वासिष्ठ शिक्षा
अष्टषष्टिं वदन्त्येके चतुःषष्टिमथापरे
त्रिषष्टिमितरे वर्णानष्टपञ्चाशतं परे १
स्वराः षड्विंशतिः प्रोक्ताः स्पर्शाः स्युः पञ्चविंशतिः
चत्वारश्च तथान्तस्थाः षडूष्माणः प्रकीर्तिताः २
अनुस्वारो विसर्गश्च चत्वारश्च यमाः स्मृताः
उत्सृष्टश्चेति वर्णानामष्टषष्टिरुदाहृता ३
विना सन्ध्यक्षरह्रस्वैश्चतुःषष्टिः प्रकीर्तिता
त्रिषष्टिस्तैर्विना ज्ञेया लृवर्णेन प्लुतेन च ४
सन्ध्यक्षरप्लुतानां च ऋकारप्लुतमेव च
वर्जयित्वा परे वर्णा अष्टपञ्चाशदीरिताः ५
मनो वक्तुर्विवक्षायामावहन्ति जरानलम्
स वायुं प्रेरयत्यूर्ध्वं स च मूर्धानमुत्थितः ६
तत्र प्रतिहतो वक्त्रे विशीर्णो वर्णतां व्रजेत्
स्थानैः प्रयत्नैः करणैः बहुरूपत्वमश्नुते ७
यत्र निष्पाद्यते वर्णः तत्स्थानमभिधीयते
अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा
जिह्वामूलं च दन्ताश्च नासिकोष्ठौ च तालु च ८
अकुहाः सविसर्गाः स्युः कण्ठ्या इचुयशाः पुनः
तालव्याः स्युः सदुत्स्पृष्टा उपूपध्माः स्युरोष्ठजाः
जाता मूर्धन्यृटुरषा दन्त्या लृतुलसाः स्मृताः ९
एदैतौ कण्ठतालव्यावोष्ठ्यौ कण्ठ्यौ परावुभौ
जिह्वामूलोद्भवं जिह्वामूलं दन्तोष्ठणस्तु वः १०
पञ्चमानां यमानां च नासिका स्थानमुच्यते
विसर्गविहितं च स्यादनुस्वारश्च नासिकाम् ११
अन्तस्थापञ्चमेषु स्यादौरस्यो हस्तु नान्यथा
पञ्चमः पृथगुच्चा मध्या हकारे परतः स्थिते १२
न वायुं हमसंयोगे नासिकाभ्यां समुत्सृजेत् १३
न नदे दुः प्रयोक्तुर्यत् प्रयत्नः स पुनर्द्विधा १४
बाह्य आभ्यन्तरश्चेति चतुर्थाभ्यन्तराः स्मृताः
दुःस्पृष्टमीषत्स्पृष्टत्वं विवृतं संवृतं तथा १५
यथा कण्ठबिलस्थानपर्यन्तास्तु परस्परम्
स्पृशन्ति स्पृष्टता नाम अगुण आविर्भवेत्तदा १६
ईषत्स्पृशन्त्यभि यदा तदेषत्स्पृष्टता भवेत्
यदा स्पृशन्ति दूरेण तदा विवृतता स्मृता १७
यदा स्पृशन्ति सामीप्यं तदा संवृतता भवेत्
स्पृष्टाः स्पर्शाः स्युरन्तस्था दुःस्पृष्टसहिताः पुनः १८
ईषत्स्पृष्टास्तथोष्माणः सानुस्वारविसर्गकाः
स्वराश्च विवृतास्तेभ्य एतावदधिकं पुनः १९
विवृतादधिकं ताभ्यामैदौतौ तु द्वयावपि
आकारः संवृतोऽकारः प्रयत्ना अन्तरा इमे २०
संवारश्च विवारश्च स संवारविवारकाः
अनुप्रदानसंज्ञाश्च नादश्वासहकारकाः २१
घोषाघोषौ महाप्राण ऊष्माल्पप्राण एव च
कालस्वरा इमे बाह्याः प्रयत्नाः परिकीर्तिताः २२
वर्णोच्चारणकालेषु कण्ठाकाशस्य संवृतौ
संवारस्तस्य विवृतौ विवारो जायते तथा २३
नादः स्यात्संवृते कार्यः प्रयत्नः परिकीर्तितः २४
नादः स्यात्संवृते कण्ठे बिलेऽस्मिन्विवृते पुनः
