०२ रूप-लिङ्ग-वचनादिदोषाः

२. द्वितीयोऽध्यायः

रूप-लिङ्ग-वचनादिदोषाः

एतस्मिन् अध्याये वयम् अतिसामान्यान् कांश्चन दोषान् परिशीलयाम | २.१. रूपदोषाः

अक्षरत्यागः, विसर्गत्यागः, अन्यवर्णनिवेशः, अल्पप्राणमहाप्राणगताः दोषाः, रूपविषये भ्रमः इत्यादयः अत्र अन्तर्भवन्ति ।

| अशुद्धानि (x) शुद्धानि (1)

१. नन्तरम्

अनन्तरम् २. ग्यानम् / ग्नानम् ज्ञानम् ३.संग्या

संज्ञा ४. कठिणम् .. कठिनम्

५. उट्टङ्कणम् उट्टङ्कनम् १. ‘नन्तर’शब्दः संस्कृते नास्ति । न + अन्तरम् = अनन्तरम् । न

अन्तरयोः समासे अनन्तरम् इति रूपम् । २. ‘ज्ञ’कारं केचन प्रादेशिकभाषाप्रभावतः ‘ग्यः’ इति उच्चारयन्ति ।

(‘ग्न’ इति वा) तथा उच्चारणं लेखनं वा दोषाय । ज् + ञ् = ज्ञ ।

‘जजोर्जः’ इति कौमुद्यां स्पष्टतया लिखितम् । ३. “संज्ञा’ इत्यत्रापि ‘ज्ञ’कारः एव उच्चारणीयः, लेखनीयः च । गकार

यकारयोः योगेन ‘ग्य’ भवति । जकारञकारयोः योगेन ‘ज्ञ’ भवति । एवं ग्य-ज्ञयोः भेदः स्पष्टः । गकारयकारयोगः एतस्मिन् शब्दे पूर्वशब्दे

वा न इष्टः । ४. ‘कठिणम्’ इत्यत्र यः णकारः (टवर्गपञ्चमः) श्रूयते सः अस्थाने ।

क्वचित् णकारः स्वाभाविकः भवति । यथा - अङ्गणम् । ‘कठिण’ पदे तादृशी स्थितिः अपि नास्ति । अतः नकारः (तवर्गपञ्चमः) एव

लेखनीयः । ‘कठिनम्’ इत्येव शुद्धम् । ५. उट्टङ्कणम् इत्यत्रापि णकारः न निमित्तवशात् प्राप्तः, न वा स्वाभाविकः ।

अतः णत्वम् अस्थाने । ‘उहङ्कनम्’ इति नकारयुक्तं (तवर्गपञ्चमयुक्तं) रूपम् एव लेखनीयम् ।

8

शुद्धिकौमुदी

प्रकटनम् पुनः मनः

०६. प्रकटणम् ०७. पुनह ०८. मनम् ०९. दुखम् १०. ब्रम्हा ११. आल्हादः १२. लक्ष्मी १३. श्री १४. चञ्चू

दुःखम् ब्रह्मा

आह्लादः लक्ष्मीः

श्रीः चञ्चः

०६. ‘प्रकटणम्’ इत्यत्रापि णत्वम् अस्थाने । तवर्गपञ्चमोपेतं रूपम्

(प्रकटनम्) एव शुद्धम् । उपसर्गनिमित्तकस्य णत्वस्य अत्र न प्रसक्तिः ।

टकारव्यवधानम् अपि अस्ति । अतः कथमपि न णत्वम् । ०७. ‘पुनर्’ इति रेफान्तम् अव्ययम् । रेफस्य विसर्गः । हकारस्य न

प्रसक्तिः कथमपि । ०८. मनश्शब्दः सकारान्तः, न तु अकारान्तः । अतः ‘मनम्’ इति रूपं

प्रामादिकम् । ०९. “दुःखम्’ इत्यत्र विसर्गः श्रूयते एव । ‘दुर्’ इति उपसर्गः । तस्य

विसर्गः । विसर्गलोपस्तु नास्ति । १०. वृद्ध्यर्थकस्य ‘बृहि’धातोः मनिन्प्रत्यये ‘ब्रह्मा’ इति रूपम् । धातुगतः

हकारः एव आदौ लेखनीयः, मकारश्च अनन्तरम् । मकारस्य पूर्वलेखनं

दोषाय । ११. ‘आह्वादः’ इत्यत्र यः ‘ह्लादी’धातुः अस्ति सः हकारादिः । अतः

हकारः एव आदौ लेखनीयः, तु लकारः । १२. ‘लक्ष्मीः’ इति प्रथमैकवचनान्तः शब्दः । लक्ष्मीशब्दः न ड्यन्तः ।

अतः तस्य सुपः लोपो न । अतो विसर्गः न श्रूयते एव । १३. ‘श्री’शब्दोऽपि न ड्यन्तः, अपि तु क्विप्प्रत्ययान्तः । अतः तस्यापि

प्रथमाविभक्त्यैकवचने न सुलोपः । अतः ‘श्रीः’ इति विसर्गसहितं

रूपम् एव शुद्धम् । १४. अत्रापि सुपः लोपस्य न प्रसक्तिः । सकारः विसर्गः भवति ।

रूपलिङ्गवचनादिदोषाः

१५. रुग्वेदः / रिग्वेदः ऋग्वेदः १६. रुषिः / रिषिः ऋषिः १७. वधू

वधूः १८. दधिः

दधि १९. श्मश्रुः

श्मश्रु २०. जानुः

जानु २१. स्यालः

श्यालः २२. स्वशुरः

श्वशुरः २३. स्वश्रू/श्वश्रू ঘস্থা:

१५. ऋच्यन्ते स्तूयन्ते देवाः अनया (ऋच-स्तुतौ + क्विप्) इति ऋक् ।

ऋक् + वेदः = ऋग्वेदः । ‘ऋक् शब्दः स्वरादिः, न तु रेफादिः ।

अतः स्वरादिः (ऋ) एव साधुः । १६. ऋषिशब्दः गत्यर्थकात् ‘ऋषो’धातुतः उत्पन्नः । ऋषति ज्ञानेन

संसारपारम् इति ऋषिः । शब्दोऽयम् अपि स्वरादिः ।

प्रादेशिकभाषासु रेफादिः क्वचित् लिख्येत भ्रान्त्या । १७. ऊकारान्तत्वात् न सुपः लोपः । सकारस्य विसर्गः । १८. नपुंसके सुप्रत्ययस्य लोपो विहितः - ‘स्वमोर्नपुंसकात्’ (७.१.२३)

इति सूत्रेण । अतः विसर्गः न श्रूयते । १९. अत्रापि सुपः लोपः (विसर्गलोपः) एव । अतः “श्मनु’ इति

विसर्गरहितं रूपम् एव साधु ।। २०. नपुंसकत्वात् अत्रापि विसर्गस्य अश्रवणम् । ‘जानु’ इति विसर्गरहितं

रूपं शुद्धम् । २१. ‘श्याल’शब्दः शादेः ‘श्यैङ्’धातोः उत्पन्नः । अतः ‘श्यालः’ इति

शकारादिरूपम् एव युक्तम् । भगवद्गीतायां प्रयोगो यथा - ‘मातुलाः

श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा’ इति । २२. ‘श्वशुर’शब्दोऽपि शकारादिः, न तु सकारादिः । अतः ‘श्वशुरः’

इत्येव शुद्धम् । २३. श्वश्रू’शब्दोऽपि शकारादिः, ऊकारान्तस्त्रीलिङ्गः इत्यतः विसर्गस्य

श्रवणं च । अतः ‘श्वश्रूः’ इति शुद्धम् ।

शुद्धिकौमुदी

२४. स्मशानम् २५. हृस्वः । २६. बहुर्वीहिः २७. प्रभोदनम् २८. अघादः २९. घर्जनम् ३०. निश्वस्य ३१. शत्रुप्रत्ययः

श्मशानम् ह्रस्वः बहुव्रीहिः प्रबोधनम् अगाधः गर्जनम् निःश्वस्य/निश्श्वस्य

शतृप्रत्ययः

२४. शवाः यत्र शेरते तत् श्मशानम् । तच्च शकारादिः । सकारादिः

कुत्रापि न दृष्टचरः । अतः “श्मशानम्’ इत्येव लेखनीयम् । . २५. ‘हस्वः’ इत्यत्र ‘हस’धातुः । सः रेफयुक्तः, न तु ऋकारयुक्तः ।

अतः ‘हस्वः’ इति ऋकारयुक्तस्य रूपस्य प्रयोगः तु भ्रान्त्या । रेफः

एव प्रयोक्तव्यः । २६. ‘बहुव्रीहिः’ इत्येव शुद्धम् । “शेषो बहुव्रीहिः’ (२.२.२३) इति

पाणिनिसूत्रे प्रयोगः । ‘बहुवीहिः’ इति तु अज्ञानमूलः प्रयोगः । २७. ‘प्रबोधनम्’ इत्यत्र ‘बुध’धातुः । तत्र बकारः अल्पप्राणः, न तु

महाप्राणः । अतः (प्र)बोधनम्’ इति रूपं शुद्धम् । २८. ‘अगाधः’ इत्यत्र ‘गाधृ’धातुः । तत्र गकारः कवर्गतृतीयः । गकारस्य

महाप्राणता तु भ्रान्त्या । २९. ‘गर्जनम्’ इत्यत्र ‘गर्ज’धातुः । तत्र गकारः अल्पप्राणः । व्याघ्रादीनां

स्वभावः कठोरः भवतीति गर्जनशब्दे महाप्राणप्रयोगः एव वरम् इति

तु बालिशाः मन्यन्ते । ३०. ‘निःश्वस्य’ इत्यत्र श्वसधातुः, “निस्’ इति उपसर्गः च । श्वसधातौ

आदौ शकारः अस्ति एव । ‘निस्’ इत्यत्र उपसर्गे यः सकारः तस्य लोपः तु नास्ति कथमपि । अतः सः सकारः विसर्गरूपेण शकार

रूपेण वा दृश्येत एव परिनिष्ठिते रूपे । ३१. ‘शत् प्रत्ययः इत्यत्र प्रत्ययस्य नाम ‘शतृ’ इति, न तु ‘शत्रु’ इति ।

‘वैरी’ इत्यस्य अर्थस्य बोधकं पदं ‘शत्रुः’ इति । भ्रान्तैः कदाचित् । तयोः व्यामिश्रणं क्रियते ।

रूपलिङ्गवचनादिदोषाः

३२. नाण्यकम्

नाणकम् ३३. कोट्याधिपतिः कोट्यधिपतिः ३४. श्रुणोति/श्रृणोति शृणोति ३५. शृतवान्

श्रुतवान् ३६. श्रृण्वन्

शृण्वन् ३७. शृत्वा

श्रुत्वा ३८. ग्रह्णन्

गृह्णन् ३२. नाणकं नाम मुद्राङ्कितं वस्तु | Coin इत्यर्थः । प्रयोगो यथा - “एषा

नाणकमोषिका….’ (मृच्छकटिके - १२३) ‘नाण्यक’शब्दस्तु कुत्रापि

न प्रयुक्तपूर्वः । ३३. कोटि + अधिपतिः = कोट्यधिपतिः । सन्ध्यनन्तरम् आकारस्य

प्रवेशस्य न काऽपि प्रसक्तिः । ‘आधिपतिः’ इति तु पदं नास्ति ।

अतः ‘कोट्यधिपतिः’ इत्येव साधु । ३४. ‘शृणोति’ इति शुद्ध रूपम् । यद्यपि धातुः ‘श्रु’ इति, तथापि ‘श्रुवः

शृ च’ (३.१.७४) इति सूत्रेण ‘शृ’ इति आदेशः स्यात् लडादिषु लकारेषु (शपि)। अतः ‘शृणोति’ इति शुद्धम् । रेफयुक्तस्य रूपस्य प्रसक्तिः एव नास्तीत्यतः रेफोकारयोः (श्रुणोति)

रेफऋकारयोः (श्रृणोति) वा लेखनम् अशुद्धम् । . ३५. ‘शृ’ इति आदेशः तु शपि एव । श्रुतवान् इत्यत्र क्तप्रत्यये शपः

. प्रसक्तिः नास्ति । अतः ‘श्रुतवान्’ इति रूपं शुद्धम् । ३६. ‘शृण्वन्’ इत्यत्र शतृप्रत्ययप्रसने लटः एव शतृप्रत्ययः । अतः तत्र

शपः प्रसक्तिः अस्ति । तस्मात् ‘शृ’ इत्यादेशः। ३७. श्रुधातोः क्त्वाप्रत्यये ‘शृ’ इति आदेशः न, शपः प्रसक्तेः अभावात् । .

