००

प्रास्ताविकम् (द्वितीयमुद्रणस्य)

यस्तु प्रयुङ्क्ते कुशलो
विशेषो शब्दान् यथावद् व्यवहारकाले ।
सोऽनन्तमाप्नोति जयं
परत्र वाग्योगविद् दुष्यति चापशब्दैः ।।

  • का.सू. - २.४ - (व्याख्याने)

गौः कामदुघा सम्यक् प्रयुक्ता स्मर्यते बुधैः । दुष्प्रयुक्ता पुनर्गोत्वं प्रयोक्तुः सैव शंसति ।।
– दण्डी

शुद्धिकौमुदुद्याः परिवर्धिता परिष्कृता आवृत्तिः एषा । प्रथममुद्रणस्य अनन्तरम् अवधानपथम् आगतान् परिष्कारांशान्, योजनीयत्वेन स्मृतान् अंशान् च समायोज्य द्वितीयावृत्तिः एषा सज्जीकृता अस्ति ।

एतस्य पुस्तकस्य उपयोगात् विशेषलाभं प्राप्तवतः बहवः साधुवादं प्रकटित वन्तः सन्ति । विश्वविद्यालयेन एकेन पाठ्यपुस्तकत्वेन अपि (शोधच्छात्राणां कृते) पुस्तकमिदम् उपयुज्यमानम् अस्ति इति श्रूयते । कश्चित् शोधार्थी एतत् पुस्तकम् अवलम्ब्य विद्यावरिध्युपाधिनिमित्तं गवेषणकार्यम् आरब्धवान् अस्ति इत्यपि श्रूयते । एतादृशाः एव अंशाः प्रमाणयन्ति यत् पुस्तकमिदं भाषाशद्धिम् इच्छतां विशेषलाभाय जायमानम इति ।

उपयोक्तारः एव एतस्य द्वितीयमुद्रणस्य कारणीभूताः । अतः ते भवन्ति विशेषतः धन्यवादार्हाः । मुद्रकाय, अन्येभ्यः सहकारिबन्धुभ्यः चापि कृतज्ञताः

समर्प्यन्ते सहार्दम् ।

  • कृतिकारः

सर्वधारि सं।। ज्येष्ठशुक्लप्रतिपत्

४.६.२००८

शुद्धिकौमुदी

प्रास्ताविक किञ्चित्.. (प्रथममुद्रणस्य)

वागेवार्थं पश्यति वाग्ब्रवीति वागेवार्थं निहितं सन्तनोति । वाच्येव विश्वं बहुरूपं निबद्धं तदेतदेकं प्रविभज्योपभुते ।।

– वाक्यपदीये (१.११८) उदाहृतम् शास्त्रेषु नैपुणी येषां तेऽपि मुह्यन्ति कुत्रचित् । किं पुनः शिक्षमाणानां वाक्प्रपञ्चो विलक्षणः । किं शुद्धं किमशुद्धं स्यादिति कष्टं विवेचनम् । तस्मादेषालम्बयष्टिः प्रकृता शुद्धिकौमुदी ।।

(प्रकृताः = कर्तुम् आरब्धा । आदिकर्मणि क्तः) वयं सर्वे भाषया व्यवहरामः । भावान् अभिव्यञ्जयितुम् उत्कृष्टं साधनम् अस्ति भाषा । अतः एव ‘संस्कृतेन वदामि’ इति वाक्यं वदामः वयम् । अत्र ‘संस्कृतेन’ इति करणे तृतीया ।

किं भावाभिव्यञ्जनमात्रम् एव भाषायाः परमं प्रयोजनम् ? यदि भावाभिव्यक्तिः एव परमं प्रयोजनं तर्हि प्रयुज्यमाना भाषा शुद्धा एव भवेत् इति कथनम् अनुचितं स्यात् । यतः अशुद्धैः पदैः अपशब्दैः चापि वक्तुः तात्पर्यम् अवगम्यते एव ।

कश्चन भक्तः वदति -

अज्ञो वदति विष्णाय ज्ञानी वदति विष्णवे ।

द्वयोरपि फलं तुल्यं भावग्राही जनार्दनः ।। इति । भगवान् विष्णुः यथा भावग्राही तथैव जनाः अपि भावग्राहिणः एव । तस्मात् अपशब्दं श्रुत्वापि भावं तु गृह्णन्ति एव ते । एवं तर्हि शुद्धतायाः का आवश्यकता?. साधुशब्दाः एव प्रयोक्तव्याः इति नैर्भर्येण किम् ?

‘अहं स्वागतं कारयामास’ इति केनचित् सभायाम् उक्तं वाक्यं श्रुत्वा वयं

वर्तमानकालस्य बोधं तु प्राप्नुमः एव । यदि भावाभिव्यक्तिमानं भाषायाः लक्ष्यं तर्हि एतादृशानि वाक्यानि अपि अनुमन्तव्यानि भवेयुः, यतः एतानि अपि बोधं तु कारयन्ति एव । एवं तर्हि व्यवहारे शुद्धतायाः किं पात्रम् ? ___ भाषाशुद्धिः किमर्थं वा चिन्तनीया ?

एतस्य उत्तरप्राप्त्यर्थं बहु चिन्तनीयं नास्ति । भाषाशुद्धिः यदि परिरक्षिता न भवेत् तर्हि किं केनचित् उक्तम् अन्येन अवगम्येत ? ‘गोणीम् आनय’ इत्युक्ते कश्चित् शणसूत्रनिर्मितं बृहदाकारकं स्यूतविशेषम् आनयेत् । वाक्यप्रयोक्त्रा तु ‘गो’पदार्थे गोणीशब्दः प्रयुक्तः आसीत् ! गोता-गोपोतलिकादयः केनचित् प्रयुक्ताः अपरेण अनवगताः भवेयुः । एवम् अपशब्दबाहुल्ये साधुशब्दस्य अभावे वाग्व्यवहारः एव क्लेशाय भवेत् ।

