परमुख-चपेटिका

श्रीः
श्रीमत्प्रणतार्तिहरवरदपरब्रह्मणे नमः
श्रीमते रघुनन्दनपरब्रह्मणे नमः

रघु-वंश-दुग्ध-जलधौ जातं
सन्तानम् आश्रये कम् अपि।
अतितुङ्गाद् अपि यस्मात्
विनतैर् अग्र्यं फलं कर-ग्राह्यम् ॥+++(5)+++

सुरभित-समस्त-लोकं
संयमि-वर-चरण-चन्दनं सेवे।
छायां श्रयन् यदीयां
स्थाणुम् अपर्णाश्रयं लघू-कुरुते ॥+++(5)+++

प्राचीन-वाचां निचयाञ्चलार्थम्
आचान्त-मोचा+++(=रम्भ-फल)+++-मद-हृद्य-वाचम्।
दुर्वार-गर्वान् कु-दृशो ऽतिखर्वान्
कुर्वाणम् ईडे कुल-दैवतं नः ॥

राजारामज-शङ्करः (द्रष्टुं नोद्यम्)

प्राचीनवाचः - वेदाः तेषां निचयः समूहः, तस्य अञ्चलम् अन्तिमभागः, उपनिषदित्यर्थः
तासाम् उपनिषदाम् अर्थं तात्पर्यंम्,
आचान्तो ऽपहृतो मोचायाः रम्भ-फलस्य मदः स्वदुता-भवो गर्वः यया सा आचान्तमोचामदा,
तादृशी यस्य हृद्या वाक् सः आचान्तमोचामदहृद्यवाक् तम् कञ्चन देवताविशेषं

श्री–श्री-वास-यतीन्दुर्
विलसतु सर्वज्ञ-शेखरो हृदये।
यत्-पाद-सङ्ग-लेशाद्
अपसरति तमः, प्रकाशते सर्वम्॥

लक्ष्मी-कुमार-तातय-
देशिक-वंशाब्धि-शीत-किरणस्य। वेङ्कट-गुरोस् तनूजः
कृष्णः परमुख-चपेटिकां कुरुते ॥

यदुक्तं नारायणशब्दः शिवपरः शिववृत्तिधर्मावच्छिन्नप्रतिपादकत्वात् यथा शिवशब्द इति। तत्र किमिदं शिवपरत्वम्। शिववाचकत्वं वा, शिवबोधौपयिकाकांक्षाशालित्वं वा, शिवे साधुत्वं वा शिवबोधौपयिकतात्पर्यवत्त्वं वा, अन्यद्वा किञ्चित्। नाद्यः, सिद्धसाधनात्। अयनशब्दस्याधिकरणसामान्यवाचिनः शिववाचकत्वाक्षतेः। नारशब्दोत्तरत्वविशिष्टा- यनशब्दस्यायनशब्दानतिरेकात् नायायणशब्दान्तर्गतस्यायणशब्दस्य णकारघटितत्वेपि तस्याधिकरणवाचकत्वे विवादविरहात्। अन्यथा भगवति योगार्थप्रतीत्यनुपपत्तिप्रसङ्गात्। यदि च नकाराद्यव्यवहितोत्तर-आत्वादिरूपानुपूर्व्यवच्छिन्नवाचकतावच्छेदकता- पर्याप्त्यनुयोगितावच्छेदको यो धर्मः तं पक्षीकृत्य शिववृत्तिधर्मावच्छिन्नप्रतिपादकता- वच्छेदकतापर्याप्त्यनुयोगितावच्छेदकत्वेन हेतुना शिवशब्दत्वावच्छिन्नवाचकतावच्छेदकता- पर्याप्त्यनुयोगितावच्छेदकधर्मदृष्टान्तेनशिववाचकतावच्छेदकतापर्याप्त्यनुयोगिता- वच्छेदकत्वमेव साधनीयमित्यालोच्यते तदा बाधः। परमतेऽपि पक्षे साध्याभावसत्त्वात् रूढिनिरूपकतारूपवाचकतावच्छेदकतापर्याप्त्यनुयोगितायामेव पक्षात्मकोक्तधर्मस्या- वच्छेदकत्वसंभवात्। नारायणशब्दस्य शिवे रूढ्यभावमभ्युपगम्यैव वादप्रवृत्तेः। परेण स्वयं दर्शितत्वात् शिवलक्षकतावच्छेदकतापर्याप्त्यनुयोगितावच्छेदकधर्मेऽपि हेतुसत्त्वेन व्यभिचारश्च। यदि च लक्षणाग्रहानधीनशिववृत्तिधर्मप्रकारकशाब्दबोधौपयिकतात्पर्यविषयता- वच्छेदकतापर्याप्त्यनुयोगितावच्छेदकत्वमेव हेतुरित्यङ्गीक्रियते तदा स्वरूपासिद्धिः। नारायणशब्दजन्यनाराधिकरणत्वावच्छिन्नबोधस्यापि लक्षणाग्रहाधीनत्वात्। बहुव्रीहौ चरमपदस्यान्यपदार्थलाक्षणिकत्वनियमात्॥

अथ स्वारसिकलक्षणाग्रहानधीनत्वमेव बोधविशेषणं । बहुव्रीहिघटकचरमपदलक्षणा तु आनुशासनिकतया निरूढा। तथा च न स्वरूपासिद्ध्यवकाश इति चेत्- एवं सति प्रवीणादिशब्दनिष्ठनिरूढलक्षणानिरूपकतावच्छेदक- तापर्याप्त्यनुयोगितावच्छेदकधर्मे व्यभिचारः। स्वारसिकलक्षणाग्रहानधीनशिववृत्ति- समर्थत्वप्रकारकबोधघटितहेतुमति तादृशधर्मे दर्शितसाध्यविरहात् प्रवीणादिशब्दानां समर्थत्वावच्छिन्ने निरूढलक्षणैवेत्यस्यालङ्कारविदां स्पष्टत्वात्। एवं के वलयोगेन शिवपरसंहर्त्रादिशब्दघटकवर्णसमुदायत्वेऽपि व्यभिचारो बोध्यः। दर्शितशब्दस्य शिवे रूढ्यभावेन उक्तसमुदायत्वे साध्याभावसत्त्वात्। द्वितीयेऽपि सिद्धसाधनमेव। नारायणशब्देनापि शक्तिभ्रमादिना शिवबोधोत्पत्त्या तादृशबोधौपयिकाकांक्षाशालित्वस्य तत्र संप्रतिपन्नत्वात्। शक्तिभ्रमाद्यनधीनत्वनिवेशेऽपि तद्दोषतादवस्थ्यम्। रूढिप्रतिसन्धानविरहदशायां शिवे तात्पर्यग्रहसत्त्वे के वलयोगेन शिवबोधस्यानुभविकत्वात्। अथ नारायणशब्दात् के वलयोगेन शिवबोधोत्पत्तिस्वीकारे सिद्धं नस्समीहितम्। कारणवाक्यघटकनारायणशब्दादपि तादृशबोधसंभवादिति चेन्न- तादृशबोधसंभवेऽपि तस्य प्रमात्वानुपपत्त्या शिवस्य जगत्कारणत्वासिद्धेः। नच श्रुतिजन्यस्य तादृशबोधस्य कथं प्रमात्वानुपपत्तिरिति वाच्यम्। ईश्वरतात्पर्यप्रमाधीनस्यैव श्रुतिजन्यबोधस्य प्रमात्वनियमात् नारायणशब्दस्य के वलयोगेन शिवबोधपरत्वे साधुत्वानुपपत्त्या तत्र तादृशतात्पर्यासंभवात्।

यत्तु - शक्तिभ्रमाद्यनधीनशाब्दबोधौपयिकाकांक्षावत्त्वमेव साधुत्वम् , अन्यस्य दुर्वचत्वात्। इत्थं च के वलयोगेन शिवबोधपरस्यापि नारायणशब्दस्य साधुत्वमस्त्येवेति। तन्न - साधुत्वस्य ईदृशत्वे के वलयोगेनान्यपरद्रुणसयुधिष्ठिरादिशब्दानामपि साधुताप्रसङ्गात्। नचेष्टापत्तिः। तथासति तेषां साधुत्वाभावबोधनपरस्य तत्तत्सूत्रेषु संज्ञादिग्रहणस्य असामञ्जस्य- प्रसङ्गात्। अतो वक्ष्यमाणं जात्यादिरूपमेव साधुत्वमिति दर्शितशब्दस्यासाधुत्वं उपपद्यत एव। तस्मान्नारायणशब्दस्य के वलयोगेन शिवपरत्वे साधुत्वं वा कारणवाक्यघटकनारायणशब्दस्य शिवबोधौपयिकतात्पर्यवत्त्वमेव वा यावन्न सिद्ध्यति तावन्न परेषामिष्टसिद्धिरिति बोध्यम्। तृतीयेऽपि सिद्धसाधनमेव। कूर्मपुराणादिषु शिवेऽपि नारायणशब्दप्रयोगेण तस्य तत्र साधुतायास्संप्रतिपन्नत्वात्। यदिच स्वारसिकलक्षणामन्तरा शिवे साधुत्वमिह साधनीयम्। कूर्मपुराणादि- गतनारायणशब्दस्य शिवे लाक्षणिकताया एव सिद्धान्तिभिरभ्युपगतत्वेन न सिद्धसाधना- वकाशः। ईदृशसाधुत्वसिद्धौ च कारणवाक्यघटकनारायणशब्दस्य शिवे तात्पर्यसंभवात् समीहितसिद्धिः। लक्षणामन्तरा शिवे साधुत्वं च लक्षणाग्रहानधीनशिवविषयकबोधेच्छा- धीनोच्चारणप्रयुक्तं साधुत्वम्। साधुत्वस्य हि “एकश्शब्दः सम्यक् ज्ञातः सुष्ठु प्रयुक्तः स्वर्गे लोके कामधुग्भवतीति” श्रुतिसिद्धपुण्यविशेषजनकतावच्छेदकधर्मरूपस्य जातिरूपत्वे अखण्डोपाधिरूपत्वे वा यस्मिन्नर्थे यस्य शब्दस्य साधुत्वं प्रमाणसिद्धं तदर्थबोधेच्छाधीनतच्छ- ब्दोच्चारणं साधुत्वविशिष्टतच्छब्दं प्रति कारणमित्यङ्गीकरणीयम्। अन्यथा निर्धनतुरगादि बोधेच्छया उच्चरितानामश्वास्वादिशब्दानां साधुताप्रसङ्गात्। तथा च उच्चारणविशेषजन्यता- वच्छेदकस्य जात्यादिरूपस्य साधुत्वस्य तादृशोच्चारणप्रयुक्तत्वमक्षतम्॥

शक्तिविशेषरूपत्वे तत्तच्छब्दनिष्ठतादृशशक्तिविशेषं प्रति दर्शितोच्चारणस्य कारणतया सुतरां तदुपपत्तिरित्यालोच्यते तदा युधिष्ठिरादिशब्दे व्यभिचारः। नारायणशब्दयोगार्थतावच्छेदकस्येव एतद्योगार्थतावच्छेदकस्यापि शिवसाधारण्यानपायेन दर्शितहेतुमति तत्र लक्षणामन्तरा शिवे साधुत्वायोगेन दर्शितसाध्यविरहात्। न च शिववृत्तिधर्मावच्छिन्नप्रतिपादकत्वं स्वारसिकलक्षणाग्रहानधीनशिववृत्तिधर्मप्रकारकशाब्दबोधौपयिके श्वरतात्पर्यवत्त्वम्। तथा च न व्यभिचारः। स्थैर्यस्य पलायनाद्यभावरूपत्वेऽपि अभावस्याधिकरणात्मकतया प्रतिव्यक्तिभेदात् युधिष्ठिरादिशब्दे रूढ्यर्थविशेष्यकयोगार्थबोध एव ईश्वरतात्पर्येण तादृशबोधे शिववृत्तिधर्मस्याप्रकारत्वात् इति वाच्यम्। तथा सति सन्दिग्धासिद्धेः पक्षे हेतोरुभयसंप्रतिपन्नत्वविरहात्। नारायणशब्दयोगार्थतावच्छेदकस्यापि प्रतिव्यक्तिभिन्नत्वेन शिववृत्तिधर्मप्रकारकबोधौपयिके श्वरतात्पर्यवत्त्वस्य नारायणशब्दे सिद्धान्तिभिरनभ्युपगमात्। एवं शिवान्यद्रव्यपदे शिवसंयुक्तपदे च व्यभिचारः। तयोः शिवे साधुत्वविरहात्। शिववृत्तिद्रव्यत्वसंयोगाद्यवच्छिन्नप्रतिपादकत्वाच्च। यदि च शिववृत्तितावच्छेदकतापर्याप्त्यधिकरणधर्मपर्याप्तावच्छेदकताकप्रकारता- शालिबोधौपयिके श्वरतात्पर्यवत्त्वमेव हेतूक्रियते तथाच नोक्तदोषावसरः। नारायणशब्द- जन्यभगवद्विशेष्यकबोधप्रकारतावच्छेदकस्य नाराधिकरणकत्व(त्व)स्य शिववृत्तिता- वच्छेदकत्वाक्षतेः। शिवान्यद्रव्यत्वत्वशिवप्रतियोगिकत्वविशिष्टसंयोगत्वयोः शिववृत्तितानवच्छेदकत्वाच्चेत्युच्यते तदा युधिष्ठिरादिशब्दे व्यभिचारः। युद्धस्थैर्यत्वादि- रूपशिववृत्तितावच्छेदकावच्छिन्नप्रकारताशालिबोधौपयिके श्वरतात्पर्यवत्त्वस्य तत्र सत्त्वात्। साध्यविरहस्य च प्रागेवोक्तत्वात्। चतुर्थेऽपि यथाश्रुते सिद्धसाधनमेव , शिवबोधेच्छया शैवो-च्चरिते नारायणशब्दे साध्यस्य संप्रतिपन्नत्वात्। विधिकोटिस्सामानाधिकरण्येनेत्यङ्गीकारात्। अवच्छेदकावच्छेदेन तदङ्गीकारे तु संप्रतिपन्नभगवन्मात्रतात्पर्यके बाधः स्पष्टः। ननु सामानाधिकरण्येन साध्यसिद्धेरुद्देश्यत्वेऽपि न सिद्धसाधनावकाशः शिवबोधौ- पयिके श्वरतात्पर्यवत्ताया एव साध्यत्वात्। नारायणशब्दे सिद्धान्तिभिस्तदनङ्गीकारात्

