८२. शब्दखण्डः एतस्मिन् वर्षे पठ्यविषयः अस्ति ।

‘पठ्यम्’ इति अपशब्दः । ‘पाठ्यम्’ इति प्रयोक्तव्यम् । पठधातुः हलन्तः । तस्मात् ‘ऋहलोर्ण्यत्’ (३.१.१२४) इति सूत्रेण ण्यत् । ण्यति आदिवृद्धिः । ‘पाठ्यम्’ इति रूपम् । ण्यति ‘पठ्यम्’ इति रूपं कथमपि न भवति । यत्प्रत्यये कृते तु स्यात् । किन्तु यत् अजन्तात् विहितः (अचो यत् - ३.१.९७)। धातुरयं न अजन्तः । अतः यत् न भवति । तस्मात् ‘पठ्यम्’ इति तु अपशब्दः एव । छात्रैः यत् पठ्यते तत् ‘पठ्य पुस्तकम्, अध्यापकैः यत् पाठ्यते तत् ‘पाठ्य पुस्तकम् इति चिन्तनम् अपि असाधु एव ।

शुद्धिकौमुदी

८३. संस्कृतस्य विकासः पन्थाह्वानरूपेण तिष्ठति ।

‘पन्थाह्वानम्’ इति अपशब्दः । “स्पर्धालानम्’ इति, शब्दान्तरं वा प्रयोक्तव्यम् । वस्तुतः वाक्यान्तरेणैव अभिप्रायस्यास्य आविष्करणं

वरम् । पथि मार्गे आह्वानम् इति विग्रहे तु ‘पथ्याह्वानम्’ इति स्यात्, न तु पन्थाह्वानम् इति । अकारान्तः पन्थशब्दः संस्कृते नास्ति । नकारान्तस्य पथिनशब्दस्य प्रथमैकवचनान्तं रूपं ‘पन्थाः’ इति । तस्मात् ‘स्पर्धाह्वानम्’ इति प्रयोगः वरम् । यदि तस्मात् शब्दात् न सन्तोषः तर्हि शब्दान्तरं प्रयुज्यताम् । ‘पन्थाह्वानम्’ इति तु अपशब्दः

एव । ८४. कार्यकर्तारः एव एतस्य कार्यस्य आशाज्योतिषः सन्ति ।

‘आशाज्योतिषः’ इति अस्थाने । ‘आशाज्योतींषि’ इति प्रयोक्तव्यं,

शब्दान्तरं वा । ज्योतिश्शब्दः सकारान्तः नपुंसकलिङ्गः च । आशायाः ज्योतींषि आशाज्योतींषि । षष्ठीतत्पुरुषसमासः अयम् । तत्पुरुषे उत्तरपद प्राधान्यम् । उत्तरपदस्य यत् लिङ्गं तदेव लिङ्गं समस्तपदस्यापि । अतः ‘आशाज्योतींषि’ इति रूपम् ।

आशा ज्योतिः येषां ते इति विग्रहे ‘आशाज्योतिषः’ इति रूपं स्यात् ।

किन्तु स च अर्थः अत्र न अभिप्रेतः । ८५. ऐषमे वर्षे महाकार्यक्रमः करिष्यते अस्माभिः ।

‘ऐषमे वर्षे’ इति असाधुः प्रयोगः । ‘ऐषमः वर्षे’ इति प्रयोक्तव्यम् । वर्तमानं वर्षम् उच्यते “ऐषमः’ इति । ‘इदम इष् समसण्प्रत्ययश्च संवत्सरे’ इति वार्तिकेन (सद्यःपरुत्परायेंषम…. ५.३.२२)समसण् प्रत्ययः ‘इदम्’शब्दात् । समसण्प्रत्ययान्तं तत् अव्ययम् । अतः तस्य सप्तम्यादिषु न रूपभेदः । “ऐषमः शब्दः विसर्गयुक्तः सन् अकारान्तभ्रमं जनयति । तस्मात् “ऐषमे वर्षे’ इति प्रयोगः क्रियते क्वचित् । तस्य तु अव्ययत्वात् तादृशः प्रयोगः दुष्यति । “ऐषमः’ इत्यत्र मूर्धन्यषकारः, न तु तालव्यः (श) इत्यपि स्मर्तव्यम् ।

अतः ‘ऐशमः’ इति रूपं न ।83

सुबन्ताः ८६. परेशुः तेन नगरं प्रति गतम् ।

‘परेयुः’ इति अप्रशस्तम् । ‘परेद्यवि’ इति प्रयोक्तव्यम् । ‘परस्मिन् अहनि’ इत्यर्थे ‘परस्मादेवव्यहनि’ इति वार्तिकेन परशब्दात् एद्यविप्रत्यये ‘परेद्यवि’ इति रूपम् । एतच्च अव्ययम् । ‘अन्येयुः’ ‘पूर्वेयुः’ ‘उभयेयुः’ इत्यादिषु एधुस्प्रत्ययः दृश्यते इति कृत्वा ‘परेधुः’ इत्यत्रापि एद्युस्प्रत्ययः इति भावयन्ति केचन । किन्तु ‘पर’शब्दात् एद्युस् न विहितः, अपि तु ‘एद्यवि’प्रत्ययः विहितः । तस्मात् ‘परेधवि’ इति रूपम् । ‘अमुकः’ ‘पुरतः’ इत्यादिवत् ‘परेद्युः’ इति अव्युत्पन्नः पृषोदरादिः वा साधुः इति वदन्ति केचन ।

‘परेछुः इति मुग्धबोधव्याकरणात् साधु’ इति वदति शब्दकल्पद्रुमः । ८७. वाणिज्य महत् नष्टं प्राप्य सः खिन्नः ।।

‘नष्टम्’ इति शब्दः अस्थाने । ‘हानि शब्दः प्रयोक्तव्यः । नष्टं नाम अदृश्यतां गतम् । प्रकृतवाक्ये अदृश्यतां गतस्य कस्यचित् पदार्थविशेषस्य प्रस्तावः न क्रियते । लाभस्य विरुद्धं पदम् इष्यते अत्र । तच्च ‘हानिः’ इति पदम् । तस्मात् ‘हानि’शब्दस्य प्रयोगः एव

उचितः । ८८. जाति-पन्थ-भेदाः न भवेयुः समाजे ।

‘पन्थः’ इति अपशब्दः । ‘उपासनापद्धतिः’ इति, पदान्तरं वा

प्रयोक्तव्यम् । समाजे उपासनापद्धतयः सन्ति बहवः । तत्कारणतः वैषम्यम् अपि दृश्यते । तत् वैषम्यं न भवेत् समाजे इति वक्त्रा इष्यते वक्तुम् । प्रादेशिकभाषासु पान्थ-पन्थादयः शब्दाः उपयुज्यन्ते तदर्थम् । संस्कृते तु तादृशं पदं नास्ति । अतः “उपासनापद्धतिः’ इति, पदान्तरं वा

प्रयोक्तव्यम् । ८९. स च कश्चन प्रामाणिकः पुरुषः ।

‘प्रामाणिकः’ इति प्रयोगः अस्थाने । ‘ऋजुः’ “निष्कपटः’ इत्यादयः

शब्दाः प्रयोक्तव्याः । पदान्तरं वा प्रयोक्तव्यम् । प्रामाणेन निवृत्तः ‘प्रामाणिकः’ भवति । प्रमाणसिद्धः, यथार्थानुभव कारणीभूतः इत्यादयः तस्य अर्थाः। पूर्वोक्ते वाक्ये तु ‘निष्कपटः’

शुद्धिकौमुदी ‘विश्वासार्हः’ ‘ऋजुत्वोपेतः’ इत्यादयः अर्थाः विवक्षिताः । तदर्थम् ‘ऋजुः’ ‘निष्कपटः’ इत्यादयः शब्दाः प्रयोक्तव्याः ।

लोके यः कपटः सः न भवति प्रमाणम् । यः निष्कपटः भवति तमेव प्रमाणत्वेन स्वीकरोति लोकः । तस्मात् निष्कपटः ‘प्रामाणिकः’ भवति । एवं ‘प्रामाणिक पदस्य परम्परया ‘निष्कपटः’ इत्यपि अर्थः इति वक्तुं शक्यम् । तथापि ‘प्रामाणिक पदं निष्कपटार्थमात्रम् एव बोधयति इति न । तस्मात् निष्कपटार्थे ‘प्रामाणिक पदस्य प्रयोगः मा भवतु इति उच्यते अस्माभिः । प्रान्तीयभाषाः सर्वाः संस्कृतेनैव पोषिताः । ‘प्रादेशिकभाषाः’ इति प्रयोगः औचित्यम् आवहति । प्रकृष्टः अन्तः प्रान्तः इति उच्यते । अतः प्रान्तः नाम सीमा इत्यर्थः । तस्मात् ‘प्रान्तीयभाषा’ नाम ‘राज्यस्य सीमाप्रदेशेषु या भाषा भवेत् सा’ इत्यर्थः सिद्धः भवति । स च अर्थः अत्र न विवक्षितः। ‘विशाले प्रदेशे (राज्ये) याः भवन्ति ताः’ इत्यर्थः विवक्षितः अत्र । तस्मात् ‘प्रादेशिकभाषाः’ इति प्रयोगः उचितः । चारुदेवशास्त्रिणः अपि स्वस्य वाग्व्यवहारादर्श’ग्रन्थे एतम् एव आशयम् असकृत् प्रकटितवन्तः

दृश्यन्ते । - ९१. बालकाः अक्षणे क्रीडन्ति ।

‘अङ्गणे’ इति णत्वोपेतं रूपं प्रयोगानहँ न । ‘अङ्गणम्’ इत्यत्र गत्यर्थकः ‘अगि’धातुः । अधिकरणे ल्युट् ‘करणाधिकरणयोश्च’ (३.३.११७) इति सूत्रेण । ‘अत्र णत्वं न भवति’ इति केचन वदन्ति । किन्तु णत्वोपेतं रूपं सर्वथा असाधु न । अमरकोषस्य सुधाव्याख्याने उच्यते - ‘अङ्गणम् इति पाठे तु पृषोदरादिः’ इति । तत्रैव टिप्पण्यां पृषोदरादिगणे तस्य प्रवेशं निराकृतवतां वादं खण्डयित्वा सोदाहरणं प्रतिपादितं यत् अङ्गणशब्दः पृषोदरादिगणे प्रवेशम् अर्हति एव इति ।

अतः णत्वोपेतं रूपम् अपि (अङ्गणम् इति रूपम्) साधु एव । ९२. अद्य समाजस्य परिस्थितिः शोचनीया अस्ति ।