संस्कृतं तु समग्रे देशे अस्ति । देशस्य विस्तारकारणतः अपशब्दाः बहवः भवेयुः एव । यद्यत्र व्यवस्था काचित् न स्यात् तर्हि उत्तरदेशीयेन लिखितः ग्रन्थः दाक्षिणात्येन अवगतः न भवेत्, पूर्वदेशीयेन लिखितं पश्चिमदेशीयेन नावगम्येत, कष्टेन अवगम्येत वा । एवमेव प्राचीनैः लिखितम् आधुनिकैः अपि नावगम्येत ।

इदानीं यदि प्राचीनैः लिखितम् अस्माभिः अवगम्यते, देशस्य एकस्मिन् कोणे लिखितम् अपरस्मिन् कोणे स्थितेन अवगम्यते तर्हि तस्य कारणम् - व्याकरण नियमानुसरणम् एव, तन्नाम साध्वसाधुचिन्तनव्यवस्थायाः अनुसरणम् एव । ___ अथवा केनचित् प्रयुक्तात् ‘गोणी’शब्दात् यदि गोः ज्ञानम् अन्येन प्राप्तं तर्हि तत्र मुलं कारणं साधुशब्दज्ञानम् एव । साधुशब्दसादृश्यात् एव तेन अपभ्रंशस्य असाधुशब्दस्य अर्थः अवगतः । एवं च असाधुशब्दात् यत् ज्ञानं प्राप्यते तत् अपि साधुशब्दकारणात् एव ।

इदं च केषाञ्चित् शास्त्रकाराणां मतमिति भर्तृहरिः वदति - ते साधुष्वनुमानेन प्रत्ययोत्पत्तिहेतवः।

  • वाक्यपदीये - १.१४९ [ते अपशब्दाः साधुशब्दानां स्मारणेन ज्ञानोत्पत्तेः कारणानि भवन्ति ।]

एवं साधौ प्रयोक्तव्ये योऽपभ्रंशः प्रयुज्यते । तेन साधु व्यवहितः कश्चिदर्थोऽभिधीयते ।।

  • वाक्यपदीये- १.१५२ [यत्र साधुशब्दः प्रयोक्तव्यः आसीत् तत्र अपभ्रंशः प्रयुज्यते चेत् साधुशब्दस्य स्मरणस्य कारणतः अर्थस्य प्रतीतिः भवति ।]

एवं च साधुशब्दमन्तरा अर्थबोधः न भवति । यत्र अपशब्दात् अपि अर्थबोधः भवति तत्र सर्वत्र मूलं कारणं भवति साधुशब्दस्य स्मरणम् एव ।

vill

शुद्धिकौमुदी अतः एव भाष्यकारः पस्पशाह्निके व्याकरणप्रयोजननिरूपणावसरे ‘रक्षोहागम लघ्वसन्देहाः प्रयोजनम्’ इति वदन् असन्देहं प्रयोजनेषु अन्यतमत्वेन अवदत् ।

साधुशब्दज्ञानं तु व्याकरणात् एव सिद्धयति इति जानाति पामरः अपि । अत एव उच्यते -

यद्यपि बहु नाधीषे ग्रन्थान् तथापि पठ पुत्र व्याकरणम् । स्वजनः श्वजनो मा भूत् सकलः शकलः सकृच्छकृत् ।। इति । भर्तृहरेः एतानि वचनानि श्रूयन्ते - साधुत्वज्ञानविषया सैषा व्याकरणस्मृतिः ।

  • वाक्यपदीये- १.१४१ [व्याकरणशास्त्रं शब्दानां साधुत्वज्ञानस्य कल्पनाय एव प्रवृत्ता अस्ति ।] तस्मात् निबध्यते शिष्टैः साधुत्वविषया स्मृतिः ।

  • वाक्यपदीये - १.२९ बहुप्रयोजनलाभात् हेतोः एव पाणिनिप्रभृतयः शिष्टाः शब्दसाधुत्वविषयं व्याकरणशास्त्रं रचितवन्तः सन्ति ।] .

तत्त्वावबोधः शब्दानां नास्ति व्याकरणाहते ।

  • वाक्यपदीये - १.१३ [शब्दसाधुत्वज्ञानाय व्याकरणात् ऋते न अन्यत् किमपि साधनम् अस्ति ।

एवं तर्हि किं तत् साधुत्वं नाम ? तस्य साधुत्वस्य लक्षणं किम् ? असाधुत्वस्य च लक्षणं किम् ?

असाधुशब्दस्य (अपभ्रंशस्य) लक्षणम् एवम् उक्तम् अस्ति वाक्यपदीये शब्दः संस्कारहीनो यो गौरिति प्रयुयुक्षिते । तमपभ्रंशमिच्छन्ति विशिष्टार्थनिवेशिनम् ।।

-१.१४७ [सास्नादिमान् पशुः गौः । ‘गौः’ इति प्रयोक्तव्ये तस्मिन् एव अर्थे संस्कारहीनाः गावीगोण्यादयः यदि प्रयुक्ताः स्युः तर्हि ते ‘अपभ्रंशाः’ इति उच्यन्ते विद्वज्जनैः ।]

संस्कारहीनः अपशब्दः भवति इत्यतः सिद्धं यत् ‘संस्कारवान् भवति साधुशब्दः’ इति । संस्कारः नाम व्याकरणसंस्कारः । प्रकृतिप्रत्ययादिविवेकसहितत्वम् एव स च संस्कारः । ‘व्याकरणनियमानुगुणत्वं’ साधुत्वस्य प्रथमं लक्षणम् इति वयं वक्तुं शक्नुमः ।

प्रकृतिप्रत्ययादिविवेकः पाणिनिव्याकरणात् अवगम्यते । ‘सूत्रेष्वेव हि तत्सर्वं यद् वृत्तौ यच्च वार्तिके’ इति वचनं श्रूयते । तस्मात् पाणिनिव्याकरणशब्देन त्रिभिरपि मुनिभिः यत् उक्तम्, अनन्तरकाले शिष्टैः वैयाकरणैः च यत् उक्तं तत्सर्वम्