ईदृशतात्पर्यवत्त्वसाधनमेव हि प्रकृतोपयुक्तम्। कारणवाक्यघटकनारायणशब्दाच्छिव- बोधसंभवस्यैव उपपादनीयत्वात्। वैदिकवाक्यार्थबोधे ईश्वरतात्पर्यस्यैव नियामकत्वादिति चेत् - एवमपि यत्र क्वचन नारायणशब्दे दर्शितसाध्यसिद्धिमादायानुमानपर्यवसानसंभवात् उद्देश्यासिद्धिः। एवं घटो द्रव्यमिति वाक्यघटकद्रव्यपदे व्यभिचारश्च। द्रव्यत्वेन घटबोधपरे तस्मिन् उक्तसाध्यविरहवति शिववृत्तिद्रव्यत्वावच्छिन्नप्रतिपादकत्वसत्त्वात्। एवं युधिष्ठिरा- दिशब्देऽपि दर्शितदिशा व्यभिचारो बोध्यः। पञ्चमस्य परहृदयैकसाक्षिकनिर्वचनस्य शिवबोधौपयिके श्वरतात्पर्यवत्त्वव्याप्यत्वे तादृशतात्पर्यविषयत्वसाधकतया कथंचित् प्रकृतोपयोगसंभवेऽपि घटो द्रव्यमिति वाक्यघटकद्रव्यपदे युधिष्ठिरादिशब्दे च व्यभिचारः। तत्र दर्शिततात्पर्यवत्त्वस्यासत्त्वेन तद्व्याप्यतादृशधर्माभावस्यावश्यकत्वात् हेतोश्च प्रागुपपादितत्वात्। तादृशधर्मस्य दर्शिततात्पर्यवत्त्वव्यभिचारित्वे तु प्रकृतानुपयोगः स्पष्टः। तादृशतात्पर्यवत्त्वसाधकत्वस्याप्यसंभवात्। तस्मात् परोपदर्शितः प्रयोगोऽनुपपन्न एवेति सिद्धम्। ननु तथापि कारणवाक्यघटकनारायणशब्दः शिवबोधौपयिके श्वरतात्पर्यवान् कारण- परत्वात् नसन्नचासदित्यादिवाक्यगतशिवशब्दवत् सद्ब्रह्मात्मादिशब्दानामपि छागपशुन्यायेन शिवे पर्यवसानान्न तत्र व्यभिचारः। न चाप्रयोजकता , यद्यस्य शिवपरत्वं न स्यात् तर्हि ‘नसन्नचासदि’त्यादिवाक्यान्तरैकार्थ्यं न स्यादिति तर्क सद्भावात् इति चेन्न। अप्रयोजकत्वात्, नसन्नचासदित्यादिवाक्यगतशिवशब्दस्य शुभत्वसामान्यरूढ्यैव भगवत्परत्वसंभवेनो- क्तनारायणशब्दस्य शिवपरत्वाभावेऽपि भगवत्परतया कारणवाक्यान्तरैकार्थ्योपपत्तेः। तथाच कारणवाक्यघटको नारायणशब्दः भगवत्परः भगवदन्यपरत्वविरहे सति किञ्चि- त्परत्वात् पुराणरत्नगतविष्ण्वादिशब्दवदित्यनुमानेन भगवत्परत्वसिद्धिः।

कथमस्य भगवदन्यपरत्वविरहसिद्धिरिति चेत् - उच्यते - किमस्य भगवदन्यपरत्वं रूढ्या, आहोस्वित् के वलयोगेन, अथवा लक्षणया। नाद्यः, अन्यत्र रूढ्यभावस्य स्थापयिष्यमाणत्वात्। द्वितीये नारमयनं यस्येत्याद्युपबृंहणदर्शितव्युत्पत्त्या वा कुदृष्टिकल्पितव्युत्पत्त्यन्तरेण वा। नाद्यः, तादृशव्युत्पत्त्या भगवदतिरिक्ते साधुत्वविरहात्। पूर्वपदात्संज्ञायामित्यनेनैव णकारघटितस्य साधुताया वर्णनीयत्वात्। अट्कुप्वाङित्यनेनान्यत्र णत्वसमर्थनं चोन्मूलयिष्यते। नान्त्यः, “इतिहास- पुराणाभ्यां वेदं समुपबृंहयेत्। बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति” इति शास्त्रविरोधेन कुदृष्टिकल्पितकुसृष्टेः कारणवाक्यघटकनारायणशब्दे स्वीकर्तुमशक्यत्वात्। न तृतीयः, मुख्यार्थबाधविरहेण निषादस्थपत्यधिकरणन्यायेन लक्षणायाः असंभवात्। तस्मान्न कथं- चिदपि भगवदन्यपरत्वसंभव इति। एवं कारणवाक्यघटकनारायणशब्दस्य भगवत्परत्वसिद्धौ समानप्रकरणपठितानां सद्ब्रह्मात्मादिशब्दानां भगवत्येव पर्यवसानम् “छागो वा मन्त्रवर्णादिति” न्यायात्। यथा पशुना यजेतेति श्रुतस्य पशुशब्दस्य “छागस्य वपायामेदस” इति मन्त्रवर्णसमर्पिते छागे पर्यवसानं तद्वत्। ततश्च कारणवाक्यघटकश्शिवशब्दः भगवत्परः कारणपरत्वात् तादृशनारायणशब्दवदित्यनुमानेन “यद्यस्य भगवत्परत्वं न स्यात् तर्हि कारणवाक्यान्तरैकार्थ्यं न स्यादि"ति तर्कानुगृहीतेन कारणवाक्यघटकशिवशब्दस्यापि भगवत्परत्वसिद्ध्या सर्वश्रुत्यैककण्ठ्येन भगवत एव जगत्कारणत्वसिद्ध्या सर्वाधिकत्वसिद्धिः। यदपि जलशायित्वसमर्थनाय प्रयासादरणं तदप्यनुपादेयम्। नरसंबन्ध्यधिकरण- कत्वस्यैव योगार्थतावच्छेदकत्वात्। शिवलोकादेश्शिवाधिकरणभूतस्य नरसम्बन्धितयैव योगार्थोपपादनस्य सुकरत्वात्। यदपि नारायणशब्दस्य के वलयौगिकत्वे णकारघटितत्वं न सम्भवतीति निरुक्तहेतुः स्वरूपासिद्ध इति, तदप्ययुक्तम्। के वलयौगिकत्वे णकारघटितस्यासाधुत्वेपि नरसंबन्ध्य- धिकरणकत्वरूपशिववृत्तिधर्मावच्छिन्नबोधकत्वानपायेन स्वरूपासिद्ध्ययोगात्। नहि साधुत्वं नास्तीत्येतावता शाब्दबोधजनकत्वमपैति। उक्तं हि पातञ्जलभाष्ये “समानायामर्थावगतौ शब्दैश्चापशब्दैश्च शास्त्रेण धर्मनियमः” इति। हरिणाप्युक्तम् “वाचकत्वाविशेषेऽपि नियमः पुण्यपापयोः” इति। यदपि द्रुरिव नासा यस्येत्यादि। तदपि व्याकरणानभिज्ञतापिशुनम्, “अञ्नासिकाया- स्संज्ञायान्नसञ्चास्थूलादि"ति नासिकाशब्दस्य नसादेशविधानात्।