अतः ‘श्रुत्वा’ इति रूपं शुद्धम् । ३८. ग्रहधातोः शतृप्रत्यये तस्य कित्त्वात् ‘अहिज्या…’(६.१.१६) इति

सूत्रेण *सम्प्रसारणम् । (तिशित्सार्वधातुकम् - ३.४.११३, सार्वधातुकमपित् - १.२.४) सम्प्रसारणे च रेफस्य ऋकारः । तस्मात् सम्प्रसारणं नाम काचित् संज्ञा । यत्र यणः (यवरलानां) स्थाने विधीयमानः इक् (इउऋलवर्णाः) सम्प्रसारणसंज्ञः भवति । ‘इग्यणः सम्प्रसारणम्’ (१.१.४५)

इति सूत्रम् ।

शुद्धिकौमुदी

३९. गृहीतुम् ४०. गृहीतव्यम् ४१. ग्रहीतवान् ४२. गृहीष्यति ४३. रुदति/रोदति ४४. आपृच्छनम् ४५. बद्धव्यम् ४६. बद्धम् ४७. लिखिष्यति

ग्रहीतुम् ग्रहीतव्यम् गृहीतवान् ग्रहीष्यति रोदिति आप्रच्छनम् बन्धव्यम् बन्धुम् लेखिष्यति

“गृहन्’ इति रूपम् । सम्प्रसारणरहितं (रफयुक्तं) रूपम् असाधु । ३९. ग्रहधातोः तुमुनि न सम्प्रसारणं केनापि सूत्रेण । अतः ‘ग्रहीतुम्’

इत्येव शुद्धम् । ४०. तव्यति अपि ग्रहधातोः सम्प्रसारणं न । अतः ‘ग्रहीतव्यम्’ इति

रूपम् एव शुद्धम् । । ४१. ग्रहधातोः क्तवतुप्रत्यये परे क्तवतुप्रत्ययस्य कित्त्वात् ‘अहिज्या..’ इति

सूत्रेण सम्प्रसारणम् । सम्प्रसारणे रेफस्य ऋकारः । अतः ‘गृहीतवान्’

इत्येव रूपं शुद्धम् । ४२. ‘ग्रहीष्यति’ इत्यत्र न सम्प्रसारणम्, कित्त्वस्य ङित्त्वस्य वा अभावात् ।

अतः ‘ग्रहीष्यति’ इति रेफयुक्तं रूपम् एव शुद्धम् । ४३. अश्रुविमोचनार्थकस्य ‘रुद’धातोः लटि प्रथमैकवचने इट् भवति -

‘रुदादिभ्यः सार्वधातुके’ (७.२.७६) इति सूत्रेण । तस्मात् ‘रोदिति’

इति रूपम् । इडभावसहितं रूपम् असाधु । ४४. ज्ञीप्सार्थकस्य ‘प्रच्छ’ धातोः ल्युटि न सम्प्रसारणम् । अतः

“(आ)प्रच्छनम्’ इति रूपम् एव शुद्धम् । ४५. ‘बन्ध’धातुः नकारसहितः एव । तव्यति नकारलोपः न भवति । अतः

‘बन्धव्यम्’ इति रूपम् एव शुद्धम् । ४६. नकारसहितस्य ‘बन्ध’धातोः तुमुनि नकारलोपः न । अतः ‘बन्धुम्’

इत्येव शुद्धम् । ४७. ‘लेखिष्यति’ इत्येव प्रयोक्तव्यम् । लिखधातोः लटि ‘पुगन्तलघूपधस्य’रूपलिङ्गवचनादिदोषाः

४८. मिलिष्यति ४९. सुधामः ५०. भानुमतिः ५१. सुमती ५२. मण्डळी ५३. मण्टपः ५४. सङ्गठनम्

मेलिष्यति सुदामा भानुमती सुमतिः मण्डली मण्डपः सङ्घटनम्/संघटनम्

(७.३.८६) इत्यनेन गुणः स्यात् एव लघूपधत्वात् । ४८. “मिल’धातोः लटि लघूपधं निमित्तीकृत्य गुणः स्यादेव । तदा

_ ‘मेलिष्यति’ इति रूपम् । ४९. कुचेलापरपर्यायः ‘सुदाम’शब्दः नकारान्तः । दकारश्च अल्पप्राणः ।

नकारान्तत्वात् प्रथमैकवचने ‘सुदामा’ इति रूपम् । तत्र विसर्गस्य

श्रवणं नास्ति । सुष्ठु ददाति इति (डु दाञ् + मनिन्) सुदामा । ५०. भानवः अस्य सन्ति इति विग्रहे ‘भानुमान्’ इति पदं सिध्यति । तस्य

स्त्रीत्वविवक्षायां भानुमती इति रूपम् । ‘उगितश्च’ (४.१.६) इति

सूत्रेण ङीप् । अतः ईकारान्तता । ५१. शोभना मतिः यस्याः सा सुमतिः । एषः न मतुबन्तः । अतः न ङीप् ।

‘भानुमती’ इत्यत्रापि ‘मती’ इति आनुपूर्वी तु दृश्यते । अत्रापि सा एव आनुपूर्वी । किन्तु तत्र मतुबन्तता, अत्र मतिशब्दः चेति भेदः स्फुटः

अस्ति । अतः ‘सुमतिः’ इति इकारान्तं रूपम् । ५२. ‘मण्डली’ इत्यत्र लकारः एव, न तु ळकारः । प्रादेशिकभाषायां

ळकारश्रवणं स्यात् बहुधा । किन्तु संस्कृते तु लकारः एव । ‘ळ’कारः

वेदे एव श्रूयते, न तु लोके । ५३. ‘मण्डपः’ इत्येव शुद्धम् । कोषकाराः तस्य विविधान् व्युत्पत्तिप्रदर्शन

प्रकारान् दर्शितवन्तः । किन्तु टवर्गप्रथमयुक्तस्य ‘मण्टप’शब्दस्य व्युत्पत्तिः केनापि कोषकारेण न दर्शिता । शिष्टप्रयोगाः सर्वे टवर्गतृतीय

युक्ताः (मण्डपः इति) एव । ५४. ‘सकटनम्’ इति शुद्धम् । सङ्घटनम् इत्यत्र सम् इति उपसर्गः । चेष्टार्थकः

घटधातुः । घटधातुः कवर्गचतुर्थादिः, न तु कवर्गतृतीयादिः । तथैव

शुद्धिकौमुदी

५५. सन्मानः ५६. मध्यन्तरम् ५७. उच्छाटनम् ५८. उच्चिष्टम् ५९. कलियुगः

सम्मानः/संमानः मध्यान्तरम् उच्चाटनम् उच्छिष्टम् कलियुगम्

तत्रत्यः टकारः टवर्गप्रथमः । न तु टवर्गद्वितीयः । हिन्दीभाषा ‘सङ्गठनम्’ इत्येतस्य रूपस्य प्रयोगः क्रियते । तत् तु अशुद्धम् ।

धात्वादिज्ञानतः एव शुद्धरूपस्य ज्ञानं भवितुम् अर्हति । ५५. सम + मानः = सम्मानः । सम् इति उपसर्गः अत्र । यदि च सतः =

सत्पुरुषस्य मानः इति अर्थः उच्यते तर्हि ‘सन्मानः’ इति रूपं तु स्यात् । किन्तु ‘अमुकस्य सन्मानः प्रचलति’ इत्यादयः वाक्यप्रयोगाः दुष्यन्ति ।

अतः सम् + मानः = सम्मानः/संमानः इति प्रयोगः एव वरम् । ५६. मध्य + अन्तरम् अनयोः योगे सवर्णदीर्घ मध्यान्तरम् इति स्यात् ।

पररूपसन्धेः नात्र अवकाशः, शकन्ध्वादिगणे तस्य अपाठात् । प्रादेशिकभाषासु मध्यन्तरम् इति प्रयुज्येत । तावता तत् रूपं संस्कृतभाषायां शुद्धं भवितुं नार्हति । प्रकृतिप्रत्ययविवेकः, सन्ध्यादि

प्रक्रिया च संस्कृतभाषायां द्रष्टव्यः एव । ५७. उदुपसर्गपूर्वकस्य भेदनार्थकस्य ण्यन्तस्य चटधातोः ल्युटि ‘उच्चाटनम्’

इति रूपम् । ‘चट’धातुः चवर्गप्रथमादिः, न तु चवर्गद्वितीयादिः ।

तस्मात् ‘उच्छाटनम्’ इति अशुद्धम् । ५८. उदुपसर्गपूर्वकस्य असर्वोपयोगार्थकस्य “शिष’धातोः क्तप्रत्यये

उच्छिष्टम् इति रूपम् । उत् + शिष्टम् इति स्थिते श्चुत्वेन तकारस्य चकारः । ततः शश्छोटि’ (८.४.६३) इति सूत्रेण शकारस्य छकारः । तस्मात् उच्छिष्टम् इति रूपम् । शकारस्य छकारः यः भवति सः चवर्गद्वितीयः, न तु चवर्गप्रथमः । अतः ‘उच्छिष्टम्’

इत्येव शुद्धम् । ५९. कृतद्वापरादिबोधकः युगशब्दः नपुंसके एव, न तु पुंसि । हलाद्यर्थे सः

पुंसि । कोषो यथा - ‘यानाद्यड्ने युगः पुंसि युगं युग्मे कृतादिषु’ (अमरः) । प्रयोगो यथा - ‘….. घोरं कलियुगं स्मृतम् ’ (ब्राह्म पु.)

रूपलिङ्गवचनादिदोषाः

६०. दोषाणि

दोषाः ६१. तालुः

तालु ६२. साम्राट

सम्राट ६३. फलितकेशः पलितकेशः

६४. पारितोषकम् पारितोषिकम् ६०. दोषशब्दः पुंसि एव । नपुंसकप्रयोगः तु भ्रान्त्या । प्रयोगः यथा -

. नाल्पीयान् बहु सुकृतं हिनस्ति दोषः ।

  • किरा. - ७.१५ ० रसापकर्षकाः दोषाः….. ।

  • साहित्यदर्पणः - ७.१० ० वातः पित्तः कफश्चेति त्रयो दोषास्समागताः ।

__ - भाव.प्र. ६१. तालुशब्दः न हि पुंसि, अपि तु नपुंसके । नपुंसके ‘स्वमोर्नपुंसकात्’

(७.१.२३) इति सूत्रेण सुलोपः । अतः न विसर्गश्रवणम् । कोष प्रामाण्यं यथा - ‘तालु च काकुदम्’ (अमरः) । प्रयोगो यथा -

‘मुखतस्तालु निर्भिन्नम्…..’ - भाग. १०.१८ ६२. जकारान्तस्य ‘सम्राज्’शब्दस्य प्रथमैकवचनान्तं रूपं ‘सम्राट्’ इति ।

तत्र सकारोत्तरम् आकारो नास्ति, अपि तु अकारः एव । सम्यक् राजते (राज़ - दीप्तौ) “क्विप्’ । कोषो यथा- ‘……शास्ति यश्चाज्ञया राज्ञः स सम्राट्’ (अमरः) । प्रयोगो यथा - “…..सम्राट् समाराधन

तत्परोऽभूत्’ - रघु. २.५ ६३. वार्धकेन येषां केशाः श्वेताः भवन्ति ते उच्यन्ते ‘पलितकेशाः’ इति ।

‘पलितः’ इत्यत्र पकारः अल्पप्राणः, न तु महाप्राणः । महाप्राणेन फकारेण युक्तस्य ‘फलित’शब्दस्य फलयुक्तादयः अर्थाः । ते च अर्थाः नात्र विवक्षिताः । “पित्तं च केशं पचति पलितं तेन जायते’ इति वदति आयुर्वेदः । अमरकोशः वदति - ‘पलितं जरसा शौक्ल्यं

केशादौ’ इति । ६४. सन्तोषेण तोषणाय वा यत् दीयते तत् पारितोषिकम् । तत्र षकारोत्तरम्

इकारः श्रूयते । इकाररहितम् रूपम् असाधु । परितोषः प्रयोजनम्

2A.

शुद्धिकौमुदी

६५. पित्थम् पित्तम् ६६. जञ्झावातः झञ्झावातः ६७. जर्झरितः झर्झरितः/जर्जरितः ६८. शिरच्छेदः शिरश्छेदः ६९. मार्ताण्डः मार्तण्डः ७०. अक्षोहिणी सेना अक्षौहिणी सेना

अस्य इति ठञ् - “प्रयोजनम्’ (५.१.१०९) इति सूत्रेण । ठस्य इकादेशः - ‘ठस्येकः’ (७.३.५०) इति सूत्रेण । तस्मात् प्रत्ययाङ्गभूतः

इकारः श्रूयेत एव । अतः पारितोषिकम् इत्येव शुद्धम् ।

• ६५.

त्रिदोषेषु अन्यतमम् अस्ति “पित्तम्’ । तत्र तकारद्वयं श्रूयते । उभयोः अपि तकारयोः अल्पप्राणता एव । एकस्य महाप्राणता इति तु भ्रान्तिः । अपिदीयते प्रकृतावस्थया रक्ष्यते - अपि + दे(पालने) क्तः । विकृतावस्थया नाश्यते शरीरम् - अपि + दो (अवखण्डने) “तः’

इति अपरा व्युत्पत्तिः । उभयत्रापि अपेरल्लोपः । ६६. झञ्झावातः इत्यत्र उभयत्रापि झकारः । तन्नाम उभौ अपि महाप्राणौ ।

कोषेषु तथैव दर्शनात् । जकारादिः (अल्पप्राणोपेतः) न दृश्यते सः । ६७. ‘जर्जरितः’ इति अल्पप्राणजकारद्वयोपेतं, ‘झझरितः’ इति महाप्राण

झकारद्वयोपेतं वा रूपं साधु । ‘जर्ज’ इति धातुः अस्ति । ‘झर्झ’ इत्यपि धातुः अस्ति । किन्तु एकस्य अल्पप्राणता, अपरस्य महाप्राणता

तु नास्ति । ६८. शिरस् + छेदः इति स्थिते श्चुत्वे ‘शिरश्छेदः’ इति रूपं सिद्धम् ।

“शिरस्’शब्दः न अकारान्तः, अपि तु सकारान्तः । तस्मात् शकार

श्रवणं स्यादेव । शकारलोपस्तु केनापि सूत्रेण न विहितः । ६९. “शकन्ध्वादिषु पररूपं वाच्यम्’ इति वार्तिकेन पररूपम् । तस्मात्

‘मार्तण्डः’ इति रूपम् । (तन्नाम तकारोत्तरम् अकारः ।) “परमार्ताण्डमास्यत्, पुनर्मार्ताण्डमास्यत् इत्यादिषु दीर्घश्छान्दसः इति भावः । केचिदत्र सवर्णदीर्घवाहुः । पूर्वोक्तवैदिकप्रयोगास्तेषामनुकूलाः”

  • तत्त्वबोधिनी ७०. अक्षाणाम् ऊहिनी = अक्षौहिणी । ‘अक्षादहिन्यामुपसङ्ख्यानम्’ इति

रूपलिङ्गवचनादिदोषाः

७१.