अपि सङ्गृहीतं भवति ।

सूत्रानुसारी प्रयोगः साधुशब्दः । उत्सूत्रश्च असाधुशब्दः (अपशब्दः) इति तात्पर्यम् । ___ ‘कोषाधनुगृहीतत्वम्’ अपि साधुत्वस्य अपरं लक्षणम् । यद्यपि कोषकाराः सूत्रोक्तान् एव विषयान् विशदीकुर्वन्ति, तस्मात् व्याकरणानुगुणत्वकथनेनैव अयम् अंशोऽपि सङ्गृहीतः भवति, तथापि वैशद्याय अयमंशः पार्थक्येन उक्तः । ___ ‘विंशत्याद्याः सदैकत्वे’ ‘तासु चानवतेः स्त्रियः’ ‘गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति’ इत्यादीनि कोषवाक्यानि अवलम्ब्य एव अस्माभिः व्यवहारः व्यवस्थाप्यते । लिङ्गादिनिश्चये तु कोषकारादयः एव शरणम् ।

एतादृशानि व्याकरणशास्त्रस्य उक्तिम्, इङ्गितं, ज्ञापकं वा अवलम्ब्य लिखितानि भवन्ति । अतः एतेषाम् अपि प्रामाण्यम् अस्ति एव ।

“शिष्टप्रयुक्तत्वम्’ अपि साधुत्वनिश्चयस्य अपरं मानम् । व्याकरणम् आधिक्येन पदानि एव संस्करोति इत्यतः वाक्यानां साधुत्वचिन्तनाय शिष्टप्रयोगः एव शरणं भवति । क्वचित् अनेकैः प्रकारैः प्रकृतिप्रत्ययादिकं वक्तुं शक्यते । विभक्त्यादिप्रयोगः समर्थयितुं शक्यते । तादृशे अवसरे कः मार्गः आश्रयणीयः इत्यत्र शिष्टप्रयोगः एव प्रमाणत्वेन स्वीक्रियते । ‘यदि शिष्टाः शब्देषु प्रमाणं किमष्टाध्याय्या क्रियते ? शिष्टपरिज्ञानार्थाष्टाध्यायी’ इति भाष्यवचनम् अपि अत्र उपोद्बलकम् अस्ति ।

उदाहरणानि यथा -

• अर्हशब्दयोगे कृयोगलक्षणा षष्ठी । लोकः तु तम् अनादृत्य द्वितीयां प्रयुके ।

‘पृथिवीराज्यम)ऽयं नाङ्गराज्यं नरेश्वर’ (भारत. आदि. १९.१२) ‘अर्हः पूरुरिदं राज्यं यः सुतः प्रियकृत्तव’ (भारत. आदि. ८५.३१) इत्यादिषु अनेकेषु प्रयोगेषु अर्हशब्दयोगे द्वितीया एव दृश्यते । अतः एव सूत्रकारोऽपि ‘तदर्हम्’ (५.१.११७) इति सूत्रे ‘तत्’ इति द्वितीयान्तं प्रयुङ्क्ते । “विधिम् अर्हति’ इति उदाहरणं प्रदर्श्य कौमुदीकारः द्वितायान्तादेव प्रत्ययः इति स्फुटीकुर्वन् ‘तत्’ इत्यस्य द्वितीयान्ततां विशदीकरोति । . ‘दृशेश्च’ इति वार्तिकेन अणि कर्तुः णौ कर्मसंज्ञा विहिता । किन्तु लोके चतुर्थी

अपि बहुधा दृश्यते इत्यतः चतुर्थी अपि अङ्गीक्रियते । लिङ्गादिविषये तु शिष्टव्यवहारः एव बहुत्र प्रमाणत्वेन अङ्गीक्रियते । अतः एव

‘लोकाश्रयत्वात् लिङ्गस्य’ इति वचनं बहुधा प्राप्यते व्याकरणशास्त्रे । . “ते आत्मनः दोषम् अवगतवन्तः’ इत्यादिषु आत्मशब्दस्य एकत्वं तु शिष्ट

प्रयोगबलात् एव निर्णीतम् ।

1B

शुद्धिकौमुदी

एवम् अनेकेषु स्थलेषु शिष्टप्रयुक्तत्वम् एव प्रमाणं भवति । अतः एव चारुदेवशास्त्रिणः वाग्व्यवहारादर्श वदन्ति -

“इदं तावत् व्यवस्थितं यां वाग्वर्तनीम् अनुवर्तन्ते शिष्टाः तामेव अनुविवृत्सति लोकः । का नाम निरवद्या वाक्यप्रणीतिरिति शिष्टपद्धतेरेव शक्यमअसा विज्ञातुम् । तत्र हि ते एव प्रमाणं, न इतरे । तन्मुखप्रेक्षी लोको यथाजातीयकं वाग्विन्यासं ते प्रयुञ्जते तथाजातीयकमेव सः प्रमाणीकुरुते । यथाविधया तं तमर्थं सन्दृभन्ति तामेव अनुकरोति लोकः । व्याकरणे च पदान्येव संस्क्रियन्ते, न वाक्यानि । तेन न तदायत्तो वाक्यसाधुत्वप्रत्ययः । वाक्यं च न केवलं साध्विष्यते साधीयश्च, साधिष्ठमपि चेष्यते । इदं च तारतम्यं शिष्टप्रयोगतोऽवसातव्यं भवति नान्यतः । अनलङ्कर्मीणं तत्र

व्याकरणम्” इति । एवं साधुत्वस्य त्रीणि लक्षणानि -

१. व्याकरणनियमानुगुणत्वम् २. कोषाद्यनुगृहीतत्वम्

३. शिष्टप्रयुक्तत्वं चेति । अथवा “त्रिकालाबाध्यत्वं साधुत्वम्’ इत्यपि सङ्ग्रहेण वक्तुं शक्यते । साधुशब्दविवेचनम् एव व्याकरणशास्त्रस्य प्रवृत्तौ हेतुः । भगवता पाणिनिना अपि एतदर्थम् एव अष्टाध्यायी रचिता । व्याकरणेन न हि शब्दाः उत्पाद्यन्ते, अपि तु व्युत्पाद्यन्ते (व्याक्रियन्ते अनेन शब्दाः इति व्याकरणम्) इत्येतदत्र स्मरणीयम् अस्माभिः । प्रयुज्यमानान् सर्वान् शब्दान् मनसि आकलय्य प्रकृतिप्रत्ययव्यवस्थां कल्पयामास पाणिनिः । तेन भाषायाः अवगमने लाघवम् अपि सिद्धम् । एकस्य अकारान्तस्य शब्दस्य प्रक्रियां यः जानाति सः अकारान्तानां सर्वेषां प्रक्रियां ज्ञातुम् अर्हेत् एव । क्तिन्नन्तानां प्रक्रियां यः जानाति सः वाक्प्रपञ्चे स्थितानां सर्वेषां क्तिनन्तानां रूपाणि ज्ञातुं प्रभवति । एवमेव इतरत्रापि । तस्मात् एव लाघवम् ।

