विसर्गः

प्रातिशाख्येषु संज्ञा

  • (स्रोतांसि - राकेशवचनानि)
  • तैत्तिरीयप्रातिशाख्यस्य वैदिकाभरणभाष्ये उच्यते यत् “वायोर्विसर्जनेन जन्यत्वाद् अयं विसर्जनीयो भवति”। (तै०प्रा०वै०भा० १। १८)
  • ऋक्प्रातिशाख्ये तथा तैत्तिरीयप्रातिशाख्ये यद्यपि विसर्जनीयसंज्ञा न विहिता किन्तु विसर्जनीयशब्दस्य बहुधा प्रयोग उपलभ्यते।
  • वाजसनेयिप्रातिशाख्ये तथा ऋक्तन्त्रे विसर्जनीयसंज्ञा विहिता। (अः इति विसर्जनीयः। वा०प्रा० ८। २२, ऋ०तं० १। २) अथर्वप्रातिशाख्ये विसर्जनीयसंज्ञा न विधीयते। किन्तु विसर्जनीयशब्दस्य प्रयोगः बहुधा समुपलभ्यते। किन्तु, विसर्जनीयस्य कृते अभिनिष्ठानशब्दस्य प्रयोगोऽपि अत्र विहितः। तथाहि– विसर्जनीयोऽभिनिष्ठानः। (च०अ० १। ४२)

स्थानम्

  • (स्रोतांसि - राकेशवचनानि)
  • ऋक्प्रातिशाख्ये तैत्तिरीयप्रातिशाख्ये (कण्ठस्थानौ हकारविसर्जनीयौ॥२.४६॥) वाजसनेयिप्रातिशाख्ये च विसर्जनीयः कण्ठ्य इत्युक्तः। किन्तु ऋक्प्रातिशाख्ये कथ्यते यत्, केचिदाचार्या इमम् उरस्यं मन्वते इति - केचिदेता उरस्यौ। (ऋ०प्रा० १। ४०)
  • तत्रैव तैत्तिरीयप्रातिशाख्यानुसारं विसर्जनीयस्य स्थानान्तरम् अप्युक्तम् - यस्मात् स्वरात् परं विसर्जनीयस्तिष्ठति तस्येव उच्चारणस्थानं भवति विसर्जनीयस्य (पूर्वान्तसस्थानो विसर्जनीयः॥२.४८॥)।
  • किन्तु ऋक्प्रातिशाख्ये निरस्त इति कश्चिद्दोष उक्तः। पूर्ववर्तिदीर्घवर्णस्य स्थानाद् विसर्जनीयस्य उच्चारणे अयं दोष उक्तः। तथाहि– स्वरात्परं पूर्वसस्थानमाहुर्दीर्घान्निरस्तं तु विसर्जनीयम्। (ऋ०प्रा० १४। ३०)
  • अनयोर् मतयोः समन्वयः कथम् इति उवटेन सम्यक् प्रदर्शितम्। उवटः अस्य सूत्रस्य व्याख्याने पक्ष-द्वयं कल्पयति। तथाहि–
    • १. दीर्घात्परस्य विसर्जनीयस्यैव पूर्वसस्थानत्वं भवति।
    • २. अन्यस्थाने दीर्घात् स्वरात्परो विसर्जनीयो देवैरपि उच्चारयितुं न शक्यते इत्यतः। दीर्घात्स्वरात् परं पूर्वसस्थानत्वम् आचार्या आहुः।
  • तत उवटः कथयति यद्, अनयोः उभावपि पक्षौ युक्तौ। शास्त्रान्तरे विसर्जनीयस्य कण्ठस्थानं, पूर्वसस्थानत्वं च विहितम्। अत्र तु दोषसमुच्चयप्रकरणे वचनाद् अयं दोष इत्येव निर्णेयम्। शास्त्रान्तरदृशा अस्य दोषत्वं नेति। (तत्रैव उ०भा०)।