७१. जोतिषिकः

ज्यौतिषिकः/ ज्योतिषिकः ७२. वय्याकरणः/वैय्याकरणः . वैयाकरणः ७३. जनार्धनः

जनार्दनः ७४. पौर्णिमा

पूर्णिमा ७५. सिन्धूरम्

सिन्दूरम् ७६. अम्बरीशः

अम्बरीषः वार्तिकेन वृद्धिः । ‘अक्षाणाम् इत्यस्य ऊहशब्देन समासे ततः इनौ तु अक्षोहिणीत्येव भवति’ इति वदति तत्त्वबोधिनीकारः । प्रामाणिकप्रयोगे सत्येव अक्षोहिणी इत्यस्यापि साधुत्वं वक्तव्यं भवेत् । लोके दैनन्दिनव्यवहारे तु ‘अक्षौहिणी’ इत्यस्यैव प्रयोगः वरम् । ज्योतिः नाम सूर्यादिग्रहाः । ते यत्र प्रतिपाद्यतया भवन्ति तत् शास्त्रं ‘ज्योतिषम्’ इति उच्यते । तत् यः अधीते वेति वा सः ‘ज्यौतिषिकः’ (ज्योतिष + ठक्) । ‘संज्ञापूर्वकः विधिः अनित्यः’ इति मतम् आश्रित्य वृद्धिं विकल्पेन इच्छन्ति केचन । तदा तु ‘ज्योतिषिकः’ इति । जकारोत्तरं

यकारः तु स्यादेव सर्वत्र । ७२. व्याकरणं यः वेत्ति अधीते वा सः वैयाकरणः । (व्याकरण + अण्)

ऐकाररहितं, यकारद्वयोपेतं वा रूपम् असाधु एव । ७३. जनैः अद्यते याच्यते इति जनार्दनः । अन्याः अपि व्युत्पत्तयः सन्ति

एतस्य पदस्य । सर्वत्रापि धातुः तु ‘अर्द’ (गतौ याचने च) इति, यश्च अल्पप्राण’द’कारोपेतः, न तु ‘ध’कारोपेतः । अतः महाप्राणोच्चारणं

दोषाय एव । ७४. यस्यां तिथौ चन्द्रमण्डलं पञ्चदशभिः अपि कलाभिः पूर्णं भवति सा

तिथिः उच्यते - ‘पूर्णिमा’ इति । (पूर्णं चन्द्रस्य पूरणं, तेन निर्वृत्ता - इमप्) अत्र वृद्धेः प्रसक्तिः नास्ति । एतस्मिन् एव अर्थे ‘पौर्णमासी’

‘पौर्णमी’ इत्येतौ शब्दौ अपि स्तः । ७५. स्यन्दू (प्रस्रवणे) इत्यस्य धातोः ऊरन्प्रत्यये सम्प्रसारणे च

‘सिन्दूर’शब्दस्य सिद्धिः । अत्र दकारः अल्पप्राणः. नतु महाप्राणः ।

तथा हि कोषः - “सिन्दूरस्तरुभेदे स्यात् सिन्दूरं रक्तचूर्णके’ इति । ७६. न ह्यत्र ‘ईश’शब्दः । अतः तालव्यस्य न प्रसक्तिः । अबि(शब्दे)धातोः

18

शुद्धिकौमुदी

७७. विश्वस्थमण्डली ७८. बब्रुवाहनः ७९. दुर्वासः / दूर्वासाः ८०. प्रसाधनम् ८१. पृष्टम्

विश्वस्तमण्डली बभ्रुवाहनः दुर्वासाः प्रसादनम् पृष्ठम्

‘ईषन्’प्रत्ययः अरुडागमश्च निपातनात् । (उ. ४.२९) अतः

‘अम्बरीषः’ इति रूपम् । अत्र मूर्धन्यः (षः) एव लेखनीयः । ७७. ‘Trust’ इत्येतम् अर्थम् अवगमयितुं दाक्षिणात्यैः एतस्य शब्दस्य

प्रयोगः क्रियते । विश्वे यः भवति सः भवति ‘विश्वस्थः’ । सः अत्र न अभिप्रेतः । विश्वासार्हः अत्र अभिप्रेतः । “विश्वसिति’ इत्यस्य क्तान्तं रूपं प्रयोक्तव्यम् । तत् भवति - “विश्वस्तः’ इति । अत्र तकारः अल्पप्राणः (त), न तु महाप्राणः (थ) । तस्मात् महाप्राणोपेतं

“विश्वस्थः’ इति रूपम् अत्र न युज्यते । ७८. बभ्रुः नाम अग्निः । विष्णुः, शिवः, पिङ्गलवर्णोपेतः इत्यादयः

अपि तस्य अर्थाः । बिभर्ति इति बभुः । [डु भृञ् (धारण पोषणयोः)+ कुः] ऋकारेण सह स्थितः ‘भ’कारः महाप्राणः । अल्पप्राणोपेतः असाधुः । अतः ‘बभ्रुवाहनः’ इत्यत्रापि रेफेण सह

स्थितः (भ्र) महाप्राणः एव स्यात् । ७९. ‘दुर्वासाः’ इत्यत्र ‘दुर्’ इति प्रादिः । ‘वासस्’ इत्येषः सकारान्तः

शब्दः । ‘दुर्निन्दितं वासः वस्त्रं यस्य सः’ इति, “दुर्दुष्टं निगूढं वासः इव धर्मावरणत्वं यस्य सः’ इति वा व्युत्पत्तिः ‘दुर्वासाः’ इत्यस्य । दकारोत्तरस्य उकारस्य न दीर्घः । अतः ‘दुर्वासाः’ इति रूपम् असाधु । स च शब्दः सकारान्तः, न तु अकारान्तः । अतः

‘दुर्वासः’ इति रूपम् अपि असाधु । .८०. प्रसादनं नाम अलङ्करणं स्वच्छकरणं, सन्तोषणं वा । तत्र धातुः

विशरणाद्यर्थकः ‘षद्ल’ । अतः दकारः तत्र अल्पप्राणः एव । उपकरणाद्यर्थके ‘साधन शब्दे तु ‘ध’कारः (महाप्राणः) । तत्र

संसिद्ध्यर्थकः ‘साध’धातुः । ८१. पत्रस्य (कागदस्य भागः) (पुरोभागः पृष्ठभागः वा) शरीरस्य

रूपलिङ्गवचनादिदोषाः

लोष्टम्

८२. कुष्टः

कुष्ठः ८३. वैदूर्यम्

वैडूर्यम् ८४. विषकलितः

विशकलितः ८५. याञ्चा

याच्ञा ८६. विष्टा

विष्ठा ८७. लोष्ठम् पश्चार्धः वा अत्र अभिप्रेतः । तत्र च ‘पृष’धातोः (सेचनार्थकस्य) यक् निपातनात् । अतः महाप्राणः (ठकारः) एव प्रयोक्तव्यः । अल्पप्राणे प्रयुक्ते तु क्तप्रत्ययान्तता सिद्धयेत् (पृषधातोः प्रच्छधातोः वा) । स च अत्र न अभिप्रेतः । कागदस्य पश्चार्धार्थे ‘पुट’शब्दोऽपि

प्रयोक्तुं शक्यः । ८२. कुष्ठं नाम रोगविशेषः । स च शब्दः महाप्राणोपेतः (ठकारोपेतः)।

कृष्णाति. अङ्गम् - कृष (निष्कर्षे) + क्थन् । अल्पप्राणयुक्तः

(टकारयुक्तः) शब्दः असाधुः । ८३. महाप्राणोपेतं रूपम् असाधुः । मणिविशेषः वैडूर्यपदेन निर्दिश्यते । ८४. सम्यक् विमृष्टः इत्यर्थे प्रयुज्यते एषः शब्दः । माघस्य प्रयोगो यथा

  • ‘इति विशकलितार्थामौद्धवीं वाचमेनाम्’ (२.११८) शकारः अत्र तालव्यः । मूर्धन्ये (षकारे) प्रयुक्ते तु “विषयुक्तः’ इत्यस्य अर्थस्य सिद्धिः । स च अत्र न अभिप्रेतः । . ‘याञ्चा’ इति प्रयोगः असाधुः । याचनार्थकता अत्र । यावृधातोः ‘नङ् प्रत्ययः । प्रत्ययः पर एव । यदि प्रत्ययः मित् अभविष्यत् तर्हि ‘याञ्चा’ इति रूपं सिद्धं स्यात् । तथा तु नास्ति । अतः ‘याच्या’

इत्येव प्रयोक्तव्यम् । (चकारः आदौ, अकारः अनन्तरम् इत्यर्थः) ८६. मलार्थकः अस्ति ‘विष्ठा’शब्दः । तथा हि अमरः - ‘गूथं पुरीषं

वर्चस्कम् अस्त्री विष्ठाविषौ स्त्रियौ’ इति । वितिष्ठते उदरे इति विष्ठा । वि + ष्ठा (गतिनिवृत्तौ) + कः । अतः षकारोत्तरं

महाप्राणः (ठकारः) प्रयोक्तव्यः, न तु टकारः (अल्पप्राणः)। ८७. अंत्र षकारोत्तरः टवर्गप्रथमः (टकारः), न तु टवर्गद्वितीयः

(ठकारः) । सङ्घातार्थकः ‘लोष्ट’धातुः अत्र । अतः महाप्राणयुक्तः

शुद्धिकौमुदी

८८. मण्डोदरी ८९. कोष्टकम्

मन्दोदरी कोष्ठकम्

प्रयोगः दोषाय एव । कोषो यथा - ‘लोष्टानि लेष्टवः पुंसि ।’

(अमरः) ८८. मन्दम् उदरं यस्याः सा मन्दोदरी । मयसुता रावणमहिषी सा । अत्र

डकारश्रवणं नास्ति । (प्रादेशिकभाषायां श्रूयते) नात्र मण्डशब्दस्य

सम्बन्धः कोऽपि । ८९. कृष(निष्कर्षे)धातोः उणादौ थन्प्रत्यये ‘कोष्ठः’ इति रूपम् । प्रकोष्ठ

धान्यागारादयः अर्थाः तस्य । अल्पः कोष्ठः कोष्ठकम् । प्रत्ययः तु थन् । तस्य ष्टुत्वात् ठकारः । अल्पप्राणोपेतं (टकारोपेतं) रूपं नास्ति ।

एतादृशाः दोषाः प्रायः अनन्ताः । शृङ्गग्राहिकया कानिचन उदाहरणानि अत्र दर्शितानि । एतादृशानां दोषाणां निवारणस्य एक एव परिहारः - अवधानदानम् एव । बोधनीयं, विस्तरेण वक्तव्यं वा न किञ्चिदस्ति । अतः ‘अवधानं दीयताम्’ इति एतावदेव वदामः एतद्विषये ।

रूपलिङ्गवचनादिदोषाः

२.२. लिङ्गम् |

संस्कृतभाषायां लिङ्गव्यवस्था अतिविलक्षणा । कः शब्दः किंलिङ्गकः इति ज्ञातुं न शक्यते अल्पेन प्रयासेन । पर्यायपदानि अपि समानलिङ्गकानि न भवन्ति क्वचित् । शब्दः पुंसि । तदर्थकम् एव पदं नपुंसके । कर्णः पुंसि । तदर्थकं श्रोत्रं नपुंसके । शरीरं नपुंसके । तदर्थकः कायः पुंसि । एकस्मिन् एव अवयविनि स्थिताः अवयवाः विभिन्नलिङ्गकाः । कायः पुंसि । तत्रत्याः नासिकाजिह्वादयः स्त्रियाम् । उदरनेत्रादयः नपुंसके । अतः एव पण्डिताः

अपि लिङ्गविषये मुह्यन्ति बहुधा । काव्याध्ययनं, कोषपरिशीलनम्, अभियुक्तानां भाषणस्य सश्रद्धं श्रवणम् इत्यादयः अंशाः लिङ्गज्ञानं वर्धयन्ति । ये व्याकरणं पठितवन्तः ते प्रत्ययं दृष्ट्रा अपि लिङ्गम् ऊहन्ते । घान्ताः पुंसि, क्तिन्नन्ताः स्त्रियां, ल्युडन्ताः नपुंसके इत्येवं ते लिङ्गं जानीयुः । यत्र प्रत्ययभागः सुस्पष्टः

तत्र एतत् शक्यम् । इतरत्र तु तेषाम् अपि कष्टम् अस्ति एव । २.२.१. नियतलिङ्गाः

केचन नियतलिङ्गाः भवन्ति । *विशेष्यनिघ्नानाम् इव येषां लिङ्गं न परिवर्तते ते उच्यन्ते - “नियतलिङ्गाः’ इति । अत्र तादृशानां केषाञ्चित् सङ्ग्रहः कृतः अस्ति ।

अ) मित्रम् - रमेशः मम मित्रम् ।

अत्र रमेशः पुंसि । मित्रशब्दश्च नपुंसके । पुंलिङ्गवाची अपि कश्चन मित्रशब्दः अस्ति । किन्तु सः सूर्य बोधयति । सुहृत्पर्यायः मित्रशब्दः नपुंसके एव । स च नियतलिङ्गः । नियतलिङ्गाः यत्र प्रयुज्यन्ते तत्र ‘यल्लिङ्गं यद्वचनं…’ इत्येतस्य नियमस्य अन्वयः न भवति । अतः रमेशशब्दः पुंसि चेदपि मित्रशब्दः नपुंसके एव स्यात् । तथा हि कोषः - “मित्रं सुहृदि न द्वयोः’ इति मेदिनी । आ) वाहनम् - * मयूरः षण्मुखस्य वाहनम् ।

मूषकः गणेशस्य वाहनम् । * निहन्यते (आश्रीयते) इति निघ्नः । आश्रितः इत्यर्थः । विशेष्यस्य निघ्नः

विशेष्यनिघ्नः । विशेष्याधीनः इति तात्पर्यम् ।

शुद्धिकौमुदी

वाहनशब्दः अपि नियतलिङ्गः । अतः मयूरमूषको पुंसि स्तः

चेदपि वाहनशब्दः नपुंसके एव । वाहनविषये कोषो यथा - ‘सर्वं स्याद्वाहनं यानम्…’ इति । (अमरः) इ) व्यक्तिः - * रामो नाम कश्चन व्यक्तिः एवम् उक्तवती ।

अत्र रामः पुमान् । ‘व्यक्तिः’ तु स्त्रियाम् । अतः तद्विशेषणं स्त्रियां स्यात् । तस्मात् ‘कश्चन’ इति न, ‘काचन’ इति प्रयोक्तव्यम् । ‘व्यक्तिः’ स्त्रियाम् इत्यतः क्रियापदस्थानीयं भूतकृदन्तरूपं स्त्रियाम् (उक्तवती इति) अस्ति । ‘उक्तवती’ इति पदं यदि न रोचते तर्हि लिङ्गभेदरहितम् ‘अवदत्’ इति लपं प्रयुज्यतां नाम ।

व्यक्तिपदेन अभिधेयः तु पुरुषः एव । तथापि ‘व्यक्तिः’ स्त्रियाम् एव, नियतलिङ्गत्वात् । एतदत्र स्मर्तव्यं यत् अभिधेयः अर्थः अन्यलिङ्गकः चेदपि अभिधायकं पदम् अन्यलिङ्गकं भवितुम्

अर्हति संस्कृतभाषायाम् ।। ई) बन्दिः/बन्दी - * बन्धा कारागारात् पलायितम् ।

अत्र ‘बन्दी’शब्दः (बन्दिः इति वा) स्त्रीलिङ्गे । यद्यपि पलायितः कश्चन पुरुषः । तथापि तन्निर्देशाय प्रयुक्तः ‘बन्दी’ इति

शब्दः स्त्रियाम् एव । २.२.२. व्याध्यादयः -.