पाणिनिना महता प्रयासेन सर्वे शब्दाः व्युत्पादिताः । तदपि चतुस्सहस्रमितैः सूत्रैः । एतस्मात् कारणात् एव जगति परमोत्कृष्टम् एकं व्याकरणं सिद्धम् अभवत् । पाणिनीयव्याकरणविषये एवं हि श्रूयते -

पाणिनीयं महाशास्त्रं पदसाधुत्वलक्षणम् । सर्वोपकारकं ग्राह्यं कृत्स्नं, त्याज्यं न किञ्चन ।। इति ।

पाणिनेः महतः व्याकरणस्य रचनायाः अनन्तरम् अपि केचन शब्दाः अव्युत्पादिताः एव स्थिताः । तान् सङ्गृह्य वररुचिः वार्तिकानि रचयामास । भाष्यकारः पतञ्जलिः सूत्रकारस्य वार्तिककारस्य च आशयान् विशदीकृतवान्महाभाष्याख्ये स्वग्रन्थे । मीमांसान्यायादिशास्त्राणां टीकाग्रन्थाः केवलेन ‘भाष्य’शब्देन निर्दिश्यन्ते । परं पातञ्जलं भाष्यं तु ‘महाभाष्य’शब्देन । एतस्मात् .

एव एतस्य वैशिष्ट्यं ज्ञातुं शक्यते । तथा च उक्तं पुण्यराजेन ‘कृतेऽथ पतञ्जलिना’ इति वाक्यपदीयकारिकाव्याख्यानावसरे - “तच्च भाष्यं न केवलं व्याकरणस्य निबन्धनं यावत्सर्वेषां न्यायबीजानां बोद्धव्यमित्यत एव सर्वन्यायबीजहेतुत्वादेव महच्छब्देन महाभाष्यमित्युच्यते लोके’ इति । ____एते सूत्रकार-वार्तिककार-भाष्यकाराः आचार्याः व्याकरणस्य । अतः “त्रिमुनिव्याकरणम्’ इत्येव प्रसिद्धिः एतस्य व्याकरणस्य । साधुत्वनिर्णयाय या परिष्कृता व्यवस्था आवश्यकी आसीत् सा एतेन व्याकरणेन परिकल्पिता।

संस्कृतक्षेत्रे महता प्रमाणेन साहित्यं सृष्टम् अस्ति । यद्यपि तत्साहित्यगतानि काव्यानि पाणिनीयव्याकरणानुगुणतया एव रचितानि, तथापि तेषु अपाणिनीयाः प्रयोगाः न सन्ति एव इति न । स्थितस्य गतिः चिन्तनीया इत्यतः तादृशान् प्रयोगान्

• सङ्गृह्य शरणदेवः ‘दुर्घटवृत्तिं’ रचयामास । प्रकारान्तरेण येषां समर्थनं शक्यं ते तत्र समर्थिताः,ये सर्वथा समर्थनानौंः ते तिरस्कृताः च ।

“दुर्घटानां - लक्ष्येषु कृच्छ्रघटनीयानां पाणिनीयसूत्राणां वृत्तिः - लक्ष्यानुसारितया विवरणम् इति व्युत्पत्त्या अस्याः (कृतेः) तथा (दुर्घटवृत्तिरिति) व्यवहारः । लक्षणेषु कृच्छ्रघटनीयानां लक्ष्याणां लक्षणानुगततया विवरणम् इति व्युत्पत्त्या वा व्यपदेशः” इति दुर्घटवृत्त्याः प्रस्तावनायाम् उक्तमस्ति । अष्टाध्यायीक्रमेण केषाञ्चित् सूत्राणां विवरणं कृत्वा तत्सम्बद्धानां काव्योदाहरणानां साधुत्वं कथं वक्तुं शक्येत इति तत्र चिन्तनं कृतम् ।

तदर्थं तेन अवलम्बिताः अंशाः प्रायः एते -

. प्रकृत्यन्तरकल्पना । . प्रत्ययान्तरसद्भावकल्पना । . गणकार्यस्य उपलक्षणत्वम् ।

• नियमानां प्रायिकत्वकथनम् ।

• संज्ञापूर्वकविधेः अनित्यता ।

व्यवस्थितविभाषा-योगविभागाद्याश्रयणम् ।

.ज्ञापकपरिभाषादीनाम् अवलम्बनम् । साधुत्वप्रतिपादनाय, स्थितस्य गतेः चिन्तनाय वा प्रायः सर्वैः अपि एतादृशाः एव अंशाः अवलम्बनीयाः भवन्ति ।

शरणदेवस्य अनन्तरम् एतस्मिन् साध्वसाधुचिन्तनक्षेत्रे प्रवृत्तः प्रमुखः प्रयत्नः चारुदेवशास्त्रिणाम् एव प्रायः । चारुदेवशास्त्रिभिः “शब्दापशब्दविवेकः’

शुद्धिकौमुदी ‘वाग्व्यवहारादर्शः’ इत्येतस्मिन् कृतिद्वये विस्तरेण साध्वसाधुचिन्तनं कृतम् । शास्त्रिणः शब्दापशब्दविवेकस्य प्रस्तावनायां लिखन्ति - ‘अत्र विषये शरण देवविरचितां दुर्घटवृत्तिम् अतिरिच्य न काचित् कृतिर्विद्यते अस्मत्कृतेः पूर्वा’ इति ।