यदपि इतरथा द्रुनसः खरनस इत्येव स्यादिति तदपि तथैव संज्ञायामेव नसादेश- विधानात्। यदपि नारायणशब्दो न शिवपरः शिवविषयकशाब्दबोधप्रयोजकाकांक्षाशून्यत्वा- दिति। तदप्ययुक्तम्। णकारघटितानुपूर्व्यास्सर्वमतेऽपि शिवविषयकबोधप्रयोजकत्वस्य दुर्निवारतया स्वरूपासिद्धेः, न हि रूढिप्रतिसन्धानविरहदशायां शिवे योगशक्तेः तात्पर्यस्य च ग्रहे नारायणशब्दात् शिवबोधो न जायत इति बृहस्पतिनापि (अ)शक्यं साधयितुम्। एवं शिवसहस्रनामादिगतनारायणशब्दात् शिवबोधस्य सर्वसम्मतत्वेऽपि दर्शितानुपपत्तिरवसेया। यदपि कूर्मपुराणशिवसहस्रनामादौ शिवे नारायणशब्दप्रयोगदर्शनात् शिवेऽपि नारायणशब्दस्य संज्ञात्वं संभवति। कोशादेरिव श्रुतिपुराणादेरपि शक्तिग्राहकत्वादिति। तदप्ययुक्तम्, गौणत्वेनापि संभवदुपपत्तिकक्वाचित्कप्रयोगमात्रेण शक्तिसिद्धौ अतिप्रसङ्गात् वृत्त्यन्तरविलोपप्रसङ्गाच्च। अत्रेदं तत्त्वम् - नारायणशब्दस्य शिवे प्रयोगो नाम शिवविषयकबोधेच्छया उच्चारणं । शिवबोधौपयिकतात्पर्यवत्त्वमिति यावत्। तच्च न शिवशक्तत्वव्याप्यं तल्लाक्षणिके
व्यभिचारात्। किंतु तच्छक्तत्वतल्लाक्षणिकत्वान्यतरस्यैव व्याप्यम् “तत्रान्याय्यं चानेका- र्थत्वमिति” न्यायात्। शिवे भगवति च शक्तिस्वीकारे अनेकशक्तिकल्पनागौरवप्रसङ्गेन एकत्र शक्तिरन्यत्र लक्षणेत्येव स्वीकरणीयम्। ततश्च प्रचुरप्रयोगविषये भगवति लक्षणाङ्गीकारे बहुषु स्थलेषु शक्यसंबन्धज्ञानानां तत्कारणत्वस्य च कल्पनागौरवम्। अल्पतरप्रयोगविषये शिवे तदङ्गीकारे तु लाघवम्। तथाच ईदृशगौरवलाघवज्ञानसहकृतेन शिवशक्तत्वतल्लाक्षणिकत्वान्यतरव्याप्यवत्तापरामर्शेन शिवलाक्षणिकत्वमेव सिद्ध्यतीति। न चैवं हर्यादिष्वपि तथा प्रसङ्गः। तत्र प्रयोगस्य उभयत्र तुल्यत्वेन दर्शितविनिगमकासंभवात्। उभयत्र शक्तिसिद्धेः शक्तिग्राहकत्वेनाभिमतानां यत्र तुल्यबलत्वं तत्रागत्या उभयत्र शक्तिः। यत्र तु मात्रयापि बैषम्यं तत्र प्रबलप्रमाणविषये शक्तिः अन्यत्र लक्षणेति हि न्यायविदां निर्णयः। अत एव “तेष्वदर्शनाद्विरोधस्य समा विप्रतिपत्तिस्स्यात्” इत्यधिकरणे पीलुशब्दस्य आर्यप्रसिद्ध्या वृक्षविशेषे म्लेच्छप्रसिद्ध्या हस्तिनि च शक्तिः। प्रसिद्धिद्वयस्यापि तुल्यबलत्वात् व्यवहारविषये आर्याणामिव म्लेच्छानामप्यभियुक्तत्वाविशेषादिति प्रापय्य अनेकार्थत्वस्यान्याय्यतया एकत्रैव शक्तिरन्यत्र लक्षणेत्येव युक्तम्। न च विनिगमनाविरहः। आर्यप्रसिद्धे र्बलवत्वात्। आर्या हि शब्दैकसमधिगम्यधर्माधर्मयोरविप्लुतिलिप्सया शब्दार्थ- तत्त्वं विविच्य परिपालयन्ति। न म्लेच्छाः, दृष्टार्थव्यवहारस्य यथाकथंचिदप्युपपत्तेः। अतो वृक्षविशेषे शक्तिः, गजप्रतीतिस्तु लक्षणादिनैवेति सिद्धान्तितम्। एवं यत्रार्याणामेव उभयत्र प्रसिद्धिः अथापि यत्र वाक्यशेषाद्यनुग्रहः तत्रापि वाक्यशेषाद्यनुगृहीतार्यप्रसिद्धिविषय एव शक्तिः। के वलार्यप्रसिद्धिविषये तु लक्षणादिकमेवेति व्यवस्थापितम्। तथा “विश्वजिति सर्वपृष्ठ” इत्यधिकरणे रथन्तरं पृष्ठं भवति, बृहत् पृष्ठं भवतीत्युत्पत्तिवाक्ययो र्माहेन्द्रस्तोत्रनामत्वेनावगतस्य पृष्ठशब्दस्य सप्तदशानि पृष्ठानीत्यनुवादवाक्ये माहेन्द्रादिषु चतुर्षु स्तोत्रेषु प्रयोगो लिङ्गसमवायन्यायेन लाक्षणिक इति प्रकृतौ पृष्ठबहुत्वं नास्तीति प्रपञ्चितम्। अतः प्रसिद्धिप्राचुर्येणाभिधानकोशेन च नारायणशब्दस्य भगवति शक्तिः, शिवे तु क्वाचित्कप्रयोगविषये लक्षणैवेति स्पष्टं न्यायविदाम्। किं बहुना “नहि नारायणादीनां नाम्ना- मन्यत्र संभवः। ऋते नारायणादीनि नामानि पुरुषोत्तमः। प्रादादन्यत्र भगवान् राजेवर्ते स्वकं
पुरम्” इत्यादिवामनपुराणादिवचनबलेन नारायणशब्दस्य भगवदतिरिक्ते शक्त्यभावस्य बोधनात् कूर्मपुराणादिगतनारायणशब्दस्य शिवे लाक्षणिकत्वमेवाकामेनापि स्वीकार्यम्। ननु कूर्मपुराणगतोक्तनारायणशब्दस्य लाक्षणिकत्वसंभवेऽपि शिवसहस्रनामगतस्य तस्य न तथात्वसंभवः। नामशब्दस्य रूढपरतया शिवे रूढत्वमन्तरा शिवनामत्वानुपपत्तेरिति चेन्न। तत्र नामशब्दस्य प्रातिपदिकमात्रपरतया रूढपरत्वविरहात्। अत एव निपातातिरिक्तनामार्थयोरित्यादेः के वलयौगिके लाक्षणिके ऽपि च प्रवृत्तिरुपपद्यते। अत एव च भगवद्गुणदर्पणे “यानि नामानि गौणानि विख्यातानी”त्यत्र विख्यातशब्देनैव भगवन्नाम्नां रूढत्वसिद्धिरनगृहीता। किं च नहि नारायणादीनामित्यादिसात्विकपुराणवचनविरोधेन दर्शिततामसपुराणबलेन न रूढत्वसिद्धिसंभवः। नचैवं तादृशनारायणशब्दस्य णत्वानुपपत्तिः। पूर्वपदात्संज्ञायामिति रूढ्यर्थबोधपरत्वे एव णत्वविधानात्। के वलयौगिकत्व इव लाक्षणिकत्वेऽपि रूढ्यर्थबोधपरत्वविरहादिति वाच्यम्। तस्य भगवत्सदृशलाक्षणिकत्वात् सादृश्यप्रतियोगितया भगवतो बोधेन रूढ्यर्थबोधपरत्वानपायात्। कथमन्यथा युधिष्ठिरादि- शब्दानां सादृश्यमात्रावलंबनेनान्यत्र प्रयुज्यमानानां साधुत्वोपपत्तिः। यद्वा प्रकृतशाब्दबोधप्रयोजकीभूतरूढ्यर्थाधीनोपस्थितिजनकत्वं संज्ञात्वम्। तथा च लक्ष्यार्थोपस्थितिप्राग्भाविरूढ्यधीनोपस्थितेरपि शाब्दबोधप्रयोजकत्वाक्षतेः लाक्षणिकस्यापि णत्वं सुवचमेव। के वलयोगाधीनशाब्दबोधे रूढ्यधीनोपस्थितेः प्रयोजकत्व- विरहात् न के वलयौगिकस्य णत्वम्। इमामेव रीतिमनुसृत्य अग्नीषोमौ माणवका- वित्यत्र प्रसिद्धदेवताद्वन्द्ववाच्यग्नीषोमपदस्य तत्सदृशपरत्वे ईत्वषत्वे उपपादनीये। तत्र द्वन्द्वसमासजन्यसाहित्यावच्छिन्नाग्नीषोमात्मकप्रसिद्धदेवतोपस्थितेः प्रकृतशाब्दबोध- प्रयोजकत्वात् । सदृश(अ)लाक्षणिकाग्निसोमपदयोः द्वन्द्वे तु द्वन्द्वजन्योपस्थितेः साहित्या- वच्छिन्नप्रसिद्धदेवताविषयकत्वविरहात् न तत्र ईत्वषत्वे इति स्पष्टं परिभाषेन्दुशेखरे। एवं विश्वामित्रजमदग्नी वसिष्ठेनास्पर्धेतामित्याद्यर्थवादस्य प्राशस्त्यलाक्षणिकत्वेऽपि मित्रेचर्षा- वित्यादेः प्रवृत्तिरुक्तरीत्यैव वर्णनीयेति दिक्। यदपि अन्यथा आकाशादिपदानां परब्रह्मपरत्वासिद्धिप्रसङ्गादिति। तदप्ययुक्तम्। आकाशादिपदानां परस्मिन्ब्रह्मणि रूढ्यभावेऽपि के वलयोगेन लक्षणया वा तत्परत्वोपपत्तेः ,परस्मिन्ब्रह्मणि रूढित्वासिद्ध्यापादने तु इष्टापत्तिरेव। सिद्धान्ते के वलयोगेन शङ्करमते च गौण्या परब्रह्मपरत्वाङ्गीकारात्। उक्तं ह्याकाशाधिकरणशङ्करभाष्ये “नचायं आकाशशब्द उभयोस्साधारणश्शक्यो विज्ञातुम्। अनेकार्थत्वप्रसङ्गात् तस्मात् ब्रह्मणि गौण आकाशशब्द” इति। उक्तं च तद्व्याख्याने वाचस्पतिना सामानाधिकरण्येन प्रश्नतत्प्रतिवाक्ययोः पौर्वापर्यपरामर्शात् प्रधानत्वेऽपि गौणतेति।

यदपि निमित्तानधिकरणनिमित्तिमत्पदाघटितत्वस्य पारिभाषिकत्वाभिधानं , तदप्ययुक्तम्। समानग्रहणावगतावधारणबलेनैव तल्लाभस्य भाष्यकैय्यटाद्यभिमतत्वात्। तथा हि “समानपदे”इत्यनेन निमित्तनिमित्तिनोरेकपदस्थत्वमुच्यते। यद्येतावन्मात्रमेवेह विवक्षितं स्यात् तदा समानग्रहणानर्थक्यम्। “पदे”इत्येतावन्मात्रेणैव एकवचनार्थैकत्वान्वयेन एकपदस्थत्वलाभात्। न च सूत्रे लिङ्गवचनमतन्त्रमिति परिभाषया वचनविवक्षा न संभवतीति वाच्यम्। अपदस्थयोर्निमित्तनिमित्तिनोरसंभवेन “पदे”इत्यस्य वैय्यर्थ्यप्रसङ्गात्। पदग्रहणे- नैव एकवचनविवक्षाज्ञापनात्। तथासति एकपदस्थत्वलाभेन गीर्नमति, रामो नम्य इत्यादिषु णत्ववारकतया “पदे”इत्यस्य चारितार्थ्यसंभवात्। अथ समानशब्देन आधेयतानिरूपकत्वमेव बोध्यते, न त्वेकत्वसंख्या। वह्निना समानाधिकरणो धूम इत्यादिषु वह्निनिष्ठाधेयतानिरूपकाधिकरणवृत्तित्वस्यैव प्रतीतेः। तत्र प्रत्यासत्त्या रषाभ्यामित्यस्य तृतीयान्ततया अनुसन्धानान्तरकल्पनया वा आधेयतायां रेफषकारान्यतरनिष्ठत्वलाभः। तथा च रेफषकारान्यतरनिष्ठाधेयतानिरूपकपदवृत्तित्वस्य सप्तम्यन्तेन लाभात् गीर्नमति, रामो नम्य इत्यादिषु नकारे तदसत्त्वात् न णत्वम्। इत्थं च एवंविधार्थस्य एकत्वसंख्यावाचिना ऐकवचनेनालाभात् कथं समानग्रहणवैय्यर्थ्यमिति चेन्न। “समानाधिकरण”इत्यादिषु एकाधिकरणवृत्तिरिति विवरणदर्शनेन समानशब्दस्या- धेयतानिरूपकार्थकत्वविरहात्। एकाधिकरणवृत्तिरित्यत्र एकशब्दोऽपि आधेयतानिरूपक- वचन इति तु न युक्तम्। मानाभावात्। तर्हि धूमो वह्निना समानाधिकरण इत्यादिषु धूमो वह्निनिष्ठाधेयतानिरूपकाधिकरणवृत्तिरिति प्रत्ययः कथमुपपद्यत इति चेत्। इत्थम्- वह्निनेत्यत्र तृतीयार्थोऽधिकरणवृत्तित्वं तस्य समानपदार्थतावच्छेदके एकत्वेऽन्वयः। तथा च वह्न्यधिकरणवृत्त्येकत्वाश्रयाधिकरणवृत्तिर्धूम इति अक्षरलभ्यार्थः। तत्र वह्न्य- धिकरणवृत्त्येकत्वाश्रयत्वस्य वह्निनिष्ठाधेयतानिरूपकत्वव्याप्यतया औत्तरकालिक एव तादृशाधेयतानिरूपकत्वप्रत्यय इति। न च तथापि समानग्रहणे तस्य एकत्वान्वय्यधिकरण- वृत्तित्वविषये नियताकांक्षतया प्रत्यासत्त्यादिना एकत्वे निमित्ताधिकरणवृत्तित्वलाभे तादृशैकत्वाश्रयपदवृत्तित्वस्य सप्तम्यन्तार्थस्य गीर्नमतीत्यादिष्वभावात् न दोषः। तदभावे तु एकवचनेन एकत्वलाभेऽपि तत्र निमित्ताधिकरणवृत्तित्वालाभात् कथं समानग्रहणवैय्यर्थ्यं इति वाच्यम्। सप्तम्यन्तार्थस्य एकपदवृत्तित्वस्य निमित्तमात्रे अन्वये वैय्यर्थ्यतादवस्थ्येन निमित्तनिमित्तिनोरुभयत्रान्वयस्य स्वीकरणीयतया निमित्तनिमित्तिनोरेकपदवृत्तित्वलाभात् गीर्नमतीत्यादिषु तदभावेन अनुपपत्तिविरहात्। न च तत्रापि प्रत्येकमेकत्वसत्त्वात् निमित्ते निमित्तिनि च एकत्वसंख्याश्रयपदवृत्तित्वाक्षतेः कथं वारणमिति वाच्यम्। स्वसजातीयनिष्ठभेदप्रतियोगितानवच्छेदकै कत्वरूपस्वसजातीयद्वितीयराहित्यस्यैव एकवचनार्थत्वात् एकत्वमात्रस्य सर्ववस्तुसाधारणस्याव्यावर्तकतया तदसंभवात्। पशुना यजेतेति विहितस्य एकत्वस्यानेकपशुभि र्यागानुष्ठानेप्यवैकल्यप्रसङ्गाच्च। साजात्यं च स्वसमभिव्याहृतपदार्थसंसर्गित्वविशिष्टस्वप्रकृत्यर्थतावच्छेदकरूपेण। प्रकृते च स्वसम- भिव्याहृतपदार्थः निमित्तनिमित्त्युभयं तत्संसर्गित्वं तदधिकरणत्वं स्वप्रकृत्यर्थता- वच्छेदकं च पदत्वमिति स्ववृत्तिनिमित्तनिमित्त्युभयाधिकरणपदत्ववन्निष्ठभेदप्रतियोगिता- नवच्छेदकै कत्वमेव एकवचनार्थः। इत्थं च गीर्नमतीत्यादिषु क्वचिदपि ईदृशैकपदस्थत्वासत्त्वान्न दोषः। नचैवं सति एकवचनस्य नानार्थत्वप्रसङ्गः द्व्येकयोरित्यादिशास्त्रस्वारस्यविरोधश्च इति वाच्यम्। यतः एकत्वत्वावच्छिन्ने एव एकवचनस्य शक्तिः इतरांशस्तु संसर्गमर्यादयैव भासत इत्यङ्गीक्रियते। तथा हि पशुना यजेतेत्यत्र एकवचनार्थस्य एकत्वस्य स्ववृत्तिभेदप्रतियोगितावच्छेदक- तासंबन्धेन पशावन्वयः। अवच्छेदकता च स्वकरणकयागकरणीभूतपशुनिष्ठभेदप्रतियोगिता- वच्छेदकतासंबन्धावच्छिन्ना। अनेकपशुभिर्यागकरणे च तत्तदेकत्वानां स्वकरणकयागकर- णीभूतपश्वन्तरनिष्ठभेदप्रतियोगितावच्छेदकतया तादृशावच्छेदकतासंबन्धेन पशुमदभिन्नत्वं कुत्राप्येकत्वे न संभवतीति नोक्तदोषः। प्रकृते चावच्छेदकता - स्ववृत्तिनिमित्तनिमित्त्यु- भयाधिकरणपदत्ववन्निष्ठभेदप्रतियोगितावच्छेदकतासंबन्धावच्छिन्ना ग्राह्येति गीर्नमतीत्या- दिषु कस्यापि पदस्य दर्शितसंबन्धेन एकत्ववत्त्वविरहान्न दोष इति। तत्सिद्धं “पदे” इत्येतावतैव सामञ्जस्ये समानग्रहणवैय्यर्थ्यमिति। रामनामादावनुपपत्तिस्तु पक्षद्वयेऽपि समाना। अतः समानग्रहणं समानमेव पदमित्यवधारणार्थं विज्ञायते। उक्तावधारणेन च किंचिदंशेनाप्य-समानं निमित्तानधिकरणनिमित्तिमन्नभवतीत्यर्थलाभात् निमित्तानधिकरणनिमित्तिमत्पदा- घटितत्वं पर्यवस्यति। यद्वा समानमेव पदं यस्मिन्समुदाये तत्तथेति