अन्ये केचन सामान्याः शब्दाः सन्ति, येषां च लिङ्गविषये वयं प्रमादं कुर्मः । ते केचन यथा -

१) सः व्याध्या ग्रस्तः अस्ति । २) वृत्तस्य परिधिः का इति न ज्ञातम् । ३) अत्र सन्धिः न कृता । ४) तेन काचन ध्वनिः श्रुता ।

५) जनैः सेतुः निर्मिता । एतेषु वाक्येषु प्रयुक्ताः व्याधि-परिधि-सन्धि-ध्वनि-सेतवः स्त्रीलिङ्गभ्रमं जनयन्ति । अतः एव एतेषु वाक्येषु तेषां स्त्रीत्वं प्रयुक्तम् । किन्तु ते सर्वे शब्दाः पुंसि एव । तस्मात् एतानि सर्वाणि वाक्यानि असाधूनि । ‘व्याधिना प्रस्तः’ ‘परिधिः कः ?’ ‘सन्धिः कृतः’ ‘ध्वनिः23

रूपलिङ्गवचनादिदोषाः

श्रुतः’ ‘सेतुः निर्मितः’ इत्येवं प्रयोगाः साधवः । एतेषां विषये कोषप्रामाण्यं यथा - १. व्याधिः - स्त्री रुग्रुजा चोपतापरोगव्याधिगदामयाः । (अमरः) २. परिधिः - परिवेषस्तु परिधिः । (अमरः) ३. सन्धिः - सन्धिर्ना… (अमरः) ४. ध्वनिः - शब्दे निनादनिनदध्वनिध्वानरवस्वनाः । (अमरः) ५. सेतुः - सेतुरालौ स्त्रियां पुमान् । (अमरः)

(सेतुः पुमान् इत्यर्थः) २.२.३. उभयलिङ्गाः -

कोशे लिङ्गानुशासनादिषु उभयलिङ्गता बहुधा उच्यते एव । ते सर्वे अत्र न दर्श्यन्ते । केचन उभयलिङ्गकाः व्यावहारिकाः शब्दाः अत्र दर्श्यन्ते ।

१. तेन स्वकुटुम्बं कष्टेन पोष्यते स्म ।

कुटुम्बशब्दः पुंसि नपुंसके च इति वदति कोषः । अतः उभयथा

अपि प्रयोगः साधुः । २. गृहिण्या विविधाः शाकाः क्रीताः ।

शाकशब्दः पुंसि नपुंसके च । अतः ‘शाकः क्रीतः’ ‘शाकं क्रीतम्’ इति उभयथा अपि प्रयोगः साधुः । कोशप्रामाण्यं

यथा - ‘अस्त्री शाकं हरितकम्….. ’ इति ।। ३. सः अर्गलाम् अपसार्य द्वारस्य कवाटम् उद्घाटितवान् ।

अर्गला अत्र स्त्रियां प्रयुक्तः । सः नपुंसके अपि । तथा हि

कोशः - “तद्विष्कम्भोऽर्गलं न ना’ (अमरः) इति । ४. सः चषकः उत्तमः अस्ति ।

‘चषक शब्दः पुंसि नपुंसके च । तथा हि कोषः - ‘चषकोऽस्त्री पानपात्रम्’ (अमरः) इति । एषः सभामण्डपः अतिविशालः अस्ति । ‘मण्डप’शब्दः पुंसि नपुंसके च । कोषो यथा - ‘मण्डपोऽस्त्री

जनाश्रयः’ (अमरः) इति । ६. तेन नगरगमनाय शकटः आरूढः ।

2B

शुद्धिकौमुदी

‘शकट’शब्दः पुंसि नपुंसके च । तथा हि कोषः - ‘क्लीबेऽनः

शकटोऽस्त्री स्यात्’ (अमरः) इति । ०७. वृक्षे पक्षिभिः नीडः रचितः ।

‘नीड’शब्दः पुंसि नपुंसके च । तथा हि कोषः - ‘कुलायो

नीडमस्त्रियाम्’ (अमरः) इति । ०८. एषः तडागः कमलैः शोभते ।.

‘तडाग’शब्दः पुंसि नपुंसके च । कोषप्रामाण्यं यथा -

‘पद्माकरस्तडागोऽस्त्री’ (अमरः) इति । ०९. अपघातकारणतः तस्य पादे व्रणः जातः ।

‘व्रण’शब्दः पुंसि नपुंसके च । तथा हि कोशः - ‘व्रणोऽस्त्रियाम्

ईर्ममरुः क्लीबे’ (अमरः) इति । १०. नदीतीरे क्रीडता बालेन पङ्कः स्पृष्टः ।

‘पङ्क शब्दः पुंसि नपुंसके च । कोषो यथा - ‘अस्त्री पङ्कं पुमान्

पाप्मा’ (अमरः) इति । ११. मुनिना कमण्डलुः स्पृष्टः ।

‘कमण्डलु’शब्दः पुंसि नपुंसके वा । तथा हि कोषः - ‘कमण्डलुः

स्यात्करके न स्त्री ना प्लक्षपादपे’ - मेदिनी । अन्ये अपि केचन उभयलिङ्गकाः व्यावहारिकाः शब्दाः यथा - - पार्श्वः/पार्श्वम् . पार्श्वमस्त्री (अमरः) - कण्टकः/कण्टकम् कण्टको न स्त्रियां.. (मेदिनी) - मोदकः/मोदकम् मोदकः खाद्यभेदेऽस्त्री (मेदिनी) - मण्डः/मण्डम् मण्डोऽस्त्री सारपिच्छयोः -तिलकम्/तिलकः । तमालपत्रतिलकचित्रकाणि विशेशकम् ।

द्वितीयं च तुरीयं च न स्त्रियाम् । (अमरः)

• किरीटम्/किरीटः किरीटं पुनपुंसकम् । (अमरः) - फलकः/फलकम् फलकोऽस्त्री (अमरः) - पीठः/पीठम् विष्टरः पीठमस्त्रियाम् (त्रिकाण्डशेषः) - सौधः/सौधम् - सौधोऽस्त्री राजसदनम् (अमरः) - खलीनः/खलीनम् कविका तु खलीनोऽस्त्री (अमरः) - पुच्छः/पुच्छम् पुच्छोऽस्त्री लूमलाङ्कले (अमरः)

रूपलिङ्गवचनादिदोषाः

  • तारका/तारकम् ___ नक्षत्रे चाक्षिमध्ये च तारकं तारकापि च

(शाश्वतः)

• वलयः / वलयम् वलयः कण्ठरोगे ना कङ्कणे पुनपुंसकम्

(मेदिनी) शूर्पः / शूर्पम् प्रस्फोटनं शूर्पमस्त्री (अमरः) अङ्गारः / अङ्गारम् अथ न स्त्री स्यादङ्गारः (अमरः) गोमयः / गोमयम् गोविट् गोमयमस्त्रियाम् (अमरः) नूपुरः / नूपुरम् पादाङ्गदं तुलाकोटिर्मञ्जीरो नूपुरोऽस्त्रियाम्

(अमरः)

• लोहः / लोहम् लोहोऽस्त्री शस्त्रके (मेदिनी) - मणिः (पुं / स्त्री) मणिः स्त्रीपुंसयोरश्मजातौ (मेदिनी)

क्रकचः / क्रकचम् क्रकचः करपत्रेऽस्त्री (मेदिनी) २.२.४. वृक्षः पुंसि, फलं नपुंसके

१) गृहिण्या दश आम्राः क्रीताः ।। २) कृषिकेण दश आम्राः आरोपिताः । अत्र वाक्यद्वये अपि आम्रशब्दः पुंसि प्रयुक्तः । प्रथमे वाक्ये सः ‘फल’वाचकः । द्वितीये च वाक्ये ‘वृक्ष’वाचकः । फलवाचके पुंलिङ्गप्रयोगः दोषाय । अतः प्रथमं वाक्यम् अशुद्धम् । एकः एव शब्दः संस्कृतभाषायां फलं वृक्षं च वदति । यथा - आम्रशब्दः । वृक्षवाचकत्वे तस्य पुंलिङ्गता । फलवाचकत्वे च नपुंसक- . लिङ्गता । अतः एव ‘आम्रवृक्षः’ इति वक्तव्यं नास्ति । ‘आम्रः’ इत्येतावता एव अलम् । एवमेव ‘आम्रफलम्’ इति वक्तव्यं नास्ति । ‘आम्रम्’ इत्येतावता अलम् । ‘फले लुक्’ (४.३.१६३) इति सूत्रेण विकारावयवप्रत्ययस्य (मयटः) फले लुक् । लोकात् नपुंसकता च । अतः - आम्रः = आम्रवृक्षः -

आम्रम् = आम्रफलम्

शुद्धिकौमुदी

एवमेव -

वृक्षः (पुंसि) फलम् (नपुंसके) पनसः

पनसम् आमलकः

आमलकम् जम्बीरः

जम्बीरम् पूगः

पूगम् नारिकेलः

नारिकेलम् नारङ्गः

नारङ्गम् दाडिमः

दाडिमम् खजूरः

खजूरम् वृन्ताकः

वृन्ताकम् किन्तु सर्वे फलवाचकाः नपुंसके एव इति न नियमः । द्राक्षा, भल्लातकी,

एला इत्यादयः स्त्रियाम् । कलायः पुंसि । एवम् इतरत्रापि ऊह्यम् । २.२.५. शेषः

उक्तात् अन्यः शेषः । लिङ्गविषये पूर्वं ये अंशाः उक्ताः तेभ्यः अन्येषाम् अपि केषाञ्चन शब्दानां विषये अस्माभिः अवधातव्यं भवति । ते केचन यथा - १. जलेन सिक्तेभ्यः बीजेभ्यः अङ्कराणि उत्पद्यन्ते ।

‘अङ्कुराणि’ इति दोषाय । ‘अङ्कुराः’ इति पुंसि प्रयोक्तव्यम् । तथा हि कोषः - ‘अङ्कुरोऽभिनवोद्भिदि’ इति । (अमरः) २. यथा बीजः तथा खलु भवति अङ्कुरः ?

बीजशब्दः नपुंसके । ‘हेतुर्ना कारणं बीजम्’ इति अमरः । अतः ‘बीजम्’ इति नपुंसके प्रयोक्तव्यं, न तु पुंसि । ३. एतत् नगरं धनिनाम् आकरम् अस्ति। ___ ‘आकरः अस्ति’ इति पुंसि प्रयोक्तव्यम् । आकरशब्दः पुंसि ।

तथा हि अमरः - ‘खनिः स्त्रियाम्, आकरः स्यात्’ इति । ४. अयं पण्डितः ज्ञानानाम् आगारः अस्ति ।

‘आगारम्’ इति नपुंसके प्रयोगः साधुः । आगारशब्दः नपुंसके ।

अमरकोषो यथा - ‘भवनागारमन्दिरम्’ इति । ५. कारागारः एव श्रीकृष्णस्य जन्मस्थानम् आसीत् ।

रूपलिङ्गवचनादिदोषाः

‘कारागारम्’ इति प्रयोक्तव्यम् । आगारशब्दः नपुंसके इति

पूर्वम् उक्तम् एव । ०६. पाठ्यपुस्तकविषये श्वः कार्यागारः भविष्यति ।

‘कार्यागारम्’ इति प्रयोक्तव्यम् । कार्यस्य आगारम् =

कार्यागारम् । समासे उत्तरपदम् ‘आगारं’ नपुंसके, न तु पुंसि । ०७. अत्रत्यः पुस्तकभण्डारः अत्युत्तमः अस्ति ।

‘भण्डारः’ इति अपशब्दः । ‘पुस्तकभाण्डारम्’ इति, ‘पुस्तक भाण्डागारम्’ इति वा प्रयोक्तव्यम् । ‘भण्डार’शब्दः संस्कृते नास्ति । अपेक्षितस्य अर्थस्य वाचकः ‘भाण्डार’शब्दः अस्ति । सः नपुंसके । तस्मिन्नेव अर्थे

‘भाण्डागारम्’ इत्यपि शब्दः अस्ति । सोऽपि नपुंसके एव । ०८. संस्कृतस्य महिमा केन वा वर्णयितुं शक्या ?