श्वासो हकारस्तमन्त्ये स तस्यादुभयात्मनः २५
यदा नादो हकारो वा तदा घोषस्तु जायते
स्वरघोषवतामुक्तः संवारो नाद एव च २६
अघोषेषु विवारश्च श्वासश्चापि व्यवस्थितौ
अन्तस्था ह तृतीयाश्च चतुर्थाः पञ्चमास्तथा
अनुस्वारश्च दुःस्पृष्टो घोषवन्त इमे मताः २७
ऊष्माण आदितः पञ्च विसर्गः प्रथमास्तथा
द्वितीया अप्यमी वर्णा अघोषाः समुदीरिताः २८
विसर्जनीया दुःस्पृष्टा द्वितीयाः सचतुर्थकाः
अनुस्वारस्तथोष्माणो महाप्राणाश्च सोष्मकाः २९
अन्तस्थाः प्रथमाश्चैव तृतीयाः पञ्चमास्तथा
वर्गाणां मुनिभिः प्राज्ञैः अल्पप्राणाः प्रकीर्तिताः ३०
यमानां प्रथमादीनां वर्गादीनां प्रथमादिवत्
स्पृष्टताद्या वर्णभावा भवन्तीति निबोधत ३१
एकं मात्रो भवेद्ध्रस्वो द्विमात्रो दीर्घ उच्यते
त्रिमात्रस्तु प्लुतो ज्ञेयो व्यञ्जनस्त्वर्धमात्रिकम् ३२
ह्रस्वस्य रूपं जानीयाच्चतुर्भिरणुभिस्तथा
दीर्घस्य द्विगुणं विद्यात्त्रिगुणं तत्प्लुतस्य च ३३
अणुस्त्रादिरिति प्राज्ञैः
मत विवर्त्मणाः ३४
मनोऽवस्थमणु विन्द्याद्वागवस्थं द्विराणवम्
त्रिराणवं तु जिह्वाग्रे निसृतो मात्रिकः स्मृताः ३५
स्वस्थे नरे सुखासीने यावत्स्पन्दति लोचनम्
तावन्मात्रं विजानीयादिह कालः स पञ्चसु ३६
अङ्गुलिस्फोटनं यावत्तावन्नित्यं परे विदुः
ह्रस्वदीर्घप्लुताख्यानामचां मात्रा विगृह्यते ३७
चाषकाकमायूराणां रणितानि निदर्शनम् ३८
अनुदात्त उदात्तश्च स्वरितप्रचयौ तथा
एकश्रुतिश्च पञ्चैते स्वरा वर्णसमाश्रयाः ३९
उच्चैरुदात्तो विज्ञेयो नीचैः स्यादनुदात्तता
स्वरितश्च समाहारः स्यादुदात्तानुदात्तयोः ४०
तथैव प्रचयस्तेषां समाहार उदाहृतः
ततोऽप्युच्चैस्तरामर्धेत्येवमनवस्थितः ४१
उत्तरेणोत्तरेणैषामुदात्तं प्रत्युदीरितम्
पूर्वपूर्वप्रयुक्तस्य तस्य स्यादनुदात्तता ४२
उत्तरोत्तरसंबन्धे अनुदात्तताम्
आपद्येतानुदात्तस्तु पूर्वपूर्वोदितं प्रति ४३
कण्ठाकाशस्य सूक्ष्मत्वमङ्गानां दृढता तथा
स्वरस्य रौक्ष्यं गात्रस्य प्रसारस्तस्थता तथा
दन्तस्य दैर्घ्यमिति षष्ठिगुणा उच्चैष्ट्वकारकाः ४४
कण्ठाकाशस्य सूक्ष्मत्वमङ्गानां दृढता तथा
स्वरस्य रौक्ष्यं गात्रस्य प्रसारस्तस्थता तथा
दन्तस्य दैर्घ्यमिति षष्ठिगुणा उच्चैष्ट्वकारकाः ४४
गात्रसंशृतरङ्गानां शैथिल्यं स्निग्धता ध्वनेः
कण्ठस्य ह्रस्वता स्थौल्यं खस्य नीचैष्ट्वकारकाः ४५
उच्चानामपि नीचानां संहिता वृत्तरोत्तरम्
उच्चादुच्चतरं नीचं नीचान्नीचतरं व्रजेत् ४६
द्रव्ययोर्भिन्नगुणयोरन्योन्यानुप्रविष्टयोः
अविचिन्त्यपृथग् भावो यथान्यो गृह्यते गुणाः ४७
अन्यो विषमश्रुत्योस्तथोदात्तानुदात्तयोः
संसर्गरूपस्वरिते श्रुतिरन्योपलभ्यते ४८
