॥ श्रीः ॥ श्रीः श्रीमत्प्रणतार्तिहरवरदपरब्रह्मणे नमः श्रीमते रघुनन्दनपरब्रह्मणे नमः श्रीणत्वचन्द्रिका
रघुवंशदुग्धजलधौ जातं सन्तानमाश्रये कमपि। अतितुङ्गादपि यस्मात् विनतैरग्र्यं फलं करग्राह्यम् ॥
वकुळ-भूषण-पाद-सरो-रुह-
प्रवण-मानस-संयमि-शेखरम्।
कलयतो निगमान्तगुरोः पदे
कृतधिये करवै गुरवे नमः॥
लक्ष्मीकुमार-तातार्य-वंश्य-वेङ्कट-सद्-गुरोः।
तनयः कृष्णतातार्यस् तनुते णत्वचन्द्रिकाम् ॥
णत्वे परोक्त-युक्तीनां दूषणं सम्यग् ईरितम्।
तुष्टये वावदूकानां कक्ष्याष् षष्टिं प्रदर्शये ॥
इह खलु कारणवाक्यगतानां सद्ब्रह्मादिसामान्यशब्दानां छागपशुन्यायेन समान-
प्रकरणपठितनारायणशब्दसमर्पिते भगवति विशेषे पर्यवसानम्। ततश्च कारणवाक्य-
गतशिवादिशब्दानामपि यथायथं रूढ्या योगेन वा भगवत्परत्वमेव कारणद्वित्वासंभवात्।
तथाच सर्वश्रुत्यैककण्ठ्येन भगवत एव जगत्कारणत्वसिद्ध्या सर्वाधिकत्वसिद्धिरिति
औपनिषदानां निर्णयः, तत्र तादृशसद्ब्रह्मात्मादिसामान्यशब्दानां उक्तन्यायेनैव तादृशशिव-
शब्दसमर्पिते शिव एव विशेषे पर्यवसानमस्तु। तादृशनारायणशब्दस्यापि शिवपरत्वसंभवेन
कारणद्वित्वाप्रसक्तेः इत्याशङ्कानिराकरणाय कारणवाक्यगतनारायणशब्दस्य शिवपरत्वा-
संभवस्तावत् उपपादनीयः। तत्प्रकारश्चेत्थं कारणवाक्यघटकनारायणशब्दस्य शिवपरत्वं किं
रूढ्या? आहोस्वित् के वलयोगेन? अथवा लक्षणया?। नाद्यः, भगवतोऽन्यत्र रूढ्यभावस्य
स्थापयिष्यमाणत्वात्। नान्त्यः, मुख्यार्थबाधविरहेण निषादस्थपत्यधिकरणन्यायेन लक्षणायाः
अन्याय्यत्वात्। औपनिषदमते शिवादिशब्दानां भगवत्परत्वं तु न लक्षणया, किन्तु
शुभत्वसामान्यरूढ्यादिनैवेति विशेषः।
द्वितीये च नारम् अयनं यस्येत्यादिकया उपबृंहणदर्शितव्युत्पत्त्या वा कुदृष्टिकल्पितव्युत्पत्त्यन्तरेण वा। नान्त्यः, “इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यती”ति शास्त्रविरोधात्। नाद्यः, तादृशव्युत्पत्त्या नारायण- शब्दस्य शिवपरत्वे णत्वानुपपत्त्या साधुत्वासंभवात् तादृशव्युत्पत्त्यधीनयदर्थबोधेच्छया उच्चरितस्य यस्य शब्दस्य साधुत्वविरहः तादृशव्युत्पत्त्यधीनतदर्थबोधौपयिकमीश्वरतात्पर्यम् तत्र शब्देनेति हि नियमः सर्वसंप्रतिपन्नः। तथाच नारम् अयनं यस्येत्यादिव्युत्पत्त्यधीनशिवबोधेच्छया उच्चरितस्य नारायणशब्दस्य साधुत्वविरहात् तादृशव्युत्पत्त्यधीनशिवबोधौपयिकमीश्वर- तात्पर्यं न नारायणशब्दे संभवतीति कारणवाक्यघटकनारायणशब्दात् न शिवबोधसंभवः वैदिकवाक्यार्थबोधे ईश्वरतात्पर्यस्यैव प्रयोजकत्वात्। तथाच नारम् अयनं यस्येत्यादि- व्युत्पत्त्यधीनशिवबोधेच्छया उच्चरितस्य नारायणशब्दस्य साधुत्वाभावसिद्धावेव समीहित- सिद्धिरिति पर्यवसानात् तादृशशब्दस्य साधुत्वाभाव एव इह साधनीयः।
तत्रेयं विप्रतिपत्तिः- नारम् अयनं यस्येत्यादिव्युत्पत्त्यधीनशिवबोधेच्छया उच्चरितो नारायणशब्दः साधु र्नवेति। तत्र विधिकोटिः शैवानां, निषेधकोटिः औपनिषदानां। अत्र उच्चरितान्तस्य पक्षविशेषणस्य अनुपादाने सामानाधिकरण्येन साध्यसिद्धेरुद्देश्यतायां भगवत्परनारायणशब्दे अंशतस्सिद्धसाधनात् निषेधकोटेश्च अंशतो बाधः। अवच्छेदका- वच्छेदेन तथात्वे घटादिबोधेच्छया उच्चरिते नारायणशब्दे अंशतो बाधः, निषेधकोटेश्च तत्रैव सिद्धसाधनम् अतः तदुपादानम्। लक्षणया कुदृष्टिकल्पितव्युत्पत्त्यन्तरेण वा शिवपरस्य नारायणशब्दस्य कथञ्चित् साधुत्वसंभवात् सिद्धसाधनादिवारणायाधीनान्तं बोधविशेषणम्। साधुत्वं च गाव्यादिव्यावृत्तः गवादिशब्दनिष्ठः “साधूनेव प्रयुञ्जीत नासाधूनि”ति नियमनिर्वाहकः “एकः शब्दः सम्यक् ज्ञातः सुष्ठु प्रयुक्तः स्वर्गे लोके कामधुग्भवती”ति श्रुतौ पुण्यविशेषजनकतावच्छेदकतया उपात्तो व्याकरणैकसमधिगम्यो धर्मविशेषः। स च जातिः , अखण्डोपाधिः , कार्यविशेषानुकूलशक्तिविशेषो वा यथामतमनुसन्धेयः। अत्र शैवाः-“उक्तनारायणशव्दः साधुः व्याकरणाविहितकार्याघटितत्वे सति किञ्चिद्वि- ध्युद्देश्यतावच्छेदकधर्मानाक्रान्तशब्दत्वात् संप्रतिपन्नसाधुशब्दवत्” अत्र सुबन्तस्यैव नारायणशब्दस्य पक्षतया सुब्विध्युद्देश्यतावच्छेदकप्रातिपदिकमादाय न स्वरूपासिद्धिः। के वलयोगार्थपरे युधिष्ठिर इत्यादौ व्यभिचारवारणाय सत्यन्तनिवेशः। तथासति षत्वस्य व्याकरणाविहितत्वात् न दोषः। के वलप्रातिपदिके व्यभिचारवारणाय विशेष्यम्। नच के वलयौगिके दर्शितनारायणशब्दे णत्वस्य व्याकरणाविहिततया सत्यन्तविरहात् स्वरूपा- सिद्धिरिति वाच्यम्। अट्कुप्वाङित्यनेन तत्रापि णत्वविधानात् समासात् सूत्पत्त्या समुदायस्यापि पदत्वेन समानपदे इति सप्तम्यन्तलभ्यस्य निमित्ताधिकरणपदवृत्तित्वस्याप्यक्षतेः। न च नरसंबन्ध्यधिकरणकत्वं शिवे बाधितमिति शङ्क्यम्। नरसंबन्धित्वेन रूपेण शिवाधिकरणभूतस्य शिवलोकादेः ग्रहणसंभवात् नरसंबन्धित्वेन जलमेव उपादेयमिति निर्बन्धे मानाभावात्, जलाधिकरणकत्वस्यापि शिवे संभवाच्चेति वदन्ति ॥१॥ औपनिषदास्तु - उक्तनारायणशब्दे अट्कुप्वाङित्यनेन णत्वविधानासंभवात् प्रकारान्तरेण णत्वाप्रसक्तेश्च स्वरूपासिद्धिः। तथाहि यदि “समानपदे” इत्यनेन निमित्ताधिकरणपदवृतित्वरूपमेकपदस्थत्वमुच्यते तदा समानग्रहणवैयर्थ्यापत्तिः, पदे इत्येकवचनविवक्षयैव एकपदस्थत्वलाभात्। अन्यत्र सूत्रे वचनस्य अविवक्षितत्वेऽपि अपदस्थयोः निमित्तनिमित्तिनोः असंभवेन इह पदे इत्यनेन तद्विवक्षाज्ञापनात् । किञ्च रामनामादिषु णत्वप्रसंगः, तत्रापि समासात् सूत्पत्त्या निमित्ताधिकरणपदवृत्तित्वसत्त्वात्। अतः अत्र समानमेव यत्पदमिति अवधारणाश्रयणात् सप्तम्यन्तेन निमित्तानधिकरणनिमित्तिमत्पदाघटितवृत्तित्वमेव अभिधीयते। ततश्च रामनामादिषु नामशब्दस्य प्रत्ययलक्षणेन पदत्वात् निमित्तानधिकरण- निमित्तिमन्नामपदघटिततया न दोषः। यथा समानमेवेत्यवधारणाश्रयणमात्रेण समानपद- शब्दात् निमित्तानधिकरणनिमित्तिमत्पदाघटितत्वलाभः तथा उपपादितमस्मदीयपरमुख- चपेटिकायां। वस्तुतस्तु समाने एव पदे न तु भिन्ने इति रीत्या भिन्नपदस्थत्वाभावः निमित्तानधिकरण- निमित्तिमत्पदावृत्तित्वरूपः सप्तम्यन्तलभ्य इति न समानग्रहणवैयर्थ्यम्। नवा रामनामादिषु णत्वापत्तिः, नकारस्य निमित्तानधिकरणनामपदवृत्तित्वात् सर्वथा। प्रकृते अयनपदस्य निमित्तिमतः निमित्तानधिकरणतया अट्कुप्वाङित्यनेन णत्वं दुरुपपादमेवेति। तथा च दर्शितनारायणशब्दः न साधुः व्याकरणाविहितकार्यघटितत्वात् के वलयोगेन अन्यपर- युधिष्ठिरादिवत् इत्यनुमानेनासाधुत्वसिद्धिः , व्याप्यव्यापकभावस्य निर्विवादतया नाप्रयोजकत्वशङ्कावकाश इत्याचक्षते ॥ २ ॥