बहुव्रीह्याश्रयणेन असमानं निमित्तानधिकरणं निमित्तिमत्पदं यदघटकमिति विग्रहवाक्यार्थे लब्धे निमित्तानधिकरणनिमित्तिमत्पदाघटितत्वं समासवाक्यार्थो भवति। सर्वथा योगलभ्यतया नास्यार्थस्य पारिभाषिकत्वम्। “यत्समानाधिकरणा” इत्यादिव्याप्तेरव्यभिचरितत्वपदप्रतिपाद्यत्ववत् के वलतान्त्रिकसंके तरूपपरिभाषया समानपदलभ्यत्व एव पारिभाषिकत्वाभिधानं युज्यत इति। अत्र निमित्तानधिकरणनिमित्तिमत्पदाघटितत्वं च रेफषकारान्यतरावृत्तिनकारवृत्तिपद- त्वसमानाधिकरणसमुदायत्ववत्त्वम्। तथा च रेफषकारान्यतराधिकरणं यत्तादृश- समुदायत्वावच्छिन्नं तद्वृत्तित्वं समानपद इति सप्तम्यन्तार्थः। तस्य च रेफषकारान्यतरवृत्ति- तादृशसमुदायत्वाश्रयत्वे पर्यवसानम्। तथा च अट्कुप्वाङित्यादेः रेफाद्युत्तराडादिभिन्नानुत्तरस्य रेफाद्युत्तरस्य रेफाद्यवृत्तिनकारवृत्तिपदत्वासमानाधिकरणं यद्रेफादिवृत्तिसमुदायत्वं तदाश्रयस्य नस्य णत्वं स्यादित्यर्थः। आदर्शेनेत्यादौ णत्ववारणायानुत्तरत्वान्तनिवेशः। रामेणेत्यादौ तदुपपत्तये अडादिभिन्नेति। नारीत्यादौ तद्वारणाय रेफाद्युत्तरत्वनिवेशः। रामनामादौ तद्वारणाय रेफाद्यवृत्तीत्यादि। रामनामादिगतसमुदायत्वस्य च रेफाद्यवृत्ति यन्नामपदनिष्ठं पदत्वं तदसमानाधिकरणत्वविरहान्न दोषः। असंभववारणाय रेफाद्यवृत्तीति। मातृभोगीण इत्यत्र भोगपदवृत्तिपदत्वमादायानुपपत्तिवारणाय नकारवृत्तीति। यद्यपि प्रत्ययमात्रवृत्तिसमदायत्वं भोगपदवृत्तिपदत्वासमानाधिकरणमेव। तथापि तस्य रेफादिवृत्तित्वविरहान्न तदादायोपपत्तिः। वस्तुतस्तु तादृशसमुदायत्वे रेफादिवृत्तित्वस्य सूत्रलभ्यत्वेऽपि प्रयोजनविरहेणा- विवक्षिततया इह नकारवृत्तित्वमनुपादेयमेव। रेफाद्यवृत्तिपदत्वासमानाधिकरणधर्मवत्त्वमात्रं नकारे निवेश्यम्। मातृभोगीणादौ प्रत्ययमात्रवृत्तिसमुदायत्वं नकारवृत्तितद्व्यक्तित्वमेव वा आदाय तदुपपत्तिः। नचैवमपि रामनारीत्यत्र णत्वापत्तिः। नारीशब्दवृत्तिपदत्वस्य रेफवृत्तितया रेफाद्यवृत्तिपदत्वासमानाधिकरणधर्मवत्त्वस्य नकारे सत्त्वादिति वाच्यम्। यादृशरेफाद्युत्तरत्वं नकारस्य तादृशरेफाद्यवृत्तिपदत्वासमानाधिकरणधर्मवत्त्वस्य विवक्षिततया दोषविरहात्। स्वोत्तराडादिभिन्नानुत्तरत्वस्वोत्तरत्वस्वावृत्तिपदत्वासमानाधिकरणधर्मवत्त्वैतत्त्रि- तयसंबन्धेन रेफादिविशिष्टस्य नस्य णत्वं स्यादिति तु निष्कर्षः। स्वोत्तराडादिभिन्नानुत्तरत्वं च स्वोत्तराडादिभिन्नोत्तरत्वसंबन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वरूपम्। स्वावृत्तिपदत्वासमानाधिकरणधर्मवत्त्वं च स्वविशिष्टधर्मवत्त्वरूपम्। धर्मे स्ववैशिष्ट्यं च स्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वसंबन्धेन। स्वनिष्ठावच्छेदकता च स्वविशिष्ट- पदत्वसमानाधिकरणत्वसंबन्धेन। पदत्वे स्ववैशिष्ट्यं च स्वनिष्ठावच्छेदकताकप्रतियोगिताक- भेदवत्त्वसंबन्धेन। स्वनिष्ठावच्छेदकता चाधेयतासंबन्धेन। अथवा निमित्तिमत्पदाघटितत्वमात्रं ग्राह्यम्। तच्च नकारवृत्तिपदत्वनिष्ठन्यूनवृत्तिता- निरूपकभिन्नसमुदायत्वं रेफादिवृत्तितादृशसमुदायत्वाश्रयत्वं “समानपदे” इति सप्तम्यन्तार्थः। तन्निष्ठन्यूनवृत्तितानिरूपकत्वं च स्वसामानाधिकरण्यस्वाभावसामानाधिकरण्योभयसंबन्धेन तद्विशिष्टत्वम्। गीर्नमतीत्यादिषु नमत्यादिगतसमुदायत्वस्य पदत्वनिष्ठन्यूनवृत्तितानिरूपक- भिन्नतया तद्वारणाय समुदायत्वे रेफादिवृत्तित्वनिवेशः। रामनामादिगतसमुदायत्व- वारणाय भिन्नान्तनिवेशः। मातृभोगीणादौ तादृशसमुदायत्वस्य भोगपदवृत्तिपदत्वनिष्ठ न्यूनवृत्तितानिरूपकतया तत्संग्रहाय नकारवृत्तीति। रामनारीत्यादौ णत्ववारणप्रकारः प्रागुक्तदिशा ज्ञेयः। अनुगमे स्ववृत्तिसमुदायत्ववत्त्वं तृतीयसंबन्धः। स्ववृत्तित्वं स्वरूपसंबन्धेन। समुदायत्ववत्त्वं च स्वरूप-आधेयत्वोभयसंबन्धेन। आधेयता च स्वनिष्ठावच्छेदकताक- प्रतियोगिताकभेदवत्त्वसंबन्धेन। अवच्छेदकता च स्ववृत्तिपदत्वविशिष्टत्वसंबन्धेन। वृत्तिः - स्वरूपसंबन्धेन। पदत्ववैशिष्ट्यं च स्वसामानाधिकरण्यस्वाभावसामानाधिकरण्योभयसंबन्धेन। यद्वा समाने एव पदे न तु भिन्ने इति रीत्या निमित्तानधिकरणनिमित्तिमत्पदावृत्तित्वं सप्तम्यन्तार्थः। रेफाद्यवृत्तिपदत्वानाश्रयत्वमिति तु निष्कर्षः। अनुगमे च स्वनिष्ठा- वच्छेदकताकप्रतियोगिताकभेदवत्त्वं तृतीयसंबन्धः। स्वनिष्ठावच्छेदकता च स्वविशिष्ट- पदत्वाश्रयत्वसंबन्धावच्छिन्ना। पदत्वे स्ववैशिष्ट्यं च स्वनिष्ठावच्छेदकताकप्रतियोगिता- कभेदवत्त्वसंबधेन। स्वनिष्ठावच्छेदकता च आधेयतासंबन्धेनेत्यलम्। यदपि निमित्तानधिकरणनिमित्तिमत्पदाघटितत्वस्य सामानपद्यरूपत्वेऽपि उत्तरपदत्वे चेत्यादिवार्तिके नायनशब्दस्य प्रत्ययलक्षणनिषेधात् पदत्वविरहेण सामानपद्योपपत्त्या णत्वोपपत्तिरिति। तदप्ययुक्तम्, उक्तवार्तिके न णत्वविधौ प्रत्ययलक्षणानिषेधात् , उत्तरपदनिष्ठं यत् पदत्वं तत्प्रयुक्तापदादिविधावेव हि अनेन प्रत्ययलक्षणं निषिद्ध्यते , णत्वप्रवृत्तिस्थले च उत्तरपदस्य न पदत्वं संभवति। उत्तरपदस्य पदत्वे सामानपद्यविघटनेन णत्वप्रवृत्त्यसभवात्। अतो दूरत एव णत्वस्य उत्तरपदनिष्ठपदत्वप्रयुक्तत्वमिति कथमुक्तवार्तिकस्य णत्वविधौ प्रवृत्तिः। वार्तिके हि उत्तरशब्दः उत्तरपदपरः, उत्तरस्य पदत्वमिति व्युत्पत्त्या तन्निष्ठपदत्वलाभः। सतिसप्तम्या प्रयुक्तत्वबोधः, पयः पाने सति पिपासा शाम्यतीत्यादिषु तथा दर्शनात्। अथ निमित्तिमत्पदत्वस्य णत्वप्रयोजकत्वं निर्विवादं तस्य णत्वविध्युद्देश्यता- वच्छेदकघटकत्वात्। उद्देश्यतावच्छेदकघटकत्वस्यैव ईदृशस्थले प्रयोजकत्वरूपतायाः वक्ष्यमाणत्वात्। तथाच निमित्तानधिकरणनिमित्तिमत्पदत्व(?)त्वेन रामनामाद्यन्तर्गतो- त्तरपदवृत्तिपदत्वस्यापि प्रयोजकत्वाऽक्षतेः णत्वस्य उत्तरपदवृत्तिपदत्वप्रयुक्तत्वमव्याहत- मिति तत्रोक्तवार्तिकप्रवृत्तिर्निराबाधैव। न च उद्देश्यतावच्छेदकीभूताभावप्रतियोगिकोटि- निविष्टत्वेन तत्र न प्रयोजकत्वव्यवहारः। मणित्वादौ कारणतावच्छेदकघटकत्वेऽपि दाहादिप्रयोजकत्वाव्यवहारवत्। तथा च तद्व्यावृत्तमेव प्रयोजकत्वं निर्वाच्यम्। तन्निरूपकत्वरूपं प्रयुक्तत्वमेव सतिसप्तमीबोध्यमिति कथमुक्तवार्तिकस्य तत्र प्रवृत्तिरिति वाच्यम्। उद्देश्यतावच्छेदकीभूताभावप्रतियोगिकोटिनिविष्टेऽपि प्रयोजकत्वव्यवहारसत्त्वेन णत्वस्य उत्तरपदवृत्तिपदत्वप्रयुक्तत्वाक्षतेः नकारस्य निमित्तानधिकरणनिमित्तिमपत्पदाघटितवृत्तित्वे णत्वमितिवत् स्वावच्छिन्नाघटितवृत्तित्वसंबन्धेन निमित्तानधिकरणनिमित्तिमत्पदत्ववत्त्वे णत्वमित्यपि व्यवहारो दृश्यत एव। पूर्ववृत्तौ दण्डत्ववत्त्वे घटोत्पत्तिरितिवत् पूर्ववृत्त्यभावे स्वावच्छिन्नप्रतियोगिताकत्वसंबन्धेन मणित्ववत्त्वे दाहोत्पत्तिरित्यपि व्यवहारोऽस्त्येव। तथा च णत्वविधौ वार्तिकं प्रवर्तत एवेति चेत् । उच्यते - वार्तिके सतिसप्तम्याः प्रयोजकत्वमात्रार्थकत्वे माषकुम्भवापेनेत्यत्र पदव्यवायेपीति णत्वनिषेधानुपपत्तिप्रसङ्गः। तथाहि पदव्यवायेपीत्यनेन निमित्त(त्तोत्तर)पदोत्तरनकारोद्देशेन णत्वाभावविधानात् कुम्भशब्दवृत्तिपदत्वस्य उद्देश्यतावच्छेदकघटकतया णत्वाभावस्य उत्तरपदवृत्तिपदत्वप्रयुक्तत्वमक्षतमिति। तद्विषये उक्तवार्तिके न प्रत्ययलक्षणनिषेधे कुम्भशब्दादेः पदत्वासंभवात् पदव्यवधानासंभवेन णत्वनिषेधो न प्रवर्तेत। अतो नेह सप्तम्याः प्रयुक्तत्वमात्रमर्थः किन्तु सामानाधिकरण्यमपि, गुणकर्मान्यत्वे सति सत्त्वादित्यत्र सामानाधिकरण्य- रूपवैशिष्ट्यार्थकतायास्तान्त्रिकै रुक्तत्वात्। पयःपाने सति पिपासा शाम्यतीत्यादौ सामानाधिकरण्यप्रयुक्तत्वोभयभानस्यैवानुभविकत्वाच्च। इत्थं च उत्तरपदनिष्ठं यत्पदत्वं तत्सामानाधिकरण्य-तत्प्रयुक्तत्वोभयवत्यपदादिविधौ प्रत्ययलक्षणन्नेत्यर्थात् णत्वविधौ उक्तवार्तिकप्रवृत्तिः दुर्घटा। णत्वस्य उदासीनोत्तरपदनिष्ठपदत्वप्रयुक्तत्वेऽपि तत्सामाना- धिकरण्यविरहात्। अत्र तादृशपदत्वसामानाधिकरण्यमात्रादरणे माषकुम्भवापेनेत्यादौ उक्तदोषस्यैव प्रसङ्गः। समस्तसमुदायगतपदत्वसामानाधिकरण्यस्य णत्वनिषेधे सत्त्वात् तादृशपदत्वस्य उत्तरपदवृत्तित्वाच्च। तद्धि समुदायपर्याप्तमपि आश्रयतया उत्तरपदेऽपि वर्तते अतः प्रयुक्तत्वनिवेशः। तथा सति दर्शितसमुदायगतपदत्वस्य णत्वनिषेधोद्देश्यता- वच्छेदकघटकत्वविरहेण तत्प्रयुक्तत्वासंभवान्न दोषः। स्वप्रयुक्तत्वस्वसामानाधिकरण्योभयसंबन्धेन तादृशपदत्वविशिष्टापदादिविधाविति तु निष्कर्षः। तेन दर्शितस्थले समुदायगतपदत्वमादाय सामानाधिकरण्यं कुम्भशब्दगतं तदादाय प्रयुक्तत्वं चोपपाद्य अनुपपत्त्यापादनं निरस्तम्। यद्यपि परमवाचा परमलिहेत्यादौ वस्तुतः कुत्वडत्वादेरप्रवृत्त्या तस्योत्तरपदत्वविशिष्टत्वन्नोपपद्यते। तथापि तादृशपदत्वविशिष्टत्वसंभावनाविषयत्वमेव ग्राह्यमिति न दोषः। संभावना च “परमवाचेत्यादौ उत्तरपदस्य पदत्वमाश्रित्य कुत्वे कृते तदुत्तरपदत्वविशिष्टं भवेदि"त्याकारको ज्ञानविशेषः। स च मुनिनिष्ठ एव ग्राह्यः। तेन पुरुषान्तरीयज्ञानस्यातिप्रसञ्जकत्वेऽपि न क्षतिः। तत्सिद्धं णत्वविधावुक्तवार्तिकं न प्रवर्तत इति। ननु निमित्तानधिकरणेत्यादेः नकारवृत्तिपदत्वनिष्ठन्यूनवृत्तितानिरूपकभिन्नसमुदाय- त्वमर्थः। ततश्चाट्कुप्वाङित्यादेः तादृशसमुदायत्वाश्रयनकारोद्देशेन णत्वविधायकतया नकारवृत्तिपदत्वस्य उद्देश्यतावच्छेदकघटकतया णत्वप्रयोजकत्वं अविवादम्। तच्च “नारायण” इति समस्तसमुदायगतपदत्वरूपम्। ततश्च णत्वे तत्प्रयुक्तत्वतत्सामानाधिकरण्ययोस्सत्त्वात् तत्रोक्तवार्तिकप्रवृत्तेरविघात इति चेन्न। निमित्तानधिकरण(निमित्तिमत्)पदावृत्तित्वस्य रेफाद्यवृत्तिपदत्वानाश्रयत्वपर्यवसितस्यैव सप्तम्यन्तार्थस्य लाघवेनादरणीयत्वात् दर्शित- समुदायगतपदत्वस्य रेफाद्यवृत्तित्वविरहेण णत्वविधेस्तथात्वासंभवात्। किञ्च उत्तरपदत्वा- वच्छिन्नपर्याप्तिकपदत्वमेवावश्यं निवेश्यम्। अन्यथा परमगोमानित्यादौ संयोगान्तलोपानुपपत्तेः तत्र समस्तसमुदायगतपदत्वस्यापि प्रागुक्तरीत्या उत्तरपदवृत्तित्वानपायेन संयोगान्तलोपे तत्प्रयुक्तत्वसामानाधिकरण्ययोः सत्त्वात्। उत्तरपदत्वावच्छिन्नपर्याप्तिकत्वनिवेशे च न दोषः। समुदायगतपदत्वमाश्रित्यैव संयोगान्तलोपप्रवृत्तेः। तथा च कथमुक्तवार्तिकस्य णत्वविधौ प्रवृत्तिशङ्कापि। यद्यप्येवं सति माषकुम्भावापेनेत्यत्र समुदायगतपदत्वमादायानुपपत्तेरप्रसरात् प्रयुक्तत्वनिवेशस्य प्रागुपदर्शितं प्रयोजनं न संभवति। तथापि परमगोमानित्यत्र उत्तरपदमात्रस्य प्रत्ययलक्षणेन पदत्वमाश्रित्य सामानाधिकरण्योपपादनसंभवात् संयोगा- न्तलोपानुपपत्तिवारणाय प्रयुक्तत्वनिवेशः। तत्र समुदायगतपदत्वमाश्रित्यैव लोपप्रवृत्त्या न दोषः। वस्तुतस्तु प्रयुक्तत्वानिवेशेऽपि प्रकृतनिर्वाहात् तत्सार्थक्यवर्णनमनावश्यकमेव णत्वस्य उत्तरपदत्वावच्छिन्नपर्याप्तिकपदत्वसामानाधिकरण्यासंभवादेव वार्तिकाप्रवृत्त्युपपत्तेः। अथैवं रीत्या वार्तिकार्थवर्णने परमविदुषेत्यादौ षत्वानुपपत्तिः। अपदान्तस्य मूर्धन्य इत्यनुवृत्तिसहितेन इण्कोरित्यनेन विधीयमानस्य षत्वस्य उत्तरपदत्वावच्छिन्न- पर्याप्तिकपदत्वसामानाधिकरण्यासंभवेन तत्र उक्तवार्तिकाप्रवृत्तौ प्रत्ययलक्षणसत्त्वेन तस्यापदान्तत्वासंभवात्। अत इत्थं वक्तव्यम् उत्तरपदशब्दः समासचरमावयवपरः, वैय्याकरणैः तस्य तत्र रूढत्वाङ्गीकारात् सतिसप्तम्याश्च सामानाधिकरण्यमर्थः। तच्चाश्रयत्वो- द्देश्यत्वोभयघटितम्। तथाच उत्तरपदत्वाश्रयोद्देश्यको योऽयमपदादिविधिः तद्विषये प्रत्ययलक्षणं नेति वार्तिकार्थः। उत्तरपदत्वस्य समुदायपर्याप्तत्वेपि तद्धटकवर्णेषु स्वरूपसंबन्धेन तदाश्रयत्वमक्षतमिति उत्तरपदघटकवर्णोद्देश्यकविधिसंग्रहः। ततश्च परमविदुषेत्यादौ षत्वस्य तादृशत्वानपायात् तत्र प्रत्ययलक्षणनिषेधोपपत्तिः माषकुम्भवापेनेत्यादौ णत्व- निषेधस्य चातथात्वान्न तत्र प्रत्ययलक्षणनिषेधः। इत्थं च णत्वविधेरपि तादृशतया तत्र प्रत्ययलक्षणनिषेधोपपत्तिरिति चेन्न।