‘परिस्थितिः’ इति प्रयोगः समर्थनार्हः एव ।

अत्र ‘परि’ इति उपसर्गः । गतिनिवृत्त्यर्थकः ष्ठाधातुः । क्तिन्प्रत्ययः ।

सुबन्ताः

तस्मात् ‘परिस्थितिः’ इति रूपम् । “परि इत्येतस्मिन् उपसर्गे स्थितात् निमित्तात् (इकारात्) परस्य ष्ठाधातुसम्बद्धस्य सकारस्य षत्वं स्यात् - ‘उपसर्गात् सुनोति …..’ (८.३.६५) इति सूत्रेण । तस्मात् ‘परिष्ठितिः’ इति रूपम् । षत्वम् अत्र नित्यम् इत्यतः षत्वरहितं रूपम् असाधु’’ इति केचन अभिप्रयन्ति । परि इत्यस्य ‘स्था’क्रियया यदि योगः उच्यते तदा एव षत्वस्य प्रसङ्गः । यदि ‘परिगता स्थितिः’ इति विवरणम् उक्त्वा ‘परि’ इत्यस्य गम्धातुना सम्बन्धः उच्यते (न तु ष्ठाधातुना) तदा तु षत्वं न । एवं गम्धातोः प्रश्लेषः क्रियते अत्र । एवं प्रादेः धात्वन्तरे सम्बन्धं कल्पयित्वा षत्वस्य निवारणं भाष्ये एव कृतं दृश्यते “निस्सेचकः’ ‘अभिसावकीयति’ इत्यादौ । ‘यं प्रति क्रियायुक्ताः प्रादयस्तं प्रति गत्युपसर्गसंज्ञकाः भवन्ति’ इति महा भाष्यकारः । (यत्क्रियायुक्ताः प्रादयस्तं प्रत्येव गत्युपसर्गसंज्ञाः इति दुर्धियः इत्यत्र हल्सन्धिप्रकरणे ।) ‘परिस्थितिः’ इति शब्दः लोके बहुधा श्रूयते इत्यतः भाष्योक्तं क्रमम्

अवलम्ब्य स्थितस्य गतिः चिन्तिता अत्र । ९३. फाल्गुणमासे महाशिवरात्रिपर्व भवति ।

‘फाल्गुण’मासे इति अपशब्दः । फाल्गुनमासे’ इति प्रयोक्तव्यम् । ‘फाल्गुनः’ इत्यत्र निष्पत्त्यर्थकः फलधातुः । उनन्प्रत्ययः गुक् च । स्वार्थे अण् । णत्वं प्रति रेफषकारौ निमित्तभूतौ । निमित्तस्यैव अभावत् न णत्वम् । क्वचित् उक्तिः श्रूयते - ‘गगने फाल्गुने फेने णत्वमिच्छन्ति बर्बराः’ इति । (बर्बराः नाम पामराः नीचाः च ।).

तस्मात् ‘फाल्गुनः’ इत्यत्र न णत्वम् । ९४. निस्थानात् यानम् इदानीम् निर्गतम् ।

“निस्स्थानात्’ इति प्रयोगः न दोषाय । ‘निर्’-उपसर्गपूर्वकात् ष्ठाधातोः अधिकरणे ल्युट् । “निर्’ इत्येतस्मात् निमित्तात् परस्य ष्ठाधातुगतस्य सकारस्य कुतः षत्वं न इति प्रश्नः अत्रापि उद्भवेत् एव । “निस्स्थानम्’ इत्यस्य विग्रहः उच्यते - “निर्गत्य तिष्ठन्ति अत्र’ (यानानि) इति । उपसर्गस्य गमधातौ योगः, न तु

86

शुद्धिकौमुदी ष्ठाधातौ । तस्मात् (उपसर्गयोगाभावात्) ‘उपसर्गात् सुनोति…..’ इति सूत्रेण

न षत्वम् । एवं गम्धातोः प्रश्लेषात् षत्वं निवार्यते । भाष्योक्तः एव अयं क्रमः इत्यतः एतस्य अनुसरणं न दोषाय । स्थितस्य गतेः चिन्तनाय अयं क्रमः आश्रीयते । (दृश्यताम् - ९२ - परिस्थितिः) “निस्स्थानम्’ इत्यत्र सकारद्वयं लेखनीयं, विसर्गसकरौ वा लेखनीयौ

इति तु न विस्मर्तव्यम् । ९५. दुर्वासः कोपशीलः मुनिः

“दुर्वासः’ इति अपशब्दः । ‘दुर्वासाः’ इति प्रयोक्तव्यम् । दुर्वासश्शब्दः सकारान्तः । ‘दुर्वासस्’ इति प्रातिपदिकम् । तस्मात् प्रथमाविभक्तेः एकवचने कृते ‘दुर्वासाः’ इति रूपम् । (विसर्गात् पूर्वम् आकारः एव श्रूयते, न तु अकारः) सः अकारान्तः इति.

केषाञ्चित् भ्रमः । ९६. दुर्वासमुनिः शकुन्तलायै शापं दत्तवान् ।

दुर्वासमुनिः इति अशुद्धम् । दुर्वासोमुनिः इति प्रयोक्तव्यम् । दुर्वासश्शब्दः सकारान्तः इति पूर्वम् उक्तम् । समासे सकारस्य रुत्वे

· हश्परत्वात् उत्वे गुणे च ‘दुर्वासोमुनिः’ इति रूपम् । (मकारः हश्) ९७. ‘मेनका’ नाम अप्सरकन्या भूलोकम् आगता ।

‘अप्सरकन्या’ इति अपशब्दः । ‘अप्सरःकन्या’ इति प्रयोक्तव्यम् । अप्सरश्शब्दः सकारान्तः । (बहुवचनान्तः सः । एकवचनान्तप्रयोगोऽपि शिष्टसम्मतः एव इति प्रथमाध्याये उक्तम् ।) ‘अप्सराः + कन्या’ इति विग्रहे अप्सरश्शब्दस्य प्रातिपदिकरूपेण अवस्थितौ ‘कुप्वो

क पौ च’ (८.३.३७) इति सूत्रेण सकारस्य जिह्वामूलीयत्वं विसर्गो वा । तस्मात् ‘अप्सरःकन्या’ इति (‘अप्सर ४ कन्या’ इति

वा) रूपम् । एवमेव अप्सरोगणः, अप्सरोनंगरी, अप्सरःपुत्री, अप्सरःकुलम्

इत्यादयः अपि । विसर्गसन्धिप्रक्रिया अत्र स्मर्तव्या । ९८. प्रकोष्ठे अनुकूलं बहु अस्ति ।

‘अनुकूलम्’ इति पदम् अत्र परिहरणीयम् । ‘आनुकूल्यम्’ इति प्रयोक्तव्यम् ।

सुबन्ताः

वक्त्रा अत्र भाववाचकः शब्दः प्रयोक्तुम् इष्टः । अनुकूलः धर्मिपरः । अनुकूलस्य भावः आनुकूल्यम् । अतः ‘आनुकूल्यम्’ इति पदम् एव प्रयोक्तव्यम् । यदि ‘अनुकूल’शब्दप्रयोगे एव प्रीतिः तर्हि ‘प्रकोष्ठः अनुकूलः अस्ति’ इति प्रयुज्यताम् । अनुकूलशब्दं प्रकोष्ठस्य विशेषणं क्रियताम् ।

भारतसदृशे विशाले देशे अभिप्रायभेदः सहजः । ‘भारतसदृशे’ इति प्रयोगः अनुचितः अत्र । ‘भारत’शब्दः प्रयोक्तव्यः । ‘भारतं विशालः देशः । अत्र अभिप्रायभेदः सहजः’ इति वक्तुम् इच्छति वक्ता । किन्तु तेन पदप्रयोगः कृतः अस्ति - ‘भारतसदृशे देशे’ इति । भारतसदृशः देशः कश्चित् अन्यः भवति, न तु भारतम् । वक्ता भारतविषये वक्तुम् इच्छति, न तु भारतसदृशस्य अन्यस्य कस्यचित् देशस्य विषये । अतः “विशाले भारतदेशे’ इति आनुपूर्वी शोभते । सदृशशब्दप्रयोगात् तु अन्यस्य देशस्य प्रतीतिः भवति, न तु भारतस्य । तत्तु वक्त्रा न इष्टम् । अतः अभिप्रायानुगुणस्य शब्दप्रयोगस्य विषये अधिकम् अवधानं

दातव्यम् । १००. भवाशे सति का भीतिः अस्माकम् ?

‘भवति सति’ इति प्रयोगः साधुः । धीरं बुद्धिमन्तं वा कञ्चित् उद्दिश्य उक्तं वाक्यम् एतत् । वक्त्रा पुरतः स्थितस्य भवत्पदवाच्यस्य जनस्यैव सत्ता इष्यते, न तु तत्सदृशस्य अन्यस्य कस्यचित् । स च भावः ‘भवादृशे सति’ इत्येतस्मात् न प्रतीयते । तस्मात् ‘भवति

सति’ इति प्रयोगः एव अपेक्षितस्य भावस्य अभिव्यञ्जने समर्थः । १०१. अस्माकं माताश्री सम्यक् बोधयति ।

‘माताश्री’ इति अपशब्दः । ‘मातुश्रीः’ इति प्रयोक्तव्यम् । विद्यालयस्य बालकस्य बालियायाः वा उक्तिः इयम् । केषुचित् विद्यालयेषु अध्यापिका निर्दिश्यते ‘माताश्री’शब्देन । ‘श्रीः’ इत्येषः न ड्यन्तः । अतः प्रथमैकवचने कृते न सुलोपः । तस्मात् विसर्गस्य श्रवणम् ।

4B

शुद्धिकौमुदी

मातृ + श्रीः इति स्थिते (मातृरूपा श्रीः इति मध्यमपदलोपी समासः वक्तव्यः भवेत् । स्थितस्य गतिः खलु चिन्तनीया ?) मातृशब्दस्य प्रातिपदिकरूपेण स्थितौ ‘मातृश्रीः’ इति रूपम् । प्रातिपदिकं तु ‘मातृ’ इति । आकारः प्रथमैकवचनान्ते श्रूयते, न तु प्रातिपदिके । एवमेव पितृश्रीः, भ्रातृश्रीः इत्यादयः अपि ।

इदं तु स्मर्तव्यं यत् न एषा संस्कृतशैली इति । १०२. अहं तं पृष्टवान् । तेन कापि प्रतिक्रिया न दर्शिता ।

‘प्रतिक्रिया’ इति अस्थाने । ‘प्रतिस्पन्द’शब्दः, शब्दान्तरं वा प्रयोक्तव्यम् । ‘प्रतिक्रिया शब्दः प्रतीकारार्थकः, निवारणोपायार्थकः वा । क्रियायाः अनन्तरं या अन्यस्य क्रिया भवति तां ‘प्रतिक्रिया’शब्दः बोधयितुं नार्हति । प्राचीनैः कुत्रापि तस्मिन् अर्थे प्रयोगः कृतः न दृश्यते । अतः ‘प्रतिस्पन्दः’ इत्यस्य प्रयोगः वरम् । शब्दान्तरं वा

प्रयोक्तव्यम् । १०३. भवान् अस्वस्थः । सन्दर्भेऽस्मिन् जागरूकता आवश्यकी ।

‘अवसरेऽस्मिन्’ इति प्रयोक्तव्यम् । ‘सन्दर्भ’शब्दः अस्थाने । सन्दर्भः नाम ग्रन्थः । योजनम् इत्यादयः अर्थाः तस्य । कोषो यथा - ‘सन्दर्भः तु प्रबन्धः स्यात्’ - (त्रिकाण्डः) श्रन्थनं ग्रन्थनं गुम्फः सन्दर्भो रचना न ना’ - (वैजयन्ती) । अवसरादयः अर्थाः तस्य पदस्य न उक्ताः । तस्मात् ‘अवसरः’ इति प्रयोगः वरम् ।