शरणदेवेन कवीनां महाकवीनां च अल्पाः केचन प्रयोगाः एव परामृष्टाः । किन्तु चारुदेवशास्त्रिभिः तु आधुनिकैः कविभिः सामान्यैः च रचितानि वाक्यानि अपि सुनिपुणं परिशीलितानि । संस्कृतेन अभिव्यक्तिरूपः व्यवहारः यैः आधिक्येन न क्रियते, तेषां रचनासु अशुद्धयः सहजतया एव भवन्ति । ये व्यवहारं कुर्वन्तः अपि साधुत्वविषये चिन्तनं न कुर्वन्ति तेषां कृतिषु अपि दोषाः लभ्यन्ते आधिक्येन । पूर्व लेखनादिक्षेत्रं यथा विदुषां भूमिः आसीत् तथा तु इदानीं नास्ति । चारुदेव शास्त्रिणः लिखन्ति - “अद्यत्वे संस्कृतं लोकव्यवहारस्य गोचरो नेत्यधीतिनोऽपि शास्त्रे प्रयोगे स्खलन्ति, किमुत ये प्राधीताः* । तस्मात् प्रबोधनसव्यपेक्षः लोकः विशेषतस्तु विनेयवर्गः” इति । -. एषा स्थितिः इदानीम् इति न । प्राचीने काले अपि एवम् एव आसीत् । भर्तृहरिः वाक्यपदीये वदति -

दैवी वागवकीर्णेयमशक्तैः अभिधातृभिः ।

-१.१५४ [सम्यक् शब्दप्रयोगं कर्तुम् अशक्ताः वक्तारः अपभ्रंशान् प्रयुञ्जानाः एतां संस्कृतभाषां विविधैः प्रकारैः अवकीर्णवन्तः सन्ति ।]

पारम्पर्यादपभ्रंशा विगुणेष्वभिधातृषु । प्रसिद्धिमागता येषु तेषां साधुरवाचकः ।।

  • १.१५३ बहुषु वक्तृषु दोषः यदा भवति तदा परम्परया अपभ्रंशाः व्यवहारपथम् आगत्य प्रसिद्धाः भवन्ति । तेषां दृष्ट्या साधुशब्दः एव अर्थबोधकः न भवति ।

अद्य तु स्थितिः नितरां शोचनीया जाता अस्ति । अस्माकं सर्वेषां मातृभाषा भवति काचित् प्रादेशिकभाषा । संस्कृतं द्वितीयभाषास्थानम् आवहति । तस्मात अस्मदादीनां संस्कृतव्यवहारे प्रादेशिकभाषाप्रभावः महान् । संस्कृताभासाः बहवः शब्दाः वाक्यप्रयोगाश्च प्रादेशिकभाषासु भूयसा भवन्ति । तेषां प्रभावम् आपन्नाः वयं तत्सदृशान् एव प्रयोगान् कुर्मः संस्कृतभाषायाम् अपि । तस्मात् दोषबहुलाः भवन्ति अस्माकं प्रयोगाः ।

भाषासाधुतादृष्ट्या अवधातव्यः अन्यः कश्चन अंशः अपि अस्ति । स च - * अधीतम् अनेन इति अधीती । कृताध्ययनः इत्यर्थः । अध्येतुम् आरब्धवान्

प्राधीतः । आदिकर्मणि क्तः ।

xilil

‘सरलीकरणाय’ क्रियमाणः प्रयासः ।

संस्कृतस्य सरलता तु नितान्तम् अपेक्षिता । यतः सामान्यैः जनैः अपि यदि एतया भाषया व्यवहरणीयं तर्हि सरलता एव शरणम् । किन्तु सरलीकरणं सरलतातः भिन्नम् । सरलता तु विद्यमानायाः संस्कृतभाषायाः एव एकं रूपम् । सरलीकरणं तु अविद्यमानस्य योजनम् । सरलीकरणम् इत्यत्र अभूततद्भावे च्विः । ‘सरलीकरणं’ न आवश्यकम् । पाणिनिसीमायाम् एव सरलतासम्पादनाय ये अंशाः सन्ति ते आदर्तव्याः । ‘सरलीकरण’नाम्ना पाणिनिसीमायाः भङ्गः न करणीयः । किन्तु तत्र तत्र एतादृशः प्रयासः प्रचलन् दृश्यते । अयं तु महतः खेदस्य विषयः ।

कस्यचित् पुस्तकस्य प्राक्कथने * एवम् उच्यते - O ‘सन्तः’ इति शब्दः सत्शब्दस्य बहुवचनं, परन्तु ‘सन्तः’ इति शब्दः

एकवचनी अकारान्तः हिन्दीमराठी आदिभाषासु प्रचलितः इत्यतः यथा

वाक् - वाचा, दिक् - दिशा, तथा सत् - सन्तः इति द्वौ अपि शब्दौ - प्रचलनम् अर्हतः इति मन्ये ।

० तथैव ‘सत्ता’ इति शब्दः शासकीय अधिपत्यम् इत्यर्थे लोके प्रचलितः । ___अतः तदर्थेनैव मया प्रयुक्तं ।

० संस्कृतभाषायां “एवं’शब्दः ‘अनया रीत्या’ इत्यर्थे प्रयुज्यते । परन्तु हिन्दीभाषायां ‘च’शब्दवत् उभयान्वयी अव्ययरूपेण प्रयुज्यते । तथा