यत एवं सति परमयुवयोगिनेत्यादौ पदव्यवाये-पीति निषेधानुपपत्तिः तस्य तादृशतया युवशब्दस्य प्रत्ययलक्षणनिषेधात्। अतः अपदादिविधिशब्दस्य पदान्तत्वप्रयुक्तविधिपरत्वमेव समाश्रयणीयम्। तथा च णत्वनिषेधस्यातथात्वान्न दोषः। इण्कोरिति षत्वोद्देश्यतावच्छेदककोटौ पदान्तत्वस्य घटकतया तस्यापि पदान्तत्वप्रयुक्तत्वात् परमविदुषेत्यादौ नानुपपत्तिः। इत्थं च णत्वविधेः पदान्तत्वाप्रयुक्ततया न तत्र वार्तिकप्रवृत्तिरिति। न च यादृशोत्तरपदघटकवर्णोद्देश्यकः विधिस्तस्यैवानेन प्रत्ययलक्षणनिषेधाङ्गीकारात् नोक्तानुपपत्तिः। युवशब्दस्य कार्यभाक्त्व- विरहेण प्रत्ययलक्षणसत्त्वात्। तथाचापदादिविधिशब्दस्य दर्शितार्थकताया अनाश्रयणीयतया णत्वविधौ वार्तिकप्रवृत्तेरविघात इति वाच्यम्। पदे व्यवाय इति सप्तमीसमासपक्षे परमयुवयोगिनेत्यादौ णत्वनिषेधानुपपत्तिपरिहारायापदादिविधिशब्दस्य उक्तार्थकताया आवश्यकत्वात्। तथाहि आर्द्रगोमयेण शुष्कगोमयेणेत्यादौ पदव्यवायेपीति निषेधवारणाय “अतद्धित इति वक्तव्यमि"त्युक्तम् वार्तिककृता। तत्प्रत्याचिख्यासया च पदे व्यवाय इति सप्तमीसमासपक्षः समाश्रितः भाष्यकृता। तत्र व्यवधानं प्रत्यासत्त्या पदकृतमेव ग्राह्यम्। तेन चतुर्बह्वंगेणेत्यत्र पदपरकबहुच्प्रत्ययेन व्यवधानेऽपि न दोषः। पदपरकं
यत्पदं तेन व्यवधान इति तु निष्कर्षः। तथा च आर्द्रगोमयेण शुष्कगोमयेणेत्यादौ गोपदस्य पदपरकत्वविरहान्न दोषः। इत्थं च परमयुवयोगिनेत्यत्र योगिन्नित्यस्य कार्यभागुत्तरपदरूपस्य प्रत्ययलक्षणनिषेधे युवशब्दस्य पदपरकत्वासंभवात् णत्वनिषेधानुपपत्तिः। अतः पदान्तत्वप्रयुक्तविधिपरत्वमपदादिविधिशब्दस्याकामेनापि स्वीकार्यमिति। एतेन उत्तरपदस्य पदसंज्ञायां प्रत्ययलक्षणं न, पदादिविधौ तु उक्तनिषेधो नेति वार्तिकार्थः। कार्यभाज उत्तरपदस्यैवानेन प्रत्ययलक्षणनिषेधाङ्गीकारात् न माषकुम्भवापेनेत्यादौ णत्वनिषेधानुपपत्तिः। तथा च णत्वविधावपि वार्तिकप्रवृत्तिरव्याहतैवेत्यपास्तम्। परमयुवयोगिनेत्यादौ पदे व्यवाय इति सप्तमीसमासपक्षे णत्वनिषेधानुपपत्तेर्दुर्वारत्वात्, प्रसज्यप्रतिषेधाश्रयणे वाक्यभेदाद्यापत्तेश्च। अतः पर्युदासमाश्रित्यापदादिविधिशब्दस्य पदान्तत्वप्रयुक्तविधिपरत्वमेवाङ्गीकरणीयमिति। न च माषकुम्भवापेनेत्यादौ गतिकारकोपपदानामिति परिभाषया सुबुत्पत्तेः प्रागेव समासात् सप्तमीसमासपक्षे तत्रानुपपत्तिवारणाय पदशब्दस्य पदत्वयोग्यपरत्वमावश्यकम्। इत्थं च प्रागुक्तस्थले प्रत्ययलक्षणनिषेधेपि क्षतिविरह इति वाच्यम्। उक्तपरिभाषाया अनित्यत्वेन दर्शितस्थले सुबुत्पत्त्यनन्तरमेव समासाङ्गीकारेण पदशब्दस्य पदत्वयोग्यलाक्षणिकतायां मानाभावात्। अस्या अनित्यत्वं च उपपदमतिङिति सूत्रे कैय्यटे स्पष्टम्। तत्र हि “कर्तृकरणे कृता बहुलमि"ति बहुलग्रहणात् गतिकारकोपपदानामिति परिभाषाया अनित्यत्वं ज्ञाप्यते। तेन धनक्रीतादिसिद्धिरित्युक्तम्।

