Source: TW
धातुषु वबयोः अभेदः
[[२१९]]
धातुपाठे केचन धातवः वर्णभेदेन परिगणिताः विद्यन्ते । यथा - क्षीवृ / क्षीबृ मदे । पेवृ / पेबृ सेवने ।
एते धातवः समानाः उत भिन्नाः इत्यस्मिन् सन्दर्भे कश्चन विशिष्टः नियमः नास्ति
अपितु प्राचीनैः प्रयुक्तान् प्रयोगान् दृष्ट्वा एव तत्तत्स्थले निर्णयः करणीयः ।
प्रक्रियासर्वस्वम्, १६. अ अ (८.४.६८) इत्यत्र
वाग्भटालङ्कारे श्लोकः २०
‘दीनबन्धु झा’ इत्याख्येन वैयाकरणेन (१८७८—१९५५) रचिते ‘बकारविवेकः’ इत्यस्मिन् ७३-श्लोकात्मके लघुग्रन्थे बकारादीनाम्, वकारादीनां च धातूनाम्, तदुत्पन्नानां शब्दानां च सङ्ग्रहः कृतः ।
अस्य ग्रन्थस्य कश्चन अंशः एतादृशः —
बुधिर्बाधिश्च बन्धिश्च केवलोष्ठभवादिकाः ।
अतस्तैर्धातुभिः सिद्धास्तादृशा एव सम्मताः ॥ १६ ॥
बृह-बृही-बहि-बधी-बुस्-बाह-ब्रस-बुक्कयः ।
बुन्दि-बुस्ती तथा बष्कि सक्रोशे तु स्मृतो बिटिः ॥ २४ ॥
बिल भेदने बध स्थैर्ये ज्वलादिगणगो बलिः ।
चुरादिपठितोऽप्येषः बिदिस्त्ववयवार्थकः ।
धातवोऽमी केवलोष्ठजन्यवर्णादयो मताः ॥ २५ ॥
बर्ह-बल्ह-बृहू-बेहृ-बाहृवस्यतयो बणिः ।
ओष्ठ्याद्या मतभेदेन दन्त्योष्ठ्याद्याच कीर्तितः ॥ २६ ॥
कबृ-क्षीबृ-क्लीब-चुम्बि-रम्बि-लम्ब्याम्बिलुम्बयः ।
तुम्बि-कुम्बी-चौष्ठ्यमात्रजन्यवर्णान्तकाः मताः ॥ २७ ॥
रफिधातोः परेऽर्बाद्या अपि ज्ञेयास्तथाविधाः ।
एते येऽन्यत्र पठिता दन्तोष्ठ्यान्तास्तु ते स्मृताः ॥ २८ ॥
शेषेषु धातुषु ज्ञेयाः वकारा ओष्ठ्यदन्त्यजाः ।
धातुपाठे च द्रष्ट्रव्या धातुसूच्यां विशेषतः ॥ २९ ॥
सम्प्रदायाच्च निर्णेयौ बकारौ द्विविधौ अपि — इति निर्णयः ।