शब्दान्तरस्य प्रयोगः अपि भवितुम् अर्हति । १०४. अत्रत्या प्रकृतिः रमणीया अस्ति ।

‘प्रकृतिः’ इति पदम् अस्थाने । ‘निसर्ग’शब्दस्य प्रयोगः वरम् । ‘प्रकृतिः’ इति पदस्य बहवः अर्थाः सन्ति - स्वभावः, सृष्टि कारणीभूता, प्रजाः इत्यादयः । वक्त्रा तु दृश्यमाना सृष्टिः वर्ण्यते । प्रकृतिपदं सृष्टिं न बोधयति, अपि तु सृष्टिकारणीभूतं तत्त्वम् । तथा हि प्रयोगः – “विश्वोत्पत्तिनिमित्तत्वात् प्रकृतिः प्रोच्यते बुधैः’ (वेदान्त-कौस्तुभः) इति । प्रकृतिः भवति कारणम् । वक्त्रा तु कार्यं वक्तुम् इष्यते । तस्मात् ‘निसर्गः’ ‘सृष्टिः’ इत्यादिषु अन्यतमः

शब्दः प्रयोक्तव्यः ।

सुबन्ताः

१०५. एतत् श्रुत्वा सः नितरां चकितः जातः ।

‘चकितः’ इति पदम् अस्थाने । ‘आश्चर्यान्वितः’ इति, ‘आश्चर्य चकितः’ इति वा प्रयोक्तव्यम् ।। ‘चकितः’ नाम भीतः । कोषकारैः सर्वे : चकितपदस्य भीतियुक्तादयः एव अर्थाः वर्णिताः । आश्चर्यार्थः केनापि न उक्तः । अतः आश्चर्यार्थे चकितपदस्य प्रयोगः असाधुः एव भवति । तस्मात् यत्र आश्चर्यमात्रम् एव इष्यते तत्र ‘आश्चर्यान्वितः’ इति प्रयोगः करणीयः ।।

यत्र आश्चर्यं भवति तत्र भीत्यंशः अपि सम्मिलितः भवति । तादृशे

अवसरे ‘आश्चर्यचकितः’ इति प्रयोगः शक्यः । १०६. सः भाषणप्रतियोगितायां भागं वोढुम् इच्छति ।

‘प्रतियोगिता’ इति कथञ्चित् समर्थनीयम् इति भाति । “स्पर्धायाम्’ इति प्रयोगः वरम् ।

यस्य अभावः उच्यते स तस्य प्रतियोगी भवति । घटाभावस्य प्रतियोगी घटः । अयं च तर्कशास्त्रीयः पारिभाषिकः शब्दः कश्चन । स्पर्धायाम् अपि भागग्रहीत्रोः विरोधः परस्परं भवत्येव इति कृत्वा प्रतियोगिता नाम स्पर्धा इति व्याख्येयम् । प्राचीनैः कुत्रापि स्पर्धा पर्यायत्वेन प्रतियोगिताशब्दः न प्रयुक्तः । सर्वैः अनुमते स्पर्धाशब्दे .सति अप्रयुक्तस्य प्रतियोगितापदस्य प्रयोगे आस्था कुतः ?

प्रतियोगितापदे एव अस्माकं प्रीतिः इति यदि सबलम् उच्यते तर्हि ‘भवतु नाम’ इति वदामः वयं विरुद्धसम्बन्धयुक्ततां मनसि निधाय ।

‘स्पर्धा’शब्दस्य प्रयोगः एव श्रेयसे इति तु अस्माकं मतम् । १०७. अहं तेन सह वार्ता करोमि ।

‘वार्ता’शब्दः अत्र अस्थाने । ‘वार्तालापं करोमि’ इति, ‘सम्भाषणं करोमि’ इति वा वक्तव्यम् । करोतिः भाववाचकेन युक्तः सन् क्रियाम् अभिधत्ते । अतः एव अध्ययनं, पाकः, उद्घाटनम् इत्यादिभिः भाववाचकैः शब्दैः सह करोति योजयित्वा वयं क्रियां वदामः । वार्ताशब्दः न हि भाववाचकः । तस्मात् ‘वार्ता करोति’ इत्येतस्मात् ‘वार्ता निर्माति’ इत्यस्य अर्थस्य प्रतीतिः भवितुम् अर्हति । स च

शुद्धिकौमुदी

अर्थः अत्र न अभिप्रेतः । अतः “वार्तालाप’शब्दस्य प्रयोगः वरम् । ‘आलाप’शब्दः भाववाचकः । तस्मात् ‘वार्तालापं करोति’ इत्यस्य सङ्गतिः । अथवा यदि ‘आलापं करोति’ इत्यस्मात् ‘सम्भाषते’ इत्यर्थः न प्रतीयते इति चिन्त्यते तर्हि ‘सम्भाषणं करोति’ इत्येव प्रयुज्यताम् ।

अथवा ‘सम्भाषते’ इति अखण्डक्रियापदं वा प्रयुज्यताम् । १०८. अन्तर्देशीयपत्रस्य मूल्यम् इदानीं सार्धद्विरूप्यकात्मकम् ।

‘देशीयम्’ इत्यनेन एव इष्टसिद्धिः । अथवा ‘अन्तर्देशीयम्’ इत्येव वा भवतु । विदेशसम्बद्धस्य व्यवहारस्य निमित्तं यत् पत्रम् उपयुज्यते तस्य ‘विदेशीयं पत्रम्’ इति नाम भवितुम् अर्हति । यस्य उपयोगः देशे भवति तत् ‘देशीयम्’ पत्रम् । ‘देशीयम्’ इत्यस्य अर्थः ‘देशसम्बन्धी’ इति । देशस्य अन्तः एव तस्य उपयोगः भवति, न तु देशात् बहिः स्थितेषु अन्येषु देशेषु । एवं ‘देशीयम्’ इत्यस्मात् एव अपेक्षितस्य अर्थस्य भानं भवति । तस्मात् तेन सह ‘अन्तर्’शब्दस्य योजनं वस्तुतः न आवश्यकम् । किन्तु पत्रालयविभागेन ‘अन्तर्देशीय’शब्दः एतावता एव व्यवहारपथम् आनीतः । स्थितस्य गतिः खलु चिन्तनीया ? तस्मात् एवं विग्रहः उच्यते – देशस्य अन्तः अन्तर्देशः । एकदेशिसमासः अत्र । देशस्य अन्तर्भागः इत्यस्य अर्थस्य सिद्धिः । अन्तर्देशस्य सम्बन्धि अन्तर्देशीयम् । स्वदेशीवस्तूनाम् उपयोगः एव करणीयः सर्वैः । ‘स्वदेशी’ इति शब्दः अस्थाने । ‘स्वदेशीय’शब्दः प्रयोक्तव्यः । ‘देशीय’शब्देनापि इष्टसिद्धिः । स्वस्य देशः स्वदेशः । स्वदेशस्य इदं स्वदेशीयम् । ‘स्वदेशी’ इत्येतस्मात् शब्दात् तु ‘स्वदेशवान्’ इत्यस्य अर्थस्य प्रतीतिः भवेत् । (स्वस्य देशः स्वदेशः । स्वदेशः अस्य अस्ति इति स्वदेशी) स्वदेशवान् इत्येषः अर्थः अत्र न अभिप्रेतः ।

अद्य देशे द्विविधानि वस्तूनि उपलभ्यन्ते - बहुराष्ट्रीयाभिः संस्थाभिः निर्मीयमाणानि, देशीयाभिः संस्थाभिः निर्मीयमाणानि चेति ।

सुबन्ताः

देशीयसंस्थाभिः निर्मितानि उच्यन्ते - ‘स्वदेशीयानि’ इति । वस्तुतः तु देशीयानि’ इति कथनात् एव ‘अस्मद्देशीयानि’ इत्यस्य अर्थस्य प्रतीतिः भवति । तस्मात् ‘स्व’शब्दस्य त्यागात् अपि अपेक्षितस्य अर्थस्य प्रतीतिः भवेत् एव । तथापि ‘स्व’शब्दस्य योजनात् एव अपूर्वोत्पतिः इति यदि चिन्त्यते तर्हि भवतु नाम तत् ।

स्वशब्दस्य योजनात् विशिष्टार्थस्य भानं तु न भवति । ११० बालः स्वमातापितरौ नमस्कृतवान् ।

‘मातापितरौ’ इत्येतावता एव इष्टसिद्धिः । स्वशब्दः परिहर्तुं शक्यः । ‘स्व’शब्दः सर्वत्र योज्यते अस्माभिः । बहुत्र तस्य योजनं न

आवश्यकं भवति । प्रकृतवाक्ये ‘मातापितरौ’ इत्येतावता एव ‘स्वस्य’ इत्यस्य अर्थस्यापि भानं भवति । यदा अन्यस्य मातापितरौ निर्देष्टव्यौ तदा अन्यादिपदानां योजनं करणीयं भवति । चारुदेवशास्त्रिणः एतद्विषये वदन्ति - “पित्रादयस्सम्बन्धिशब्दास्तत्र सम्बन्धाख्यायकः स्वशब्दो नापेक्ष्यते, न च योज्यते’’ इति । अधोनिर्दिष्टानि वाक्यानि परिशील्यन्ताम् -

__रामः स्वपितुर्भवनं जगाम ।

सः स्वमातरं नमस्कृतवान् । बालः स्वबान्धवान् निमन्त्रितवान् । बालः स्वगुरुं नमस्कृतवान् । सा स्वपतिम् उक्तवती । सः स्वपत्नीम् आहूतवान् ।

बालः स्वहस्तं दर्शितवान् । 0 सः स्वगृहं गतवान् । एतेषु सर्वेषु वाक्येषु स्वशब्दः परिहर्तुं शक्यः, परिहरणीयश्च । स्वतः सिद्धस्य सम्बन्धस्य द्योतनाय पुनः स्वशब्दस्य प्रयोगः न उचितः । एतादृशेषु वाक्येषु स्वशब्दस्य त्यागात् एव संस्कृतत्वस्य

सिद्धिः । १११. कश्चित् व्यापारी सम्यक् व्यापारं करोति स्म । .