नच उत्तरपदत्वे चेति वार्तिके न अयनशब्दस्य प्रत्ययलक्षणनिषेधात् उक्तसामान- पद्योपपत्त्या णत्वोपपत्तिः। तथाहि तत्र उतरपदशब्दः समासचरमावयवपरः तस्य तत्र रूढत्वात्, सतिसप्तम्या च सामानाधिकरण्यरूपं वैशिष्ट्यम् बोध्यते गुणकर्मान्यत्वे सति सत्त्वादित्यादौ तथा दर्शनात्। तच्च सामानाधिकरण्यम् इह आश्रयत्वोद्देश्यत्वोभयघटितमिति उत्तरपदत्वाश्रयवर्णोद्देश्यको योऽयमपदादिविधिः तस्मिन् कर्तव्ये प्रत्ययलक्षणम् नेति वार्तिकार्थः। उत्तरपदत्वस्य समुदायपर्याप्तत्वेपि तद्घटकवर्णानाम् आश्रयतया तदधिकरणत्वम् अक्षतम्। ततश्च प्रकृते अयनपदघटकनकारोद्देश्यकणत्वविधेस्तादृशतया प्रत्ययलक्षणविरहेण णत्वोपपत्तिः। रामनामादिषु णत्वविधेः पदादिविधितया प्रत्ययलक्षणसत्त्वात् न दोषः, गन्धर्वगानादौ णत्वापत्तिस्तु क्षुभ्नादित्वाङ्गीकारेण वारणीयः तस्य आकृतिगणत्वादिति। इत्थञ्च औपनिषदोक्तहेतोः स्वरूपासिद्धिः अस्मदुक्तहेतोश्च पक्षे सत्त्वम् इति वाच्यम् ॥३॥ उक्तवार्तिके न णत्वविधौ प्रत्ययलक्षणानिषेधेन दर्शितरीत्या णत्वोपपादनासंभवात्। तथाहि दर्शितरीत्या वार्तिकार्थस्वीकारे परमवाक् परमलिडित्यादौ कुत्वडत्वाद्यनुपपत्तिः तद्विधेरुत्तरपदत्वाश्रयवर्णोद्देश्यकत्वानपायेन तस्मिन् कर्तव्ये समस्तसमुदायस्यापि प्रत्यय- लक्षणनिषेधापत्तेः। अतः इत्थं वार्तिकार्थः वर्णनीयः- उत्तरस्य पदत्वं उत्तरपदत्वं तस्मिन्सति योऽयमपदादिविधिरिति। तत्र उत्तरशब्द उत्तरपदपरः, सतिसप्तम्या प्रयुक्तत्वं बोध्यते पयःपाने सति पिपासा शाम्यतीत्यादौ तथा दर्शनात्। तथाच उत्तरनिष्ठपदत्वप्रयुक्तापदा- दिविधावेव प्रत्ययलक्षणनिषेधात् न परमवाक् परमलिडित्यादौ कुत्वडत्वाद्यनुपपत्तिः
समुदायगतपदत्वमाश्रित्यैव तत्र तत्प्रवृत्त्या तत्र प्रत्ययलक्षणानिषेधात्। इत्थंच णत्वप्रवृत्ति- स्थले उत्तरपदस्य पदत्वे सामानपद्यविघटनेन णत्वस्यैवासंभवप्रसंगेन तद्विधेरुत्तरपदनिष्ठ- पदत्वप्रयुक्तत्वासंभवात् न तत्रोक्तवार्तिकप्रवृत्तिरिति ॥ ४ ॥
न च णत्वविधेरपि उत्तरपदनिष्ठपदत्वप्रयुक्तत्वं संपद्यते। तथाहि अत्र उत्तरपद- निष्ठपदत्वप्रयुक्तत्वन्नाम न तावत् तादृशपदत्वजन्यत्वादिरूपम्, असंभवात्। अत एव न तद्व्यापकत्वरूपम्। नापि तद्व्याप्यत्वरूपम्, वाग्वक्तीत्यादौ व्यभिचारात्। किन्तु तद्घटितधर्मा वच्छिन्नोद्देश्यताकविधिविषयत्वमेव तत्, तादृशे एव वैयाकरणानाम् प्रयुक्तत्वव्यवहारात्, अन्यस्य दुर्वचत्वाच्च। भवति च कुत्वादिविध्युद्देश्यतावच्छेदककोटौ पदत्वस्य घटकतया तेषां तत्प्रयुक्तत्वोपपत्तिः। तथाच णत्वविध्युद्देश्यतावच्छेदककोटौ निमित्तानधिकरण- निमित्तिमन्निष्ठं पदत्वम् घटकमित्यविवादम्। तच्च रामनामाद्यन्तर्गतोत्तरपदनिष्ठं पदत्वमेवेति णत्वविधेरुक्तविधतत्प्रयुक्तत्वसंपत्त्या तत्र वार्तिकप्रवृत्तिः निर्बाधैवेति वाच्यम् ॥ ५ ॥
तद्घटितधर्मावच्छिन्नोद्देश्यताकविधिविषयत्वमात्रस्य तत्प्रयुक्तत्वरूपताविरहेण
णत्वविधौ वार्तिकप्रवृत्त्यसंभवात्। तथाहि यद्यपि लोके कारणतावच्छेदकघटक इव
व्याकरणे उद्देश्यतावच्छेदकघटके प्रयोजकत्वव्यवहारोऽस्ति। तथापि मणित्वादौ
दाहादिकारणतावच्छेदकघटकत्वेऽपि अभावप्रतियोगिकोटिनिविष्टतयैव तद्घटकतया यथा लोके
न प्रयोजकत्वव्यवहारः तथा व्याकरणेऽपि पदत्वस्य णत्वविध्युद्देश्यतावच्छेदकघटकत्वेऽपि
अभावप्रतियोगिकोटिनिविष्टतयैव तद्घटकतया न तत्र प्रयोजकत्वव्यवहारः। तथाच प्रकृते
तद्घटितधर्मावच्छिन्नप्रतियोगिताकाभावघटितो यः तद्घटितो धर्मः तदवच्छिन्नोद्देश्यता-
कविधिविषयत्वमेव तत्प्रयुक्तत्वमिति णत्वविधेः पदत्वप्रयुक्तत्वं दुर्लभमेवेति। किञ्च
सतिसप्तम्या सामानाधिकरण्यसहितमेव प्रयुक्तत्वं बोध्यते, पयः पाने सति पिपासा
शाम्यतीत्यादिषु तथाऽनुभवात्। तथाच उत्तरपदनिष्ठपदत्वप्रयुक्तः तत्समानाधिकरणश्च
योऽयमपदादिविधिः तत्रैव उक्तवार्तिके न प्रत्ययलक्षणनिषेध इति णत्वविधौ तदप्रवृत्तिरेवेति
॥ ६ ॥
नचोक्तरीत्या वार्तिकार्थवर्णनं नैव युज्यते तादृशापदादिविधेरेवाप्रसिद्धेः, उत्तरपद- निष्ठपदत्वमाश्रित्य कुत्वादेः क्वाप्यप्रवृत्तेः। यत्तु -तादृशपदत्वप्रयुक्तत्वसंभावनाविषयत्वमेव विवक्षितम्। संभावना च “परमवाचा परमलिडित्यादौ यत् उत्तरपदस्य पदत्वं स्यात्तदा तत्प्रयुक्तं कुत्वडत्वादिकं भवेदि"त्येवंविधज्ञानविशेषरूपा। साच पाणिन्यादिमुनिसमवेतैव ग्राह्या तेन नातिप्रसङ्गः। तथाच तादृशस्य कुत्वडत्वादेः प्रसिद्ध्या न दोष इति। तन्न उक्तार्थस्य दर्शितवार्तिके नालाभात् , सतिसप्तम्याः प्रयुक्तत्वसंभावनाविषयत्वबोधकतायाः क्वाप्यदर्शनात्। अतः उत्तरस्य – उत्तरपदस्य, पदत्वे – पदसंज्ञायां यत् प्रत्ययलक्षणमि- त्यन्वयेनापदादिविधौ कर्तव्ये उत्तरपदस्य पदसंज्ञासंपादकं प्रत्ययलक्षणन्नेत्येवं वार्तिकार्थो वर्णनीयः। वैयाकरणग्रन्थेष्वपि इत्थमेव तत् वर्णनम् दृश्यते। तथाच णत्वविधौ वार्तिकप्रवृत्ति र्निर्बाधैवेति वाच्यम् ॥ ७ ॥
अपदादिविधिशब्दस्य पदान्तविधिपरतया णत्वविधौ वार्तिकप्रवृत्त्यसंभवात्। तथाहि