यद्यपि उक्तपरिभाषा नित्यैव। धनक्रीतादिस्त्वजादित्वाङ्गीकारेण साधनीय इत्येव भाष्यकाराशयः। अत एव दधिसेचावित्यादौ उपपदसमासे सात्पदाद्योरिति निषेधोपपत्तये भाष्ये पदादादिरिति पञ्चमीसमासाश्रयणमुपपद्यते। अन्यथा सुबुत्पत्त्यनन्तरमेव तत्रापि समाससंभवात् तदसङ्गतिस्स्पष्टैव। तथापि वार्तिककृतः तदनित्यत्वमेव सम्मतम्। अन्यथा अपदादिविधावित्यभिधानानुपपत्तेः। दधिसेचावित्यादौ षत्वस्य उक्तरीत्यैव उप- पादनीयत्वात्। ततश्च तत्पक्षे एवापदादिविधावित्यस्य सत्त्वात् तस्य उक्तरीत्या पदान्तत्व- प्रयुक्तविधिपरत्वमावश्यकमेवेति।

अथापदादिविधिशब्दस्य कथं पदान्तत्वप्रयुक्तविधिपरत्वमिति चेन्न – नञि- वयुक्तपरिभाषाबलादिति ब्रूमः। तथा हि अपदादिविधावित्यत्र नञः न भिन्नमात्र- मर्थः। अपि तु भिन्नसदृशं नञिवयुक्तं अन्यसदृशाधिकरणे तथाह्यर्थगतिरिति न्यायात्। सादृश्यं चेह स्वघटितपदघटकवर्णनिरूपितपूर्वत्वतादृशवर्णनिरूपितोत्तरत्वोभय- वदवृत्तिधर्मप्रयुक्तविधित्वेन। स च धर्मः पदादित्वं पदान्तत्वं चेति पदान्तत्वप्रयुक्त- विधिरेव उक्तरूपेणापदादिविधिसदृश इति स एवापदादिविधिशब्दार्थः। न च उक्तरूपेणैव सादृश्यमादरणीयमित्यत्र नियामकाभावः पदत्वप्रयुक्तविधित्वेनापि सादृश्यसंभवादिति वाच्यम्। व्याप्यधर्मप्रयुक्तसादृश्यसंभवे व्यापकधर्मप्रयुक्तस्य तस्यानाश्रयणीयत्वात्। अन्यथा सर्वत्र के नचिदाकारेण सादृश्यस्यावर्जनीयतया तस्य नञर्थतावच्छेदकता- स्वीकारस्याव्यावर्तकतापत्त्या दर्शितन्यायोपपादनपरिभाषाऽसंगतिप्रसंगात्। अत एव वेस्कन्देरनिष्ठायामिति षत्वविकल्पः कुत्वेन सादृश्यात् तृच्येव न तिङीत्युपपद्यते। अन्यथाहि प्रत्ययत्वेन सादृश्यात् तिङ्यपि तदापत्तिः। तथा च व्याकरणे परिभाषासंस्कृतवाक्यार्थस्यैव समाश्रयणीयतया तथात्वसंप्रतिपन्नप्रयोजनान्तरविरहेऽपि अपदादिविधिशब्दस्य उक्त- परिभाषाबलेन पदान्तत्वप्रयुक्तविधिपरत्वमेव समाश्रयणीयम्। प्रकृते तु माषकुम्भवापे- नेत्यत्र णत्वनिषेधोपपत्तिरूपप्रयोजनस्याप्यस्माभिरुपपादिततया अपदादिविधिशब्दस्य पदान्तत्वप्रयुक्तविधिपरत्वं सुदृढमेवेति। अथ किमिदं पदान्तत्वप्रयुक्तत्वम्। न तावज्जन्यजन्यतावच्छेदकादावनुभूयमान- स्वरूपसंबन्धविशेषः। कुत्वादेः पदान्तत्वजन्यत्वतदवच्छेदकत्वाद्यसंभवात्। नापि पदान्तत्व- व्यापकत्वम्, राम इत्यादौ विसर्जनीये पदान्तत्वाश्रये कुत्वविरहात्। नापि तद्व्याप्यत्वम्, वक्तीत्यादौ कुत्वाश्रये पदान्तत्वविरहात् इति चेत् - उच्यते। पदान्तत्वघटितधर्मा- वच्छिन्नोद्देश्यताकशाब्दबोधविधेयत्वतात्पर्यविषयत्वमेव तत्। उद्देश्यतावच्छेदकघटक एव वैय्याकरणानां प्रयोजकत्वव्यवहारात् अन्यस्य दुर्वचत्वाच्च। चोः कुरित्यादिषु झल्परकत्व- पदान्तत्वान्यतरवच्चवर्गोद्देशेन कुत्वविधानात् तस्य पदान्तत्वप्रयुक्तत्वोपपत्तिः। यद्यपि चोः कुरित्यादौ षष्ठी स्थाने योगेति परिभाषायाः स्थाने इत्यध्याहार्यम्। स्थानं च प्रसङ्गः यदि चोः कुरित्यादि शास्त्रन्नारभ्येत तदा वागित्यादौ वकारआकारोच्चारणाव्यवहितोत्तरक्षणः चवर्गोच्चारणाधिकरणं स्यादित्याकारकः पाणिन्यादिसमवेतो ज्ञानविशेषः। चोः कुरित्यत्र षष्ठ्यर्थः उच्चारणाधिकरणत्वप्रकारतानिरूपकत्वं प्रसङ्गेऽन्वेति। स्थानपदोत्तरसतिसप्तम्या- श्चाधिकरणक्षणवृत्तित्वरूपं सामानाधिकरण्यमर्थः। अधिकरणता च विशेष्यतासंबन्धेन। वृत्तिश्च स्वोच्चारणाधिकरणत्वसम्बन्धेन। तथाच चोः कुरित्यादितः कवर्गादिविशेष्यकः चवर्गोच्चारणाधिकरणत्वप्रकारकप्रसङ्गविशेष्यकक्षणवृत्तित्वप्रकारक एव बोधः। तथापि अत्र चवर्गोद्देशेन कवर्गो विधीयत इत्यादिव्याख्यातृव्यवहारात् चवर्गोद्देश्यककवर्गविधेयकबोध एव पाणिनेस्तात्पर्यमिति दर्शितसूत्रजन्यबोधस्य चवर्गोद्देश्यतानिरूपितकवर्गविधेयताकत्व- मेवाश्रयणीयम्। उद्देश्यत्वविधेयत्वे हि न विशेष्यत्वप्रकारत्वरूपे , किन्तु विलक्षणे एव विषयते। अत एव पर्वते वह्निरित्यनुमितेरपि पर्वतोद्देश्यतानिरूपितवह्निविधेयताकत्वमेवाङ्गीकृतं तान्त्रिकैः। तस्मात्पदान्तत्वघटितधर्मावच्छिन्नोद्देश्यताकशाब्दबोधविधेयत्वतात्पर्यविषयत्वं कवर्गे निर्बाधमेव। विधेयतावच्छेदकसंबन्धश्च स्वोच्चारणाधिकरणक्षणविशेष्यकप्रसङ्ग- प्रकारीभूताधिकरणताकोच्चारणकर्मत्वरूपः। एवं च झल्परकत्वपदान्तत्वान्यतरवच्चवर्गो- च्चारणं यस्मिन्क्षणे प्रसक्तं तस्मिन्क्षणे कवर्गोच्चारणं कर्तव्यमित्युक्तं भवति। तत्सिद्धं नञिवयुक्तपरिभाषाबलेन अपदादिविधिशब्दस्य पदान्तत्वप्रयुक्तविधिपरत्वमिति। किं
चापदादिविधिशब्दस्य दर्शितार्थपरतामनङ्गीकृत्य णत्वविधावपि वार्तिकप्रवृत्तिस्वीकारे गन्धर्वगानादीनां क्षुभ्नादित्वस्य कल्पनीयतया गौरवम्। अतस्तत्परिहाराय उक्तरीत्या णत्वविधावप्रवृत्तिवर्णनमेव युक्तम्। एवं णत्वविधावुक्तवार्तिकप्रवृत्तौ प्रनिरन्तरित्या- दिसूत्रवैय्यर्थ्यम् , प्रवणादिषु अट्कुप्वाङित्यनेनैव णत्वसिद्धेः। अथ अट्कुप्वाङित्यनेन प्राप्तावपि वनं पुरगेतिनियमेन संज्ञारूपे प्रवणादौ असिपत्रवनादाविव णत्वनिवृत्तौ पुनः प्रापणार्थोऽयं विधिः। एवं शरादीनामोषधि- वनस्पत्यन्यतररूपतया “विभाषौषधिवनस्पतिभ्य” इत्यनेन विकल्पे प्राप्ते नित्यार्थश्च। अतो नास्य वैय्यर्थ्यमिति चेत्- एवमपि वनं पुरगेति सूत्रे अग्रग्रहणवैय्यर्थ्यं दुष्परिहरमेव। “अग्रे वणे” अट्कुप्वाङित्यनेन णत्वोपपत्तेः। न च वननकारस्य यदि णत्वं तर्हि अग्रोत्तरस्यै- वेत्येवंविधनियमार्थमग्रग्रहणम्। तेन चित्रवनादिव्यावृत्तिरिति वाच्यम्। त्रैदोष्यापादक- नियमपरत्वस्यान्याय्यत्वात्। उक्तवार्तिकस्य णत्वविधावप्रवृत्तौ तस्य विधिपरत्वसंभवात्। यद्यपि अपूर्वविध्यपेक्षया नियम एवाभ्यर्हितः पक्षप्राप्तनियमनमात्रे विधे- र्व्यापारात्। अत एव पत्नीसंयाजान्तान्यहानि सन्तिष्ठन्त इत्यत्र प्रागुत्तमादह्नः पक्षप्राप्तपत्नी- संयाजान्तसंस्थानियामकत्वमेव न तूत्तमेऽह्नि अप्राप्तपत्नीसंयाजान्तत्वप्रापकत्वं इत्युक्तम्। तथापि पञ्च पञ्चनखा भक्ष्या इत्यादौ पातञ्जलभाष्ये नियमव्यपदेशात् परिसंख्याविधिरपि वैय्याकरणैः नियमविधिरिति व्यवह्रियते। तथाच प्रागुक्तरीत्या वननकारस्य यदि णत्वं तर्ह्यग्रोत्तरस्यैवेत्येवंविधनियमस्य प्राप्तपरिसंख्यारूपतया स्वार्थत्यागपरार्थस्वीकारप्राप्त- बाधरूपदोषत्रयमावश्यकमेव। तथाहि अग्रशब्दोत्तरवननकारस्य णत्वं स्यादिति स्वार्थः स च त्यक्तव्यः, अट्कुप्वाङित्यनेनैव तस्य प्राप्तत्वात्। अप्राप्ते हि शास्त्रमर्थवदिति न्यायात्। अग्रशब्दानुत्तरवननककारस्य णत्वं न स्यादिति परार्थः, स च स्वीकरणीयः। अन्यथा चित्रवनादिषु अट्कुप्वाङित्यनेन प्राप्तस्य णत्वस्यानिवारणात्। अट्कुप्वाङिति सूत्रप्राप्तं च णत्वं बाधितव्यमिति। किञ्च नियमपरत्वावश्यकत्वे चित्रकाननादीनामपि व्यावृत्त्यनुरोधेन निमित्तानधिकरणपदवृत्ते र्नस्य यदि णत्वम् तर्हि अग्रोत्तरवननकारस्यैवेत्येवंविधनियम एव समाश्रयणीयः। तद्व्यावर्तकयत्नान्तरकरणे गौरवात्। इत्थं च नारायणशब्देऽपि यौगिके णत्वं दुर्घटम्। कृत्तद्धितसमासाश्चेति सूत्रे समासग्रहणस्य यत्र संघाते पूर्वो भागः पदं उत्तरस्तु प्रत्ययो न भवति तस्य चेत्प्रातिपदिकसंज्ञा तर्हि समासस्यैवेत्येवंविधनियमपरत्वाङ्गीकारवत् अग्रग्रहणस्य दर्शितनियमपरत्वमपि हि युज्यत एव। अथास्य एवंविधनियमपरत्वे समानपदग्रहणवैय्यर्थ्यम्। तद्विरहेपि गीर्नमति ,रामनामा इत्यादिषु उक्तनियमेनैव णत्वव्यावृत्तेरिति चेत् -हन्त ! नियमपरकत्वावश्यकत्वे चित्रकाननादीनां व्यावर्तनाय यत्नान्तरकरणे गौरवात् तदकरणकृतलाघवानुरोधेन ईदृशनियमपरत्वमेव युक्तमिति वदतां समानपदाग्रहणकृतलाघवान्तरमपि उद्घाटयता सम्यक्दूषणमुक्तमायुष्मता।