शुद्धिकौमुदी

“व्यापारी’ इत्यस्य स्थाने ‘वणिक्’ इति, “व्यापार ‘पदस्य स्थाने ‘वाणिज्यम्’ इति च प्रयोगः वरम् । ‘व्यापार ‘पदस्य ‘वाणिज्यम्’ इति न अर्थः । “क्रियासामान्यं’ व्यापारपदेन उच्यते । वाणिज्यम् अपि कश्चन व्यापारः । तत् व्यापारेषु अन्यतमम् । हस्तचालनादयः अपि व्यापाराः एव । किन्तु ते वाणिज्यपदवाच्याः न । प्रादेशिकभाषासु सर्वासु ‘व्यापार’पदेन वाणिज्यार्थः निर्दिश्यते । संस्कृते तु वाणिज्यं क्रयविक्रयसम्बन्धि । व्यापारश्च हस्तपादादि चालनरूपः सर्वोऽपि व्यवहारः ।

अतः क्रयविक्रयादिरूपे व्यवहारे ‘वाणिज्य’पदस्य प्रयोगः, तत्कर्तुः निर्देशाय ‘वणिक् ‘शब्दप्रयोगश्च वरम् ।

कश्चन साधुः ग्रामसीमायां निवसति स्म । ‘संन्यासी’ इति “विरागी’ इति वा प्रयोगः शोभते ।

साधुः नाम सभ्यः सत्पुरुषः । साधुशब्दः संन्यासिनः पर्यायपदं न । यः संन्यासी भवति सः साधुः (सज्जनः) भवति । किन्तु यः साधुः भवति सः संन्यासी एव भवेत् इति न नियमः । उत्तमस्वभाववान् सर्वोऽपि साधुः भवति । संन्यासी तु काम्यकर्मपरित्यागी, सर्वकर्म फलत्यागी च ।

काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः ।

__- भगवद्गीता - १८.२ एवं साधुत्वं व्यापकः धर्मः, संन्यासः व्याप्यः धर्मः । प्रापञ्चिकविषयेषु अनादरवान् ‘विरागी’ इति उच्यते । प्रकृतवाक्ये तु ‘संन्यासी’ इति ‘विरागी’ इति वा प्रयोगः शोभते ।

कोषकारः हेमचन्द्रः एकः एव - ‘साधु ने मुनौ वाधुषिके सज्जन रम्ययोः’ इति वदति । तस्य दृष्ट्या साधुः नाम जैनमुनिः अपि । अन्ये कोषकाराः तु साधुः इत्यस्य सज्जनाद्यर्थमानं लिखितवन्तः

दृश्यन्ते । ११३. तस्य सांसारिक जीवन सुखमयं नास्ति ।

‘सांसारिकम्’ इति अस्थाने । ‘कौटुम्बिकम्’ इति प्रयोक्तव्यम् । संसारः नाम इहप्रपञ्चः । मातापितापुत्रादयः कुटुम्बशब्देन निर्दिश्यन्ते ।सुबन्ताः

93

एतस्मिन् वाक्ये सुखाभावः उच्यते कौटुम्बिकजीवने । यः सांसारिक जीवने सुखं न पश्यति सः विरक्तः सन् संन्यासाश्रमम् अवलम्बेत । यः कौटुम्बिकजीवने सुखं न पश्यति स तु खिद्यमानः सन् अपि

सुखप्राप्तये पुनः प्रयतते ।। ११४. तस्य पत्नीपुत्रादयः परिवारजनाः नगरान्तरम् अगच्छन् ।

‘परिवारजनाः’ इति शब्दप्रयोगः अत्र अनुचितः । ‘कुटुम्बजनाः’ इति प्रयोक्तव्यम् । संस्कृतभाषायां परिवारः नाम परिजनाः = सेवकादीनां गणः । तस्मात् पत्नीपुत्रादयः न परिवारजनाः, अपि तु कुटुम्बजनाः ।

अतः एव निमन्त्रणपत्रादिषु ‘सकुटुम्बं सपरिवारम् आगन्तव्यम्’

इति मुद्र्यते । तस्मात् स्पष्टं यत् परिवारः कुटुम्बात् अन्यः इति । ११५. ज्येष्ठान् द्रष्टुं रिक्तहस्तेन मा गच्छ ।

“रिक्तहस्तेन’ इति अस्थाने । “रिक्तहस्ततया’ इति प्रयोक्तव्यम् । रिक्तः हस्तः रिक्तहस्तः । गमनक्रियायां हस्तस्य न करणत्वम | अतः “रिक्तहस्तेन’ इति तृतीयान्तं पदम् अनन्वितं तिष्ठति । “रिक्तः हस्तः यस्य सः’ इति विग्रहः वक्तुं शक्यः रिक्तहस्तपदस्य । तदा तु रिक्तहस्तः स्यात् कर्ता । कर्तरिप्रयोगत्वात् अत्र कर्तुः प्रथमा । तद्विशेषणस्यापि प्रथमा एव स्यात्, न तु तृतीया । अतः ‘रिक्तहस्तः’ इति बहुव्रीहिसमासोपेतं पदं कर्तुः विशेषणं भवितुम् अपि न अर्हति । क्रियायां तु धर्मपरः शब्दः अन्वेति । रिक्तहस्तस्य भावः रिक्तहस्तता । तस्य तृतीयान्तत्वेन क्रियायाम् अन्वयः । अतः ‘रिक्तहस्ततया’ इति प्रयोगः एव साधुः । यदि “रिक्तहस्तेन’ इति प्रयोक्तव्यम् एव इति तीवेच्छा तर्हि कर्मणिप्रयोगः अवलम्ब्यताम् । यथा - ज्येष्ठान् द्रष्टुं रिक्तहस्तेन न गन्तव्यम् इति । किन्तु एतदत्र स्मर्तव्यं यत् वक्ता यदि पुमान् भवति तदा एवं एतत् वाक्यं सम्भवति । यदा स्त्रिया उच्यते तदा तु ‘रिक्तहस्तया न

गन्तव्यम्’ इति प्रयोगः स्यात्, न तु ‘रिक्तहस्तेन’ इति । ११६. एषः कोषः / कोशः उत्तमः अस्ति ।

‘कोषः’ ‘कोशः’ इति उभयथा अपि साधु ।

शुद्धिकौमुदी निष्कर्षार्थकः कुषधातुः । अधिकरणादौ घञ् । ‘कोषः’ इति रूपम् । (मूर्धन्यः षकारः) कोषकारैः तालव्योपेतं (शकारोपेतम्) रूपम् अपि दर्श्यते । तस्मात् तालव्योपेतम् अपि रूपं (कोशः इति रूपम्) साधु एव । अमरकोषस्य सुधाव्याख्याने लिख्यते - ‘कुश संश्लेषणे । तालव्याः मूर्धन्याश्चैते इत्यधिकारे कोशविशदौ च इति शभेदः’ इति । नपुंसकलिङ्गः अपि अयं शब्दः । तस्मात् कोषं /

कोशम् इत्यपि रूपम् । ११७. कृषिकः / कृषकः क्षेत्रे कृषि करोति ।

‘कृषिकः’ ‘कृषकः’ इति रूपद्वयम् अपि साधु । ‘कृष विलेखने’ इति धातुः । कुन्प्रत्यये ‘कृषकः’ इति रूपम् ।

किकन्प्रत्यये ‘कृषिकः’ इति रूपम् । ११८. गणपतेः वाहनं मूषकः / मूषिकः ।

“मूषकः’ ‘मूषिकः’ इति उभयम् अपि साधु । स्तेयार्थकस्य मुषधातोः ण्वुल्प्रत्यये ‘मूषकः’ इति रूपम् । तस्यैव धातोः ‘किकन्’प्रत्यये (दीर्घ च) मूषिकः इति रूपम् । मुषधातोः अच्प्रत्यये ‘मूष’ इति रूपम् । तस्यापि ‘मूषिकः’ इत्येव

अर्थः । ११९. एषः नारिकेलः / नालिकेरः उन्नतः अस्ति ।

‘नारिकेलः’ ‘नालिकेरः’ इति उभयम् अपि साधु । नार्याः वनितायाः केलः इव केलः यस्य इति विग्रहे पृषोदरादित्वात् ‘नारिकेलः’ इति रूपं साधु । रलयोः अभेदात् ‘नालिकेरः’ इत्यपि रूपम् ।

अत्र ‘नारिकेलः’ वृक्षवाची । तस्मात् पुंस्त्वं युक्तम् । फलवाचित्वे

तु नपुंसकता। १२०. सैनिकः प्रतिकाराय / प्रतीकाराय प्रयतते ।

‘प्रतिकारः’ ‘प्रतीकारः’ इति उभयम् अपि साधु ।

करणार्थकस्य कृञ्धातोः घञ्प्रत्यये ‘प्रतिकारः’ इति रूपम् । ‘उपसर्गस्य घज्यमनुष्ये बहुलम्’ (६.३.१२२) इति सूत्रेण दीर्घः ।

तस्मात् ‘प्रतीकारः’ इत्यपि रूपम् । १२१. हनुमान् / हनूमान् रामस्य परमभक्तः ।

सुबन्ताः

‘हनुमान्’ ‘हनूमान्’ इति उभयथा अपि साधु । ‘हनुः’ इति उकारान्तं पदम् । हन्धातोः औणादिके ‘उ’प्रत्यये ‘हनुः’ इति रूपम् । तस्यैव धातोः औणादिकः ‘ऊञ्’प्रत्ययः अपि

भवति । तदा ‘हनूः’ इति रूपम् । हनुरस्य अस्ति इति हनुमान् । हनूरस्य अस्ति इति हनूमान् । उभयोः अपि प्रयोगः यथा - * मत्करोत्सृष्टवज्रेण हनुस्तस्य तदा क्षतः ।

नाम्नैष हरिशार्दूलः भविता हनुमानिति ।

  • रामा.उत्तरकाण्डः * अहं केशरिणः क्षेत्रे वायुना जगदायुना ।

जातः कमलपत्राक्ष हनूमान्नाम वानरः ।।

___- महा. - ३.१२७ १२२. तस्य मध्यमाङ्गुली / मध्यमाङ्गलिः दीर्घा अस्ति ।

‘अङ्गुलिः’ ‘अङ्गुली’ इति उभयथा अपि साधु । ‘अङ्गुलिः’ इत्यत्र उलिच्प्रत्ययः । तस्यैव विकल्पेन ङीपि ‘अङ्गुली’ इति रूपम् । प्रयोगो यथा -

  • उद्वेजयत्यनुलिपार्णिभागान् ।

_ - कुमार. - १.११ * त्याज्यो दुष्टः प्रियोऽप्यासीदमुलीवोरगक्षता ।

  • रघु० - १.१८ एवमेव व्यवहारे श्रूयमाणानां बहूनां शब्दानां रूपद्वयं रूपत्रयं वा

क्वचित् श्रूयते । तानि रूपाणि यथासम्भवम् ऊह्यानि । १२३. बालकः प्रतिनित्यं चलनचित्रं पश्यति ।

‘प्रतिनित्यम्’ इति अस्थाने । ‘प्रतिदिनम्’ इति वक्तव्यम् । ‘नित्य’शब्दः “दिन’पर्यायः न । तन्नाम नित्यदिनयोः अभेदार्थकता न । “नित्य’पदस्य नियत-शाश्वतादयः अर्थाः सन्ति । नियतं भवं नित्यम् इति भाष्योक्तिः । ‘त्यब्नेर्भुव इति वक्तव्यम्’इति वार्तिकम् । [अव्ययात्त्यप्’(४.२.१०४) इति सूत्रे ।] तस्मात् एव यत् प्रतिदिनं न भवति, तदपि नित्यशब्देन निर्दिश्यते, नियतं भवतीति कृत्वा । एकादश्युपवासादयः अत्र उदाहरणानि ।