- अपदादिविधावित्यत्र नञः न भिन्नमात्रमर्थः अपितु भिन्नसदृशं, नञिवयुक्तमन्यसदृशा- धिकरणे तथाह्यर्थगतिरिति न्यायात्। सादृश्यञ्च स्वघटितपदघटकवर्णनिरूपितपूर्वकत्व- तादृशवर्णनिरूपितोत्तरत्वोभयवद्भिन्नोद्देश्यकविधित्वेन। तथाच उक्तरूपेण पदादिविधिसदृशः पदान्तविधिरेव इह अपदादिविधिशब्दार्थः। यत्तु – “अकर्तरिच कारके संज्ञायां” इत्यत्र कारकग्रहणेनोक्तपरिभाषाया अनित्यत्वज्ञापनात् नेह तत्प्रवृत्तिः अङ्गीक्रियते इति। तन्न- इह तदप्रवृत्तौ गमकादर्शनात् परिभाषाणां लक्षणसंस्कारार्थमेव कॢप्ततया गमकम- न्तरेणाप्रवृत्त्यङ्गीकारायोगात् ॥ ८ ॥
नच परिभाषेन्दुशेखरव्याख्यातृभिः संज्ञाशास्त्रातिरिक्तत्वे सति लक्ष्यसंस्कारकसूत्रशेषत्वं परिभाषात्वं इत्यङ्गीकृत्य अतिदेशस्यापि परिभाषात्वस्वीकरात् प्रत्ययलक्षणशास्त्रस्य परिभाषारूपतया तदपवादैकवाक्यस्योक्तवार्तिकस्यापि परिभाषात्वमेव। ततश्च नञिव युक्तपरिभाषाया न तत्र प्रवृत्तिसंभवः, गुणानाञ्च परार्थत्वादिति न्यायेन परिभाषयोः परस्परं शेषशेषिभावासंभवात्। उभयोरपि लक्ष्यसंस्कारकसूत्रशेषत्वाविशेषात्। यथा आधान- पवमानेष्ट्योः न परस्परशेषशेषिभावसंभवः तद्वत्। तत्र हि अग्नीनादधीतेति वचनेनाधानस्येव तत्प्रकरणस्थेन यदाहवनीये जुहोतीति वाक्येन होमेनाहवनीयं भावयेदित्यर्थके न पवमानेष्टेरपि अग्न्यङ्गत्वमेवेति स्पष्टम् शाबरभाष्य इति वाच्यम् ॥९॥ प्रकृते दर्शितन्यायानवतारात् एकं प्रत्यङ्गत्वेनावगतयोः तत एव प्रयोजनाकांक्षा- शान्तेर्विनिगमनाविरहाच्च न परस्पराङ्गाङ्गिभाव इति हि दर्शितन्यायशरीरम्। ततश्च यत्र प्रधानाङ्गताग्राहकमेव प्रमाणं प्रधानाङ्गतया सहैवाङ्गाङ्गत्वमपि ग्राहयति न तत्रायं न्यायः प्रवर्तते। अङ्गाङ्गताग्रहणात् प्राक् प्रधानाङ्गत्वस्याप्यग्रहणेन नैराकांक्ष्यविरहात् तादृशप्रमाणस्यैव विनिगमकत्वाच्च। अतएव आहवनीये जुहोतीत्यनारभ्याधीतवाक्येन प्रधानाप्रधानसकलहोमाङ्गतया आहवनीयविधानमित्युपपद्यते। अत एव च कर्तृकालादेः प्रधानाप्रधानसकलकर्माङ्गत्वमिति सिद्धान्तितमेकादशे। तथाच प्रकृते नञिवयुक्तपरिभाषायाः सामर्थ्यरूपात् लिङ्गात् लक्ष्यसंस्कारकसूत्रशेषतया सहैव परिभाषाशेषत्वस्यापि ग्रहणात् न तत्र गुणानाञ्चेति न्यायप्रवृत्तिः। एवं प्रधानाप्रधानसर्वशेषत्वग्राहकलिंगशालिपरिभाषान्तराणां संज्ञाशास्त्राणांच दर्शितन्यायाविषयत्वमेव। अत एवाङ्गसंज्ञासूत्रे तस्मिन् इति परिभाषाप्रवृत्तिरुपपद्यते, एतदेव अभिप्रेत्य गुणः कृतात्मसंस्कार इत्याद्युक्तं वैयाकरणैः ॥ १० ॥
नच अपदादिविधिशब्दस्य पदान्तविधिपरत्वं यद्यभिप्रेयात् तर्हि पदान्तविधावित्ये- वाभिदध्यात्, अत इत्थमेवाभिदधानस्य पदमध्यविधिसंग्रहेप्याशयोस्तीत्युन्नीयते। ततश्चा- नेनैव गमके न इह नञिवयुक्तन्यायो न प्रवर्तते इति णत्वविधावपि वार्तिकप्रवृत्तिरव्याहतैवेति वाच्यम् ॥ ११॥
यतः पदान्तविधावित्युक्तौ लक्षणप्रतिपदोक्तपरिभाषया पदान्तशब्दोच्चारण-
पूर्वकपदान्तविधेरेव ग्रहणं स्यात्। ततश्च परमदण्डिनेत्यादौ नलोपापत्तिः, “नलोपः
प्रातिपदिकान्तस्ये"ति विहितस्य तस्य पदान्तशब्दोच्चारणपूर्वकत्वविरहेण तत्र प्रत्यय-
लक्षणानिषेधात्। अपदादिविधावित्युक्तौ वस्तुगत्या यः पदान्तविधिः तस्यैव ग्रहणेन
नलोपस्यापि तादृशत्वानपायेन तत्रापि प्रत्ययलक्षणनिषेधात् नानुपपत्तिः। तथाच
अपदादिविधावित्यभिधानस्य उक्ताशयोन्नायकत्वासंभवेन इह नञिवयुक्तन्यायाप्रवृत्तिगमकं
दुर्लभमेवेति ॥ १२ ॥
नच पदान्तशब्दोच्चारणपूर्वकत्वलाभेऽपि न दोषः, तथाहि पदान्तशब्दोच्चारण- पूर्वकत्वं हि पदशब्दसमभिव्याहृतत्वेन अन्तपदानुसंधानाधीनशाब्दबोधविधेयत्वतात्पर्य- विषयत्वरूपमवश्यं निर्वाच्यम्। अन्यथा “चोः कुरि"त्यादावपि सूत्रे पदान्तशब्दानुच्चारणेन कुत्वादेरप्यसंग्रहप्रसंगात्। इत्थंच नलोपः प्रातिपदिकान्तस्येत्यस्य प्रातिपदिकसंज्ञकं यत् पदं तदन्तस्य नस्य लोप इत्यर्थात् पदशब्दसमभिव्याहृतत्वेन अन्तपदानुसन्धानाधीनत्वं शाब्दबोधे निर्बाधमिति न परमदण्डिनेत्यादौ नलोपप्रसंगः। तत्र उक्तवार्तिकप्रवृत्त्या दण्डिन्नित्यस्य पदत्वविरहात् इति वाच्यम् ॥ १३ ॥
पदान्तशब्दोच्चारणपूर्वकत्वस्य उक्तरूपत्वेऽपि नलोपस्य तथात्वासंभवेन वार्तिका- प्रवृत्त्या दर्शितदोषानिस्तारात्। तथाहि अत्र नेति, प्रातिपदिके ति च लुप्तषष्ठीकम् इति निर्वि- वादम्। ततश्च नेत्यस्य प्रातिपदिकविशेषणत्वमङ्गीकृत्य नान्तस्य प्रातिपदिकसंज्ञकस्य पदस्य लोप इत्यर्थाङ्गीकारे अलोन्त्यपरिभाषया समीहितसिद्ध्या अन्तग्रहणं पारायणादावदृष्टार्थमेव , नतु तस्य शाब्दबोधौपयिकत्वे भगवतः पाणिनेः तात्पर्यमिति। तथाच न प्रागुक्ताशयोन्नयनं युज्यत इति अपदादिविधिशब्दस्य पदान्तविधिपरत्वम् आवश्यकमेव ॥१४॥ नच अन्तग्रहणस्य शाब्दबोधौपयिकत्वतात्पर्यस्यापि संभवात् तस्य के वलादृष्टार्थत्वं न युज्यते। तथाहि “एकः शब्दः सम्यक् ज्ञातः सुष्ठु प्रयुक्तः स्वर्गे लोके कामधुग्भवति” इति श्रुत्या शास्त्राधीनप्रक्रियाज्ञानपूर्वकसुशब्दप्रयोगस्यैव धर्मोत्पत्तिहेतुत्वं बोध्यत इत्य- विवादम्। यस्य सूत्रस्य सूत्रावयवस्य वा प्रक्रियांशे प्रयोजनविशेषानुपलब्धिः तस्याप्य- भ्युदयशिरस्कप्रक्रियाज्ञानसंपादकतया संभवत्येव चारितार्थ्यम्, तादृशसूत्रेण ज्ञात्वैव सुशब्दप्रयोगे धर्मोत्पत्तिरिति व्यवस्थाङ्गीकारात्। यथा सर्वेभ्यो दर्शपूर्णमासावित्यनेन दर्शपूर्णमासयोः स्वर्गफलकत्वस्यापि सिद्ध्या दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेति वाक्यवैयर्थ्ये प्राप्ते सार्वकाम्यवाक्यस्य स्वर्गातिरिक्तफलसमर्पकत्वं, स्वर्गकामवाक्यस्य च स्वर्गसमर्पकत्वम्। सार्वकाम्यवाक्यादेव कृत्स्नफलसमर्पणसंभवेऽपि इत्थं ज्ञात्वानुष्ठान एव फलसिद्धिरिति अङ्गीकारात् न स्वर्गकामवाक्यवैयर्थ्यमिति अभ्युदयशिरस्कप्राप्तिफलकत्वं तद्वाक्याम्नानबलात् अङ्गीक्रियते। यथाच सप्तदशसामिधेनीरनुब्रूयात् इत्यनारभ्याधीतस्य प्राकरणिकपाञ्चदश्यावरोधेन प्रकृतौ निवेशमलभमानस्य अतिदेशप्राप्तपाञ्चदश्या- बाधाय मित्रविन्दादिप्रकरणस्थेन सप्तदशसामिधेनीरनुब्रूयात् इति वाक्यान्तरेणावगत- सामिधेनीसंबन्धासु तास्वेव विकृतिषु निविष्टस्य प्राकरणिकवाक्यमादाय वैयर्थ्ये प्राप्ते प्राकरणिकवाक्यस्य साप्तदश्ये क्रतुसंबन्धप्रापकत्वं, अनारभ्याधीतस्य तु तत्र सामिधेनीसंबन्धप्रापकत्वम्। प्राकरणिकवाक्येनैव उभयप्राप्तिसंभवेऽपि इत्थं ज्ञात्वानुष्ठान एव फलसिद्धिरित्यङ्गीकारात् न अनारभ्याधीतवैयर्थ्यमित्युपपाद्यते तद्वत्। तथाच अन्तपदघटितसूत्रैणैव प्रक्रियाज्ञानस्य संपादनीयतया तस्य