मयापि संस्कृतभाषायाम् अपि प्रयुक्तः । यथा - रामः एवं लक्ष्मणः । एतादृशं चिन्तनं पाणिनिसम्मतं न इति तु स्फुटम् एव । यत्र साधुत्वकथनप्रकारः एव कोऽपि न भवति तादृशः प्रयासः न आदरणीयः भाषाशुद्धिं परिरक्षितुम् इच्छद्भिः । स्वच्छन्दप्रवृत्तिः न भवेत् भाषाक्षेत्रे । विचिन्त्य कृतः एव व्यवहारः शोभते । - शुद्धिविषये किञ्चिदपि चिन्तनम् अकुर्वतां व्यवहारस्य दर्शनात् मनः नितरां खिद्यते । दौर्भाग्यवशात् तादृशाः व्यवहाराः आधिक्येन दृश्यन्ते । प्राप्त स्नातकोत्तरपदवीकैः, पारम्परिकक्रमेणैव कृताध्ययनैः, विविधेषु उन्नतेषु स्थलेषु विराजमानैः च क्रियमाणानां भाषाप्रयोगाणां दर्शनात् स्पष्टीभवति यत् भाषाक्षेत्रे शुद्धिस्तरः दिने दिने हासं गच्छन् अस्ति इति । यदि एवमेव स्थितिः अनुवर्तेत तर्हि भाविनि काले भाषायाः का गतिः भवेत् इति चिन्ता बाधते । ‘व्यत्पन्नानाम् एव एषा दशा चेत् सामान्यानां का वा गतिः स्यात्’ इति विषीदति मनः ।

न तथा बाधते स्कन्धः यथा ‘बाधति’ बाधते इति केनचित् शिबिकावाहकेन * प्राक्कथनकारस्य वाक्यानि अत्र यथावत् लिखितानि । यदि तेषु दोषाः दृश्यन्ते

तर्हि ते तस्यैव इति मन्तव्यम् ।

xiv

शुद्धिकौमुदी

बाधतीति प्रयोगं कृतवान् पण्डितः कश्चन उक्तः इति काचित् कथा श्रूयते । अद्य तु ‘बाधति सदृशाः सहस्रशः लक्षशः वा प्रयोगाः दृश्यन्ते ! ‘कथमस्य संस्कृतजगतः परिष्कारः ?’ इति चिन्ता भृशं बाधते ।

द्वित्राणि निदर्शनानि अत्र प्रस्तुमः । *कस्याञ्चित् पत्रिकायां दृष्टाः प्रयोगाः केचन -

० नवदेल्यां प्रचलिष्यमानानां कविगोष्ठ्यां मूर्तिमहाभागः स्वरचितस्य कवनं

सभायां पठयामास । ० उपप्रधानी श्रीमान् ….. महाभागेन उद्घाटयामासुः । ० मामासे प्रचलिष्यमाणे एस्.एस्.एल्.सि.परीक्षायाः फलितांशः अद्य

प्रातः सर्वेषु केन्द्रेषु प्रकटयामासुः । परीक्षायां विद्यार्थीन्याः

अत्यधिकस्थाने लभ्यतमिति प्रकटनादवगम्यते । मासस्यास्य पञ्चदशतमे दिनाङ्के ‘फ्रण्टियर मेल’ इति नामकस्य प्रतिष्ठित एक्स्प्रे ल् प्रातः चतुर्वादने भीकरदुरन्तं सम्भविष्यति । सचिवः

दुरन्तस्थलं परिशील्य एकलक्ष्यरूप्यक-परिहारधनं घोषयामासुः । * कस्मिंश्चित् प्रकाशनाधीने पुस्तके दृष्टाः प्रयोगाः केचन -

० ललाटोपरिस्थप्रबलगोरालकभाराः गिरिपंक्त्युपरिस्थवारिवाहान् इव

लक्ष्यते । ० सा देव्याः पुनरवतरिता इत्येव लक्षिता । ० सा पञ्चविंशद्वर्षिया तन्वी । .0 परीक्षाम् उत्तीर्णनन्तरम् ….

० तद्दिने लज्जिताहं एवं खेदिता च । ० अन्तःप्रवेशनं सः नानुमितवान् । * अपरस्मिन् पुस्तके स्थिताः प्रयोगाः एते -

० शास्त्रीमहाभागेन । ० राक्षसताल् इति नामकम् । ० अस्य कालः चतुर्थः शताब्दः । ० सः पुनीतः जातः । ० अनेकानां कष्टानाम् । ० रघुनामकराजानम् । ० कति गुरुदक्षिणा देया ।

एतादृशाः अंसख्याः प्रयोगाः श्रुतिपथम् आयान्ति, दृष्टिपथम् आगच्छन्ति च । हे भगवन् ! एतेषां परिष्कारः कथं वा शक्येत ? कः मार्गः एतदर्थम् ?

TIT

विंशतेः वर्षेभ्यः पूर्वं यदा एतत् सम्भाषणान्दोलनम् आरब्धं तदा एव भाषापरिष्कारविषये चिन्तनम् अपि आरब्धम् । व्यवहारे दृष्टानि श्रुतानि च असाधुवाक्यानि सर्वतः चित्वा सद्गृहीतानि । एतादृशं पुस्तकं रचनीयम् इति यदा कार्यम् आरब्धं तदा प्रवासावसरे चेन्ननगरे असाधुवाक्यानां सः महासङ्ग्रहः चोरितः जातः । पुनः त्रिचतुराणां वर्षाणां प्रयासेन यथाशक्ति उदाहरणानि सगृहीतानि, सङ्गणके आरोपितानि च । किन्तु एतदपि भगवतः तोषाय न अभवत् इति मन्ये । सङ्गणकस्थानि तानि कथमपि विनष्टानि । बहवः अंशाः कागदेषु अविलिख्य साक्षात् सगणके एव आरोपिताः आसन् इत्यतः महान् भागः एव विनष्टः जातः । पुनरपि स्मृत्वा स्मृत्वा यथाशक्ति सङ्गृह्य लब्धाः अंशाः पुनः सङ्गणके आरोपिताः । एवं द्विवारं महाकण्टककष्टम् अनुभूय एतेन पुस्तकेन एतत् रूपं प्राप्तम् अस्ति । . ____ ‘सरलतया एव निरूपणं भवेत्, सामान्यः जनः अपि अत्रत्यं चिन्तनम् अवगन्तुं शक्नुयात्’ इति मूलचिन्तनम् आसीत् । किन्तु यथा यथा लेखनम् अनुवृत्तं तथा तथा अनुभवः आगतः यत् परमसरलया शैल्या लेखनं न शक्यम् इति । “किमर्थम् ?’ इति विवरणं यदा आरब्धं तदा शैल्याः प्रौढता आगता एव । सप्रमाणनिरूपणाय सूत्राणि वक्तव्यानि अभवन् । गुणे, वृद्धौ, शरि परे, कित्त्वात्, ष्यजि, धर्मिपरत्वम्, सुलोपः, रुत्वे विसर्गे इत्यादयः बहवः शब्दाः प्रयोक्तव्याः एव अभवन् । तेषां प्रयोगं विना निरूपणम् अशक्यम् एव आसीत् । अतः निरूपणं शास्त्रमार्गम् अन्वसरत् । अन्ते इदं निर्णीतम् - अधीतव्याकरणः एव अत्रत्यं विषयं कृत्स्नतया अवगन्तुं शक्नुयात् । सामान्यः जनः तु प्रथमवाक्यमात्रम् (इदम् अशुद्धम्, इदं शुद्धम् इत्यादिकम्) अवगन्तुम् अर्हेत् इति ।