शुद्धिकौमुदी ‘नित्यकर्म’शब्देन निर्दिश्यमानानि कानिचन कर्माणि प्रतिदिनं प्रवर्तन्ते इत्यतः नित्यदिनयोः अभेदः इति भ्रमः केषाञ्चित् । अतः ‘प्रतिदिनम्’ इति प्रयोगः एव उचितः ।

अतः “नित्योपयोगीनि वस्तूनि’ इत्यस्य स्थाने ‘दैनन्दिनोपयोगीनि

वस्तूनि’ इति प्रयोगः युज्यते । १२४. पाण्डवेषु सहदेवः कनीयः ।

‘कनीयः’ इति अपशब्दः । ‘कनीयान्’ इति प्रयोक्तव्यम् । ‘कनीयस्’शब्दः सकारान्तः । तस्य प्रथमैकवचनान्तं रूपं कनीयान् इति । ‘युव’शब्दात् ईयसुन्प्रत्यये ‘उगिदचाम्….’ (७.१.७०) इत्यनेन नुम् । ‘सान्तमहतः…..’ इति दीर्घः । ‘संयोगान्तस्य लोपः’ इत्यनेन सकारलोपः । (सुलोपस्तु ‘हल्याभ्यो दीर्घात्….’ इति सूत्रेण ।) कनीयश्शब्दः अकारान्तः इति त भ्रमः एव ।

अद्य प्रश्नोत्तरीस्पर्धा अस्ति । ‘प्रश्नोत्तरी’ इति अपशब्दः । ‘प्रश्नोत्तरम्’ इति प्रयोक्तव्यम् । प्रश्नाः च उत्तराणि च एतेषां समाहारः प्रश्नोत्तरम् । समाहारद्वन्द्वे नपुंसकं स्यात् ‘स नपुंसकम्’ (२.४.१७) इति सूत्रेण । अतः ‘प्रश्नोत्तरम्’ इति रूपम् ।

यदि समाहारद्वन्द्वः न इष्यन्ते तर्हि प्रश्नाः च उत्तराणि च प्रश्नोत्तराणि, तेषां स्पर्धा प्रश्नोत्तरस्पर्धा । तदा अपि न ईकारः प्रश्नोत्तरशब्दे । द्विगुसमासे तु ‘अकारान्तोत्तरपदो द्विगुः स्त्रियाम् इष्टः’ इति वार्तिकेन स्त्रीत्वं, ततः ‘द्विगोः’ इति सूत्रेण ङीप् । तस्मात् ‘पञ्चवटी’ इत्यादीनि रूपाणि । ‘प्रश्नोत्तरम्’ इत्यत्र न द्विगुः, तस्मात् ङीप् अपि न । तस्मात् ‘प्रश्नोत्तरी’ इति रूपं तु असाधु एव । शिवरामेण शिक्षाशास्त्री पठिता। “शिक्षाशास्त्रं पठितम्’ इति कथनम् औचित्यम् आवहति । यथास्थितं तु इदं वाक्यं आकुलितम् अस्ति । न हि ‘शिक्षाशास्त्री’ इत्येषः शब्दः स्त्रियाम् । अतः ‘पठिता’ इति प्रयोगः असाधुः । “शिक्षाशास्त्री’ इति उपाधेः (उपाधिमतः वा) नाम । तच्च पदम् इन्नन्तम् । अतः “शिक्षाशास्त्रिणम्’ इति स्यात् द्वितीयान्तः प्रयोगः ।

सुबन्ताः

97

पठनविषयः न हि उपाधिः । पठ्यते हि शास्त्रम् । अतः “शिक्षाशास्त्रं

पठितम्’ इति प्रयोगः औचित्यम् आवहति । १२७. सः मम विषये निर्लक्ष्यतया व्यवहरति ।

‘निर्लक्ष्यतया’ इति अस्थाने । ‘उपेक्षया’ इति प्रयोक्तव्यम् । निर्लक्ष्यशब्दः उपेक्षापर्यायः न । निर्गतं लक्ष्यं यस्मात् सः निर्लक्ष्यः । तन्नाम लक्ष्यहीनः । तस्य भावः निर्लक्ष्यता । एतस्मिन् वाक्ये लक्ष्यहीनतायाः न कापि प्रसक्तिः । ‘उपेक्षा’ अत्र वक्तव्या अस्ति । अतः “उपेक्षया’ इति प्रयोगः एव साधुः । एवमेव “निर्लक्षितवान्’ इति प्रयोगः अपि श्रूयते । तत्रापि ‘उपेक्षितवान्’

इति प्रयोक्तव्यम् । १२८. अद्य देशस्य प्रधानी भाषणं करिष्यति ।

‘प्रधानी’ इति अयुक्तम् । ‘प्रधानमन्त्री’ इति, ‘प्रधानः’ इति वा प्रयोक्तव्यम् । प्रधानः प्रमुखः मन्त्री प्रधानमन्त्री । मन्त्रिशब्दः यदि न इष्यते तर्हि ‘प्रधानः’ इत्यपि प्रयोगः शक्यः । प्रधानी’ इति इन्नन्तं पदं न प्रयुक्तपूर्वम् । प्रधानः अस्य अस्तीति प्रधानी इति अर्थः उपवर्णनीयः स्यात् । तदा तु ‘प्रधानयुक्तः’ इति अर्थः सिध्यति । तस्मिन् अर्थे

अपि तस्य प्रयोगस्य असत्त्वात् तस्य प्रयोगस्य परिहारः एव वरम् । १२९. शत्रवः षड्यन्त्रं कुर्वन्तः सन्ति ।

‘षड्यन्त्रम्’ इति अस्थाने । ‘कुतन्त्रम्’ इति प्रयोक्तव्यम् । ‘षड्यन्त्रम्’ इति शब्दः एव व्युत्पन्नः न भवति । षण्णां यन्त्राणां समाहारः इति विग्रहे उक्ते ‘षड्यन्त्री’ इति रूपं स्यात् । अन्यच्च तादृशः अर्थः अत्र न अभिप्रेतः एव । जयादिनिमित्तं वाममार्गेण उपायः यः चिन्त्यते सः निर्देष्टुम् इष्टः अत्र । तदर्थं ‘कुतन्त्र’शब्दः प्रयोक्तव्यः । कुत्सितं तन्त्रं कुतन्त्रम् । तन्त्रपदस्य उपायः, व्यवहारः

इत्यादयः अर्थाः । १३०. पुस्तकस्य आवश्यकता नास्ति मम ।

‘आवश्यकता’ इति प्रयोगः न दोषाय ।

“अवश्यम्भावः आवश्यकम् । भावे वुप्रत्ययः । आवश्यक शब्देनैव भावस्य उक्तत्वात् पुनः भावार्थे तल्प्रत्ययेन नार्थः’ इति

शुद्धिकौमुदी

वदन्ति केचन । अतः आवश्यकताशब्दस्य असाधुत्वं मन्यन्ते ते । ‘आवश्यकशब्दः धर्मपरः’ इति तेषां कथनस्य सारः । किन्तु

आवश्यकशब्दः धर्मिपरत्वेनापि बहुधा दृश्यते । यथा - * शेषाधिकारस्तावदावश्यकः ।

  • तत्त्वबोधिनीव्याख्या (‘शेषे’ इति सूत्रे) * षादीनां निवृत्त्यर्थमप्यधिकारः आवश्यकः ।

  • तत्त्वबोधिनीव्याख्या (‘शेषे’ इति सूत्रे) * तृतीयासमासोऽपि आवश्यक इति त्वन्ये ।

  • तत्त्वबोधिनीव्याख्या (‘पूर्वसदृश..‘सूत्रे) एतेषु त्रिष्वपि धर्मिपरत्वं स्फुटम् । धर्मिपरत्वाभावे समान विभक्तिकत्वम् अनुपपन्नं स्यात् ।

‘आवश्यकत्व’प्रयोगो यथा - * तस्येदम् इत्यादौ ……ग्रहणाभावाय तदावश्यकत्वात् ।

. - बालमनोरमाव्याख्या (‘शेषे’ इति सूत्रे) * ….. ग्रहणलाभाय तदावश्यकत्वात् ।

. - बालमनोरमाव्याख्या (‘शेषे’ इति सूत्रे) ……… अतस्तेषु समासविधानस्यावश्यकत्वात्……

___- विभाषा - २.१.१२ इत्यस्य व्याख्याने बालमनोरमायाम् अत्र त्रिष्वपि वाक्येषु ‘आवश्यकत्व’प्रयोगः कृतः अस्ति । ‘आवश्यकत्व’पदस्य ‘आवश्यकता पदस्य च समानार्थकत्वम् । यदि ‘आवश्यकता’ इत्येतत् अयुक्तं तर्हि बालमनोरमायां प्रयुक्तस्य ‘आवश्यकत्व’पदस्यापि अयुक्तता वक्तव्या भवेत् । तस्मात् ‘आवश्यकता’ इति तु साधु एव । उभयोरपि साधुत्वप्रकारः इत्थं दर्शयितुं शक्यः - अवश्यं भावः आवश्यकम् । भावे वुञ् । आवश्यकमस्य अस्तीति आवश्यकः । अर्श आदिभ्यो अच् - ६.२.१२८ इति सूत्रेण मत्वर्थे अच् । आवश्यकवान् इत्यर्थः फलितः भवति । तस्मात् ‘शेषाधिकारः आवश्यकः’ इत्यादयः प्रयोगाः सिद्धाः । इत्थं व्युत्पादितात् आवश्यकशब्दात् (मत्वर्थीयाजन्तात्) त्वप्रत्यये आवश्यकत्वमिति, तल्प्रत्यये च आवश्यकता इति च सिद्धम् ।

सुबन्ताः

तदा बालमनोरमापतिरपि युक्ता एव । १३१. सः देशसेवायै स्वात्मानं समर्पितवान् अस्ति ।

‘स्वात्मानम्’ इति प्रयोगः अस्थाने । ‘आत्मानम्’ इति प्रयोगः साधुः ।

आत्म-स्वशब्दयोः समानः अर्थः । समानार्थकानि पदानि एकस्मिन् एव वाक्ये न प्रयुज्यन्ते । तेषु अन्यतमः प्रयुज्यते । अतः अत्र ‘स्व’शब्दस्य परित्यागः करणीयः । ‘आत्मानम्’ इति प्रयोगः करणीयः । आत्मशब्दं परित्यज्य स्वशब्दमात्रस्य प्रयोगः अपि कर्तुं शक्यः । स्वशब्दस्य ‘आत्मीयः’ इत्यपि अर्थः अस्ति । तथापि आत्मनः

स्वेति विशेषणम् अत्र न औचित्यमावहति । १३२. बालेन पठनं लेखनम् इत्यादि कृतम् ।

‘इत्यादि’ इति प्रयोगः न असाधुः । इति आदिः यस्य तत् इत्यादि । विशष्यपदस्य अनुपादानात् नपुंसकता । जातौ एकवचनम् । तस्मात् ‘इत्यादि’ इति सिद्धम् । अथवा कार्यजातादिषु अन्यतमं पदम् अध्याहियताम् । तस्मादपि