शाब्दबोधौपयिकत्वतात्पर्यमस्त्येवेति प्रागुक्तरीत्या अपदादिविधिशब्दस्य पदान्तविधिपरत्वन्न संभवत्येवेति वाच्यम्॥ १५ ॥
उक्तरीत्या अन्तपदस्य शाब्दबोधौपयिकत्वसंभवेऽपि पदशब्दसमभिव्याहृतत्वेन तदनु- संधानस्य तथात्वविरहेण तद्दोषतादवस्थ्यात्। तथाहि - प्रातिपदिके त्यस्य अन्तपदार्थेनैवान्वयो युक्तः सान्निध्यात्। प्रातिपदिके त्यस्य पदविशेषणत्वं पदस्येत्यस्य अन्तपदार्थविशेषणत्वं इत्यस्य अतिक्लिष्टत्वात्। अत अनुवर्तमानपदशब्दार्थस्य प्रातिपदिकविशेषणत्वं अङ्गीकृत्य पदाभिन्नप्रातिपदिकान्तस्य तस्य लोप इत्येव बोधो वर्णनीयः, तथाच पदशब्दसमभिव्याहृत- त्वेनान्तपदानुसंधानस्य शाब्दबोधौपयिकत्वविरहात् प्रागुक्तक्रमेण अपदादिविधिशब्दस्य पदान्तविधिपरत्वावश्यकतया णत्वविधौ वार्तिकाप्रवृत्तिरिति ॥ १६॥ नच पदाधिकारे अङ्गाधिकारे च सूत्रोपात्तस्य विशेषणत्वं पदाङ्गयोर्विशेष्यत्वं इति नियमः, तेन ससजुषोरुः इत्यादिषु सजुष्शब्दान्तस्य पदस्य रुरित्यर्थात् परमसजूरित्यादावपि रुत्वसिद्धिः। सजूरित्यादौ तु व्यपदेशिवद्भावेन तदन्तत्वसत्त्वात् न दोषः। एतदभिप्रायेणैव पदाङ्गाधिकारे तस्य तदन्तस्य चेति पठ्यते। इत्थंच “नलोपः प्रातिपदिकान्तस्ये”त्यत्रापि प्रातिपदिकस्य विशेषणत्वं पदस्य विशेष्यत्वञ्च आवश्यकम् इति क्लिष्टान्वयोऽपि सोढव्य एव। तथाच प्रातिपदिकसंज्ञकम् यत्पदं तदन्तस्य नस्य लोपः इत्यर्थात् शाब्दबोधस्य पदशब्दसमभिव्याहृतत्वेन अन्तपदानुसंधानाधीनत्वसत्त्वेन उक्तानुपपत्तिविरहात् पदान्त- विधावित्यभिधानसंभवेन प्रागुक्ताशयवर्णनोपपत्त्या अपदादिविधिशब्दस्य पदान्तविधिपरत्वं न संभवत्येवेति वाच्यम्॥१७॥
यतः येन विधिरिति शास्त्रप्रवृत्त्यर्हस्यैव सूत्रोपात्तस्य विशेषणत्वम् इति नियमः, ततश्च
प्रकृते प्रातिपदिके न तदन्तविधौ प्रयोजनविरहेण तत्र येन विधिरिति शास्त्राप्रवृत्त्या तस्य
पूर्वोक्तरीत्या विशेष्यत्वं पदस्य विशेषणत्वमित्येव युक्तम् अन्यथा क्लिष्टान्वयप्रसङ्गात् ।
तथाच प्रागुक्तप्रक्रियया अपदादिविधिशब्दस्य पदान्तविधिपरत्वं आवश्यकमिति ॥ १८ ॥
नचैवं सति परमदण्डिनां इत्यत्र ङमुट्प्रसंगः, अत्र ङमुटः पदान्तविधित्वविरहेण
प्रत्ययलक्षणसत्त्वात् अपदादिविधिशब्दस्य पदादिविधिभिन्नसर्वसंग्राहकत्वे तु नायं दोषः
ङमुटोऽपि तथात्वसत्त्वेन प्रत्ययलक्षणनिषेधादिति वाच्यं ॥ १९॥
पदे इति मण्डूकप्लुतिमाश्रित्य अजादेः पदस्य ङमुडिति भाष्ये व्याख्यातत्वे-
नादोषात्। नञिवयुक्तपरिभाषाबाधस्य अन्याय्यतया अपदादिविधिशब्दस्य पदान्तविधि-
परत्वावश्यकत्वात् ॥ २0॥
नचापदादिविधावित्यत्र अनित्याया नञिवयुक्तपरिभाषाया अप्रवृत्त्यैव
पदादि-विधिभिन्नेषु सर्वत्र प्रत्ययलक्षणनिषेधाङ्गीकारेण निर्वाहे मण्डूकप्लुत्याश्रयणं
अयुक्तम्। तत्प्रतिपादनपरवाक्यं तु एकदेश्युक्तिरेव। तथाच अपदादिविधिशब्दस्य न
पदान्तविधिपरत्वसंभव इति वाच्यम् ॥२१॥
यतः अपदादिविधिशब्दस्य पदान्तविधिपरत्वाभावे माषकुं भवापेन चतुरंग- योगनेत्यादौ पदव्यवायेपीति निषेधानुपपत्तिः। कुं भशब्दस्य प्रत्ययलक्षणनिषेधेन पदत्वा- संभवात् उत्तरपदसंबन्धिकार्ये एव अयन्निषेध इत्यङ्गीकृत्य उक्तानुपपत्तिवारणे च भवन्मतेऽपि प्रागुक्तस्थले ङमुट्प्रसंग इति मण्डूकप्लुत्याश्रयणमावश्यकमेव। तथाच नञिवपरिभाषाबाधस्यान्याय्यतया पदान्तविधिपरत्वमेवापदादिविधिशब्दस्याश्रयणीयमिति ॥ २२॥
नच पदान्तविधिपरत्वाश्रयणेऽपि पूर्वदण्डिप्रिय इत्यत्र नलोपानुपपत्तिपरिहाराय मध्यमपदातिरिक्तस्यैव अनेन प्रत्ययलक्षणनिषेध इत्याश्रयणीयम्। मध्यमत्वञ्च पूर्वपदोत्तरत्वे सति उत्तरपदपूर्वत्वम्। इत्थंच माषकुं भवापेनेत्यादौ दर्शितानुपपत्तिविरहात् अपदादिविधि- शब्दस्य पदादिविधिभिन्नसर्वसंग्राहकत्वमेव युक्तम्। पदान्तविधिपरत्वे प्रागुक्तरीत्या मण्डूकप्लुत्याश्रयणप्रसंगादिति वाच्यम् ॥ २३ ॥
तद्धितार्थेति समासोत्तरपदातिरिक्तस्यैवानेन निषेध इत्याश्रयणीयतया माषकुं भवा- पेनेत्यादावुक्तानुपपत्तिपरिहाराय पदान्तविधिपरताया आवश्यकत्वात्। तथाहि- “परमवाचिवासिदधिसेचिशय” इत्यादौ शयवासवासिष्वित्यलुक्समासे कुत्वादिप्रसंगः दर्शितमध्यमपदत्वसत्त्वेन प्रत्ययलक्षणनिषेधात्। तद्धितार्थेतिसमासोत्तरपदातिरिक्तस्यैव निषेध इति स्वीकारे तु नायं दोषः इहापि प्रत्ययलक्षनिषेधात्, अतस्तथैवांगीकरणीयमिति ॥ २४ ॥ नचैवंसति पञ्चगवधन इत्यादा"वेङःपदान्तादती"ति पूर्वरूपापत्तिः गोशब्दस्य तद्धितार्थेतिसमासोत्तरपदरूपतया प्रत्ययलक्षणानिषेधात्। यदिच एङः पदन्तादित्यत्र पदे अन्तः पदान्त इत्येव समासः अङ्गीकरणीयः अन्यथा मधुशब्दादपत्यार्थप्रत्ययस्य तद्राजस्येव बहुत्वे लुकि जसिचेति गुणे अन्तर्वर्तिविभक्त्या पदत्वात् मधव इत्यत्र पूर्वरूपापत्तेः। तथाच न पञ्चगवधने दोष इति विभाव्यते। तदा पञ्चर्चधन इत्यत्र कुत्वप्रसंगः ऋक्च्छब्दस्य तद्धितार्थेति- समासोत्तरपदरूपस्य प्रत्ययलक्षणानिषेधात्। अत उत्तरपदाव्यवहितपूर्वभिन्नस्यैवानेन निषेध इत्याश्रयणीयं तथासति समासान्तेन व्यवधानात् न पञ्चर्चधने दोषः। परमवाचिवासीत्यादौ तु विभक्त्या व्यवधानान्न दोषः, इत्थंच माषकुं भवापेनेत्यादौ दर्शितानुपपत्त्यनवतारात् प्रागु- क्तरीत्या मण्डूकप्लुत्याश्रयणगौरवसंपादकं पदान्तविधिपरत्वमनुचितमेवेति वाच्यम्॥ २५ ॥
