श्रुति-भेदः

मूले

  • पाणिनिः अष्टाध्याय्याम् - “उच्चैरुदात्तः। नीचैर् अनुदात्तः। समाहारस् स्वरितः। तस्य आदितः उदात्तम् अर्धह्रस्वम्॥” 1.2.29

काशिका

उच्चैः इति च श्रुतिप्रकर्षो न गृह्यते,
उच्चैर्भाषते, उचैः पठतीति।
किं तर्हि?
स्थानकृतमुच्चत्वं संज्ञिनो विशेषणम्।
ताल्वादिषु हि भागवत्सु स्थानेषु वर्णा निष्पद्यन्ते।
तत्र यः समाने स्थाने ऊर्ध्वभगनिष्पन्नोऽच्
स उदात्तसंज्ञो भवति,
यस्मिन्नुचार्यमाणे गात्राणाम् आयामो निग्रहो भवति, रूक्षता अस्निग्धता स्वरस्य, संवृतता कण्ठविवरस्य। This tone depends upon the organ from which the vowel is pronounced. In the various organs, such as the throat, palate, &c., if a vowel is pronounced from a higher part of that organ, it is called udatta.
The vowel in the pronouncing of which there is the restraining and checking of the bodily parts, and in which there is dryness and roughness of tone as well as a contraction of the larynx, is said to have the acute accent.

  • वासुः

महाभाष्यम्

उच्चैरुदात्तः ॥

… एवं हि कश्चित् कञ्चिद् अधीयानम् आह-
किमुच्चै रोरूयसे शनैर् वर्तताम् इति।
तम् एव तथाऽधीयानमपर आह -
किमन्तर्दन्तकेनाधीषे उच्चैर् वर्ततामिति।
एवमुच्चनीचम् अनवस्थितपदार्थकम्,
तस्यानवस्थितत्वात् सञ्ज्ञाया अप्रसिद्धिः।

एवं तर्हि लक्षणं करिष्यते-
आयामो दारुण्यम् अणुता खस्येति उच्चैःकराणि शब्दस्य।
आयामो गात्राणां निग्रहः।
दारुण्यं स्वरस्य दारुणता रूक्षता।
अणुता खस्य कण्ठस्य संवृतता।
उच्चैः कराणि शब्दस्य।

अन्ववसर्गो मार्दवमुरुता खस्येति नीचैः कराणि शब्दस्य।
अन्ववसर्गो गात्राणां शिथिलता।
मार्दवं स्वरस्य मृदुता स्निग्धता।
उरुता खस्य महत्ता कण्ठस्येति नीचैःकराणि शब्दस्य।

एतद् अप्य् अनैकान्तिकम्।
यद्ध्य् अल्पप्रमाणस्य सर्वोच्चैस् तद्धि महाप्राणस्य सर्वनीचैः।

कौमुद्यादौ

ताल्वादिषु सभागेषु स्थानेषूर्ध्वभागे निष्पन्नोऽजुदात्तसंज्ञः स्यात् । आ ये ॥
इति सिद्धान्तकौमुदी।

नात्र श्रुतिकृतमुच्चैस्त्वमुपांशुप्रयोगेऽव्याप्तेः । श्रुतिप्रकर्षस्याऽव्यवस्थितत्वाच्च । किन्तु स्थानकृतम् । ‘उच्चैरि’त्यधिकरणशक्तिप्रधानम् । अधिकरणत्वञ्चोच्चारणं प्रति । तच्च ताल्वादीनां सभागत्वे एवेत्याशयेनाह — ताल्वादीति । इदं प्राचामनुरोधेन ।
इति लघुशब्देन्दुशेखरः।

हस्त-स्वर-विवरण-पक्षः

Pāṇini’s sūtra on Udātta (उच्चैरुदात्तः 1.2.29) originally meant that the arm was raised rather than the pitch being raised (as commonly understood by many).
इति केचित् ।

अयुक्तम् एतत्। महाभाष्य-काशिकादिविवरणेभ्यो ऽपि भिन्नम्।

तद् एव सूत्रम् प्रातिशाख्येष्व् अपि दृश्यते - विकल्पान्तरैस् सह। यथा तैत्तिरीयप्रातिशाख्ये - “समाहारः स्वरितः॥ तस्यादिरुच्चैस्तरामुदात्तादन्तरे यावदर्धꣳ ह्रस्वस्य॥ … आदिरस्योदात्तसमः शेषो ऽनुदात्तसम इत्याचार्याः॥” नेदं हस्तस्वरविवरणम्। यतः -

  • शिक्षाग्रन्थानाम् उच्चारणे प्रधानं तात्पर्यम्। एतानि सूत्राण्य् अन्तरा तत्-तत्-प्रातिशाख्यय् स्वरितोच्चारणविवरणम् अन्यन् नैव विद्यते।
  • हस्त-स्वरे च विकल्पो न युज्यतेतराम्।