एकवचनत्वसिद्धिः । १३३. गृहं निर्मातव्यं, धनं सम्पादनीयम् इत्यादि आशाः मम न सन्ति ।

‘इत्यादयः आशाः’ इति, “इत्याद्याशाः’ इति वा प्रयोक्तव्यम् । इत्यादिशब्दः आशायाः विशेषणम् । आशाशब्दः बहुवचनान्तः अस्ति । अतः इत्यादिशब्दः अपि बहुवचनान्तः स्यात् । तस्मात् ‘इत्यादयः आशाः’ इति प्रयोगः । यदि तयोः पदयोः समासः क्रियेत तर्हि ‘इत्याद्याशाः’ इति रूपम् ।

‘इत्यादि आशाः’ इत्यत्र तु विभक्तिः न योजिता, न वा समासः कृतः । ‘अपदं न प्रयुञ्जीत’ (प्रातिपदिकमात्रं न प्रयोक्तव्यम्) इति हि व्याकरणोक्तिः । ‘इत्यादि’ इति नपुंसके तु रूपं भवेत् । किन्तु तस्य अन्वयः ‘आशा’पदे भवितुं न अर्हति । अतः ‘इत्यादि’ इति

नपुंसके इत्येवम् उक्त्वा समर्थयितुं क्रियमाणः प्रयासः व्यर्थः एव । १३४. अरण्ये विविधाः सस्यप्राणिपक्षिणः भवन्ति ।

‘प्राणि’शब्दः अत्र अस्थाने । ‘पशु’शब्दः प्रयोक्तव्यः ।

100

शुद्धिकौमुदी

प्राणी नाम प्राणवान् । प्राणाः तु मानवानां, पशूनां, पक्षिणाम्, अन्येषां जीविनां च भवन्ति । एवं प्राणवन्तः सर्वे प्राणिनः भवन्ति । तस्मात् मानवाः अपि प्राणिनः एव । प्राणिषु अन्यतमाः पशवः । उपर्युक्ते वाक्ये ते पशवः एव निर्देष्टुम् इष्टाः । तस्मात्

सस्यपशुपक्षिणः इति प्रयोक्तव्यम् । १३५. भाषाक्षेत्रे संस्कृतस्य महत्त्वं स्थानम् अस्ति ।

‘महत्त्वं स्थानम्’ इति असाधु । “महत्त्वभूतं स्थानम् इति प्रयोगः उचितः । ‘महत्त्व’शब्दं विशेषणं कर्तुम् इच्छति वाक्यस्य प्रयोक्ता । विशेषणं धर्मिपरं चेदेव विशेष्येण समानविभक्तिकतया अन्वयं प्राप्नोति । ‘महत्त्वम्’ इत्येतत् धर्मपरम् । महतः भावः महत्त्वम् । एवं धर्मपरः शब्दः सामानाधिकरण्येन “स्थान’शब्देन अन्वयं प्राप्तुं न अर्हति । अतः ‘महत्त्वभूत’शब्दः प्रयोक्तव्यः । स च धर्मिपरः । सः विशेषणत्वेन अन्वयं प्राप्नोति । तस्मात् ‘महत्त्वभूतं स्थानम्’ इति

प्रयोगः साधुः भवति । १३६. निरुद्योगः भारतस्य ज्वलन्तसमस्या अस्ति ।

‘ज्वलन्तसमस्या’ इति अपशब्दः । ‘महती समस्या’ इति, मार्गान्तरेण वा प्रयोगः करणीयः । ज्वलन्ती + समस्या इति स्थिते पूर्वोत्तरपदयोः विभक्तिलोपे, पुंवद्भावे, समस्तपदात् पुनः सुबुत्पत्तौ ‘ज्वलत्समस्या’ इति रूपम् । ‘ज्वलन्तः’ इति तु पुंसि प्रथमाबहुवचनान्तं रूपम् । समासे तु विभक्त्यन्तानि रूपाणि पूर्वपदत्वेन न दृश्यन्ते, अलुक्समासात् ऋते । पूर्वपदानां प्रातिपदिकरूपेण स्थितिः । ‘ज्वलत्समस्या’ इति रूपं तु भवति । न हि समस्या ज्वलति । सा हि अस्मान् ज्वालयति । या ज्वलति सा क्षीयते । क्षयार्थज्ञापकात् विशेषणात् समस्यायाः उग्रता न अनुभवगोचरतां याति । समस्यायाः उग्रता एव वक्त्रा ज्ञापयितुम् इष्टा । तस्मात् ‘महती समस्या’ इति

प्रयोगः वरम् । अथवा भङ्यन्तरेण प्रयोगः अपि भवितुम् अर्हति । १३७. पूजासमये अर्चकेन ‘आरतिः’ कृता ।

सुबन्ताः

‘आरतिः’ इति प्रयोगः अनुचितः । ‘नीराजनम्’ इति प्रयोक्तव्यम् । ‘आरति’पदस्य विश्रान्तिः, विरामः, निवृत्तिः इत्यादयः अर्थाः वर्णिताः कोषकारैः । नीराजनार्थः केनापि न वर्णितः । तस्मात् आरतिः इति प्रयोगः अस्थाने । ‘नीराजनम्’ इति प्रयोगः उचितः । केचन ‘आरति शब्दस्य साम्यं चिन्तयन्तः ‘आरार्तिकम्’ ‘आरात्रिकम्’ इत्यादीनि पदानि प्रयुञ्जते । तेषां साधुत्वकथनप्रकारः

तु न ज्ञायते । अतः तेषां परिहारः अपि वरम् एव इति भाति । १३८. देहलीनगरे मया गान्धिसमाधिः दृष्टा ।

‘गान्धिसमाधिः दृष्टा’ इति प्रयोगः अशुद्धः । ‘गान्धिस्मारक दृष्टम्’ इति प्रयोक्तव्यम् । प्रसिद्धस्य पुरुषस्य दिवंगतेः अनन्तरं तस्य स्मरणाय किञ्चन स्मारकं निर्मीयते । प्रादेशिकभाषासु तस्य ‘समाधिः’ इति नाम । संस्कृतभाषायां तत् ‘स्मारकम्’ इति उच्यते । समाधिपदं योगशास्त्रीयं पारिभाषिकं पदम् । एकाग्रतया मनसः स्थापनरूपः ध्येयमात्रस्मरणरूपः ध्यान विशेषः “समाधिः’ इति उच्यते । समाधिः अन्यः, स्मारकं शवस्थानं

वा अन्यत् । तयोः अभेदेन व्यवहारः नास्ति ।

अन्यच्च, समाधिशब्दः पुंसि । अतः ‘समाधिः दृष्टा’ इति प्रयोगः

अनुचितः । ‘समाधिः दृष्टः’ इति पुंसि प्रयोक्तव्यम् । १३९. शिष्येण गुरवे गुरुदक्षिणा दत्ता । ।

‘गुरवे दक्षिणा दत्ता’ इति प्रयोगः उचितः । गुरवे या दक्षिणा दीयते सा उच्यते “गुरुदक्षिणा’* इति । एतस्मिन् वाक्ये ‘गुरु’शब्दः द्विवारम् उपात्तः दृश्यते । तत् अनुचितम् । ‘गुरवे दक्षिणा दत्ता’ इति

आनुपूर्वी एव शोभते । । एवमेव -

ग्रामस्य ग्रामाधिकारी ग्रामस्य ग्रामदेवता कार्यालयस्य कार्यालयप्रमुखः

गृहस्य गृहस्वामी / गृहरक्षकः * ‘गुरुदक्षिणा’ इत्यत्र ‘गुरोः दक्षिणा’ इति षष्ठीतत्पुरुषः । “गुरवे दक्षिणा’ इति

चतुर्थीतत्पुरुषः न, विधायकसूत्राभावात् ।

102

शुद्धिकौमुदी

देवस्य देवालयः ‘ग्रन्थस्य

ग्रन्थपरिचयः राशेः राश्यधिपतिः

राज्ञः राजकुमारः इत्यादयः प्रयोगाः अनुचिताः । समानार्थको उभौ शब्दौ (एकः

षष्ट्यन्तः, अपरः समासाङ्गभूतः) समाने वाक्ये न प्रयोक्तव्यौ । १४०. एतस्मात् मम बहुखेदः जातः ।

गुरौ बहुश्रद्धा तस्य ।

अत्र वाक्यद्वये अपि बहुशब्दः प्रयुक्तः । आधिक्यार्थे सः अत्र प्रयुक्तः । बहुशब्दप्रयोगे न दोषः । किन्तु तत्र संस्कृतत्वं सौन्दर्यं वा न्यूनम् । एतादृशे अवसरे महच्छब्दः प्रयुज्यते संस्कृतक्षेत्रे । तस्मात् ‘महान् खेदः’ ‘महती श्रद्धा’ इत्येवं प्रयोगः शोभते ।

महच्छब्दः अन्यासु भाषासु एतेन प्रकारेण न प्रयुज्यते । संस्कृते तु महान् तस्य प्रयोगप्रसरः । केचन प्रयोगाः यथा -

  • महत् दुःखम् महान् आनन्दः * महती निद्रा. - महान् सम्मर्दः * महती वेदना * महत् आश्चर्यम् * महान् आदरः महती असूया * महान् कोपः

महान् उत्कर्षः इत्यादयः । १४१. ह्यः मम मित्रम् आगतवान् आसीत् ।

“मित्रम् आगतवान्’ इति वाक्यम् अशुद्धम् । “मित्रम् आगतवत्’ इति वक्तव्यम् । मित्रशब्दः नपुंसके । ‘आगतवान्’ इति तु पुंसि । आगतवच्छब्दस्य पुंस्त्वम् अत्र न सङ्गच्छते । मित्रशब्दस्य नपुंसकत्वात् आगतवच्छब्दस्य अपि नपुंसकता एव स्यात् । अतः “मित्रम् आगतवत्’ इत्येव प्रयोक्तव्यम् । ‘मम मित्रं रमेशः आगतवान्’ इति वाक्यप्रयोगः यदि भवति, तन्नाम रमेशपदस्य मध्ये निवेशः यदि भवति तर्हि ‘आगतवान्’ इति पुंलिङ्गप्रयोगः सङ्गच्छते एव । मित्रंशब्दः विशेषणं सत् गौणतां भजते । रमेशशब्दस्यैव प्राधान्यम् । तस्य पुंस्त्वात् आगतवच्छब्दस्यापि पुंस्त्वं युज्यते एव ।सुबन्ताः

103

१४२. यदि जनाः श्रद्धया कार्यं कुर्वन्ति चेत् देशस्य प्रगतिः सिद्धयेत् ।

‘यदि’ इत्यस्य यः अर्थः सः एव अर्थः ‘चेत्’ इत्यस्यापि । अतः तयोः अन्यतरः प्रयोक्तव्यः । तन्नाम ‘यदि’शब्दः प्रयुक्तः चेत् ‘चेत्’शब्दः परिहरणीयः । ‘चेत्’ प्रयुक्तं चेत् “यदि’शब्दः