‘महिम’शब्दः नकारान्तः पुंलिङ्गश्च, न तु स्त्रीलिङ्गः । अतः ‘महिमा वर्णयितुं शक्यः’ इति प्रयोगः करणीयः । आकारान्त

भ्रान्त्या केचन तस्य स्त्रीत्वं चिन्तयन्ति । ०९. नगरस्य अन्तिमे सीम्नि कश्चन संन्यासी वसति स्म ।

‘अन्तिमे सीम्नि’ इति प्रयोगः दोषाय । ‘अन्तिमायां सीम्नि’ इति प्रयोक्तव्यम् । ‘सीमन् शब्दः नकारान्तः । स च स्त्रियाम् । ‘सीमा’ इति आकारान्तोऽपि अस्ति । सोऽपि स्त्रियाम् एव । तथा हि कोषः - ‘सीमसीमे स्त्रियामुभे’ (अमरः) इति ।

अतः ‘नकारान्तः पुंसि, आकारान्तः स्त्रियाम्’ इति भ्रमः मास्तु ।

उभौ अपि स्त्रियाम् एव । १०. बालिकाहस्तात् पतितं दर्पणं भग्नम् ।

‘पतितः दर्पणः भग्नः’ इति पुंसि प्रयोक्तव्यम् । यतः दर्पणशब्दः पुंसि । अमरमाला वदति - ‘दर्पणः मुकुरः प्रोक्तः’ इति । ‘लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति’ इति हितोपदेश कारादीनां प्रयोगाः अपि अत्र उपोद्वलकाः सन्ति । किन्तु धर्मसेनस्य कश्चन प्रयोगः दृश्यते - “किं तदर्पणमस्ति यत्र सकलम्…’ इति । अत्र दर्पणस्य नपुंसकता प्रयुक्ता इति तु स्फुटम् । किन्तु अयं क्वाचित्कः प्रयोगः । अतः प्रमाणभूतं

शुद्धिकौमुदी भवितुं न अर्हति । तस्मात् दर्पणशब्दस्य पुंसि प्रयोगः एव शिष्टसम्मतः । १. ‘बुद्धिर्यस्य बलं तस्य’ इति आभाणकम् एकं श्रूयते ।

‘आभाणक’शब्दः पुंसि । अतः ‘आभाणकः एकः श्रूयते’ इति प्रयोक्तव्यम् । येषु कोषेषु आभाणकशब्दः दर्शितः तेषु

सर्वत्र तस्य पुंस्त्वम् एव दर्शितम्, न तु नपुंसकत्वम् । १२. प्रथमस्थानं प्राप्तवते बहुमानं प्रदत्तम् ।।

‘बहुमानः प्रदत्तः’ इति वक्तव्यम् । बहुमानशब्दः पुंसि । सम्मानः, अधिकगौरवम् इत्यादयः अर्थाः यथा, तथैव ‘पारि

तोषिकम्’ इत्यपि अर्थः अस्ति तस्य । १३. धेनुः किसलयान् खादति ।

‘किसलयान्’ इति दोषाय । “किसलयानि’ इति नपुंसके प्रयोक्तव्यम् । किसलयशब्दः नपुंसके । तथा हि अमरः -

‘पल्लवोऽस्त्री किसलयम्’ इति । १४. कालिदासः कविरत्नः अस्ति ।

‘कविरत्नम्’ इति प्रयोक्तव्यम् । कविः रत्नम् इव इति उपमित समासः । “जातौ जातौ यदुत्कृष्टं तद्रत्नमभिधीयते’ इति हि प्राचीनोक्तिः । “रत्नं स्वजातिश्रेष्ठे स्यात् मणौ..‘इति हैमकोषः । अतः रत्नशब्दः नपुंसके । उपमितसमासे (कर्मधारये) उत्तरपदस्य प्राधान्यम् । तस्मात् रत्नशब्दस्य यत् लिङ्गं तदेव भवति समस्त पदस्यापि । रत्नशब्दः नपुंसके इत्यतः कविरत्नशब्दः अपि नपुंसके एव । तस्य नियतलिङ्गत्वात् कालिदासपदस्य विशेषणं

सत् अपि तत् नपुंसके एव । १५. अहोरात्रं दिनम् इति उच्यते ।

‘अहोरात्रः’ इति प्रयोक्तव्यम् । ‘अहोरात्र’शब्दः पुंसि । अहश्च रात्रिश्च अनयोः समाहारः अहोरात्रः । ‘रात्राहाहाः पुंसि’ (२.४.२९) इति सूत्रेण अहोरात्रशब्दस्य पुंस्त्वम् । . ‘अहोरात्रं पठति’ इत्यादौ तु तस्य क्रियाविशेषणता । तन्नाम कर्मत्वम् । कर्मणः द्वितीया लोके सिद्धा एव । किन्तु तत् नपुंसकताभ्रमं जनयति कदाचित् ।

रूपलिङ्गवचनादिदोषाः

१६. सन्तानं नास्तीत्यतः तेन महान् खेदः प्राप्तः ।

‘सन्तानः’ इति पुंसि प्रयोक्तव्यम् । सन्तानशब्दः पुंसि । तथा

हि कोषः - ‘वंशोऽन्ववायः सन्तानः’ (अमरः) इति । १७. कार्यक्रमस्य आयोजकैः चतुष्पथः सम्यक् अलङ्कृतः ।

‘चतुष्पथः अलङ्कृतः’ इति प्रयोगः दोषाय । ‘चतुष्पथम् अलङ्कृतम्’ इति प्रयोक्तव्यम् । यद्यपि “पथिन्’शब्दः (प्रथमायां ‘पन्थाः’ इति रूपम्) पुंलिङ्गे, तथापि चतुष्पथशब्दः तु नपुंसके । ‘पथः सङ्ख्याव्ययादेः’ इति वार्तिकेन सङ्ख्यादेः

परस्य कृतसमासान्तस्य पथशब्दस्य नपुंसकता विहिता । १८. तपसि निरतस्य मुनेः पुरतः अप्सराः गोचरा जाता। ,

‘गोचर’शब्दः पुंसि । ‘गोचरसञ्चर…’ (३.३.११९) इति सूत्रेण गोचरशब्दः घान्तः निपातितः । घान्तः पुंसि एव । अतः ‘अप्सराः मुनेः दृष्टेः गोचरः’ इति, ‘अप्सराः दृष्टेः गोचरतां

गता’ इति वा प्रयोगः करणीयः । १९. सुखहेतूनि भोगसाधनानि को वा न इच्छेत् ?

‘सुखहेतून्’ इति प्रयोक्तव्यम् । हेतुशब्दः पुंसि हेतुर्ना कारणं बीजम्’ इति अमरः । ‘सुखहेतुः’ इत्यत्र षष्ठीतत्पुरुषः (सुखस्य + हेतुः) । तत्पुरुषे उत्तरपदस्य यत् लिङ्गं तदेव लिङ्गं समस्तपदस्यापि । अतः सुखहेतुशब्दस्यापि पुंस्त्वम् एव युक्तम् । बहुव्रीहिसमासस्तु न, येन अत्र अन्यपदार्थप्राधान्यम् उच्येत । “सुखहेतून् भोगसाधनानि’ इत्यत्र यदि मनः न रमते तर्हि ‘सुख हेतुभूतानि’ इति प्रयोगः क्रियतां, यत्र च विशेषणविशेष्यभावः

स्फुटतया दृश्येत । २०. एवमेव यदि पापः क्रियते तर्हि भवता नरकं प्राप्यते ।

‘नरकम्’ इति प्रयोगः दोषाय । “पाप’शदा पुंसि प्रयोगः

अपि दोषाय । ‘नरकः’ इति पुंसि प्रयोक्तव्यम्। नरकशब्दः पुंसि एव । अमरकोषप्रामाण्यं यथा- ‘स्यान्नारकस्तु नरको निरयो…’ इति । पापशब्दः नपुंसके । कोषो यथा -

पापं किल्बिषकल्मषम् । (अमरः) २१. हिमालये सर्वत्र हिमः एव परिदृश्यते ।

शुद्धिकौमुदी

हिमशब्दः नपुंसके । अतः “हिमम्’ इति प्रयोक्तव्यम् । ‘तुषारः

तुहिनं हिमम्’ इति हि अमरः । २२. मम कार्ये बहूनि विघ्नानि आगतानि ।

‘बहवः विघ्नाः आगताः’ इति प्रयोक्तव्यम् । विघ्नशब्दः पुंसि । ‘विघ्नोऽन्तरायः प्रत्यूहः’ इति अमरः । अतः तस्य

नपुंसकता न भवति कथमपि । २३. पूर्णा कुक्षिः यस्य सः पूर्णकुक्षिः ।

‘पूर्णः कुक्षिः’ इति प्रयोक्तव्यम् । कुक्षिशब्दः पुंसि । “पिचण्डकुक्षी

जठरोदरं तुन्दम्’ इति अमरः । २४. धनिकेन कम्बलानि वितीर्णानि ।

‘कम्बलाः वितीर्णाः’ इति प्रयोक्तव्यम् । कम्बलशब्दः पुंसि ।

तथा हि अमरः - ‘समौ रल्लककम्बलौ ।’ २५. अरण्ये कुटीराणि सन्ति ।

“कुटीराः’ इति प्रयोक्तव्यम् । कुटीरशब्दः पुंसि । ह्रस्वा कुटी + रः - कुटीरः । एषः पुंसि रूढः । विषयेऽस्मिन् कौमुद्याः तत्त्वबोधिनीव्याख्याने प्रामाण्यं यथा - ‘कुटीशमीशुण्डाभ्यां रः (५.३.८८) स्वार्थिकाः प्रकृतितः लिङ्गमतिवर्तन्ते इति पुंलिङ्गतात्र

सङ्गच्छते ।’ २६. वसन्तऋतुः उपस्थिता ।

‘उपस्थितः’ इति प्रयोक्तव्यम् । यतः ऋतुशब्दः पुंसि, न तु स्त्रियाम् । अमरकोषे प्रयोगो यथा - ‘षडमी ऋतवः पुंसि…’ । मेदिनीप्रामाण्यं यथा - ‘ऋतुर्वर्षादिषट्सु च । आर्तवे मासि च

पुमान् ।’

२७. तस्य ललाटः विशालः अस्ति ।

‘ललाटं विशालम्’ इति प्रयोक्तव्यम् । ललाटशब्दः नपुंसके ।

‘भाले गोध्यलिकालीकललाटानि’ इति हैमनाममालायाम् । २८. तस्मिन् राज्ये सुभिक्षा अवर्तते ।

‘सुभिक्षम्’ इति प्रयोक्तव्यम् । सुभिक्षं नाम धान्यसमृद्धिः ।

तस्मिन् अर्थे नपुंसकता । प्रयोगो यथा - -सुभिक्षाणि विचित्राणि

  • पञ्चतन्त्रम् - ४.७८

रूपलिङ्गवचनादिदोषाः

सृवृष्टिश्चेदभविष्यतदा सुभिक्षमभविष्यत् - कौमुदी २.३. उत्तरपदे…

कानिचन पदानि उत्तरपदत्वेन प्रयुज्यन्ते । तेषां लिङ्गविषये प्रमादः

कृतः दृश्यते कदाचित् । अतः ते अत्र उच्यन्ते - २.३.१. मात्रादयः -

अ. मात्रम् - महाराजस्य एकमात्रः पुत्रः वीरवर्मा ।

अत्र एकमात्रं पुत्रः इति प्रयोक्तव्यम् । मात्रशब्दः नपुंसके । सः नियतलिङ्गः । अतः नपुंसके एव तस्य प्रयोगः । तथा हि अमरः - ‘मानं कास्र्नेऽवधारणे’ इति । मात्रशब्दः त्रिचतुरेषु अर्थेषु प्रयुज्यते । यथा - * अवधारणार्थे - एकः एव एकमात्रम्, क्षणः एव क्षणमात्रम् । * साकल्यार्थे - प्राणिमात्रं न हिंसति । * मानार्थे - रेखामात्रम्, कोशमात्रम्..(अत्र मात्रच्प्रत्ययः)

आ.आस्पदम् - एषः सन्तोषास्पदः विषयः ।

“विषयोऽयं सन्तोषास्पदम्’ इति प्रयोक्तव्यम् ।

आस्पदशब्दः नपुंसके । स च नियतलिङ्गकः । अतः विशेष्य भूते “विषय’शब्दे पुंसि सत्यपि विशेषणभूतः आस्पदशब्दः

नपुंसके एव । इ. प्रायः - प्रायः पाठः समाप्तप्रायः ।

उत्तरपदत्वेन प्रयुज्यमानः प्रायशब्दः विशेष्यनिघ्नः । अतः सः विशेष्यस्य लिङ्गानुगुणं रूपभेदं प्राप्नोति । यथा -

  • पुंसि - पाठः समाप्तप्रायः । - स्त्रियां - रात्रिः गतप्राया।

.- नपुंसके - समाप्तप्रायं कार्यम् । ‘प्रायो बाहुल्यतुल्ययोः’ इति कोषात् प्रायशब्दस्य द्वौ अौँ । तौ

च - * बाहुल्ये - कमलामोदप्रायाः वनानिलाः ।

  • तुल्ये - अमृतप्रायं वचनम् ।

32

शुद्धिकौमुदी

२.३.२. व्याघ्रपुङ्गवादयः -

अ) व्याघ्र-पुङ्गव-ऋषभ-कुञ्जर-सिंह-शार्दूल-नागादयः उत्तरपदत्वेन

प्रयुज्यमानाः श्रेष्ठार्थतां व्यञ्जयन्ति । तदवसरे ते स्वार्थं जहति । एते तु पुंसि भवन्ति । उदाहरणानि यथा -

• पुरुषव्याघ्रः ।

• कविपुङ्गवः ।

• पण्डितर्षभः ।

• कविकुअरः ।

• पुरुषसिंहः ।

. नरशार्दूलः । एते श्रेष्ठार्थगोचराः इत्यत्र अमरकोषः प्रमाणम् । तथा हि -

स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः ।

सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठार्थगोचराः ।। इति ।। एतदत्र स्मर्तव्यं यत् व्याघ्रसिंहादीनां पशुविशेषवाचकत्वम् अत्र

नार्थः, अपि तु श्रेष्ठार्थवाचकता तेषाम् । आ) मतल्लिकादयः शब्दाः अपि प्रशस्तवाचकाः सन्ति । तद्यथा -

  • प्रशस्तः पुरुषः = पुरुषमतल्लिका
  • प्रशस्तः ब्राह्मणः = ब्राह्मणमचर्चिका
  • प्रशस्तः मनुष्यः = मनुष्योद्धः’
  • प्रशस्ता कुमारी = कुमारीतल्लजः

प्रशस्तः पण्डितः = पण्डितप्रकाण्डम् मतल्लिकादयः नियतलिङ्गाः । अतः ‘पुरुषमतल्लिका’शब्दः स्त्रीलिङ्गे वर्तमानोऽपि प्रशस्तं पुरुषं (पुमांसं) द्योतयति । एतेषु प्रकाण्डशब्दः नपुंसके अस्ति । एते प्रशस्तवाचकाः इत्यत्र अमरकोषः एव प्रमाणम् । तद्यथा -

मतल्लिका मचर्चिका प्रकाण्डमुद्धतल्लजौ । __प्रशस्तवाचकान्यमूनि….।। इति । कथमत्र समासः इत्यत्र सुधाख्या अमरकोषव्याख्या वदति -

“मतल्लिकादीनां रूढिशब्दत्वात् ‘प्रशंसावचनैश्च’ (२.१.६६)

