त्रैस्वर्याद् एकश्रुतिः

प्रातिशाख्येषु

  • तैत्तिरीय-प्रातिशाख्ये - सर्वमेकयमं पूर्वेषाꣳ सर्वमेकयमं पूर्वेषाम्॥१५.९॥ (According to the former ones, all is of one pitch)। टीका ऽत्र
    • पूर्वे = याज्ञिका इति केचित्, वैयाकरणा इत्यपरे, केचिच्छाखिन इत्यन्ये। (“नेदं सूत्रम् इष्टम्” इति तु टीकाकारौ।)

पाणिनिः

  • यज्ञकर्मण्य् अजप-न्यूङ्ख-सामसु। १.२.१४।

व्याकरणे

  • रामचन्द्रपण्डित-कृत-स्वरप्रक्रिया-भाष्य-सहिता सिद्धान्तकौमुद्य् अत्र

    • तत्रैव यजुषाम् उपांशुत्वं ज्ञापितम्। किञ्च - यजुर्निगदविवेको ज्ञेयो ऽनृक्सु।
  • न्यास-पदमञ्जरी-सहिता काशिका ऽत्र

  • सुबोधिनी-सहिता सिद्धान्तकौमुद्य् अत्र

  • प्रथमावृत्तिर् अत्र

  • महाभाष्ये न किञ्चिद् अत्रोक्तम्।

गृह्यसूत्रेषु

  • आश्वलायनगृह्यसूत्र-नारायण-वृत्तौ - “गृह्यकर्मणि सर्वत्र जप+अनुमन्त्रण+अभिमन्त्रण+उपस्थानमन्त्र-करणमन्त्रा उपांशु प्रयोक्तव्या” इत्य् अत्र
  • आपस्तम्बगृह्यसूत्र-गृह्यतात्पर्यदर्शन-टीकायाम् - “जपश्च सर्वत्र चातुस्स्वर्येण न तु करणमन्त्रादिवदेकश्रुत्या । एकश्रुति दूरात्सम्बुद्धौ(पा.सू.१२३३) यज्ञकर्मण्यजपन्यूखसामसुऽ(पा.सू.१२३४) इति वचनात् ।”
  • सम्बद्धो वादो ऽत्र

त्रैस्वर्य-रक्षणे, पदभेदरक्षणे च

  • प्रकृतिः
    • पद-पाठः
    • क्रम-पाठः
  • विकृति-पाठः
    • पाठरक्षणार्थं रटनसौकर्यार्थं च विकृतिपाठा आश्रियन्ते।

माध्यन्दिनशाखायां स्वर-च्युतिः

  • शुक्लयजुर्वेदिषु काण्वा रक्षन्ति कण्ठस्वरम्। माध्यन्दिनास् तु केवलं हस्तस्वरं रक्षन्ति।
  • “सर्वे ब्रह्म वदिष्यन्ति सर्वे वाजसनेयिनः । शूद्रा भोवादिनश्चैव भविष्यन्ति युगक्षये ।” इति भविष्यपुराणोद्धरणे माध्यन्दिनस्वरनाशस्योल्लेखो भाति।

वचनशैल्यः

  • नम्बूतिरिषु - YT1 - soma squeezing. प्रत्येकः स्वरो विघट्य ताररीत्योक्तः श्रूयते।