दश्

भ्वादौ

दन्श् (दशने, भ्वादिः) इत्यस्य धातोः लट्/लोट्/लङ्/विधिलिङ्-रूपेषु ६.४.२५ दंशसञ्जस्वञ्जां शपि इति सूत्रेण उपधानकारस्य लोपः भवति । दन्श् + शप् + तिप् → दश् + अ + ति → दशति । एवम् एव, दशतु / अदशत् / दशेत् । अन्येषु लकारेषु नकारलोपः न भवति । लुटि - दंष्टा । लृटि - दंक्ष्यति । लिटि - ददंश ।

विकल्पेन णिच्

दशिँ (दशने, चुरादिः) इति धातोः णिच्-प्रत्ययः केवलम् विकल्पेन एव भवति । उभयपक्षे नकारस्य लोपः न भवति ।

णिच्-प्रत्यये कृते “आकुस्मीयाः आत्मनेपदिनः” इति गणसूत्रेण केवलम् आत्मनेपदस्यैव प्रत्ययाः विधीयन्ते । अतः “दंशयते / दंशयताम्” इति रूपाणि सिद्ध्यन्ति ।

णिच्-प्रत्ययस्य अभावे केवलं परस्मैपदस्य रूपाणि भवन्ति । अतः अत्र “दंशति, दंशतु” इति रूपाणि रूपाणि सिद्ध्यन्ति ।

इदित्वाण् णिज्-अभावे दंशति ।
आकुस्मीयम् आत्मनेपदं णिच्सन्नियोगेनैव, इति व्याख्यातारः ।
नलोपे सञ्जिसाहचर्याद् भ्वादेः एव ग्रहणम् — ७.१.१०१ उपधायाश्च इत्यत्र सिद्धान्तकौमुदी ।

कृदन्तरूपाणि

भ्वादिगणस्य दंश् (दशने) इति धातुः

  • ल्युट् - दशनम् (धातुपाठनिर्देशात् साधुत्वम्), चौरादिकस्य तु “दंशनम्” इति ।
  • तुमुन् / तव्य/ तृच् - दंष्टुम् / दंष्टव्यम् / दंष्टृ
  • अनीयर् - दंशनीयम्
  • क्त / क्तवतुँ / क्त्वा - दष्ट / दष्टवत् / दष्ट्वा (६.४.२४ अनिदितां हल उपधायाः क्ङिति इति उपधानकारलोपः)