इदमत्र तत्त्वम्। यद्यपि समानपदाग्रहणेऽपि अग्रग्रहणस्य दर्शितनियमपरत्वेनैव सर्वनिर्वाहे तद्वैय्यर्थ्यं सर्वैरपि दुर्वारम्। तथापि समानपदग्रहणकृतकण्ठादिव्यापारगौरवादपि नियमविधिकृतमनोव्यापारगौरवमेव दुस्सहमित्यभिप्रायेण भगवता पाणिनिना समान- पदग्रहणमेव कृतमिति सर्वसमाश्रयणीयः समाधिः। तत्र यद्युत्तरपदत्वे चेत्यादिवार्तिकं
णत्वविधावपि प्रत्ययलक्षणनिषेधकं भवेत् तदा उक्तनियमविधिगौरवं सोढव्यमेव स्यात्। ततश्च समानपदग्रहणवैय्यर्थ्यं प्रागुक्तरीया दुर्वारमिति उक्तवार्तिकस्य णत्वविधाव- प्रवृत्तिरेव युक्ता। तथासति हि अग्रग्रहणस्य विधिपरत्वासंभवात् न कोपि दोषः। किं
च उक्तवार्तिकस्य णत्वविधौ प्रत्ययलक्षणनिषेधकत्वे पूर्वपदादिति सुत्रे अग इत्यस्य वैय्यर्थ्यम्। तद्धि ऋगयनादौ पूर्वपदादिति णत्ववारणार्थमिति भाष्यादावुक्तम्। पूर्वपदा- दित्यस्य परमते द्रुणसादिमात्रविषयकतया न ऋगयनादावनेन णत्वप्राप्तिः द्रुणसादौ पदादिविधित्वेन प्रत्ययलक्षणप्रवृत्त्या सामानपद्यासंभवेन तत्र णत्वप्राप्त्यर्थं पूर्वपदादिति सूत्रमिति तेनाङ्गीकारात्। न च ऋगयनादावट्कुप्वाङित्यनेन णत्वप्राप्त्या तन्निषेधकत्वमेव सार्थक्यान्यथानुपपत्त्या समाश्रीयते निमित्तनिमित्तिनोर्मध्ये गकारेण व्यवधाने णत्वं नेति तदर्थ इत्यङ्गीकारादिति वाच्यम्। रागेणेत्यादौ णत्वासिद्धिप्रसंगात्। न च पूर्वपदस्थान्निमित्तात् परस्य नस्य णत्वं न स्यात् गकारव्यवधाने इत्येवाग इत्यस्यार्थ इति न दोष इति वाच्यम्। तथा सति पूर्वपदस्थान्निमित्तात्परस्य नस्य णत्वन्न स्यादित्येतावत एव सम्यक्त्वेन गकारव्यवधानांशवैय्यर्थ्यात्, नेत्युक्ते तावतैव पूर्वपदादित्येतत्संबन्धेन प्रागुक्तार्थवत् अस्याप्यर्थस्य लाभसंभवात्। नन्वेवं सति संज्ञाभूतनारायणादावपि णत्वानुपपत्तिः। ऋगयनादाविव तत्राप्यनेन निषेधात्। यदि चानेन निषेधेऽपि पूर्वपदात् संज्ञायामित्यनेन द्रुणसादाविव संज्ञाभूतनारायणा- दावपि न दोष इत्युच्यते तदा ऋगयनेऽपि णत्वं दुर्वारम्। वस्तुतस्त्वेवं सति पूर्वपदादित्यस्य प्रतिप्रसवत्वापत्या द्रुणसादौ णत्वानुपपत्तिरपि दोषः। तथा हि यद्यपि संज्ञाभूतनारायणादौ अट्कुप्वाङित्यनेनैव णत्वं प्राप्तम् उत्तरपदत्वे चेति प्रत्ययलक्षणनिषेधेन सामानपद्यसत्त्वात्। तथाप्युक्तनिषेधेनापोदितं पूर्वपदात्संज्ञायामित्यनेन पुनः प्राप्यत इत्यायातम्। इत्थं च द्रुणसादिषु पदादिविधितया प्रत्ययलक्षणसत्त्वेन सामानपद्यविरहात् णत्वस्यात्यन्ताप्राप्ततया न तत्प्रापकत्वमस्य संभवति, प्रतिप्रसवत्वसंभवे अत्यन्ताप्राप्तप्रापकत्वायोगात्। अत एव तार्तीयाधिकरणे “पूषा प्रपिष्टभागः” इत्यस्य चरौ प्राप्तापोदितपेषणपुनःप्रापकतया प्रतिप्रसवत्वसंभवात् पुरोडाशे पशौ वा नापूर्वपेषणप्रापकत्वम्, चरौ हि प्रकृतितः चोदकवशात् प्राप्तं षेषणं द्वारलोपान्निवृत्तम्, तत्प्रापणे चापवादनिवृत्तिमात्रे विधेर्व्यापारात् लाघवं, पुरोडाशे च पाकात्पूर्वं पेषणस्य प्राप्तत्वान्न विधानं संभवति। तदुत्तरं च पुरोडाशशब्दवाच्याकृतिविनाशापत्त्या न तत्संभवः। एवं पशुहृदयादावपि तेषामपि आकृतिविशेषविशिष्टमांसवाचित्वात् यद्यपि अवदानोत्तरमुभयत्र पेषणविधानसंभवः। तथापि उक्तरीत्या प्रतिप्रसवत्वसंभवात् नात्यन्ताप्राप्तपेषणप्रापकत्वं विधिव्यापारगौरवादित्युक्तम्। तस्मादग इत्यनुक्तौ द्रुणसादौ णत्वानुपपत्तिरपि स्यात्। तदुक्तौ तु नारायणादौ निषेधाप्रसरात् पूर्वपदादित्यस्य न प्रतिप्रसवत्वसंभवः। यद्यप्येवमपि ऋगयनादौ प्रतिप्रसवत्वसंभवः निषेधस्यासंज्ञायां चारितार्थ्यात्। तथापि निषेधे संज्ञायामित्यस्यापि संबन्धाङ्गीकारात् न दोषः। तथा सति ऋगयनादौ णत्वनिषेधकतयैव चारितार्थ्यस्य वक्तव्यत्वात्। तदेवम् अग इत्यस्य पूर्वपदस्थान्निमित्तात् परस्य गकारव्यवहितस्य नस्य णत्वं न स्यात् संज्ञायामित्यर्थः पर्यवसित इति न कोपि दोष इति चेत् - एवमपि सूत्रभेदाश्रयणं समर्थपरिभाषाबाधाश्रयणं चेति दूषणद्वयं दुर्निवारम्। उत्तरपदत्वेचेति वार्तिकस्य णत्वविधावप्रवृत्तौ हि ऋगयनादौ अट्कुप्वाङित्यनेन णत्वाप्राप्त्या अग इत्यस्य न भिन्नसूत्रत्वमाश्रयणीयम्। अग इत्यस्य पूर्वपदादित्येतद्विशेषणतया अगकारान्तात् पूर्वपदादित्यर्थाङ्गीकारात्। तत्सिद्धमपदादिविधिशब्दस्य पदान्तत्वप्रयुक्तविधिपरत्वमङ्गीकृत्य णत्वविधावप्रवृत्तिवर्णनमेव युक्तमिति। किं च अपदादिविधिशब्दस्य उक्तार्थकत्वानभ्यु- पगमेपि पदादिविधिशब्दस्य लक्षणप्रतिपदोक्तपरिभाषया पदादिशब्दोच्चारणपूर्वकपदादि- विधिपरताया आवश्यकत्वस्य वक्ष्यमाणतया द्रुणसादावपि अट्कुप्वाङित्यनेनैव णत्वसिद्ध्या पूर्वपदादित्यस्य नियमपरताया एवावश्यकतया के वलयौगिके नारायणे णत्वं न संभवत्येव। पूर्वपदादित्यस्य भाष्यसंमतविधिपक्षविलयप्रसंगश्च। अत्र भाष्यादिग्रन्थविरोधाः भूयांस उपलभ्यन्ते। ते च स्पष्टतया ग्रन्थगौरवभिया च ते नेह लिख्यन्ते।

वस्तुतस्तु निमित्तानधिकरणनिमित्तिमत्पदाघटितेत्यत्र पदशब्देन पदत्वयोग्यमेव विवक्षितम्। अन्यथा “गतिकारकोपपदानां कृद्भिस्सह समासवचनं प्राक् सुबुत्पत्तेरि"ति परिभाषया गन्धर्वगानादिषु सुबुत्पत्तेः प्राक् समासेन पदत्वघटितसामानपद्यसत्त्वेन णत्वप्रसङ्गात्, क्षुभ्नादित्वाङ्गीकारे गौरवात् तदसंभवस्य वक्ष्यमाणत्वाच्च। पदत्वयोग्यत्वं सुप्तिङ्विध्युद्देश्यतावच्छेदकधर्मवत्त्वम्। स च धर्मः प्रातिपदिकत्वं धातुत्वञ्च। विभक्तीतरानपेक्षया लोके अर्थबोधकत्वेन यद्दृष्टं तत्त्वं पदत्वयोग्यत्वमिति तु न, इन्द्रनिभादौ णत्वप्रसङ्गात् निभादेरुत्तरपदत्वे एव साधुतया तथात्वासंभवात्।

यत्तु नाराणामयनमिति तत्पुरुषसमासे णत्वमुपपद्यते, सुबुत्पत्तेः प्रागेव समासेन पदत्वघटितसामानपद्योपपत्तेः, गन्धर्वगानादिषु सुबुत्पत्त्यनन्तरमेव समासान्न दोषः। उक्तपरिभाषायाः अनित्यत्वादिति। तन्न - उक्तपरिभाषाया नित्यत्वमेव भाष्यकृदभिप्रेतमित्यस्य स्थापितत्वात्, भाष्यकृन्मत एव समानपदशब्दस्य निमित्तानधिकरणेत्याद्यखण्डपदपरत्वात्। यद्यपि वार्तिककृन्मते उक्तपरिभाषाया अनित्यत्वमेवेत्युक्तम्। तथापि न दोषः, समानपदे इत्यस्य यथाश्रुतार्थकतामङ्गीकृत्य पूर्वपदादित्यस्य नियमपरतायास्तेनाङ्गीकारात्। नियमश्च पूर्वपदस्थान्निमित्तात् परस्य उत्तरपदस्थस्य नस्य यदि णत्वं तर्हि संज्ञायामेवेत्येवंरूपः, पर्वपदशब्देन उत्तरपदस्याक्षेपात्। तथाच सुबुत्पत्तेः प्राक्समासेऽपि गन्धर्वगानादाविव तत्पुरुषनारायणशब्देऽपि णत्वं न संभवत्येव। अयनशब्दस्य समासचरमावयवरूपोत्तरपदत्वा- नपायात्। न चैवंरीत्या नियमाभ्युपगमे होतृपोतृनेष्टोद्गातार इत्यत्र णत्वप्रसङ्गः। नकारस्य उत्तरपदस्थत्वाभावेन नियमेनाव्यावर्तनात्। अतो निमित्तानधिकरणपदवृत्तेर्नस्य यदि णत्वं तर्हि संज्ञायामेवेत्येवंविधनियमपरत्वमेव समाश्रयणीयमिति तत्पुरुषनारायणशब्दे णत्वोपपत्तिः, सुबुत्पत्तेः प्राक्समासेनायनशब्दस्य पदत्वविरहेण नियमेनाव्यावर्तनात् , गन्धर्वगानादिषु सुबुत्पत्त्यनन्तरमेव समासाङ्गीकारात् न दोष इति वाच्यम्। उक्तरीत्या नियमाङ्गीकारे अग्रग्रामाभ्यामिति वार्तिकवैय्यर्थ्यप्रसंगात्। अग्रणीः ग्रामणीरित्यत्र सुबुत्पत्तेः प्रागेव समासेन दर्शितनियमेनाव्यावृत्त्या अट्कुप्वाङित्यनेनैव णत्वसिद्धेः। अतः निमित्तानधिकरणपदत्वयोग्यवृत्ते र्नस्य यदि णत्वं तर्हि संज्ञायामेवेत्येवं विधनियम- परत्वमेवाश्रयणीयम्। तथा चाग्रणीः ग्रामणीरित्यत्र दर्शितनियमेन णत्वव्यावृत्त्या अग्रग्रामाभ्यामिति वार्तिकचारितार्थ्यम्। तथा च तत्पुरुषनारायणशब्देऽपि दर्शितनियमेन व्यावर्तनात् णत्वं न संभवत्येव। किं च पदत्वघटितनियमाभ्युपगमेऽपि अबाधितयोगार्थे वस्त्वन्तरेऽपि नारायणशब्दस्य णत्वप्रसंगवारणायात्रापि सुबुत्पत्त्यनन्तरमेव समासस्याङ्गीक- रणीयतया कथं णत्वोपपत्तिः। अपिच तत्पुरुषसमासे परवल्लिङ्गत्वप्रसंगेन पुल्लिङ्गतानुपपत्तिः भगवति तु निर्वचनमहिम्ना परवल्लिंगत्वबाध इति। तसिद्धम् उत्तरपदत्वे चेति वार्तिकस्य णत्वविधौ प्रवृत्तावपि के वलयौगिके नारायणशब्दे णत्वं न संभवतीति।