पदान्तविधिपरत्वानभ्युपगमे माषकुं भवापेनेत्यत्र णत्वनिषेधानुपपत्तिप्रसंगात्। तथाहि माषशब्दात् अज्ञाताद्यर्थककप्रत्ययेन घटिते तत्र कुं भशब्दस्य प्रत्ययलक्षणमन्तरा णत्वनिषेधो दुरुपपादः तथाच कप्रत्ययेन व्यवधानादुत्तरपदाव्यवहितपूर्वभिन्नतया तस्य प्रत्ययलक्षणनिषेधप्रसंगवारणाय अपदादिविधिशब्दस्य पदान्तविधिपरत्वमावश्यकमेवेति ॥ २६ ॥
नच पदव्यवायेपीत्यस्यातद्धित इति वार्तिकै कवाक्यतया णत्वाश्रयातिरिक्ततद्धितभिन्न- परकपदव्यवधाने णत्वन्नेति वाक्यार्थः। णत्वाश्रयातिरिक्तेतिकरणात् रम्यविणेत्यादौ णत्वाश्रयविभक्तिपरकपदव्यवधानेऽपि न दोषः। इत्थंच माषकुं भवापेनेत्यत्र कुं भशब्दस्य तद्धितपरकतया णत्वनिषेधाप्रवृत्त्या क्षुभ्नादिपाठेनैव तस्य सर्वैरपि वारणीयतया न दोष इति वाच्यम् ॥ २७ ॥
अतद्धित इत्यत्र तस्मिन्निति परिभाषोपस्थिताव्यवधानांशग्रहणेनैव उपपत्त्या क्षुभ्नादित्वस्य अकल्पनीयत्वात्, कुं भपदस्य वापशब्दपरकत्वसंभवात्। निमित्तोत्तरं यत्पदं तदुत्तरं यत् तद्धितभिन्नं तदुत्तरस्य णत्वन्न स्यादिति तु निष्कर्षः। इत्थञ्च माषकुं भवापेनेत्यत्र दर्शितनिषेधोपपत्तये पदान्तविधिपरत्वमावश्यकमेवेति ॥ २८ ॥
नचैवं सति परमगिरावित्यादौ र्वोरुपधाया इति दीर्घप्रसङ्गः, तस्य पदान्तविधित्व- विरहेण प्रत्ययलक्षणनिषेधाप्रवृत्तेः अतः अपदादिविधिशब्दस्य पदादिविधिभिन्नसर्व- संग्राहकत्वमावश्यकम्। माषकुं भवापेनेत्यादौ दर्शितानुपपत्तिस्तु उत्तरपदसंबन्धिकार्य एव अनेन प्रत्ययलक्षणनिषेध इत्याश्रित्य परिहरणीया। इत्थञ्च णत्वविधावपि अनेन प्रत्ययलक्षणनिषेधसिद्धिरिति वाच्यम् ॥ २९ ॥
यतः उत्तरपदसंबन्धिकार्य एव अनेन प्रत्ययलक्षणनिषेध इत्यङ्गीकारेऽपि परम- युवयोगिनेत्यत्र णत्वनिषेधानुपपत्तिः तस्य उत्तरपदसंबन्धित्वानपायात्। अत उत्तरपदनिष्ठं यत्पदत्वं तत्प्रयुक्तः तत्समानाधिकरणश्च योऽयमपदादिविधिः तत्रैव निषेध इत्याश्रयणीयम्। ततश्च दर्शितस्थले णत्वनिषेधस्य युवशब्दवृत्तिपदत्वप्रयुक्तत्वेऽपि तत्समानाधिकरणत्व- विरहान्न दोषः। प्रागुक्तकुत्वादिसाधारण्यानुपपत्तिस्तु तादृशप्रयुक्तत्वसंभावनाविषयत्व- विवक्षया परिहरणीया, तावत्पर्यन्तस्य वार्तिके नालाभेऽपि गत्यन्तरविरहात्तथैव विवक्षणीयम्।
इत्थञ्च णत्वविधावुक्तवार्तिकप्रवृत्तिः नोपपद्यत एवेति ॥ ३० ॥
नचैवंसति परमविदुषेत्यादौ षत्वानुपपत्तिः तस्य उत्तरपदनिष्ठपदत्वसामानाधिकरण्या- संभवेन तत्र प्रत्ययलक्षणानिषेधात्। अतः अपदादिविधौ पदत्वसामानाधिकरण्यादि- विशेषणनिवेशो नोपपद्यते। परमयुवयोगिनेत्यादौ दर्शितानुपपत्तिस्तु कार्यभाज उत्तरपदस्य अनेन प्रत्ययलक्षणनिषेध इत्याश्रित्य परिहरणीया, तथासति युवशब्दस्य कार्यभाक्त्वविरहेण पदत्वाविघातात्। तथाच णत्वविधावपि वार्तिकप्रवृत्तिरव्याहतैवेति वाच्यम् ॥ ३१॥
एवमपि पदे व्यवाय इति सप्तमीसमासपक्षे अपदादिविधिपदस्य पदान्तत्वप्रयुक्त- विधिपरताया आवश्यकतया णत्वविधौ वार्तिकप्रवृत्त्यसंभवात्, तथाहि - आर्द्रगोमयेण शुष्कगोमयेणेत्यत्र पदव्यवायेऽपीतिनिषेधवारणाय अतद्धित इति वक्तव्यमित्युक्तं वार्तिक- कृता। भाष्यकृता तु तद्वचनप्रत्याचिख्यासया पदे व्यवाय इति सप्तमीसमासः समाश्रितः। तत्र व्यवधानं प्रत्यासत्त्या पदकृतमेव ग्राह्यं तेन चतुर्बह्वङ्गेणेत्यत्र पदपरकबहुच्प्रत्ययेन व्यवधानेऽपि न दोषः। पदपरकं यत्पदं तेन व्यवधाने णत्वन्नेति तु निष्कर्षः। तथाच आद्रगोमयेणेत्यादौ तादृशव्यवधानाभावात् नानुपपत्तिः। इत्थञ्च रम्ययुवयोगिनेत्यत्र कार्यभाजः योगिन्नित्युत्तरपदस्य प्रत्ययलक्षणनिषेधे पदपरकपदव्यवधानविरहात् णत्वनिषेधानुपपत्तिप्रसंगः। अतः तद्वारणाय पदान्तत्वप्रयुक्तविधिपरत्वमेव अपदादिविधिशब्दस्य समाश्रयणीयम्। तथासति णत्वनिषेधस्य पदान्तत्वाप्रयुक्ततया प्रत्ययलक्षणनिषेधाप्रवृत्तौ योगिन्नित्यस्य पदत्वसंभवात् न दोषः। स्वघटितप- दघटकवर्णनिरूपितपूर्वत्वतादृशवर्णनिरूपितोत्तरत्वोभयवदवृत्तिधर्मप्रयुक्तविधित्वेन सादृश्यादरणे अपदादिविधिशब्दस्य पदान्तत्वप्रयुक्तविधिपरत्वमपि संभवतीति ॥ ३२ ॥
नच पदव्यवायेपि इत्यत्र पदशब्दः पदत्वयोग्यपर इत्यवश्यमाश्रयणीयम् अन्यथा माषकुं भवापिनेत्यत्र गतिकारकोपपदानां कृद्भिःसह समासवचनं प्राक्सुबुत्पत्तेरिति वापिन्नित्यस्य सुबुत्पत्तेः प्रागेव समासेन पदत्वासंभवात् णत्वनिषेधानुपपत्तेः तथाच प्रागुक्तस्थलेऽपि उक्तरीत्यैव णत्वनिषेधोपपत्त्या पदान्तत्वप्रयुक्तविधिपरत्वाश्रयणमनावश्यकमेवेति णत्वविधौ वार्तिकप्रवृत्तिः अव्याहतैवेति वाच्यम् ॥ ३३ ॥ गतिकारके ति परिभाषाया अनित्यतया वापिन्नित्यत्य सुबुत्पत्त्यनन्तरमेव समासा- ङ्गीकारेण सामञ्जस्ये पदशब्दस्य पदत्वयोग्यलाक्षणिकतायां मानाभावेन अपदादि- विधिशब्दस्य परिभाषानुरोध्युक्तार्थपरताया आवश्यकतया णत्वविधौ वार्तिकप्रवृत्त्य- संभवात्। गतिकारके ति परिभाषाया अनित्यत्वञ्च उपपदमतिङिति सूत्रे कैय्यटे स्पष्टम् , तत्र हि “कर्तृकरणे कृता बहुलमि"ति बहुलग्रहणात् गतिकारके ति परिभाषाया अनित्यत्वं ज्ञाप्यते तेन धनक्रीतादिसिद्धिरित्युक्तम् ॥ ३४ ॥ नच तथापि नाराणाम् अयनमिति तत्पुरुषसमासे णत्वं उपपद्यत एव उक्तपरिभाषया तत्र सुबुत्पत्तेः प्रागेव समासेन सामानपद्याक्षतेरिति वाच्यम् ॥ ३५ ॥
गंधर्वगानादौ णत्ववारणाय निमित्तानधिकरणनिमित्तिमत्पदत्वयोग्याघटितत्वस्यैव सामानपद्यरूपताया आश्रयणीयतया तदसंभवात् गंधर्वगानादेः एतावतैव वारणे तेषां क्षुभ्नादित्वांगीकारस्य अत्यन्तहेयत्वात् ॥३६॥
नच गंधर्वगानादिषु सुबुत्पत्त्यनन्तरमेव समास इत्यङ्गीक्रियते दर्शितपरिभाषाया अनित्यत्वात् धनक्रीतादाविवात्रापि लक्ष्यानुरोधेनाप्रवृत्तेः। तथाच एतावतैव तत्र णत्ववारणे सामानपद्यशरीरे पदत्वयोग्यत्वनिवेशनमनुचितमेव, नारायणशब्दे तु तादृशपरिभाषाया अप्रवृत्तौ मानाभावेन तत्पुरुषसमासे णत्वं सूपपादमेवेति वाच्यम् ॥३७ ॥