इति समासः । कृष्णसर्प-वाप्यश्वादिवदेते नित्यसमासाः । उद्धः १. ‘उद्धो हस्तपुटे वह्नौ श्लाघायां देहजानिले’ - हैमः । २. ‘मतल्लिकादयः अव्युत्पन्नाः’ इति प्राञ्चः । अमरे व्युत्पत्तिः अपि दर्शिता दृश्यते ।‘रूपलिङ्गवचनादिदोषाः

. तु असमासोऽप्यस्तीति स्वाम्यादयः’ इति । इ) पुरुषाणां पुङ्गवः अयं सर्वजनप्रियः ।।

अत्र ‘पुरुषपुङ्गवः’ इति समस्तं रूपम् एव प्रयोक्तव्यम् । पुङ्गव शब्दः यदा उत्तरपदं भवति तदा एव श्रेष्ठार्थवाचकः भवति । समासे अकृते तु तस्य न तादृशं सामर्थ्यम् । अतः पुङ्गवशब्दस्य श्रेष्ठार्थत्वम् अपेक्ष्यते चेत् समासः करणीयः एव । अमरकोषोऽपि एतदेव वदति - ‘स्युरुत्तरपदे….’ इति । चारुदेवशास्त्रिणः अपि स्वीये ‘शब्दापशब्दविवेक’ग्रन्थे एतम् एव आशयं पुष्टी

कुर्वन्ति । २.३.३. चरणपादादयः -

  • तेन आचार्यचरणात् विद्या अधिगृहीता । * आचार्यपादः शिष्यम् आशीर्वादेन अनुगृहीतवान् । ‘आचार्यचरणेभ्यः’ ‘आचार्यपादाः’ इति बहुवचनान्तं रूपं वक्तव्यम् । चरणपादादयः तत्पुरषे उत्तरपदत्वेन प्रयुज्यमानाः बहुवचनान्ताः एव पूजार्हतां द्योतयन्ति, न तु एकवचनान्ताः । एतद्विषये वदन्ति वाग्व्यवहारादर्श चारुदेवशास्त्रिपादाः - ‘तत्पुरुषे समास उत्तरपदं चरणशब्दो बहुत्वे वर्तमानः पूजावचनो भवति,

न त्वेकत्वे’ इति । २.३.४. वरसरोवरौ

अ) वरम् - वरशब्दः व्यवहारे बहुधा प्रयुज्यते । विविधाः अर्थाः

अपि तस्य । तेषु प्रसिद्धाः -

१. तपोभिरिष्यते यस्तु देवेभ्यः स वरो मतः । २. जामात्रर्थकः विवाहादिषु प्रयुज्यमानः ।

३. श्रेष्ठः । . ४. मनाप्रियम् । प्रथमे द्वितीये च अर्थे वरशब्दः पुंसि । तृतीये अर्थे सः विशेष्य निघ्नः । तन्नाम त्रिषु वर्तमानः । चतुर्थे अर्थे सः नपुंसक

लिङ्गः अव्ययं वा । तथा हि मेदिनी - ‘मनागिष्टे वरं क्लीबं १. विरोध’शब्दः पुंसि अस्ति चेदपि ‘वर’शब्दः पुंसि नास्ति इत्येतत् परिशील्यताम् ।

शुद्धिकौमुदी केचिदाहुस्तदव्ययम्’ इति । अतः एव किरातार्जुनीये प्रयोगः - ‘वरं विरोधोऽपि समं महात्मभिः’ इति ।

लौकिकप्रयोगो यथा - तस्य सहवासतोऽपि दूरे स्थितिः एव वरम् । मनाप्रियार्थे वरशब्दः एकवचनान्तोऽपि । (यदा तस्य अनव्ययत्वम् अङ्गीक्रियते तदा ) तद्यथा - वरं हि भुक्तानि तृणान्यरण्ये…..

  • बुद्धचरितम् -१५३ आ) सरोवरः -

सरश्शब्दः नपुंसके इति सर्वेऽपि जानन्ति । सरोवरशब्दः किंलिङ्गकः इति पृष्टे ‘नपुंसकलिङ्गकः’ इति वदेयुः बहवः । वस्तुतस्तु सः पुंसि । प्रसिद्धाः वैयाकरणाः चारुदेवशास्त्रिणः वदन्ति - ‘पुंसि एव अयं सरोवरशब्दः प्रयुज्यते । लोकाश्रयत्वात् लिङ्गस्य’ इति । अतः ‘सरोवरं मया दृष्टम्’ ‘सरोवरं सुन्दरम्

अस्ति’ इत्यादयः प्रयोगाः असाधवः भवन्ति । २.३.५. ‘मल्लिकागोपाल’शब्दः पुंसि एव ? आधुनिके काले महिलानां नामानि श्रूयन्ते -

मल्लिका गोपाल सरस्वती दिवाकर

वन्दना नागराज इत्यादीनि । अत्र मल्लिका-सरस्वती-वन्दनादीनि महिलानां नामानि । ताः आधुनिक व्यवहारम् अनुसरन्त्यः स्वनाम्ना पत्युः नाम अपि योजयन्ति । ततः ३ मल्लिकागोपाल’-‘सरस्वतीदिवाकर’-‘वन्दनानागराज’प्रभृतीनि

नामानि सिध्यन्ति । एतानि अखण्डपदानि, प्रकृतिप्रत्ययरहितानि च २. ‘भुक्तानि’ इति बहुवचने अस्ति चेदपि ‘वर’शब्दः एकवचने इत्येतत् परिशील्यताम् । ३. ‘मल्लिका’ इत्येतावता एव अलम् । किं ‘मल्लिकागोपाल’ इत्यस्याः विदेशीय व्यवहानुकारिण्याः आनुपूर्व्याः अनुसरणेन इति केचन वदेयुः । तादृशस्य व्यवहारस्य

औचित्यं नात्र चर्च्यते । तदर्थं न एषा भूमिः अपि । यः व्यवहारः दृश्यते तस्य विषये चिन्त्यते अत्र।

रूपलिङ्गवचनादिदोषाः

इति चिन्तनीयं भवति प्रायः । अत्र ‘मल्लिका’शब्दोऽपि व्युत्पन्नः । ‘गोपाल’शब्दोऽपि तादृशः एव । किन्तु ‘मल्लिकागोपाल’ इति या आनुपूर्वी दृश्यते तया युक्तं पदं साधयितुम् उपोद्वलकं समासशास्त्रं न किञ्चन अस्ति । अतः तत्पदस्य प्रकृतिप्रत्ययरहितत्वं चिन्तनीयं स्यात् । तथैव एकव्यक्तिबोधकं तत् पदम् अखण्डम् एव स्यात् । (लेखनावसरे द्वयोः पदयोः मध्ये स्थलावकाशदानात् सखण्डता इति भ्रमः मास्तु । वैशद्यदर्शनाय स्थलावकाशः दर्शितः स्यात् । तावता अखण्डता तु न अपगच्छति ।) एवं ‘मल्लिकागोपाल’ इति पदं सिद्धम् । इदानीं प्रश्नः उदेति – “एतस्य पदस्य किं लिङ्गम् ?’ इति । वाच्या व्यक्तिः तु स्त्री । अतः स्त्रीत्वं मनसि निधाय किं ‘मल्लिकागोपाला’ इति आकारान्ततां कुर्याम, उत गोपालशब्दगतस्य पुंस्त्वं मनसि निधाय ‘मल्लिकागोपालः’ इति वदेम ? पुंस्त्वे कृते स्त्रियाः बोधः कथं भवेत् ? स्त्रीत्वे कृते अन्तिमपदगतं पुंस्त्वं बाधते, पुंस्त्वे कृते तद्वाच्यव्यक्तिगतं स्त्रीत्वं बाधते । एतादृशे स्थले का व्यवस्था स्यात् भाषायाः ? बेङ्गलूरुनगरे स्थिताः वैयाकरणवरेण्याः श्रीमन्तः रङ्गनाथशर्माणः एतस्य उत्तररूपेण अवदन् - “पुंस्त्वम् एव युक्तम्” इति । ‘कथम् ?’ इति पृष्टाः ते पुनः अवदन् -

“लिङ्गव्यवस्था शब्दस्य भवति, न तु अर्थस्य । शब्देन वाच्यस्य अर्थस्य यत्किञ्चित् लिङ्गं स्यात् नाम । शब्दगतं तु लिङ्गं व्याकरणादिविधिम् अनुसरति । गोपालशब्दः पुंसि । अतः मल्लिकागोपालशब्दोऽपि पुंसि एव स्यात् । तत्पदवाच्या व्यक्तिः स्त्री चेदपि न कापि आपत्तिः । व्यक्तिमित्रादीनि पदानि एव अत्र उदाहरणम्” इति । अतः मल्लिकागोपाल-सरस्वतीदिवाकरादीनां शब्दानां पुंस्त्वं युक्तिसहं भवति । अथवा ‘मल्लिकागोपाल’ इत्येतत् अव्युत्पन्नं संज्ञापदम् इति अङ्गीकृत्य तस्य स्त्रीत्वविवक्षां मनसि निधाय आकारान्तता अपि अङ्गीकर्तुं शक्या

शुद्धिकौमुदी इति अपरस्य वैयाकरणविदुषः मतम् । तदा तु ‘मल्लिकागोपाला’

इत्यपि रूपम् । २.३.६. भारतीसरस्वत्यन्तादीनां पदानां किं लिङ्गम् ?

लोके ये मठाधिपतयः भवन्ति तेषां नामानि ‘….भारती’ ‘…सरस्वती’ इत्येवमादिरूपेण श्रूयन्ते । एतादृशाानां भारती-सरस्वत्यन्तादीनां पदानां किं लिङ्गं स्यात् ? वाच्यस्य अर्थस्य पुंस्त्वं तु स्फुटमेव । शब्दस्य अन्ते श्रूयमाणानां भारतीसरस्वत्यादीनां पदानां स्त्रीत्वं लोके प्रसिद्धम् । एवं स्थिते भारत्याधन्तानां पदानां किं लिङ्गं स्यात् ? पूर्वोक्ता शास्त्रयुक्तिः एव अत्रापि स्मरणीया । पदगतस्य लिङ्गस्यैव प्राधान्यं भवति अत्र । अतः भारतीसरस्वत्यन्तानि पदानि ईकारान्त स्त्रीलिङ्गानि एव इति निर्णयः । एतदत्र स्मर्तव्यं यत् लिङ्गविषयकचर्चावसरे भारत्यन्तानि परिगृहीतानि । तानि च नामानि गृहीतसंन्यासानां मठाधीशानां भवन्ति प्रायः । तेषां निर्देशावसरे बहुवचनप्रयोगः एव शिष्टसम्मतः । अतः ‘….भारती स्वामिनः’ इति बहुवचनप्रयोगः एव युज्यते, न त्वेकवचनप्रयोगः । शब्दप्रयोगावसरे शब्दगता लिङ्गव्यवस्था एव अनुसरणीया, न तु

तद्वाच्यार्थगता लिङ्गव्यवस्था इति तु सारः । २.४. वचनम्

एकत्वे एकवचनं, द्वित्वे द्विवचनं, बहुत्वे बहुवचनम् इति सामान्यव्यवस्था संस्कृतभाषायाम् । किन्तु एतस्याः अपवादाः अपि सन्ति बहवः ।

व्यावहारिकाः केचन शब्दाः अत्र सड्गृहीताः । २.४.१. प्राणादयः

(१) प्राणाः - सः पञ्चदशे दिनाङ्के प्राणम् अत्यजत् ।

‘प्राणान् अत्यजत्’ इति वक्तव्यम् । असुपर्यायः प्राणशब्दः बहुवचने एव प्रयोक्तव्यः । एवम् ‘असु’शब्दः अपि । तथा च अमरः - ‘पुंसि भूम्न्यसवः प्राणाः’ इति । (पञ्चसु प्राणेषु अन्यतमः प्राणः एकवचनेऽपि अस्ति । स च नात्र उद्दिष्टः ।)

रूपलिङ्गवचनादिदोषाः

37

(२) प्रजाः - प्रजाः राजानं स्वकष्टं निवेदितवन्तः ।

“निवेदितवत्यः’ इति वक्तव्यम् । प्रजाशब्दः नित्यस्त्रीलिङ्गः बहुवचनान्तः च । प्रजाशब्देन अभिधेयाः तु पुरुषाः अपि । तथापि ‘प्रजा’शब्दः स्त्रियाम् इत्यतः तत्सम्बद्धं भूतकृदन्तरूपं स्त्रियाम् एव स्यात् ।। (प्रजाशब्दः अपत्यार्थकः एकवचनान्तः अस्ति । किन्तु स च

अर्थः अत्र न अभिप्रेतः ।) (३) अप्सराः - *उर्वशी नाम अप्सराः भूलोकम् आगता ।

अप्सरश्शब्दः सकारान्तः । सः बहुवचने प्रयोक्तव्यः इति एकं मतम् । तदनुगुणम् ‘अप्सरसः’ इति प्रयोक्तव्यं स्यात् । किन्तु ‘बहुवचनं न नियतम् एतस्य शब्दस्य’ इति वदति अमरकारः । तथा हि - आपः सुमनसो वर्षा अप्सरास्सिकतास्समाः ।

एते स्त्रियां बहुत्वे स्युरेकत्वेऽप्युत्तरत्रयम् ।। इति । एतदनुसारेण अप्सरस्सिकतासमाशब्दाः एकवचनप्रयोगम्

अपि अर्हन्ति । (४) सिकताः - नद्याः सिकतायां बालाः क्रीडन्ति ।

सिकताशब्दस्य एकवचनम् अत्र प्रयुक्तम् । बहुवचनप्रयोगे तु “सिकतासु’ इति स्यात् । सिकताशब्दस्य एकवचनप्रयोगोऽपि अस्ति । प्रामाण्यं तु पूर्वं दर्शितम् । अतः एकवचनान्तप्रयोगः (सिकतायाम् इति), बहुवचनान्तप्रयोगः (सिकतासु इति) वा भवितुम् अर्हति अत्र । भाष्यकारोऽपि एकवचनान्तं प्रयुक्तवान् दृश्यते । तद्यथा - ‘एका च सिकता तैलदानेऽसमर्था