परिहरणीयः । समानार्थकयोः सहप्रयोगः न युज्यते । १४३ शैत्यात् तस्य नासिकातः सिङ्घाणः स्रवति ।

‘पीनसात्’ इति प्रयोक्तव्यम् ।

शीतस्य भावः शैत्यम् । जलादिषु तत् दृश्यते । हेमन्तादिषु कुज्झटिकाहिमादिकारणतः परिसरे अपि शैत्यं दृश्यते । ज्वरादिषु प्रसङ्गेषु अपि शैत्यम् अनुभूयेत । “पीनसः’ तु नासिकासम्बद्धः कश्चन रोगः । ‘प्रतिश्यायः’ इति तस्य अपरं नाम । नासिकातः स्रावः पीनसकारणतः जायते, न तु शैत्यकारणतः । पीनसः तु शैत्यकाले यथा, तथैव औष्ण्यकाले अपि भवितुम् अर्हति । अतः

शैत्यम् अन्यत्, पीनसः अन्यः एव । १४४. पीनसकारणतः निरन्तरं क्षुवः मम ।

‘क्षुवः’ इति अपशब्दः । ‘क्षवः’ इति, ‘क्षुतम्’ इति वा प्रयोक्तव्यम् । टु क्षु (शब्दे) + भावे क्तः = क्षुतम् । टु क्षु (शब्दे) + अप् = क्षवः । उभयोः अपि समानः अर्थः । क्षुवः इत्यस्य साधुता तु

नास्ति । अतः सः न प्रयोक्तव्यः ।। १४५. सुभाषचन्द्रादीनां जन्मतः देशस्य घनता प्रवृद्धा ।

‘घनता’ इति प्रयोगः अस्थाने । ‘गौरवम्’ इति प्रयोक्तव्यम् । घनशब्दस्य सान्द्रादयः अर्थाः सन्ति । किन्तु गौरवार्थकत्वं नास्ति तस्य । अतः पूर्वोक्ते वाक्ये “घनता’ इति प्रयोगः अस्थाने ।

‘गौरवम्’ इति प्रयोगः औचित्यम् आवहति । १४६. मातुः वचने पुत्रः लक्ष्यं न ददाति ।

‘लक्ष्यम्’ इति पदम् अस्थाने । ‘अवधानम्’ इति प्रयोक्तव्यम् । ‘लक्ष्य’पदस्य ‘उद्दिष्टम्’ ‘लक्षणेन युक्तम्’ इत्यादयः अर्थाः । उपर्युक्ते वाक्ये ते च अर्थाः न अभिप्रेताः । ‘अवधानम्’ इत्यर्थः अभिप्रेतः । अवधानं नाम मनसः एकाग्रता । अतः लक्ष्यम् अन्यत् ।

104

शुद्धिकौमुदी

अवधानम् अन्यत् एव । तयोः न पर्यायता । १४७. केचन जनाः ध्येयविहीनं जीवनं यापयन्ति ।

अत्र ‘ध्येय’पदस्य स्थाने ‘लक्ष्य’पदस्य निवेशनं वरम् । यत् ध्यातुं योग्यं (ध्यातुम् अहँ वा) भवति तत् ध्येयम् । (ध्यै - चिन्तायाम् + यत्) लक्ष्यं तु उद्दिष्टं भवति । यद्यपि यत् लक्ष्य भवति तत् ध्येयम् एव भवति, तथापि ध्येय-लक्ष्ययोः अस्ति एव सूक्ष्मः कश्चन भेदः । कश्चन अलसः बालः अस्ति इति चिन्त्यताम् । परीक्षायाम् उत्तीर्णताप्राप्तिः तस्य लक्ष्यम् । किन्तु स सर्वदा ध्यायति क्रीडादिकम् । एतादृशे प्रसते तस्य लक्ष्यम् अन्यत्, ध्येयं भवति अन्यत् एव । तस्मात् तयोः अर्थभेदः स्फुटः । तथापि लक्ष्यं यस्य जीवने प्रमुखं तस्य जीवने ध्येयम् अपि तदेव भवति इत्यतः ध्येयलक्ष्ययोः क्वचित् पर्यायता अपि सम्भवति ।

स्मर्तव्यम् अत्र. यत् एषा समानार्थकता क्वचिदेव इति । १४८. कफदोषादिकारणतः शरीरेऽपि कृमिः/क्रिमिः जायते ।

‘कृमिः’ क्रिमिः’ इति रूपद्वयम् अपि साधु एव । पादविक्षेपार्थकस्य ‘क्रम’धातोः इत्प्रत्ययः - ‘क्रमितमिशतिस्तम्भामत इच्च’ (३.४.१२१) इति सूत्रेण । तदा च “क्रिमिः ’ इति रूपम् । पूर्वसूत्रात् सम्प्रसारणस्य अनुवृत्तेः ‘कृमिः’ इत्यपि रूपम् । अतः रूपद्वयम् अपि साधु एव । तथा हि कोषः (मेदिनी) - ‘कृमिर्ना

क्रिमिवत्कीटे लाक्षायां कृमिले खरे’ इति । १४९. अद्य नाटके पात्रधारिणां वेषः / वेशः उत्कृष्टः आसीत् । .

‘वेषः’ ‘वेशः’ इति रूपद्वयम् अपि साधु एव । “वेषः’ इत्यत्र विष्ल(व्याप्तौ)धातोः घञ् । ‘वेशः’ इत्यत्र विश(प्रवेशने)धातोः घञ् । (विशन्ति नयनानि अत्र) धातुभेदात्

रूपभेदः । १५०. अहं सर्वविधेनापि भवतः साहाय्यं करिष्यामि ।

‘सर्वविधया’ इति प्रयोगः युक्ततरः । . विधा नाम प्रकारः । प्रकारार्थकः सः स्त्रियाम् । तथा हि कोषः - “विधा गजान्ने ऋद्धै च प्रकारे वेतने विधौ’ (मेदिनी) । पुंसि

सुबन्ताः

105

नपुंसके वा सः न आम्नातः । अतः “विधेन’ इति रूपं न सिद्धयति ।

‘विधा’शब्दस्य तृतीयान्तं रूपम् (ए.व.) “विधया’ इति । १५१. सर्वविधैरपि उपायैः कार्यस्य सिद्धिः चिन्तनीया ।

‘सर्वविधैः’ इति प्रयोगः न दोषाय । ‘विधाशब्दः आकारान्तः इति पूर्वम् उक्तम् । एवं स्थिते ‘सर्वविधैः’ इति रूपं कथम् ? ‘सर्वविधाभिः’ इति स्यात् खलु ?’ इति प्रश्नः उदियात् कदाचित् । मास्तु तत्र भ्रान्तिः । ‘सर्वविध’शब्दः तु अकारान्तः । अतः ‘सर्वविधैः’ इति तदीयं तृतीयाबहुवचनान्तं रूपं साधु एव । ‘विधा’शब्दः आकारान्तः इति तु सत्यम् । ‘सर्वविध’शब्दः तस्मात् अन्यः । सः बहुव्रीहिसमासान्तः । अतः सः उपायस्य विशेषणम् । उपायशब्दः पुंसि । तस्मात् तद्विशेषणभूतः सर्वविधशब्दोऽपि पुंसि एव । एवमेव ‘अनेकविधाः’ ‘बहुविधाः’ ‘नानाविधाः’ इत्यादयः शब्दाः

अपि भवन्ति विशेष्यनिघ्नाः । १५२. साधु, भवता समर्पकं कार्यं कृतम् ।

‘समर्पकम्’ इति प्रयोगः अस्थाने । ‘समुचितम्’ इति ‘योग्यम्’ इति वा प्रयोक्तव्यम् । समर्पणं यः करोति सः भवति समर्पकः । अत्र तादृशः अर्थः न अभिप्रेतः । कार्यस्य समुचितत्वं सुयोग्यत्वं वा प्रतिपादनीयम् अस्ति अत्र । तस्मात् तादृशः एव पदप्रयोगः चिन्तनीयः । केचन संस्कृतशब्दाः यस्यार्थस्य वाचकाः भवन्ति, तस्यैवार्थस्य वाचकाः न भवन्ति, ते यदा प्रादेशिकभाषायां प्रयुज्यन्ते । अतः विषयेऽस्मिन्

अवधानवद्भिः भवितव्यं प्रयोक्तृभिः ।। १५३. क्रुद्धेन तेन गाली दत्ता ।

‘गालिः’ इति प्रयोक्तव्यम् । स च शब्दः पुंसि । अतः ‘गालिः दत्तः’ इति भवेत् आनुपूर्वी । गालि म शपनं निन्दा वा । गाल्यते विक्रियते श्रवणमात्रेण मनो यस्मात् येन वा । गल (प्रस्रवणे) + णिच् + इत् । ‘गालिः शपनम्’ इति त्रिकाण्डकोषः ।

106

शुद्धिकौमुदी हिन्द्यादिभाषासु तस्य पदस्य ईकारान्तता स्त्रीत्वं च दृश्यते । संस्कृतभाषायां तु तस्य इकारान्तता पुंस्त्वं च कोषकारैः निर्दिष्टं

दृश्यते । १५४. उद्याने जनाः आरामेण उपविशन्ति ।

‘आरामेण’ इति प्रयोगः अस्थाने । ‘सुखेन’ इति, ‘ससुखम्’ इति वा प्रयोक्तव्यम् । वाक्यप्रयोक्ता सुखोपवेशनम् इच्छति । किन्तु पदप्रयोगः तेन अन्यथा कृतः । आरामः नाम उद्यानम् उपवनं वा । सुखार्थकत्वं तस्य पदस्य नास्ति । हिन्द्यादिभाषासु तदस्ति, न तु संस्कृते । प्रादेशिकभाषा

प्रभावकारणतः क्रियमाणः प्रयोगः अयम् ।। १५५. कार्यक्रमान्ते कार्यकर्ता आभारप्रदर्शनं कृतम् ।

‘कृतज्ञता ज्ञापिता’ ‘धन्यवादाः समर्पिताः’ इत्यादीनि वाक्यानि अत्र प्रयोक्तव्यानि । ‘आभारः’ इति पदम् अस्थाने । ‘भार’शब्दस्य यः अर्थः सः एव भवितुम् अर्हति ‘आभार’ शब्दस्यापि । स च अर्थः अत्र न अभिप्रेतः । सभाम् आगत्य जनैः शान्ततया उपविश्य यत् श्रुतं तदर्थं धन्यवादाः अर्पणीयाः, कृतज्ञता

ज्ञापनीया । अतः तदनुगुणः एव वाक्यप्रयोगः चिन्तनीयः अत्र । १५६. भवता यत् उपकृतं तदर्थम् अहम् आभारी अस्मि ।

‘कृतज्ञः अस्मि’ इति प्रयोक्तव्यम् । वाक्यान्तरं वा चिन्तनीयम् । आभारशब्दस्य अर्थः पूर्वम् उक्तः एव । वाक्यप्रयोक्ता कृतज्ञत्वम् इच्छति । आभारशब्दस्य तादृशं सामर्थ्यं नास्ति । तस्मात् स च