लोके असाधवः शब्दाः, असाधूनि वाक्यानि च यानि दृष्टानि श्रुतानि वा तानि सगृह्य “किमर्थम् असाधुता’ ‘साधुप्रयोगश्च कः’ इति अत्र निरूपितम् । निरूपणस्य आनुकूल्याय विषयविभागः कल्पितः । तत्तत्प्रकरणसम्बद्धाः विषयाः तत्र निरूपिताः । साध्वसाधुविवेचनम् एव एतस्य पुस्तकस्य उद्देशः, न तु प्रकरणशः व्याकरणांशस्य बोधनम् । अतः एव एतस्य पुस्तकस्य पठनात् न कस्यचित् अपि व्याकरणप्रकरणस्य साकल्येन अवगमनं भवति । यतः तेन उद्देशेन न प्रवृत्तं, तादृशः प्रयासः अपि न कृतः । णत्वं, णिजन्तं, समासः, कारकम् इत्यादिभिः प्रकरणैः अभिसम्बद्धं दोषविवेचनं तु कृतम् । किन्त तानि तानि प्रकरणानि न विस्तरेण निरूपितानि । अतः तानि प्रकरणानि विस्तरेण ये ज्ञातम इच्छन्ति ते पुस्तकान्तरम् एव पठेयुः।

एतस्य पुस्तकस्य रचनावसरे मया उभयमूलात् मार्गदर्शनं प्राप्तम् । तयोः

xvi

शुद्धिकौमुदी

अन्यतरत् मूलम् अस्ति - चारुदेवशास्त्रिणां पुस्तकयुगलम् । एतादृशम् एकं पुस्तकं रचनीयम् इति उद्देशेन विंशत्यधिकवर्षेभ्यः पूर्वम् एव विषयसङ्ग्रहः आरब्धः । दशाधिकवर्षेभ्यः पूर्वं पुस्तकरूपदानम् अपि आरब्धम् इव । तदा विशेषसङ्ग्रहः एव चोरितः जातः इत्यतः स च प्रयत्नः स्थगितः । प्रायः तेषु एव दिनेषु चारुदेव शास्त्रिणां ‘शब्दापशब्दविवेकः’ ‘वाग्व्यवहारादर्शः’ इत्येतौ ग्रन्थौ दृष्टिपथम् आगतौ । यत् चिन्तनम् अस्मासु आसीत्, यः प्रयलः अस्माभिः आरब्धः आसीत्, तत्सदृशः एव प्रयासः एतस्मिन् कृतिद्वये अपि दृष्टः, येन च अननुभूतपूर्वः रोमाञ्चः प्राप्तः।

आत्मना दृष्टानि लौकिकानि ग्रन्थस्थानि च उदाहरणानि चित्वा विवेचनं कृतवन्तः सन्ति चारुदेवशास्त्रिणः । वाक्प्रपञ्चस्य विस्तृतं सूक्ष्मं च परिशीलनं कृतं तैः । महान्तः वैयाकरणाः अपि ते । तस्मात् ससूत्रं निरूपणावसरे प्राचीनान् प्रयोगान् बहुधा उदाहृतवन्तः सन्ति ते । अतः एव साधुत्वासाधुत्वनिर्णयक्षेत्रे रत्लायते तेषां कृतिद्वयम् ।

अस्यां कृतौ अपि तदेव साध्वसाधुचिन्तनं कृतम् । नेत्राभ्यां श्रोत्राभ्यां च ये प्रयोगाः अधिगताः तेषाम् एव विवेचनं कृतम् अस्ति अत्र । अद्यतनाः कार्यकर्तारः एतस्य अधिकारिणः । अप्रत्यक्षम् (यत् न दृष्टं न श्रुतं वा तादृशम्) एकम् अपि उदाहरणवाक्यं नास्ति अत्र । येषाम् अनुकरणं न करणीयं तादृशाः आर्षाः प्रयोगाः महाकविप्रयोगाः च पार्थक्येनैव निरूपिताः ।

अस्याः कृतेः चारुदेवशास्त्रिणां कृतिद्वयस्य च क्षेत्र समानं, तथापि विषयस्य आकारः न समानः । ते प्रायः प्राचीनेभ्यः आधुनिकेभ्यः च कृतिभ्यः उदाहरणानि चितवन्तः । अत्र तु अद्यतनव्यवहारक्षेत्रात् उदाहरणानि चितानि । कानिचन तु तैः अपि दृष्टानि, इहापि दृष्टानि । अतः कचित् समानम् उदाहरणम् उभयत्रापि दृश्यते । एतदत्र स्पष्टीकर्तुम् इष्यते यत् चारुदेवशास्त्रिणां कृतितं दृष्ट्रा तत्रत्यानि उदाहरणानि एव किञ्चित् परिवर्त्य अत्र न पुनर्लिखितानि ।

प्रसिद्ध्याकाङ्क्षा पदाद्याकासा वा एतस्याः कृतेः उद्देशः न । ‘कार्यकर्तणां भाषापरिष्कारः कथं स्यात्, कीदृशं साहाय्यं दत्तं चेत् ते लाभान्विताः भवेयुः, केषु केषु अंशेषु तैः अवधानं दातव्यम्’ इत्यादिकम् एव एतस्याः कृतेः प्रवर्तकम् । अतः कुमार्गस्य वाममार्गस्य वा आश्रयणं नात्र कृतम् ।