खार्यप्यसमर्था’ इति । (५) अक्षताः - विवाहदिने बान्धवाः अक्षतं विकिरन्ति ।

‘अक्षतम्’ इति एकवचनं दुष्यति । ‘अक्षतान्’ इति बहुवचनं युज्यते । ‘जातौ एकवचनं युज्यते’ इति पक्षम् आश्रित्य अक्षतशब्दस्य एकवचनान्तत्वं न समर्थनार्हम् । अक्षतशब्दः पुंसि बहुत्वे च नियतः । तथा च अमरः - ‘‘भूम्नि चाक्षताः’

  • ‘ऊर्वशी’ इति ऊकारोपेतं रूपम् अपि शुद्धम् ।

शुद्धिकौमुदी

इति । अतः ‘अक्षतान्’ इति बहुवचनान्तप्रयोगः एव साधुः । २.४.२. दारादयः

अन्ये केचन शब्दाः यद्यपि दैनन्दिनव्यवहारे न आधिक्येन प्रयुज्यन्ते, तथापि तेषां वचनज्ञानात् कदाचित् वा लाभः स्यात् एव इति मत्वा

अधः केचन शब्दाः सोदाहरणं दीयन्ते । । अ) दाराः - दशरथस्य दाराः कौसल्या ।

स्त्र्यर्थवाची अपि दारशब्दः पुंसि बहुत्वे च । दाराः =

पत्नी । तथा हि कोशः - ‘भार्या जायाथ ‘भूम्नि दाराः’ इति । आ) लाजाः - कन्याः लाजैः वधूवरौ विकिरन्ति ।

लाजशब्दः पुंसि नित्यबहुवचनान्तः च अस्ति । कोषो यथा - लाजाः पुंभूम्नि चाक्षताः - (अमरः)

आपः - इमाः आपः । ‘अप्’शब्दः स्त्रीलिङ्गः नित्यबहुवचनान्तः । तथा हि कोषः -

(अमरः) ‘आपः स्त्री भूम्नि…’। ई) सुमनसः - स्त्रियः सुमनसः इच्छन्ति ।

सुमनश्शब्दः पुष्पवाचकः । सः सकारान्तः स्त्रीलिङ्गः नित्य बहुवचनान्तः च । वर्षाः - वर्षासु बालाः क्रीडन्ति । वर्षऋतुपर्यायः वर्षाशब्दः स्त्रीलिङ्गः नित्यबहुवचनान्तः च । अमरकोषस्य प्रामाण्यं यथा - “स्त्रियां भूम्नि वर्षाः’ इति । ‘वर्षाभ्यष्ठग्’ (४.३.१८) इति सूत्रकारवचनम् अपि अत्र प्रमाणम् । रामायणप्रयोगो यथा - वर्षास्विव च सुक्षेत्रे सर्वं सम्पद्यते मयि । - किष्किन्धा. ७.२० वर्षाशब्दः ऋतुवाचकः । वृष्टिशब्दः तु वर्षणार्थकः । वृष्टिपर्यायः वर्षशब्दः यः अस्ति सः पुंसि नपुंसके वा । तथा हि कोषः (शब्दार्णवः)- ‘अथ वृष्टिर्वर्षमस्त्री केचिदिच्छन्ति वर्षणम्’ इति । अतः अयं निष्कर्षः भवितुम् अर्हति - ‘वर्ष’शब्दस्य ऋतुवाचकत्वे स्त्रीत्वं बहुत्वं च । वृष्टिवाचकत्वे तु पुंस्त्वं नपुंसकत्वं वा।

रूपलिङ्गवचनादिदोषाः

ऊ) समाः - गतासु समासु सः प्रगतिम् असाधयत् ।

“समा’शब्द स्त्रीलिङ्गः बहुवचनान्तः च प्रायः । अमरकारः वदति - ‘अस्त्री शरत्समाः ।’ तस्य सुधाव्याख्याने लिख्यते - “बहुवचननिर्देशात् प्रायेणायं बहुवचनान्तः इति ध्वनयति । क्वचित् वचनान्तरम् अपि । ‘समां समां विजायते (५.२.१२) इति सूत्रात् । समायां समायाम् इति तत्र भाष्याच्च’’ इति । अतः एकवचनान्तप्रयोगः अपि न दुष्यति । बहुवचनान्तप्रयोगोऽपि

शिष्टसम्मतः । ऋ) जलौकाः - जलौकसः दृष्ट्रा बालाः भीताः ।

जलौकश्शब्दः सकारान्तः । सः नित्यबहुवचनान्तः । तथा हि अमरः - ‘स्त्रियां भूम्नि जलौकसः’ इति । ‘जलौका’ इति आकारान्तोऽपि अस्ति एतस्मिन् एव अर्थे । सः तु सर्ववचनान्तः । पांसवः - पांसुभिः आकीर्णः अस्ति मार्गः । पांसवः नाम धूलयः । पांसुशब्दः पुंसि । प्रायः सः बहु वचनान्तः । ‘पांसवः कस्मात् । पादैः सूयन्ते । पन्नाः शेरत’

इति निरुक्ते (३.१२.१९) निर्वचनं दर्शितम् । ए) सक्तवः - यवप्रस्थं तु तं सक्तूनकुर्वत तपस्विनः ।

___- महा. आश्व. ९०.३३ यवाः भर्जनेन धानात्वम् आप्नुवन्ति । तेषां चूर्णम् उच्यते - ‘सक्तवः’ इति । अयं शब्दः पुंसि बहुवचने प्रयुज्यते । ‘धानाचूर्णं तु सक्तवः’ इति नाममालायाम् । अमरकोषोऽपि वदति - ‘करम्भो दधिसक्तवः’ इति । अतः सक्तुशब्दः बहुवचनान्तः । धानाः - याज्ञिकाः धानाभिः जुह्वति । भृष्टः* यवः ‘धानाः’ इति उच्यते । अयं शब्दः स्त्रीलिङ्गे भूम्नि च । तथा हि अमरकोषः - ‘धानाः भृष्टयवे स्त्रियः’

(अमरः) इति । * ‘भृष्टः’ इत्येतत ‘भ्रस्ज पाके’ इत्यस्य क्तान्तं रूपम् । एतस्मिन् एव अर्थे ‘भर्जित’

शब्दः अपि अस्ति । ‘भूजी भर्जने’ इत्यस्य क्तान्तं रूपं तत् । ‘प्रष्ट शब्दोऽपि कश्चन अस्ति । तस्य त ‘च्युतः’ ‘अधः पतितः’इत्यादयः अर्थाः / ‘भ्रंश अवलंसने” इत्यस्य क्तान्तं रूपं तत् ।

40

शुद्धिकौमुदी

ओ) दशाः - शाटिका दशाभिः शोभते ।

‘दशाः’ नाम वस्त्रान्तभागः । सः स्त्रीलिङ्गः बहुवचनान्तः च । तथा हि कोषः - ‘स्त्रियां बहुत्वे वस्त्रस्य दशाः’ (अमरः)

इति । औ) आव्यः - ततोऽनन्तरमावीनां प्रादुर्भावः ।

  • चरके शारीर. ८.३६ आव्यः नाम प्रसववेदना । अयं शब्दोऽपि बहुवचने स्त्रियां प्रयुज्यते । “गर्भस्पन्दनमावीनां प्रणंशः…’ इति सुश्रुतप्रयोगः

अपि उपोद्वलकः अस्ति । अं) गृहाः - इमे नो गृहाः यावत् प्रविशामि ।

  • मुद्राराक्षसे प्रथमाते पुंलिङ्गः ‘गृह’शब्दः बहुवचनान्तः एव । तथा हि अमरः - ‘गृहाः पुंसि च भूम्न्येव’ इति । पुंलिङ्गविशिष्टस्य गृहशब्दस्य सद्म, कलत्रं चेति अर्थद्वयम् अपि अस्ति । तथा हि मेदिनी - ‘…गृहाश्च पृभूम्नि कलत्रेऽपि च सद्मनि’ इति । ‘गृहम्’ इति नपुंसकलिङ्गविशिष्टः शब्दः अन्यः अस्ति एव ।

तस्य न नित्यबहुवचनान्तता । अः) शोभनाः गन्धाः यस्य सः सुगन्धः आपणः ।

गन्धशब्दः द्रव्यवाची अपि । (गन्धवान् इत्यर्थः । ‘गुणवचनेभ्यो मतुपो लुगिष्टः’ इति लुक्) द्रव्यवाचित्वे तस्य बहुवचनत्वम् । ‘गन्धस्तु सौरभे नृत्ये गन्धके गर्वलेशयोः । स एव द्रव्यवचनो बहुत्वे पुंसि च स्मृतः’ इति कोषात् ।

  • सिद्धान्तकौमुद्याः बालमनोरमाव्याख्या ‘(गन्धस्येत्…’ इति सूत्रे) बुद्धिवैशद्याय एतानि कानिचन उदाहरणानि दर्शितानि । एतेषु केषाञ्चन बहुवचनत्वम् उक्तं दृश्यते चेदपि नियतबहुवचनत्वं न दृश्यते क्वचित् । अतः बहुवचनत्वं प्रायिकं स्यात् केषाञ्चित् । अतः एतेषां प्रयोगावसरे विस्तरेण कोषादिपरिशीलनं निश्चयेन उपकारकं स्यात् ।

रूपलिङ्गवचनादिदोषाः

२.४.३. आत्मशब्दस्य एकवचनता –

  • ते आत्मना कृतं कार्यं श्रेष्ठम् अमन्यन्त । * ते स्वस्य दोषान् ज्ञातवन्तः ।

  • ताः आत्मानं धन्यम् अमन्यन्त । अत्र प्रथमे वाक्ये ‘आत्म’शब्दः एकवचनान्तः। कर्तृपदं तु बहु वचनान्तम् । द्वितीये वाक्ये ‘स्व’शब्दः एकवचनान्तः । कर्तृपदं बहुवचनान्तम् । तृतीये वाक्ये आत्मशब्दः पुंसि एकवचनान्तः । कर्तृपदं स्त्रियां बहुत्वे च । _एतेषु वाक्येषु ‘आत्मभिः कृतम्’ ‘स्वेषां दोषान्’ इत्येवमादिक्रमेण आत्मस्वशब्दादीनां बहुवचनान्तता युक्ता खलु स्यात् इति सन्देहः स्यात् कदाचित् । किन्तु ‘तेषाम् एकवचनान्तत्वेन एव प्रयोगः’ इति तु संस्कृतशैली । तृतीये वाक्ये कर्तृपदस्य स्त्रीत्वे बहुत्वे च सत्यपि आत्मशब्दस्य *पुंस्त्वम् एकत्वं च यदस्ति तत् अपि युक्तम् एव । ‘आत्म’शब्दस्य यथा तथैव आत्मवाचिनः ‘स्व’शब्दस्यापि एक

वचनान्तप्रयोगः एव साधुः । सिद्धान्तकौमुद्याम् अपि पतिः दृश्यते - ‘आत्मवाची स्वशब्दः पुंसि एव’ इति । - (प्रत्ययस्थात्… इति सूत्रे)

विशिष्य कर्तुः बहुत्वे सति आत्मशब्दः यत्र प्रयुज्यते तत्र जागरूकता आवश्यकी । अत्र उपोद्वलकः प्रयोगः यथा -

  • मन्यन्ते सन्तमात्मानमसन्तमपि विश्रुतम् ।
  • महा. प्रजागर. ३४.४५ २.४.४. पादादीनां द्वित्वम्
  • वयं पादाभ्यां गच्छामः । * वयं कर्णाभ्यां शृणुमः । * ते बाहुभ्याम् उन्नयन्ति ।

  • श्रान्ता वयम् । अग्रतः न प्रयातः चरणौ अस्माकम् । एतेषु वाक्येषु पादकर्णबाह्वादीनां द्विवचनान्तता श्रूयते । यद्यपि एते शब्दाः बहुभिः अभिसम्बद्धाः भवन्ति (यतः कर्तृपदं बहुवचनान्तम् अस्ति ।) तथापि तेषां द्विवचनान्तप्रयोगः एव लोके प्रशस्यते ।’

शुद्धिकौमुदी एतद्विषये वामनः वदति - ‘स्तनादीनां द्वित्वविशिष्टा जातिः प्रायेण’ इति । शिष्टपरम्परा अपि एतदनुसारिणी एव दृश्यते । ‘पादेन गच्छति’ इति वाक्ये श्रुते गन्तुः खञ्जता प्रतीयते इव । ‘पादैः गच्छति’ इति वचनं श्रुतिकटुतां स्मारयति । द्विवचनम् एव इच्छति लोकः । अतः एव - ‘चारैः पश्यन्ति राजानः चक्षुभ्याम् इतरे जनाः’ इत्यादयः प्रयोगाः सङ्गच्छन्ते । वामनः स्वसूत्रे ‘प्रायेण’ इति वदन् बहुवचनप्रयोगाणां सद्भावम् अपि सङ्केतयति । ‘शूरबाहुषु लोकोऽयं लम्बते पुत्रवत्सला’ इति भारते, ‘पातुकामेषु वत्सेषु मातृणां शातिताः स्तनाः’ इति रामायणे, इतरत्र चापि बहुवचनप्रयोगोऽपि दृश्यते । तथापि द्विवचनप्रयोगः एव

प्रशस्यते ।

२.४.५. आत्मनि बहुवचनम् -

  • कश्चित् अतिथिः दिनद्वयम् उषित्वा प्रतिगच्छन् वदति - ‘साधयामो वयम्’ इति । * यतिवरः कश्चन राजानं वदति - ‘वयमिह परितुष्टा वल्कलैः त्वं दुकूलैः’ इति (वैराग्य. - ५) * “यो यत्राप्रधानं भवति स आह - गुणभूता वयमत्र इति’’ -

भाष्यकारोक्तिः एषा । (प्राक्क्रीताच्छः - ५.१.१) एतेषु त्रिषु अपि उदाहरणेषु एकत्वविशिष्टः वक्ता आत्मनि बहुत्वम् आरोपितवान् दृश्यते । एतादृशाः प्रयोगाः शिष्टसम्मताः एव । अतः एतादृशानां प्रयोगे न कोऽपि दोषः । ‘अस्मदो द्वयोश्च’ (१.२.५९) इति सूत्रम् अपि अत्र प्रमाणम् । अतः ‘अहं गच्छामि’ ‘आवां गच्छावः’ इत्येतयोः वाक्ययोः स्थाने ‘वयं गच्छामः’ इत्यादीनि वाक्यानि सर्वोऽपि वक्तुम् अर्हति । षड्गुरुशिष्येण वेदार्थदीपिकायाम् उच्यते -