परिहरणीयः एव एतादृशेषु प्रसङ्गेषु । १५७. लेखनस्य अन्ते लिख्यते ‘साभारम्’ इति ।

कृतज्ञतापूर्वम् कस्माच्चित् मूलात् यदा विषयः उध्रियते तदा प्रादेशिकभाषायाम् एतादृशः प्रयोगः क्रियते । किन्तु न एषा संस्कृत शैली । आभारशब्दः न हि कृतज्ञतां गमयति । अतः ‘सकार्तज्ञयम् उदतम्’ ‘कतज्ञतापूर्वकम् उद्धृतम्’ इत्यादयः प्रयोगाः

प्रसङ्गेऽस्मिन् चिन्तनीयाः । १५८. अभिभावकाः छात्राणां विद्याभ्यासविषये अवधानवन्तः स्युः ।

‘अभिभावकाः’ इति अस्थाने । ‘पालकाः’ ‘पोषकाः’ “पितरः’

सुबन्ताः

107

इत्यादयः शब्दाः अत्र प्रयोक्तुम् अर्हाः ।

अभिभावकपदेन अत्र पालनपोषणकर्तारः इष्टाः । किन्तु तादृशस्य अर्थस्य अभिव्यञ्जने अभिभावकपदस्य सामर्थ्यं नास्ति इति भाति । ‘अभि’ इति उपसर्गेण युक्तः भूधातुः (ण्यन्तः, अण्यन्तः वा) तिरस्काराद्यर्थं ददाति, न तु पोषणाद्यर्थम् । ‘आत्तगर्वोऽभिभूतः स्यात्’ इति अमरः । अन्ये कोषकाराः अपि एतादृशम् एव अर्थं लिखितवन्तः दृश्यन्ते । ‘अभिभावक पदं तु संस्कृतम् एव । किन्तु सः पोषकाद्यर्थेषु कथं प्रयुज्यते इति तु न ज्ञायते । साधुत्वकथनप्रकारम् अपि वयं तु न

जानीमः । १५९. सः नितरां चाणाक्षः अस्ति ।

‘चाणाक्षः’ इति अपशब्दः । ‘चतुरः’ इति, “निपुणः’ इति, पदान्तरं वा प्रयोक्तव्यम् । वक्ता अत्र चतुरमतित्वं नैपुण्यं वा निर्देष्टुम् इच्छति । चाणाक्षः इति तु असंस्कृतः शब्दः । अतः सः परिहरणीयः । चतुरनिपुणादयः

यथायोग्यं प्रयोक्तव्याः । १६०. पञ्चवादनपर्यन्तम् एतत् कार्यं समापनीयम् अस्ति मया । ‘पञ्च

वादनाभ्यन्तरे’ इति प्रयोक्तव्यम् । ‘पञ्चवादनपर्यन्तम्…’ इत्येषा न संस्कृतशैली । ‘पञ्चवादनात् पूर्वं यदाकदाचित् एतत् कार्य समापनीयम्’ इति वाक्यप्रयोक्तुः आशयः । अयमेव आशयः ‘पांच बजे तक’ इति वाक्येन प्रकाश्यते हिन्दीभाषया । तस्यैव अनुवादः ‘पञ्चवादन पर्यन्तम्..’ इति । शब्दानुवादः कृतः अत्र, न तु भावानुवादः । पर्यन्तशब्दः सीमां निर्दिशति । अवधिनिर्देशावसरे तस्य प्रयोगः भवितुम् अर्हति । अत्र तु अवधिनिर्देशः न इष्टः । अतः

‘अभ्यन्तर’शब्दस्य प्रयोगः अत्र समुचितः । १६१. वस्तूनि एकत्रीकृत्य नयतु भवती ।

“एकत्रीकृत्य’ इति अपशब्दः । ‘सङ्ग्रह्य’ इति, ‘समाहृत्य’ इति वा प्रयोक्तव्यम् । “एकत्रीकृत्य’ इत्यत्र च्विप्रत्ययः अस्ति । च्विप्रत्ययविषये किञ्चित्

108

शुद्धिकौमुदी

विस्तरेण ज्ञातव्यम् अस्माभिः । च्चिप्रत्ययविधायकं सूत्रं - ‘कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः’ (५.४.५०) इति । तस्य वृत्तिवाक्यं तु - ‘विकारात्मतां प्राप्नुवत्यां प्रकृतौ वर्तमानात् विकारशब्दात् स्वार्थे च्विर्वा स्यात्करोत्यादिभिः योगे।’ इति । तस्य टिप्पण्यां लिख्यते - ‘येन रूपेण प्रागभूतं तेन रूपेण तस्य भावः इति फलितोऽर्थः । एवं च यत्र प्रकृतिस्वरूपमेव विकाररूपताम् आपद्यमानं विवक्ष्यते तत्रायं प्रत्ययः’ इति ।

एवं च सिद्धं यत् प्रकृतिविकृतिभावे सत्येव विप्रत्ययः क्रियते इति । सरलीकरोति, दीर्धीकरोति, स्पष्टीकरोति, विशदीकरोति इत्यादीनि अत्र उदाहरणानि । इदानीम् “एकत्रीकरोति’ इत्येतत् उदाहरणं परिशीलयाम तावत् । “एकत्रीकरोति’ इत्यत्र एकस्मिन् स्थले स्थापनम् (आनयनं वा) विवक्ष्यते, न तु प्रकृतिविकृतिभावः । अतः विप्रत्ययः अस्थाने । प्रयोगोऽयं बहुत्र संस्कृतज्ञैः एव क्रियमाणः दृश्यते । तत् तु अनवधानात् इति भाति । प्रकृतिप्रत्ययविधायकसूत्रादिकम् अपरिशीलयद्भिः कैश्चित् तादृशः प्रयोगः क्रियेत । किन्तु तावता न

तस्य साधुता । १६२. एतावत्पर्यन्तं यत् उक्तं तत् क्रोढीकृत्य वदामि ।

‘क्रोडीकृत्य’ इति, ‘क्रोढीकृत्य’ इति वा अपशब्दः एव । ‘सगृह्य’ इति प्रयोगः भवितुम् अर्हति । ‘उक्तस्य अयं सारः’ इति वाक्यान्तरं वा प्रयोक्तव्यम् । क्रोडपदस्य अङ्कवक्षोवराहादयः अर्थाः । कोषो यथा - ‘क्रोडः शनौ सूकरे ना न पुमानङ्कवक्षसोः’ (मेदिनी) इति । क्रोडीकरणं नाम आलिङ्गनम् । ‘सङ्ग्रहणं’ ‘सम्मेलनम्’ इत्यादयः अर्थाः न सन्ति तस्य । तस्मात् क्रोडीकृत्य इति प्रयोगः (सङ्ग्रहार्थे) अयुक्तः एव । ‘क्रोढीकृत्य’ इत्येतत् महाप्राणोपेतं (ढकारोपेतं) रूपं तु

सर्वथा असाधु एव । १६३. बान्धवाः कुलमिच्छन्ति, मष्टान्नमितरे जनाः ।

‘मिष्टान्नम्’ इति प्रयोक्तव्यम् ।

सुबन्ताः

US

मिष्टं नाम मधुररससहितम् । (मिषु (सेचने) + क्तः) विवाहादिषु मिष्टम् एव इष्यते जनैः । शुद्ध्यर्थकात् मृज्धातोः क्तप्रत्यये ‘मृष्टम्’ इति रूपम् । तदा च अर्थः भवेत् - क्षालितं, शुद्धम् इत्यादिकम् । स च अर्थः अत्र न अभिप्रेतः । तस्मात् ‘मिष्टम्’ इति प्रयोक्तव्यं,

न तु ‘मृष्टम्’ इति । १६४. निधानेन आगच्छति यानम् ।

‘मन्दम्’ इति प्रयोक्तव्यम् । “नि’ इत्यनेन उपसर्गेण युक्तः धाञ्धातुः स्थापनादीन् अर्थान् अवगमयति । उपर्युक्ते वाक्ये तु ‘मन्दगतिः’ अपेक्ष्यते । तादृशस्य अर्थस्य अभिव्यञ्जने सामर्थ्यं नास्ति निधानशब्दस्य । अतः

गतिमन्दतार्थे प्रयोगं नार्हति स च शब्दः । १६५. न्यायवादी अपराधं साधारं न्यरूपयत् ।

‘सप्रमाणम्’ इति वक्तव्यम् ।

आधार ‘पदस्य आश्रयसाहाय्यादयः अर्थाः कोषकारैः उपवर्णिताः। प्रमाणपर्यायत्वेन तस्य प्रयोगः न केनापि कोषकारेण सूचितः । अपराधनिरूपणावसरे प्रमाणम् एव अपेक्ष्यते । अतः ‘सप्रमाणम्’

इत्यस्य शब्दस्य प्रयोगः श्रेयसे । १६६. कार्यक्रमस्य अन्ते छात्रैः मनरञ्जनकार्यक्रमाः प्रदर्शिताः ।

‘मनोरञ्जनम्’ इति प्रयोक्तव्यम् । ‘मनरअनम्’ इति अपशब्दः । ‘मनः’शब्दः सकारान्तः । रञ्जनशब्दे परे सकारस्य रेफे उत्वे गुणे च ‘मनोरञ्जनम्’ इति रूपम् । विसर्गस्य लोपः तु नास्ति केनचिदपि सूत्रेण । मनश्शब्दः अकारान्तः अपि न । अतः मनरञ्जनम् इति रूपं न साधु । मनश्शब्दः इव अन्ये अपि केचन शब्दाः सकारान्ताः भवन्ति । तैः सह समाससमये विसर्गस्य विकारविषये अवधानवद्भिः भवितव्यम् ।

अन्यथा अशुद्धरूपाणां प्रयोगः भवितुम् अर्हति । कानिचन उदाहरणानि यथा - अशुद्धम् (x)

| शुद्धम् (का मनोचिकित्सा

मनश्चिकित्सा

110

शुद्धिकौमुदी

मनोप्रवृत्तिः

मनःप्रवृत्तिः मनोस्थैर्यम्

मनःस्थैर्यम् मनोप्रकृतिः

मनःप्रकृतिः मनैक्यम्

मन ऐक्यम् मनोपरिवर्तनम्

मनःपरिवर्तनम् ओजोपूर्णम्

ओजःपूर्णम् मनोल्लासः

मनउल्लासः यदि सकारान्तस्य मनश्शब्दस्य प्रयोगे क्लेशः तर्हि ‘मानस’शब्दः प्रयुज्यताम् । मनोमानसयोः अर्थः समानः । मानसशब्दः अकारान्तः । तदा च ‘मानसचिकित्सा’ ‘मानसोल्लासः’ ‘मानसप्रकृतिः’ इत्यादीनि

रूपाणि सिद्धयन्ति । १६७. बालः परमालसी अस्ति ।

‘अलसः’ इति प्रयोक्तव्यम् । न + लसति = अलसः । [लस् (श्लेषणे) + अच्] ‘आलसी’ इति रूपं तु प्रादेशिकभाषायां, न तु संस्कृते । अतः स च शब्दः परिहरणीयः एव ।