नरसंबन्ध्यधिकरणेषु वस्त्वन्तरेष्वपि नारायणशब्दस्य णत्वघटितस्य साधुताप्रसङ्ग- परिहाराय तत्पुरुषनारायणशब्देऽपि सुबुत्पत्त्यनन्तरमेव समासस्याश्रयणीयत्वात्। किञ्च निमित्तानधिकरणनिमित्तिमत्पदाघटितत्वस्य सामानपद्यरूपत्वे “वाहनमाहितादिति” सूत्र- वैय्यर्थ्यम्। इक्षुवाहणादिषु सुबुत्पत्तेः प्रागेव समासात् सामानपद्योपपत्त्या णत्वोपपत्तेः। एवं “अग्रग्रामाभ्यामि"ति वार्तिकस्यापि वैय्यर्थ्यम्, अग्रण्यादेरुक्तरीत्यैव सिद्धेः। अतो निमित्तानधिकरणनिमित्तिमत्पदत्वयोग्याघटितत्वमेव सामानपद्यमिति स्वीकरणीयं, तथाच तत्पुरुषसमासेऽपि णत्वं दुर्घटमेवेति॥३८॥
नच तत्पुरुषे णत्वमुपपद्यत एव सुबुत्पत्तेः प्राक्समासेन पदत्वघटितसामानपद्योपपत्तेः। यत्तु -नरसंबन्ध्यधिकरणेषु वस्त्वन्तरेष्वपि नारायणशब्दस्य णत्वघटितस्य साधुताप्रसङ्ग इति। तन्न - लक्ष्यानुरोधन वस्त्वन्तरपरत्वे सुबुत्पत्त्यनन्तरमेव समासाङ्गीकारेण सामानपद्या- संभवात्। यदपि वाहनमाहितादिति सूत्रस्य अग्रग्रामाभ्यां इति वार्तिकस्य च वैय्यर्थ्यमिति। तदपि न नियमार्थतया चारितार्थ्यसंभवात्। तथाहि - वाहनमाहितादिति सूत्रस्य वाहननकारस्य यदि णत्वं तर्हि आहितात्परस्यैवेत्येवंविधनियमपरतया उष्ट्रवाहनादिव्यावृत्तिफलकत्वं। अन्यथा हि उष्ट्रस्य वाहनमिति कर्तरि षष्ठ्यन्तेन समासे सुबुत्पत्तेः प्रागेव समासावश्यंभावेन पदत्वघटितसामानपद्याक्षतेः, अट्कुप्वाङित्यनेन णत्वप्रसङ्गः। एवं अग्रग्रामाभ्यां इति वार्तिकस्यापि नियमपरत्वं बोध्यमिति अतो न कश्चिद्दोष इति वाच्यम् ॥ ३९ ॥
गतिकारके ति परिभाषाया नित्यत्वस्यैव आवश्यकत्वेन वस्त्वन्तरे नारायण- शब्दस्य णत्वापत्तेः दुर्वारत्वात्। तथाहि - उक्तपरिभाषाया अनित्यत्वे वाहनमाहितादिति सूत्रवैय्यर्थ्यप्रसंगः, नहि तस्य इक्षुवाहणादौ विध्यर्थत्वसंभवः, सुबुत्पत्तेः प्रागेव समासेन पदत्वघटितसामानपद्योपपत्त्या अट्कुप्वाङित्यनेनैव णत्वसिद्धेः। नाप्युष्ट्रवाहनादिव्यावृत्ति- फलकदर्शितनियमपरत्वसंभवः। तत्र लक्ष्यानुरोधेन सुबुत्पत्त्यनन्तरमेव समासाङ्गीकारेण णत्वाप्रसक्तेः। एवमुक्तपरिभाषाया अनित्यत्वे दधिसेचावित्यादौ उपपदसमासे सात्पदाद्यो- रिति निषेधोपपत्तये भाष्ये पदादादिरति पञ्चमीसमासाश्रयणमपि अनुपपन्नं स्यात्, तत्र सुबुत्पत्त्यनन्तरसमासेनैव इष्टसिद्धेः। अत उक्तपरिभाषा नित्यैव धनक्रीतादिस्त्व- जादित्वाङ्गीकारेण साधनीयः। यद्यपि वार्तिककृन्मते उक्तपरिभाषायाः अनित्यत्वमेव अन्यथा उत्तरपदत्वे चेति वार्तिके अपदादिविधावित्यभिधानवैय्यर्थ्यप्रसङ्गात्। दधिसेचावित्यादौ सात्पदाद्योरिति पञ्चमीसमासावश्यकतयैव षत्वनिषेधोपपत्तेः। तथापि नदोषः, समानपद इत्यस्य यथाश्रुतार्थकत्वमङ्गीकृत्य पूर्वपदादित्यस्य नियमपरतायाः तैरङ्गीकारात्। नियमश्च निमित्तानधिकरणपदत्वयोग्यप्रवृत्ते र्नस्य यदि णत्वं तर्हि संज्ञायामेवेत्येवंविध इति न के वलयौगिकनारायणशब्दस्य णत्वसंभव इति स्पष्टं अस्मदीयपरमुखचपेटिकायाम्। भाष्यकृतान्तु प्रागुक्तरीत्या उक्तपरिभाषाया नित्यत्वमेव सम्मतमिति तदभिप्रेतम्।
प्रागुक्तसामानपद्यं यदि पदत्वघटितं तदा वस्त्वन्तरपरनारायणशब्दस्य णत्वप्रसंगो दुर्वारः। वाहनमाहितादिति सूत्रस्य प्रागुक्तनियमपरत्वे गौरवं, गंधर्वगानादीनां क्षुभ्नादित्वकल्पना- गौरवं च प्रसज्यत इति पदत्वयोग्यताघटितमेव तदादरणीयमिति न तत्पुरुषनारायणशब्दस्यापि शिवपरत्वे णत्वोपपत्तिरिति ॥ ४० ॥
नच पदत्वयोग्यत्वं दुर्वचम्। यत्तु - विभक्तीतरानपेक्षया लोके अर्थबोधकत्वेन यद्दृष्टं तत्त्वं पदत्वयोग्यत्वमिति। तन्न - मातृभोगीणादौ णत्वानुपपत्तेः, भोगीनेत्यस्य दर्शितपदत्व- योग्यत्वानपायात्। नहि भोगीन इत्यस्यासाधुत्वं इत्येतावता शाब्दबोधजनकत्वमपैति। उक्तंहि भाष्ये “समानायां अर्थावगतौ शब्दैश्चापशब्दैश्च शास्त्रेण धर्मनियमः” इति। हरिणाप्युक्तं “वाचकत्वाविशेषेऽपि नियमः पुण्यपापयोरिति”। अतः अगत्या पदत्वघटितमेव सामानपद्यमित्याश्रयणीयं वस्त्वन्तरपरनारायणशब्दस्यापि क्षुभ्नादित्वमङ्गीकृत्य णत्वं वारणीयम्, प्रागुक्तगौरवञ्च सोढव्यम्। इत्थञ्च तत्पुरुषनारायणशब्दस्य शिवपरत्वेऽपि णत्वं निर्बाधमेवेति वाच्यम् ॥ ४१ ॥
पदत्वयोग्यतायास्सुवचत्वेन तद्घटितसामानपद्यस्यैव उक्तरीत्या समाश्रयणीयतया दशितस्थले णत्वासंभवात्। तथाहि - विभक्तीतरानधीनसाध्वधीनशाब्दबोधजनकत्वं पदत्वयोग्यत्वम्। भवति चेदं गंधर्वगानमित्यादौ गानेत्यंशे, गानमित्यादौ तस्य तादृशशाब्दबोधजनकत्वदर्शनात्। भोगीनेत्यंशे तु नैतत्संभवति भोगीन इत्यस्य असाधुतया तदधीनबोधस्य साध्वधीनत्वविरहादिति ॥ ४२ ॥
नचैवंसति इन्द्रनिभादौ णत्वापत्तिः निभादेरुत्तरपदत्वे एव साधुतया निभ इत्येत- ज्जन्यबोधस्य साध्वधीनत्वविरहेण निभेत्यंशस्य पदत्वयोग्यत्वासंभवात्। अतः पदत्व- घटितमेव सामानपद्यमित्याश्रयणीयं तथासति निभादेः प्रत्ययलक्षणेन पदत्वसंभवात् न दोष इति वाच्यम् ॥ ४३ ॥
निमित्तानधिकरणनिमित्तिमदुत्तरपदाघटितं यन्निमित्ताधिकरणपदं तत्त्वस्यैव सामानपद्यरूपतया विवक्षितत्वेनानुपपत्तिविरहात् निभादेरपि समासचरमावयवत्वरूपो- त्तरपदत्वानपायात्। इत्थंच तत्पुरुषनारायणशब्दे सुबुत्पत्तेः प्राक्समासेऽपि न णत्वसंभवः, दर्शितसामानपद्यविरहात् इति ॥ ४४ ॥
नचैवंसति होतृपोतृनेष्टोद्गातार इत्यत्र णत्वप्रसंगः नेष्टृशब्दस्य उक्तोत्तरपदत्वविरहात्। अतः पदत्वघटितसामानपद्यस्यैव समाश्रयणीयतया प्रागुक्तरीत्या तत्पुरुषनारायणशब्दे णत्वोपपत्तिरिति वाच्यम् ॥ ४५ ॥
सुप्तिङ्विध्युद्देश्यतावच्छेदकधर्मवत्त्वरूपस्यैव पदत्वयोग्यत्वस्य सुवचत्वेन प्रागुक्त- रीत्या पदत्वघटितसामानपद्याश्रयणासंभात्। तादृशोद्देश्यतावच्छेदकधर्मश्च प्रातिपदिकत्वं धातुत्वञ्चेति न सुबुत्पत्तेः प्राक्समासेऽपि णत्वसंभव इति ॥ ४६ ॥
नच चतुष्टयी शब्दानां प्रवृत्तिः जातिशब्दाः, गुणशब्दाः, क्रियाशब्दाः, संज्ञाशब्दाः (चेति) संज्ञोपसर्जनीभूतास्तु न सर्वादय इत्यादावाधुनिकसंज्ञाया एव ग्रहणदर्शनेनात्रापि तथात्वमेव स्वीकरणीयम्। इत्थञ्च नारायणादिशब्देषु णत्वोपपत्तये योगविभाग एव सर्वैराश्रयणीय इति के वलयौगिकस्यापि तस्य णत्वोपपत्तिरिति वाच्यम्॥ ४७॥