व्याख्येयार्थबहुत्वेन बहुमानेन चात्मनः । व्याख्यात्रात्मन्यथारोप्य बहुत्वं तु प्रयुज्यते ।। यथा हि निधिमासाद्य प्रयुञानस्तु दृश्यते । एते वयं समृद्ध्यर्थाः देवोऽस्मासु प्रसीदतु ।। इति ।रूपलिङ्गवचनादिदोषाः

२.४.६. जातौ एकवचनम्

  • सः आपणतः तण्डुलम् आनीतवान् । * सः आपणतः तण्डुलान् आनीतवान् । अत्र प्रथमे वाक्ये ‘तण्डुलम्’ इति एकवचनान्तप्रयोगः । द्वितीये वाक्ये ‘तण्डुलान्’ इति बहुवचनान्तप्रयोगः । साधुत्वं तु उभयथा

अपि । तण्डुलः नाम निस्तुषः व्रीहिः । सः लघ्वाकारकः । अतः कोऽपि तादृशम् एकम्’ आनेतुं न अर्हति । एवं सति एकवचनान्तप्रयोगः किं

युज्यते इत्यस्ति सन्देहस्य अवसरः । तण्डुलगता तण्डुलत्वरूपा जातिः एका एव । तत् एकत्वं मनसि निधाय एकवचनान्तप्रयोगः । तण्डुलानां बहुत्वम् अवलम्ब्य बहु

वचनान्तप्रयोगः अपि । २.४.७. सर्वशब्दः एकवचनान्तः अपि

  • सर्वे सदस्याः कार्यक्रमे उपस्थिताः आसन् । * सर्वः सदस्यः प्रतिज्ञावचनम् उच्चारितवान् । अत्र वाक्यद्वयम् अस्ति । प्रथमे वाक्ये सर्वशब्दः बहुवचनान्तः प्रयुक्तः । द्वितीये वाक्ये स एव एकवचनान्तः प्रयुक्तः । सर्वशब्दस्य बहुवचनोपेतस्य प्रयोगः सर्वासु भारतीयभाषासु सहजः । अतः तादृशः प्रयोगः विना विरोधम् अङ्गीक्रियते सर्वैः । किन्तु एकवचनान्तप्रयोगे (द्विवचनान्तप्रयोगे च) विवदन्ते ते । ‘कथं तत् ?’ इति जिज्ञासा तेषाम् । एतद्विषये सिद्धान्तकौमुद्याः टीकायां बालमनोरमाख्यायाम् एवम् उच्यते -

“न च सर्वशब्दस्य बहुत्वव्यापकसर्वत्वात्मकधर्मविशेषप्रवृत्ति एतदपि अत्र स्मर्तव्यम् - सर्वशब्दस्य साकल्यादयः अर्थाः । यदा तु तेन परिमाणं ज्ञाप्यते तदा सङ्ख्यायाः अनुद्भुततया भानम् । अतः एकवचनान्तंता । प्रयोगो यथा - सर्व वृत्तान्तं सः निवेदितवान् ।

एतम् एकवचनान्तं प्रयोगं सर्वे अभ्युपगच्छन्ति एव । यत्र सङ्घया उद्भुततया भासते तत्र कथम् एकवचनान्तता इति बहूनां जिज्ञासा ।

.

शुद्धिकौमुदी

निमित्तकत्वात् बहुवचनम् एव न्याय्यम् इति वाच्यम् । सर्वशब्दो हि बह्ववयवारब्धसमुदाये वर्तते । तत्र यदा अनुभृतावयवः समुदायः विवक्षितः तदा भवत्येकवचनम् । यथा - सर्वो लोकः इति । अनुद्भूतत्वम् अविवक्षितसंख्याकत्वम् । यदा तु अनुभृतावयवकौ समुदायौ तदा द्विवचनम् । यथा - सौं व्यूहौ इति । यदा तु उद्धृतावयवसमुदायः तदा बहुवचनम् । यथा - सर्वे

जनाः इति ।” तात्पर्यम् इत्थम् - सर्वशब्दः बहुभिः अवयवैः युक्तः । । अवयव गतसंख्याः यदा मनसि निधीयन्ते तदा बहुवचनम् । यदा सा न विवक्ष्यते तदा समुदायगतम् एकत्वम् अवलब्म्य एकवचनम् । एवमेव द्विवचनस्थले अपि चिन्तनीयम् । प्राचीनप्रयोगाः यथा -

सर्वः स्वार्थं समीहते । - माघः. २.६५ न हि सर्वः सर्वं जानाति ।

  • सर्वस्य द्वे - पाणिनिसूत्रम् - ८.१.१. २.४.८. आदरार्थे बहुवचनम् ?
  • इदानीम् अध्यक्षमहाभागः भाषणं करोति ।

  • इदानीम् अध्यक्षाः भाषणं कुर्वन्ति । अत्र प्रथमे वाक्ये आदरसूचनाय महाभागशब्दः प्रयुक्तः, एक वचनान्तता च प्रयुक्ता । द्वितीये वाक्ये च बहुवचनान्तप्रयोगः कृतः आदरोद्देशेन । वर्य-महाभाग-महाशयप्रभृतयः आदरं द्योतयन्ति । अतः आदरार्थे तेषाम् उपयोगः युक्तः एव । व्यक्तेः एकत्वम् अवलम्ब्य एकवचनान्तप्रयोगः । एकवचनान्तप्रयोगः आदरं नाशयति इति न कुत्रापि निर्दिष्टम् अस्ति । अतः आदराहें जने एकवचनान्तप्रयोगः न कदापि दुष्यति । आदरार्हेषु जनेषु एकवचनान्तप्रयोगः बहुधा दृश्यते संस्कृतसाहित्ये । अतः एषा प्रयोगपरिपाटी शिष्टसम्मता एव । द्वितीये वाक्ये आदरदर्शनाय बहुवचनान्तता प्रयुक्ता। प्रादेशिकभाषासु आदरद्योतनाय बहुवचनान्तप्रयोगः क्रियमाणः दृश्यते । तां परिपाटीम् अनुकुर्वन्तः बहवः आदरप्रदर्शनाय बहुवचनान्तत्वं प्रयुञ्जते प्रायेण ।

रूपलिङ्गवचनादिदोषाः

एतस्य न कापि आवश्यकता । किन्तु एकत्वविशिष्टे जने बहुवचनान्तप्रयोगः संस्कृतभाषायां नास्तीति न । ‘आचार्याः आगताः’ (‘आचार्यः आगतः’ इत्यर्थे) इति प्रयोगः श्रूयते । प्रयोगममुं समर्थयति नागेशः लघुमञ्जूषायां सङ्ख्याविचार प्रकरणे । “यत्र कोषाधुदासीनं तत्र यथेच्छम् एकस्मिन्नप्याचार्या आगता, आचार्य आगत इत्यादिप्रयोगात्’ इति नागेशस्य पनि । अतः बहुवचनान्तप्रयोगः अशिष्टः इति वक्तुं तु न शक्यते । एवं तर्हि व्यवहारे एकवचनान्तप्रयोगस्य अनुकरणं वरम्, उत बहु वचनान्तप्रयोगस्य ? ‘एकवचनान्तप्रयोगस्य’ इत्येव उत्तरम् । बहु वचनान्तप्रयोगमोहस्य त्यागः वरम् । एकवचनान्तप्रयोगः एव संस्कृतक्षेत्रे बाहुल्येन इत्यतः तस्यैव अनुसरणं श्रेयसे । “एक-वचनान्तप्रयोगः आदरहानि कुर्यात्’ इति शङ्का आदौ उत्पाटनीया । एतदत्र स्मर्तव्यम् – “गुरावात्मनि बहुवचनम्’ इति वचनम् अनुसृत्य ‘आचार्याः आगताः’ ‘वयमिह परितुष्टाः….।’ ‘साधयामो वयम्’ इत्यादयः प्रयोगाः कृताः दृश्यन्ते प्राचीनैः । सर्वत्र बहुवचनान्तप्रयोगः

कृतः न दृश्यते । २.४.९. कर्तृकर्मणोः बहुत्वेऽपि क्रियापदस्य एकवचनान्तता

रामः लक्ष्मणः सीता च गच्छति/गच्छन्ति । अत्र रामः लक्ष्मणः सीता चेति कर्तारः त्रयः । समुदितानाम् एतेषां त्रयाणाम् अपि क्रियायां यदा अन्वयः इष्यते तदा क्रियापदस्य बहुवचनत्वम् । ‘गच्छन्ति’ इति प्रयोगः । यदा च चकारप्रयोगबलात् एकैकस्यापि क्रियायां स्वातन्त्र्येण अन्वयः, तदा क्रियापदस्य एक वचनत्वम् अपि सङ्गतम् एव । अतः ‘गच्छति’ इति एकवचनान्तप्रयोगः अपि साधुः एव । किम् अत्र प्रमाणम् ?

अधोनिर्दिष्टानि कानिचन उदाहरणानि परिशील्यन्ताम् । १) आदित्यचन्द्रावनिलोऽनलश्च

द्यौर्भूमिरापो हृदयं यमश्च । अहश्च रात्रिश्च उभे च सन्ध्ये

धर्मश्च जानाति नरस्य वृत्तम् ।।

शुद्धिकौमुदी

अत्र कर्तृपदानि बहूनि, तथापि क्रियापदम् एकवचनान्तम् एव । २) तस्मात् ब्राह्मणराजन्यौ वैश्यश्च न सुरां पिबेत् ।

  • मनु, ११.९३ ३) तस्य राज्यं च कीर्तिश्च प्रतापश्चापि वर्धते ।

___- रामायणम् - ४.२१.११ ४) चरः शरीरावयवाः स्वभावो धातवः क्रिया ।

लिङ्गं प्रमाणं संस्कारो मात्रा चास्मिन् परीक्ष्यते ।।

  • चरके सूत्र.२७.३३१ ’ महाभाष्यस्य प्रयोगः अपि अत्र अपरं प्रमाणम् । भाष्यप्रयोगो यथा - “अभ्याजेत्युक्ते क्रिया निर्दिष्टा, कर्तृकर्मणी गुणश्च अनिर्दिष्टः”

(१.२.४४.) इति । कर्तरि प्रयोगे यथा तथैव कर्मणि प्रयोगे अपि । तन्नाम तत्रापि कर्मणः बहुत्वेऽपि चकारप्रयोगबलात् एकैकस्यापि क्रियायाम् अन्वयः यदा

भवति तदा क्रियापदस्य एकवचनत्वम् अपि । २.४.१०. “दम्पती’

१) अद्य कार्यक्रमे दम्पती आगता आसीत् ।

‘दम्पती आगतौ आस्ताम्’ इति द्विवचनान्तप्रयोगः साधुः । ‘दम्पती’ इत्येषः न हि ईकारान्तैकवचनान्तः । इकारान्तद्विवचनान्तं

रूपं तत् । जाया च पतिः च इति विग्रहः । जायाशब्दस्य दम्भावः निपात्यते । तस्मात् ‘दम्पती’ इति द्विवचनान्तं रूपं सिद्धं भवति ।

अन्यच्च ‘आगता’ इति स्त्रीलिङ्गप्रयोगः अपि अत्र दुष्यति । २) अद्य कार्यक्रमे दम्पतयः आगताः आसन् ।

साधु वाक्यम् एतत् । ‘दम्पतयः’ इति रूपं युक्तम् । किन्तु विग्रहवाक्यं कथं वक्तव्यम् ? ‘पतिपत्नीयुगलानि बहूनि आगतानि आसन्’ इति वक्तुः तात्पर्य तु अवगम्यते एव । युगलभावं मनसि निधाय ‘दम्पती च दम्पती च’ इति विग्रहवाक्यं न वक्तव्यम् । प्रत्युत ‘जायाश्च पतयः च’ इति विग्रहवाक्यं वक्तव्यम् ।

रूपलिङ्गवचनादिदोषाः

३) कार्यक्रमं रघुनाथदम्पती आगतौ आस्ताम् ।

अयुक्तं वाक्यम् एतत् । भाषान्तरस्य अनुकरणं कुर्वद्भिः अविचार्य क्रियमाणः अयं प्रयोगः असाधुः । ‘दम्पती’ इत्यत्र द्वौ स्तः । तयोः अन्यतरः एव रघुनाथः (पतिशब्दवाच्यः) यदि पतिः रघुनाथः नाम्ना निर्देष्टुम् इष्यते तर्हि ‘सपत्नीकः रघुनाथः आगतः आसीत्’ इति, ‘रघुनाथः तत्पली च आगतौ आस्ताम्’ इति वा वाक्यप्रयोगः भवितुम् अर्हति । ‘लक्ष्मीः रघुनाथश्चेति दम्पती आगतौ आस्ताम्’ इति, ‘लक्ष्मीरघुनाथौ दम्पती आगतौ आस्ताम्’

इति वा प्रयोगः अपि सम्भवति । ४) कस्मिंश्चित् ग्रामे कृषकदम्पती वसतः स्म ।

न कोऽपि दोषः अत्र । कृषकौ च तौ दम्पती च कृषकदम्पती । कृषकशब्दः विशेषणम् । (पूर्वस्मिन् उदाहरणे तु रघुनाथपदं न विशेषणम् आसीत् । अतः आपत्तिः उक्ता ।) ५) कार्यक्रमे दम्पतीगणः उपस्थितः आसीत् ।

“दम्पतिगणः’ इति शब्दप्रयोगः साधुः । जाया च पतिश्च दम्पती । जायाश्च पतयश्च दम्पतयः । तेषां दम्पतीनां गणः दम्पतिगणः । षष्ठीतत्पुरुषः अत्र । पूर्वपदस्य विभक्तेः लोपः । तस्मात् ‘दम्पतिगणः’ इति रूपम् । पूर्वपदस्य अन्ते स्थितस्य इकारस्य दीर्घः न केनापि सूत्रेण विहितः । “दम्पती’ इत्यस्य इकारान्तद्विवचनान्तत्वं विस्मृत्य भ्रान्त्या ईकारान्तत्वं विचिन्त्य ‘दम्पतीगणः’ इति प्रयोगः कृतः स्यात् ।

3A

शुद्धिकौमुदी