यद्यप्येतेन उत्तरप्रपञ्चस्सर्वोऽपि निर्मूलितः। तथापि दूषणान्तरज्ञापनाय विशिष्य कतिपयविषया दूष्यन्ते। यदपि गन्धर्वगानादीनां क्षुभ्नादित्वाङ्गीकारेण वारणाभिधानम् तदपि विपरीतफलम्। तथा हि - तेषां क्षुभ्नादिगणे न प्रातिस्विकरूपेण पाठस्संभवति आनन्त्यात् लक्षणैकचक्षुष्काणां दुर्ग्रहत्वाच्च। किन्तु सर्वादिगणे डतरडतमेतिवत् मयूरव्यंसकादिगणे आख्यातमाख्यातेनेतिवच्चानुगतरूपेणैव। तच्चासमानपदस्थनिमित्तनिमित्तिकासंज्ञात्वादि- रूपमेव। तथाच तस्य के वलयौगिकनारायणशब्दसाधारण्यात् कथं तत्र णत्वमिति। यदपि अपदादिविधिशब्दस्य पदान्तविधिपरत्वाभिधानं, तदप्ययुक्तम् तथासति परमगिरावित्यादौ “र्वोरुपधाया” इति दीर्घस्य परमबुधावित्यादौ एकाचो भश इति भष्भावस्य च प्रसङ्गात् तयोः पदान्तत्वविरहेण प्रत्ययलक्षणानिषेधात्, अस्मदुक्तरीत्या पदान्तत्व- प्रयुक्तविधिपरत्वे तु न दोषः तयोः पदान्तत्वप्रयुक्तत्वाक्षतेः। यदपि वार्तिककारस्य पदान्तविध्यभिप्रायकत्वे पदान्तविधावित्यभिधानापादनं तदप्यनुपपन्नम्। पदान्तविध्य- भिप्रायकत्वेऽपि तस्य पदान्तविधिशब्देनाभिधाने दोषसत्त्वेन तथानभिधानोपपत्तेः तथाहि- पदान्तविधावित्युक्तौ लक्षणप्रतिपदोक्तपरिभाषया पदान्तशब्दोच्चारणपूर्वकपदान्तविधेरेव ग्रहणं स्यात्, परिभाषासंस्कृतवाक्यार्थस्यैव समाश्रयणीयत्वात्। यथा “विभाषा दिक्समासे” इति विहिता सर्वनामसंज्ञा दिक्च्छब्दमुच्चार्य विहिते दिङ्नामान्तराळ इति समास एवेति या उत्तरा सा पूर्वा यस्या मुग्धायाः तस्यै उत्तरपूर्वायै इत्येवेत्यङ्गीक्रियते तद्वत्। तथा च “नलोपः प्रातिपदिकान्तस्ये"ति विहितस्य नलोपस्य पदान्तशब्दोच्चारणपूर्वकपदान्तविधित्वविरहेण प्रत्ययलक्षणानिषेधे परमदण्डिनावित्यादौ नलोपापत्तिः। अपदादिविधिशब्देन पदान्तविध्यभिधाने तु नायं दोषः दर्शितनलोपस्य वस्तुतः पदान्तविधित्वात्। न च पदान्तशब्दोच्चारणपूर्वकविधित्वम् पदशब्दसमभिव्याहृतत्वेनान्तपदानु- सन्धानाधीनशाब्दबोधविधेयत्वतात्पर्यविषयत्वरूपमवश्यमास्थेयम्। अन्यथा चोः कुरित्यादेरप्यसङ्ग्रहप्रसङ्गात्, तत्र पदान्तशब्दोच्चारणविरहात्। इत्थं च नलोपस्यापि तथात्वसंभवान्न दोषः। नलोपः प्रातिपदिकान्तस्येत्यत्र प्रातिपदिकसंज्ञकं यत्पदं तदन्तस्य नस्य लोपः इत्यर्थवर्णनेन शाब्दबोधस्य पदशब्दसमभिव्याहृतत्वेनान्तपदानुसन्धानाधीनत्वाक्षतेः इति वाच्यम्। इहान्तपदस्य के वलादृष्टार्थतया शाब्दबोधोपधायकत्वविरहात्। तथाहि- इह नेति प्रातिपदिके ति च लुप्तषष्ठीकमिति निर्विवादम्। तत्र नेत्यस्यानुवर्तमानपदविशेषणतया येन विधिशास्त्रेण नान्तस्य प्रातिपदिकसंज्ञकस्य पदस्य लोप इत्यर्थे अलोऽन्त्यपरिभाषया समीहितसिद्धिरिति। अन्तग्रहणं पारायणादावदृष्टार्थमेवेति। किञ्च अन्तपदस्य शाब्दबोधौपयिकत्वेऽपि न पदशब्दसमभिव्याहृतत्वेन तदनुसन्धानं शाब्दबोधोपधायकम् स्वतस्सिद्धस्य प्रातिपदिकसमभिव्याहारस्य परित्यागे कारणविरहात्। अनुवर्तमानस्य पदस्य प्रातिपदिकविशेषणताया युक्तत्वात्। न च पदाङ्गाधिकारे तयोर्विशेष्यत्वं इतरस्य विशेषणत्वमिति नियमात् नेदं युज्यत इति वाच्यम्। येन विधिशास्त्रप्रवृत्त्यर्हस्यैव इतरस्य विशेषणत्वनियमात्। अन्यत्र तथानियमे प्रयोजनविरहात्। इह प्रातिपदिके
येन विधिशास्त्राप्रवृत्तेः सर्वसम्मततया तस्य विशेष्यत्वसंभवात्। तस्माद्वार्तिककारस्य पदान्तविध्यभिप्रायकत्वेऽपि अपदादिविधावित्येवाभिधातव्यमिति सिद्धम्। यदपि एवकारस्य पदादिविधिमात्रव्यावर्तकत्वे ग्रन्थकाराभिप्रायवर्णनम्। तदप्यसंगतम्। तथाहि-माषकुम्भवापेनेत्यत्र कुम्भशब्दस्य उक्तवार्तिके न प्रत्ययलक्षणनिषेधात् पदव्यवाये- ऽपीति निषेधानुपपत्तिरित्याशङ्क्य पदान्तविधावेवानेन प्रत्ययलक्षणनिषेधात् नानुप- पत्तिरित्युक्तं कैश्चिद्ग्रन्थकारैः। तत्र एवकारस्य पदादिविधिमात्रव्यावर्तकत्वे दर्शितशङ्काया एवापरिहारात् असाङ्गत्यं स्पष्टमेवेति। यदपि चक्षुषैव रूपं गृह्यत इत्यत्र त्वङ्मात्रव्यवच्छेदा- भिधानं, तदप्ययुक्तम्। तत्र एवकारेण चक्षुरितरसकलेन्द्रियव्यवच्छेदात् चक्षुरितरेन्द्रिय- निरूपितज्ञानत्वव्याप्यधर्मावच्छिन्नजन्यताश्रयग्रहनिरूपितलौकिकविषयत्वाभावस्यैव रूपे प्रतीतेः चाक्षुषस्य ज्ञानत्वेन मनोजन्यत्वेऽपि रूपस्य मानसविषयत्वेऽपि च क्षतिविरहात्। कथमन्यथा चक्षुषैव रूपं गृह्यत इति वाक्याधीननिश्चयदशायां रसनेन रूपं गृह्यते नवेति संशयाद्यनुदयनियम उपपद्यते।

यदपि अपदादिविधिशब्दस्य पदादिशब्दोच्चारणपूर्वकपदादिविधिभिन्नार्थक- त्वासंभवप्रदर्शनं, तत्रापि व्याकरणानध्ययनमेवापराद्ध्यति। लक्षणप्रतिपदोक्तपरिभाषया तादृशार्थस्यैवावश्यकत्वात्। कथमन्यथा यथाश्रुते परमबुधावित्यादौ भष्भाववारणम्। तत्र हि भष्भावस्य पदादिविधितया प्रत्ययलक्षणनिषेधानुपपत्तिः। दर्शितार्थकत्वे तु तस्य पदादिशब्दोच्चारणपूर्वकत्वविरहान्नानुपपत्तिः।

यदपि प्रश्नोपनिषदि श्रूयमाणयोः के वलयौगिकयोः समुद्रायणपुरुषायणशब्दयोः णत्वानुपपत्तिरिति। तदपि न - छन्दोमात्रगोचरयोः तयोः बाहुलके नैवोपपत्तेः। लोकसाधारणसूत्रेण तदुपपादने लोके ऽपि तत्साधुताप्रसङ्गात्। लौकिकप्रयोगे तादृशस्य क्वाप्यनुपलम्भेन इष्टापत्त्यसंभवात्। नचैवं सति कारणवाक्यघटकनारायणशब्दस्य के वलयोगेन शिवपरत्वेऽपि बाहुलकत्वेन णत्वोपपत्त्या अस्मदिष्टसिद्धिरिति वाच्यम्। मुख्यार्थबोधसंभवे लक्षणाया इव तत्तदसाधारणशास्त्रेण उपपत्तिसंभवे बाहुलकत्वस्यापि हेयतायाः सर्वसंप्रतिपन्नत्वात्। अत एवाहीनो वा प्रकरणात् गौण

इति तार्तीयाधिकरणे तिस्र एव साह्नस्पयोसदो द्वादशाहीनस्येत्यत्र अहीनशब्दस्य मध्योदात्तस्वरेण तत्पुरुषत्वाभावनिर्णयाभिधानं सङ्गच्छते। तत्र हि अस्य तत्पुरुषत्वे “तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीयाकृत्याः” इति सूत्रेण प्रकृत्या पूर्वपदमित्यनुवृत्तिसहितेन अव्ययरूपस्यनञः पूर्वपदस्य उदात्तरूपप्रकृतिस्वरापत्त्या आद्युदात्तत्वं स्यात्, मध्योदात्तश्चायं पठ्यते। अतः “अह्नः खः क्रतावि”ति विहितखप्रत्ययान्त एवायम्। तथासति “आयन” इत्यादिना ईनादेशे आयन्नादिषूपदेशिवद्वचनं स्वरसिद्ध्यर्थमिति तस्योपदेशिवद्भावे च सति आद्युदात्तश्चेति प्रत्ययादेरीकारस्य उदात्तत्वे मध्योदात्तत्वो- पपत्तेरित्युक्तम्। भवद्रीत्या तु तत्पुरुषत्वेऽपि बाहुलकत्वेन स्वरोपपत्त्या इदमयुक्तमेव स्यात्। एवं स्थूलपृषतीत्यादिषु स्वरविशेषेण समासविशेषनिर्णयो दत्तजलाञ्जलिस्स्यात्।

किं बहुना कारणवाक्यघटकनारायणशब्दस्य शिवपरत्वसिद्धावेव बाहुलके न तस्य शिवे साधुत्वसिद्धिः। शिवे साधुत्वसिद्धावेव शिवपरत्वसिद्धिरित्यन्योन्याश्रयणम्। तथाहि-तत्तदसाधारणशास्त्रेणानिर्वाह एव बाहुलकप्रवृत्तिरित्यविवादम्। ततश्च प्रकृते पूर्वपदादिति शास्त्रेण अनिर्वाहनिर्णये सत्येव बाहुलके न साधुत्वनिर्णयः, पूर्वपदादिति सूत्रेणानिर्वाहनिर्णयश्च शिवपरत्वनिर्णयाधीनः। अतः बाहुलके न शिवे साधुत्वनिर्णयः पूर्वपदादिति शास्त्राप्रवृत्तिनिर्णयद्वारा शिवपरत्वनिर्णयाधीन इति सिद्धम्। शिवपरत्वनिर्णयश्च शिवे साधुत्वनिर्णयाधीनः, शिवे साधुत्वविरहे तत्परत्वायोगात्। समुद्रायणादौ रूढ्यर्थाप्रसिद्ध्या पूर्वपदादित्यनेनानिर्वाहनिर्णये बाहुलकप्रवृत्तिनिर्णय इति भेदः।

यदपि व्युत्पत्त्यन्तरप्रदर्शनं, तदपि प्रकृतानुपयुक्तम्। कारणवाक्यघटकनारायणशब्दे तदसंभवस्य प्रागुक्तत्वात्। तदेवं कारणवाक्यघटकनारायणशब्दस्य शिवपरत्वासंभवात् प्रागुक्तरीत्या भगवत्परत्वसिद्ध्या भगवत एव जगत्कारणत्वसिद्धेः सर्वाधिकत्वसिद्धिः। सर्व- मिदमभिप्रेत्यानुगृहीतमाचार्यचरणैः-”निस्साधारण्यनारायणपदविषये निश्चयं यान्त्यबाधे सद्ब्रह्माद्यास्समानप्रकरणपठिताश्शङ्कितान्यार्थशब्दा” इति। इत्थं च शिवोत्कर्षपरपुराणादीनां शारीरकस्मृत्यधिकरणनिश्चली(यी)कृतविरोधाधिकरणन्यायेन “अग्नेः शिवस्यमाहात्म्यं तामसेषु प्रकीर्तितम्” इति मात्स्यपुराणवचनेन चाप्रामाण्यमेवेति सर्वं समञ्जसम् ॥ श्रीकृष्णतातदासं द्वारीकृत्येह देशिकै ः कलिता। भूयाद्भागवतानां प्रीत्यै परमुखचपेटिका सेयम्॥

इति श्रीशैलकुलतिलकश्रीमहामहोपाध्यायश्रीकृष्णतातदासस्य
कृतिषु परमुखचपेटिका संपूर्णा ॥

श्रीमते रघुनन्दनपरब्रह्मणे नमः ॥
श्रीमत्प्रणतार्तिहरवरदपरब्रह्मणे नमः ॥
श्रीमते निगमान्तमहागुरवे नमः ॥