चारुदेवशास्त्रिणाम् उदाहरणेषु अत्रत्येषु च क्वचित् समानः अभिप्रायः न दृश्यते । क्वचित् विप्रतिपत्तिं दर्शयन्ति ते । विशेषता, आवश्यकता, अङ्गणम् इत्यादीनि अत्र निदर्शनानि । विशेषतादीनि असाधूनि इति उच्यते तैः । तेषां साधता

अत्र प्रतिपादिता ।

Xvii

विषयस्य विविधानि मुखानि भवन्ति । तैः किञ्चन मुखं दृष्ट्वा विषयप्रतिपादनं कृतम् । ग्रन्थेऽस्मिन् तस्यैव अपरं मुखम् अपि दृष्ट्रा निरूपणं कृतम् । अत्र दृष्टं मुखं प्रायः चारुदेवशास्त्रिभिः न स्पृष्टम् । तस्मात् अयं विसंवादः क्वचित् ।

इह कृतौ केचन प्रयोगाः निराकृताः । पुनः केचन समर्थिताः । अन्ये केचन अप्रशस्तत्वेन निर्दिष्टाः । एतस्याः कृतिरचनायाः अवसरे या दृष्टिः अवलम्बिता सा एव दृष्टिः चारुदेवशास्त्रिणां कृतौ अपि दृश्यते । तस्मात् का दृष्टिः आश्रिता इत्येतत् निरूपयितुं चारुदेवशास्त्रिणां वचनानि एव अत्र उद्धियन्ते -

“इह कृतौ स्थितस्य गतिश्चिन्तनीयेति नात्यन्तं सूर्खितं वचः । अशक्यसमाधाने न समाधिः प्रसभं प्रवर्तितः । अस्थाने बुद्धिव्यायामः परिहृतः । शब्दात् अपशब्दो विविक्तः । न च तत्र वक्तृविषये सम्भावना प्रतिषेधिका अभूत्, न वा इतरस्मिन् अवहेला प्रयोजिका । पाप्मभ्यः इव अपभ्रंशेभ्यः पूतेयं देवी वाग् यथा स्यात्तथा प्रयस्तम् ।” .

विषयनिरूपणाय, यत्र यत्र आवश्यकता तत्र तत्र चारुदेवशास्त्रिणाम् आशयः उल्लिखितः ।

उभयमूलात् मार्गदर्शनं प्राप्तम् इति मया पूर्वम् उक्तम् । एकस्य मूलस्य विस्तृतः परिचयः प्रदत्तः च । अपरं मूलम् अस्ति - जि. महाबलेश्वरभट्टवर्यः । यदि एतस्यां कृतौ शास्त्रत्वं दृश्यते तर्हि तस्य मूलं कारणं महाबलेश्वरभट्टवर्यः एव । प्रतिपदं तेन मार्गः दर्शितः । किम् असाधु, किं साधु, केन सूत्रेण साधुता प्रतिपादनीया, कीदृशः प्रयोगः किमर्थं निराकरणीयः इत्यादिकं सर्वं विविच्य तेन बोधितम् । समस्यायाः उपस्थापनमात्रं मम कार्यं भवति स्म । ततः तेन यत् उक्तं तदेव वाक्यैः मया अत्र निरूपितम् । अतः कलेवरं मदीयम् । आत्मतत्त्वं तु तेन आरोपितम् ।

तेन एतादृशं मार्गदर्शनम् आ बहोः कालात् क्रियमाणम् अस्ति । यथा कुलालः मृदं स्वीकृत्य चक्रसाहाय्येन अपरिष्कृतं घटं निर्माय तनुना वस्त्रेण सूक्ष्मपरिष्कारं चिन्तयति तथैव भट्टमहोदयः मृत्पिण्डबुद्धीन् अस्मान् प्रतिपदं बोधयित्वा आकारोपेतान् कृतवान् । स च आकारः इतोऽपि सुपरिष्कृतः इति न । परिष्कारः बहु इष्यते । मृदः गुणस्तरम् अवलम्ब्य खलु घटस्य परिष्कारः सम्भवति ? उपादानकारणम् एव वस्तुनः गुणवत्तां निश्चिनोति । निमित्तकारणानि तु अत्र सहायकमात्राणि भवन्ति । ___ इयं मम कृतिः इति कथनं धाष्ट्ोपेतं वचनं भवेत् । बहूनां चिन्तनम् अत्र संवलितम् अस्ति । बहूनां मार्गदर्शनम् अत्र सम्प्राप्तम् अस्ति । एवं स्थिते ‘ममैव’ कृतिः इयं सर्वथा भवितुं न अर्हति । तथापि व्यावहारिककारणतः कृतिकारत्वेन मम नाम उल्लिखितम् अस्ति अत्र ।

xvii

शुद्धिकौमुदी

कार्यकर्तृणां लाभाय एव एषा कृतिः रचिता । आ बहोः कालात् सञ्चितस्य ज्ञानस्य सङ्कामणाय अत्र प्रयासः कृतः । एतस्य पठनात् यदि कार्यकर्तारः साध्व साधुचिन्तनमार्गे पदानि स्थापयेयुः तर्हि प्रयासोऽयं सफलः स्यात् । एतदवसरे साहाय्यं कृतवन्तः सर्वे कृतज्ञतापूर्वकं स्मर्यन्ते ।

न जाने, अत्र क्वचित् शास्त्रविरोधः जातः वेति । यदि शास्त्रविरोधः दृष्टः तर्हि तस्य कारणं मम अल्पज्ञत्वं, शास्त्रोक्त्यवगमने असामर्थ्य च । तदर्थं क्षन्तव्योऽयं जनः । इदं च प्रार्थ्यते -

यदि प्रमादास्स्युरिह प्रबन्थे क्षमध्वमज्ञं प्रसभप्रवृत्तिम् । गुणान् हि गृह्णन्तु बुधा भवन्तः त्यजन्त्वसारान् विगुणान् कदंशान् ।।

  • कृतिकारः