अकर्तरिचकारके संज्ञायामित्यादाविवात्र संज्ञाशब्दस्य रूढमात्रपरत्वेनैवोपपत्तौ योगविभागाश्रयणस्यानुचितत्वात्। भाष्यानुक्तयोगविभागस्य साधुतानियामकत्वेऽतिप्रसंगात्, पूर्वपदादिति सूत्रभाष्यादिविरोधाच्च ॥ ४८ ॥
नच तथापि पूर्वपदात्संज्ञायामित्यनेनैव शिवपरनारायणशब्दस्यापि णत्वमुपपद्यते। कूर्मपुराणादिषु शिवेऽपि नारायणशब्दप्रयोगसत्त्वेन तस्य तत्रासंज्ञात्वसत्त्वादिति वाच्यम् ॥४९॥
गौणत्वेनापि संभवदुपपत्तिकक्वाचित्कप्रयोगमात्रस्य शक्तिग्राहकत्वे गंगादिपदस्य तीरादावपि शक्तिप्रसंगेन लक्षणोच्छेदापत्तेः। तेष्वदर्शनाधिकरणे उभयत्र प्रयोगादेस्तुल्यत्व एव विनिगमनाविरहात् अनेकशक्तिकल्पनं, मात्रयापि वैषम्ये तत्र विनिगमकसंभवेन एकत्र शक्तिरन्यत्र लक्षणेत्येव युक्तम् अनेकार्थत्वस्यान्याय्यत्वादिति हि सिद्धान्तितम्। अतः प्रसिद्धिप्राचुर्याभिधानकोशादिना नारायणशब्दस्य भगवति शक्तिः, शिवे तु क्वाचित्कप्रयोगविषये लक्षणैवेति ॥ ५० ॥
नच कूर्मपुराणादिगतनारायणशब्दस्य उक्तरीत्या शिवे लाक्षणिकत्वे तस्यासा-
धुत्वापत्तिः संज्ञात्वविरहेण पूर्वपदादित्यनेन णत्वासंभवात्, प्रकारान्तरस्यच प्रागेव
निरस्तत्वात्। यदि च संज्ञात्वं नाम रूढिशक्तिनिरूपकत्वमेव। इत्थंच लक्षणया शिवपरस्यापि
नारायणशब्दस्य भगवन्निष्ठरूढिशक्तिनिरूपकत्वेन संज्ञात्वानपयात् पूर्वपदादित्यनेनैव
णत्वोपपत्तिरित्युच्यते। तदा के वलयोगेन शिवपरत्वेऽपि उक्तरीत्या णत्वसंभवात् सिद्धन्न-
स्समीहितम्। अथ रूढ्यर्थबोधपरत्वमेव संज्ञात्वं नतु रूढिशक्तिनिरूपकत्वं तथासति
द्रुणसयुधिष्ठिरादीनां के वलयोगेनान्यत्रापि साधुताप्रसंगात्। इत्थंच पूर्वपदादित्यस्य
के वलयोगेन अन्यपरनारायणशब्देऽपि अप्रवृत्तिरेवेति चेत्। एवंसति लाक्षणिके प्यप्रवृत्या
शिवरूढ्यभ्युपगममन्तरेण कूर्मपुराणादिगतनारायणशब्दस्य साधुत्वानुपपत्त्या तत्र रूढ्य-
भ्युपगम आवश्यक एवेति वाच्यम्॥ ५१ ॥
नारायणशब्दस्य भगवत्सदृशे लक्षणायां णत्वोपपत्त्या साधुत्वोपपत्तेः। तत्रहि
सादृश्यप्रतियोगितया भगवतोऽपि शाब्दबोधे भानात् रूढ्यर्थबोधपरत्वरूपसंज्ञात्वमक्षतमेव।
अतएव हि युधिष्ठिरादिशब्दाः सादृश्यमात्रावलंबिनश्शिष्टैः प्रयुज्यते। तस्मात् कूर्मपुराणा-
दिगतनारायणशब्दो भगवत्सदृशलाक्षणिक एव। कारणवाक्यगतनारायणशब्दस्य लक्षणया
शिवपरत्वं तु मुख्यार्थबाधविरहात् अनुपपन्नमिति प्रागेवोक्तम् ॥ ५२ ॥
नचैवमपि शिवसहस्रनामसु नारायणशब्दस्यापि पाठात् तत्र रूढ्यभ्युपगम आवश्यकः
लाक्षणिकत्वे रूढिनिरूपकत्वरूपनामत्वानुपपत्तेः इति वाच्यम् ॥ ५३ ॥
सर्वत्र सहस्रनामसु नामशब्दस्य प्रातिपदिकमात्रपरतया लाक्षणिकस्यापि तत्त्वानपायात्
नामशब्दस्य हि प्रातिपदिकपरत्वं वैयाकरणप्रसिद्धम्। अत एव यानि नामानि गौणानि
विख्यातानीत्यत्र विख्यातपदेनैव रूढिसिद्धिरनुग्रहीता भगवद्गुणदर्पणे नतु नामशब्देन ॥ ५४ ॥
नच कूर्मपुराणे शिवनामनिर्वचनप्रकरणे नाराणामयनं यस्मात् तेन नारायणस्स्मृत इति
निर्वचनदर्शनात् तत्पुरुषसमासरूपस्यापि नारायणशब्दस्य शिवे साधुत्वमावश्यकम्। इत्थंच
णत्वोपपादकसंज्ञात्वोपपत्तये रूढ्यभ्युपगम आवश्यक एवेति वाच्यम् ॥ ५५ ॥
लक्ष्यतावच्छेदकप्रदर्शनपरतयापि उपपन्नस्य दर्शितनिर्वचनस्य शक्तिग्राहकत्वा-
संभवात्। कथमस्य लक्ष्यतावच्छेदकप्रदर्शनपरत्वमिति चेत् इत्थं - कूर्मपुराणशिवसहस्र-
नामादिषु प्रयुक्तस्य नारायणशब्दस्य भगवत्सदृशत्वावच्छिन्ने लक्षणेत्युक्तं तत्र
सादृश्यघटकधर्मः कोऽसावित्याकांक्षायां नरसंबन्ध्यधिकरणत्वमिति बोधयितुं दर्शितनिर्वचनं
प्रवृत्तमिति। तथाच तावतैव उपपन्नस्य निर्वचनस्य न शिवे नारयणशब्दस्य शक्तिग्राहकत्वं
संभवति, अनन्यथासिद्धनिर्वचनस्यैव शक्तिग्राहकत्वात्। अत एव चित्राज्याधिकरणे “आपो
वा ऋत्वियमार्छन्निति” पृष्ठशब्दनिर्वचनस्य लक्ष्यतावच्छेदकप्रदर्शनपरत्वमेवेत्युक्तम्।
तत्र हि स्तोत्रविशेषनामत्वेन प्रसिद्धस्य पृष्ठशब्दस्य क्वचित् पृष्ठैरुपतिष्ठत इत्यादौ
बृहद्रथन्तरवैरूपवैराजशाक्वररैवतसामसु स्तोत्रसाधनेषु लक्षणया प्रयोग इति स्थिते तत्र
लक्ष्यतावच्छेदकत्वतात्पर्यविषयधर्माकांक्षायां तत्प्रदर्शनपरतयोपपन्नस्य रथन्तरादिषु
अब्वायुसुरतजनितवामदेव्यजन्यत्वरूपपृष्ठशब्दप्रवृत्तिनिमित्तप्रदर्शनपरस्य “आपोवा
ऋत्वियमार्च्छन्नि"त्यादिनिर्वचनस्य न शक्तिग्राहकत्वमिति उपपादितम् ॥ ५६ ॥
न च नाराणाम् अयनं यस्मात् तेन नारायणस्स्मृत इत्यस्य कथं लक्षयता-
वच्छेदकप्रदर्शनपरत्वं ईदृशस्थले हि तृतीयापञ्चम्योः स्वप्रकृत्यर्थघटकधर्मावच्छिन्न-
विशेष्यकशक्तिज्ञानाधीनत्वमर्थः, “नारायण” इत्यादेः तत्पदजन्यबोधविषयोऽर्थः। तथा
च नारनिरूपिताधिकरणत्वघटकधर्मावच्छिन्नविशेष्यकशक्तिज्ञानाधीननारायणशब्दजन्य-
बोधविषयत्वस्यैव शिवे लाभात् तस्य योगार्थतावच्छेदकप्रदर्शनपरत्वमेवावश्यकम्।
ततश्च के वलयौगिकत्वे व्याकरणाविहितणत्वघटिततया साधुत्वासंभवेन रूढ्यभ्युपगम
आवश्यकः उक्तनिर्वचनबलेन वा के वलयौगिकत्वेऽपि साधुत्वमास्ताम्। अतएव
तत्पुरुषसमासत्त्वेऽपि पुल्लिङ्गत्वोपपत्तिः लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्येत्युक्तेश्च।
यद्यपि एवंसति व्याकरणाविहितकार्याघटितत्वविरहात् हेतोः स्वरूपासिद्धिः। तथापि
उक्तनिर्वचनान्यथानुपपत्तिकल्पितणत्वविधायकवचनस्यापि व्याकरणशब्देन विवक्षिततया
न दोषः। तथाच के वलयौगिकस्यापि नारायणशब्दस्य साधुत्वं अव्याहतमिति वाच्यम् ॥ ५७
॥
यत ईदृशस्थले तृतीयापञ्चमीभ्यां अवच्छिन्नत्वमेव बोध्यते तच्च नारायणादि-
शब्दार्थतावच्छेदके नारायणादिशब्दजन्यबोधविषयत्वे अन्वेति। तथाच उक्तनिर्वचनेन
नारायणशब्दस्य नारनिरूपिताधिकरणत्वावच्छिन्नविषयताशालिबोधजनकत्वमात्रमेव
सिद्ध्यति। तादृशबोधजनकता च रूढ्या, योगेन, लक्षणया वेति प्रमाणान्तरावसेयमेव। तथाच