प्रयत्नः

“the voiced ह survived in all the Prakrits from the ancient to modern times. Under the influence of this situation, the pronunciation of visarga was affected and in many regions of India a word like देवैः came to be pronounced as देवैहि. This is no surprise, as the instrumental plural form reported in Prakrit and Pali exactly matches देवेहि [Skt. ऐ > ए, standard change in Pali and Prakrit]. "

इति देशपाण्डेय-माधवः। नैवमित्यन्ये।

विश्वासाभिप्रायः

  • विसर्गो नाम प्राक्तन-स्वरस्योच्चारणे यो वायुस् तस्यान्तिमभागस्य विसर्जनम्, तेन प्राक्तनस्वरस्य कर्तनम् इव। एवं विसृष्टो वायुभागः प्राक्तनस्वरस्य छायामिवेषद् अनुवहति।
  • तेनासौ शब्दः शुद्धहकाराद् भिन्नो भवति। नाम “हरिः”, “हरः” इत्यत्र वाऽन्तिमः शब्दः “हरिह्” इति वा “हरह्” इति वोच्चारिते श्रूयमाणात् प्राक्तन-स्वर-च्छाया-रहित-शुद्ध-हकाराद् भिन्नो भवति।
  • यः स्वर-सहित-हकार-सदृशः शब्दश् श्रूयेत क्वचित्, स पूर्ण-स्वर-युक्त-हकाराद् भिन्नो भवति - तस्याव्यक्ततरत्वात्, निम्न-ध्वनित्वाद् अल्प-तर-मात्रात्वाच् च। नाम “हरिहि” इत्युच्चारिते यो ऽन्यवर्ण-सदृशं व्यक्तः हि-कारश् श्रूयते ऽन्ते, तद्-अपेक्षया “हरिः” इत्य्-उक्तय् इकाराद् उत्तरो ऽन्तिमवर्णो ऽबुद्धि-पूर्वको ऽव्यक्ततरो निम्न-ध्वनिश् च भवति। यावान् अत्रोच्चारणे व्यक्तता ऽन्तिम-वर्णस्य, तावान् ह्यत्र दोषः।
  • किञ्चाऽन्तिमशब्दस्य +अव्यक्ततायाम् अभावे वा प्रयत्नातिशये कृतेऽपि दोषः।

प्रदर्शनानि

  • धनञ्जयवैद्यो ऽत्र - विसर्गः (<-रुचिकरोयम्! विसर्गस्य ऊष्माणत्वेऽङ्गीकृते प्रातिशाख्यैर् अत्र परिष्कारोऽपेक्षितः।)।
  • YT19 (<- शुद्धाद् +हकाराद् भेदं नालं दर्शयति।)
  • पेजावर-माध्व-मठस्य विश्वप्रसन्नतीर्थो ऽत्र
  • उज्ज्वलो राजपुत्रः - “मया॑ क॒दाचि॑त् कारणविशे॒षाद् दन्ता॑दिना॒ केनापि॑ मुखस्था॒नेन॑ जिह्वा॒ग्रं संयो॑जयितु॒म् अश॑क्नुवता सका॒रम् उच्चा॑रयितु॒म् अस॑मर्थे॒नापि॑ आर्यभा॒षाया॒ अल॑मर्थं॒ बस् इत्ये॒नं शब्दं॑ कारणान्त॒रात् क॒थमपि॒ विव॑क्षता॒ तस्य॒ यो नेदि॑ष्ठश्रवणः॒ शब्दः॑ कृ॒तस् तस्यान्ते॑ विस॒र्गमि॑व श्रु॒तव॑ता विस्म॒यो ल॒ब्धः। यत् सं॑स्कृतवा॒क्येषु॑ यत्राव॒साने॑षु विस॒र्ग उ॒च्यते॒ तत्रै॒वान्यासु॒ सम्ब॑द्धासु॒ ग्रीका॑दिषु वा॒क्षु स॑का॒र इति॒ तेन॒ ममापि॑ आर्यभा॒षायाः॑ सका॒रस्य॒ तस्या॑म् अव॒स्थायां॑ विसर्गो॒च्चार॑ण॒म् उप॑पद्यत ए॒व।”