मूर्छ्

धातुः

“मुर्छा” इति धातोः औपदेशिकस्वरूपे दीर्घः अपि नास्ति, चकारः अपि नास्ति । अतः अस्य धातोः “मूर्छ्”, “मुर्च्छ्”, “मूर्च्छ्” इति उच्चारणम् अशुद्धम् । धातौ मूलरूपेण ह्रस्वः उकारः, स्वतन्त्रः छकारः च विद्यते ।

चकारागमे विकल्पः

मूर्च्छा, मूर्च्छना, मूर्च्छितः, मूर्च्छति — आदिषु शब्देषु सर्वत्र मुर्छाँ (मोहसमुच्छ्राययोः) इति चकारविरहितः एव उपदेशः (मूलधातुपाठे पूर्वजैः कृतः निर्देशः) ।

कृत्संज्ञकं ‘मूर्छित’ इति प्रातिपदिकम् मुर्छाँ (मोहसमुच्छ्राययोः, भ्वादिः) अस्मात् धातोः सिद्ध्यति ।

  • उकारस्य दीर्घः — प्रक्रियायाम् छकारस्य लोपः भवति चेत् ८.२.७७ हलि च इत्यनेन सूत्रेण, तथा च अन्यत्र ८.२.७८ उपधायां च इति सूत्रेण उकारस्य दीर्घः भवति ।
  • चकारविधानम् — छकारस्य ८.४.४६‌ अचो रहाभ्यां द्वे इति विकल्पेन द्वित्वे कृते, ततः ८.४.५५‌ खरि च इति चर्त्वे कृते चकारः विधीयते ।
  • पक्षे द्वित्वं विना - “मूर्छा, मूर्छना, मूर्छितः, मूर्छति” इति रूपाणि अपि सिद्ध्यन्ति ।

भ्रमवारणम् - “मुर्छाँ” इत्यत्र छकारात् अव्यवहितरूपेण पूर्वः स्वरः नास्ति (रेफः अस्ति) अतः अत्र “६.१.७३ छे च”, “६.१.७५ दीर्घात्” इत्येताभ्यां सूत्राभ्यां तुगागमः नैव सम्भवति । अतः अत्र विद्यमानः छकारः द्वित्व-निर्मितः एव ज्ञेयः ।

कर्मणि क्तः

  • मुर्छाँ (मोहसमुच्छ्राययोः, अकर्मकः) अस्मात् धातोः क्त-प्रत्यये कृते प्रक्रियायाम् “७.२.१६ आदितश्च” इति सूत्रेण इडागमः निषिध्यते ।
  • ततः “६.४.२१ राल्लोपः” इति छकारस्य लोपे कृते, ततः च “८.२.४२ रदाभ्यां निष्ठातो नः पूर्वस्य च दः” इति सूत्रेण प्रत्ययस्थतकारस्य नकारादेशे प्राप्ते, “८.२.५७ न ध्याख्यापॄमूर्छिमदाम्” इति सः निषिध्यते । अग्रे “८.२.७७ हलि च” इति दीर्घे कृते मूर्त इति रूपं सिद्ध्यति । अतः मुर्छ्-धातोः क्त-प्रत्ययान्तरूपम् “मूर्त” इति । एवमेव, मुर्छँ-धातोः क्तवतु-प्रत्ययान्तरूपम् “मूर्तवत्” इति भवति ।

अतः मुर्छ्-धातोः कर्तरि-क्त-प्रत्यये कृते “मूर्त” इत्येव प्रातिपदिकम् ।

भावे क्तः

  • परन्तु मुर्छाँ (मोहसमुच्छ्राययोः, भ्वादिः) धातोः भावे विहितस्य क्त-प्रत्ययस्य “७.२.१७ विभाषा भावादिकर्मणोः” इति सूत्रेण क्त-प्रत्ययस्य विकल्पेन इडागमः भवति ।
  • इडागमपक्षे मुर्छ् + इ + क्त →‌ मूर्छित इति अपि प्रातिपदिकं सिद्ध्यति । भावे विधानात् अस्य नित्यं नपुंसकलिङ्गे एव प्रयोगः — मूर्छितम् इति । यथा, रामेण मूर्छितम् । पक्षे रामेण मूर्तम् इत्यपि साधु ।

भावे क्त-प्रत्यये कृते तु “मूर्त / मूर्छित” इति द्वे प्रातिपदिके — इति आशयः । मूर्त/ मूर्छित इत्येतयोः अर्थौ समानौ एव । अतएव कोषे “मूर्छाले मूर्तमूर्छितौ” इति पङ्क्तिः दृश्यते ।

क्तवतुँ

क्तवतुँ-प्रत्ययः तु भावे / आदिकर्मणि नैव प्रयुज्यते, अतः तस्य विषये इडागमस्य न प्रसङ्गः । अतः मूर्छ्-धातोः मूर्तवान् इत्येव क्तवतु-प्रत्ययान्तं रूपम्, न हि मूर्छितवान् इति ।

इतच्

‘मूर्छित’ इति शब्दः तद्धितान्तः अपि अस्ति । ‘मूर्छा अस्य सञ्जाता’ इत्यस्मिन् अर्थे मूर्छा-शब्दात् “५.२.३६ तदस्य सञ्जातम् इति तारकादिभ्य इतच् इत्यनेन इतच्” इति प्रत्ययं कृत्वा ‘मूर्छित’ इति तद्धितान्तशब्दः सिद्ध्यति । मूर्छा अस्य सञ्जाता सः मूर्छितः मूर्च्छितः वा ।

मूर्छित + मतुप्

मूर्छितवत् इति शब्दः तु तद्धितान्तः एव (न हि कृदन्तः) । ‘मूर्छितः अस्य अस्मिन् वा अस्ति’ इत्यस्मिन् अर्थे मूर्छित-शब्दात् ५.२.९४ तदस्यास्त्यस्मिन्निति मतुप् इत्यनेन मतुप्-प्रत्ययं कृत्वा, मकारस्य वकारादेशे कृते “मूर्छितवत्” इति शब्दः सिद्ध्यति । मूर्छितः अस्मिन् अस्ति सः मूर्छितवान् मूर्च्छितवान् वा । मूर्छितयुक्तः (प्रकोष्ठादिः) इत्यर्थः ।

स्पष्टप्रतिप्रत्यर्थम् उपदेशान्तरम्

कुत्रचित् तु धातुपाठे अपि “मूर्च्छ्” इति चकारयुक्तः निर्देशः एव दृश्यते । सः स्पष्टताप्रतिपत्यर्थमेव ।

अन्यत्र

एवमेव अन्यत्रापि —‌

अट्टँ (अतिक्रमणहिंसयोः) इत्यत्र अत्टँ / अद्टँ इति मूलः धातुः । धातुपाठे ष्टुत्वं (चर्त्वं च) कृत्वा निर्देशः वर्तते ।

तुम्फँ (हिंसायाम्) इत्यत्र तुन्फँ इति नकारोपधः मूलः धातुः । अतएव १.२.२३ नोपधात् थफान्ताद्वा इत्यनेन क्त्वाप्रत्यये किद्वकल्पे कृते तुम्फित्वा, तुफित्वा इति रूपद्वयं सम्भवति । धातुपाठे तु अनुस्वार-परसवर्णं कृत्वा (मकारघटितः) निर्देशः वर्तते ।