प्रागुक्तरीत्या लक्षणाधीनशाब्दबोधविषयतावच्छेदकरूपलक्ष्यतावच्छेदकप्रदर्शनपरत्वमेव
उक्तनिर्वचनस्याकामेनापि स्वीकार्यमिति न यौगिकत्वग्राहकत्वं न वा तदन्यथा-नुपपत्त्या
रूढ्यादिकल्पनमिति।
यत्तु ईदृशस्थले स्वप्रकृत्यर्थघटकधर्मावच्छिन्नविशेष्यकशक्तिज्ञानाधीनत्वमेव तृतीयाद्यर्थ इति। तन्न - तथासति मंचस्थत्वात् मंच इत्युक्तः तात्स्थ्यात् ताच्छब्द्यं तात्स्थ्येन ताच्छब्द्यमित्याद्यनुपपत्तिप्रसंगात्। यदि च मंचस्थत्वघटक- मंचत्वावच्छिन्नविशेष्यकशक्तिज्ञानाधीनत्वं लक्षणाग्रहजन्यबोधेऽपि अक्षतम्, लक्षणाग्रहस्य शक्तिज्ञानजन्यमंचोपस्थित्यधीनत्वात्। तथाच नोक्तस्थले अनुपपत्तिरित्युच्यते। तदा नारायणशब्दस्य नारनिरूपिताधिकरणताश्रयभगवत्सदृशलाक्षणिकत्वेऽपि तज्जन्यबोधस्य नारनिरूपिताधिकरणत्वघटकनारत्वाद्यवच्छिन्नविशेष्यकशक्तिज्ञानजन्यतदुपस्थित्यधीन- लक्षणाग्रहजन्यतया तादृशशक्तिज्ञानाधीनत्वाक्षतेः नोक्तनिर्वचनोपपत्त्या तस्य प्रागुक्तरीत्या लक्ष्यतावच्छेदकप्रदर्शनपरत्वमेव युक्तंम्। किञ्च ईदुशस्थले तृतीयापंचम्योः स्वप्रकृत्यर्थघटकधर्मावच्छिन्नविशेष्यकशक्तिज्ञानाधीनत्वार्थकत्वे नाराणामयनं यस्मात् तेन नारस्स्मृतः तेन अयनं स्मृतमित्यादयोऽपि व्यवहारास्समंजसास्स्युः। नारनिरूपिताधिकरणत्वघटकनारत्वावच्छिन्नविशेष्यकशक्तिज्ञानाधीनत्वस्य तादृशाधि- करणत्वावच्छिन्नविशेष्यकशक्तिज्ञानाधीनत्वस्य च तत्तत्पदजन्यबोधे अक्षतेः। यदिच तद्घटका यावन्तो धर्माः तत्तदवच्छिन्नविशेष्यकशक्तिज्ञानाधीनत्वमेव तत्र तृतीयापञ्चमीभ्यां बोध्यत इति न उक्तदोषावकाश इत्युच्यते। तदा “शेषः परार्थत्वादि”त्यादेरनुपपत्तिः, शेषपदरूढिज्ञानाधीनस्य परोद्देश्यककृतिकारकत्वेन विहितत्वरूपपरार्थत्वावच्छिन्नबोधस्य तादृशपरार्थत्वघटकतत्तद्धर्मावच्छिन्नविशेष्यकशक्तिज्ञानाधीनत्वात्। किं बहुना एवंसति नाराणामयनम् इत्यादि निर्वचनस्यैव असांगत्यम्। तत्पुरुषे पूर्वपदस्य विभक्त्यर्थविशिष्टे तादृशविभत्क्यर्थ एव वा लक्षणायाः निषादस्थपत्यधिकरणे सिद्धान्तिततया योगाधीन- नारायणशब्दजन्यबोधस्यापि नारसंबन्ध्यधिकरणत्वघटितसंबन्धांशे शक्तिज्ञानानधीनत्वात् । तस्मात् ईदृशस्थले अवच्छिन्नत्वमेव तृतीयापञ्चमीभ्यां बोध्यत इति सर्वैरपि समाश्रयणीयमिति उक्तनिर्वचनस्य लक्ष्यतावच्छेदकप्रदर्शनपरत्वमेवेति ॥ ५८॥ नच दर्शितनिर्वचनात् प्राक् अजातत्वादजस्स्मृत इत्यादिदृश्यते उत्तरत्र च भगवान् सर्वविज्ञानादिति, तयोरुभयोश्च योगार्थपरत्वं निर्विवादं। ततश्च तत्प्रायपाठात् अस्यापि तथात्वमेवावश्यकम्। उक्तं हि उपांशुयाजाधिकरणे “प्रायोवचनात्” इति सूत्रे “शिरो वा एतद्यज्ञस्य यदाग्नेयः हृदयमुपांशुयाजः पादावग्नीषोमीय” इति प्रधानप्रायपाठेन उपांशुयाजस्य प्राधान्यावगत्या “विष्णुरुपांशुयष्टव्योऽजामित्वाय,प्रजापतिरुपांशुयष्टव्योऽजामित्वाय, अग्नीषोमावुपांशुयष्टव्यावजामित्वायेति” वाक्यानां यागविधिपरत्वे तद्बाधप्रसंगात् न तेषां तत्परत्वं किन्तूपांशुयाजमन्तरायजतीति वाक्यस्यैव तथात्वमिति। अथ कथं विष्ण्वादिवाक्यानां यागविधिपरत्वे प्राधान्यावगतिबाध इति चेत् इत्थं
- विष्ण्वादिवाक्यविहितयागत्रयमध्ये अग्नीषोमदेवत्यस्यैव “तावब्रूतामग्नीषोमावाज्यस्यैव नावुपांशुपौर्णमास्यां यजन्नि”तिवाक्येन कालसंबन्धात् विद्वद्वाक्याधिकारवाक्याभ्यामपि तस्यैव ग्रहणेन तस्यैव प्राधान्यसिद्धिः इतरयोस्तु फलवदफलन्यायेनाङ्गत्वमेव स्यादिति प्रायपाठावगतमुपांशुयाजमात्रप्राधान्यं बाध्यत एवेति। तस्मात् यौगिकप्रायपाठेन यौगिकत्वमेव आश्रयणीयमिति वाच्यम् ॥ ५९ ॥ अपेक्षितविधिप्राबल्येन उक्तनिर्वचनस्य लक्ष्यतावच्छेदकप्रदर्शनपरताया एवा-वश्यकत्वात्। तथाहि प्रागुक्तरीत्या क्वाचित्कस्य शिवविषयनारायणशब्दस्य लाक्षणिकत्वे न्यायबलान्निर्णीते तत्र लक्ष्यतावच्छेदकापेक्षायां तत्प्रतिपादनपरत्वमेव उक्तनिर्वचनस्या-वश्यमाश्रयणीयं नत्वनपेक्षितयौगिकत्वप्रदर्शनपरत्वं “अपेक्षितविधिः ज्यायाननपेक्षित-चोदनादि"तिन्यायात्। अतएव हि-“वार्त्रघ्नी पूर्णमासेनूच्येते” “वृधन्वती अमावास्यायामि”त्यस्य लिंगक्रमाभ्यां आज्यभागाङ्गत्वेन अवगतानां वार्त्रघ्नवृधन्वन्मन्त्राणां अपेक्षितव्यवस्थाबोधकत्वमेव नानपेक्षितविद्वद्वाक्यविहितकर्माङ्गताबोधकत्वमिति प्रतिपादितं द्वितीये। एवंविधाभ्यर्हितविधिपरत्वसंभवे हि प्रायपाठोप्यनादरणीय एव। अतएव हि समिधादिप्रयाजानां आरादुपकारकत्वेऽपि तत्प्रायपठितस्य स्वाहाकारप्रयाजस्य यक्ष्यमाणदेवतासंस्कारकतया सन्निपातित्वमेवेति स्थापितं दशमे। तस्मान्नोक्तनिर्वचनस्य यौगिकत्वप्रदर्शनद्वारा रूढिग्राहकत्वं यौगिकत्वेऽपि साधुताग्राहकत्वं वा , किंतु लाक्षणिकताग्राहकत्वमेव पृष्ठशब्दनिर्वचनवदिति सिद्धम्। किं बहुना “नहि नारायणादीनां नाम्नामन्यत्र संभवः ऋते नारायणादीनि नामानि पुरुषोत्तमः प्रादादन्यत्र भगवान् राजेवर्ते स्वकं पुरमि”त्यादिवामनपुराणादिवचनैः नारायणशब्दस्य शिवे रूढ्यभावबोधनात् प्रागुक्तनिर्वचनस्य लाक्षणिकत्वमेवाकामेनापि स्वीकार्यं। किञ्च उक्तनिर्वचनस्य कूर्मपुराणे भगवत्कर्तृकशिवस्तोत्रान्तर्गतत्वेनैव प्रतिपादनात् तदंशस्य शिवमाहात्म्यपरतया तामसत्त्वेनाप्रामाण्यमेव “अग्नेश्शिवस्य माहात्म्यं तामसेषु प्रकीर्तितं” इति मात्स्यवचनात्। तस्मात् सर्वथा उक्तनिर्वचनात् नारायणशब्दस्य शिवे रूढिः यौगिकत्वेऽपि साधुत्वं वा न सिद्ध्यतीति। तथाच नारमयनं यस्येत्यादिव्युत्पत्त्या शिवपरस्य नारायणशब्दस्य व्याकरणाविहितकार्यघटिततया असाधुत्वमेवेति सर्वं समञ्जसम्। ॥ 60 ॥
श्रीशैलकृष्णसुधिया
रचिता णत्वस्य चंद्रिका सेयं।
कलयतु कुवलयम् अखिलं
हृष्टं चामोदमेदुरं च सदा ॥
श्रीमते रघुनंदनपरब्रह्मणे नमः॥
इति महाराज्ञीदत्तश्रीमहामहोपाध्यायसंज्ञाबिरुदशालिभिः
श्रीकृष्णताताचार्यैः विरचिता णत्वचंद्रिका संपूर्णा।
श्रीमत्प्रणतार्तिहरवरदपरब्रह्मणे नमः