अणुमात्रमुपादाय शिष्टं निघ्नन्ति के चन
तदा सर्वत्र कम्पः स्यात्तन्वमिति पदे यथा ४९
नैवमुच्चपरत्वेन शेषमेकश्रुतिर्भवेत्
व्यतिरेकेण नीचः स्यादिति तत्र व्यवस्थितिः ५०
उच्चकम्पेषु पुटता पारिशेष्येषु पाटवः
स्वरेषूदात्तभागस्येत्येवं विषयकल्पना ५१
नित्यः क्षैप्रोऽभिनिहितस्तैरोव्यञ्जन एव च
तिरोविरामः प्रश्लिष्टः पादवृत्तश्च सप्तमः ५२
स्वर्यते यद्यकारेण वकारेणापि वाक्षरम्
स नित्यः स्यात् पदस्यादावनादौ निहतात्परः ५३
क्व वीर्यं
सज्यावस्य निघातस्य निवृत्तावपि नित्यता ५४-१
नाव्यं प्रतिगृह्णाति
इवर्णोकारयोर्यत्वे वत्वे वा क्षैप्र उच्चयोः ५४-२
ऊत्यश्याम दिक्ष्वृध्नुवन्ति
अकारादेश ओकार एकारो स्वरितः कृतः
नीचलुप्तोऽन्तराकारः प्रोक्ताऽभिनिहतो बुधैः ५५
सोऽब्रवीत्
उदात्तादुत्तरः स्वारस्तैरोव्यञ्जनमुच्यते ५६-१
अवग्रहात्परं यत्र स्वरितं स्यादनन्तरम् ५६
प्रजात्यै
तस्य प्रतिनिहतत्वं केचिदिच्छन्ति सूरयः ५७-१
याज्यैवैनम्
यस्तु स्वरित ऊभावे प्रश्लिष्टः स उदाहृतः ५७-२
मासूत्तिष्ठन्
विवृतौ पदयोः स्वारः पादवृत्तः प्रकीर्तितः ५८
तिरोविरामं तं विद्यादुदात्तो यद्यवग्रहः
यः पदाध्ययने नीचः स्वर्यते संहिता विधौ ५९
तिरोविराममाहुस्तं केचित्प्रातिहतं परे ६०-१
इषे त्वा
स्वरितस्य पदान्तस्य सन्धाने यदुदात्तता ६०-२
सप्तस्वारानतिक्रम्य स्वरितो वर्तते क्वचित् ६०-३
अल्पवायुस्तु तस्य स्यात्पादवृत्त इति स्मृतः ६१-१
प्रयुज्येत्याहुः
द्वौ मासौ ६१-२
नित्यक्षैप्रौ दृढतरौ दृढोऽभिनिहतः स्मृतः
तिरोविरामप्रश्लिष्टौ प्रोक्तौ मृदुतरावुभौ
चतुर्थः पादवृत्तश्च तस्मादल्पतरौ स्मृतौ ६२
दृढस्वरस्य विद्वद्भिः प्रयत्नोऽधिक्यमिष्यते
मृदुमल्पतरं चैवं मध्यमेन तु कारयेत् ६३
त्रयाणामादितोऽन्योऽन्यं सन्निपातेऽणुमात्रया
निहन्यमानः स्वरितः अणुमात्रक उच्यते
एष एव बुधैः स्वारः कम्प इत्यभिधीयते ६४
उच्चानुदात्तस्वाराणामेकीभावेन यः स्वरः
प्रचयश्च धृतश्चासावुदात्तसदृशः श्रुतिः ६५
मध्यप्रयत्ननिर्वर्त्यमुक्तं स्वरविलक्षणम्
स्वरमेकश्रुतिं प्राहुर्गुणाघोषसमश्रुतिम्
केचित्प्रचयमेवाहुः स्वरमेकश्रुतिं बुधाः ६६
अचामेव स्वरैर्योगो हलान्तदुपरागतः
स्वराभिधानमेकेषामचां तेन विदुर्बुधाः ६७
उच्चान्निषादगान्धारौ नीचादृषभधैवतौ
उद्भूतात् स्वरितात् षड्जमध्यमपञ्चमाः ६८
उदात्तो ब्राह्मणो ज्ञेयोऽनुदात्तः क्षत्रियस्तथा
विन्द्याच्च स्वरितं वैश्यं धृतः शूद्र इति स्मृतः ६९
तस्मात्सर्वस्वरो मध्ये आत्मनः श्रेय उच्यता ७०
नित्यस्वरोच्चयोरेकं विना नीचः पदे स्वरः
वैदेह्यः आग्नेयम्
क्वचिद्द्वौ वा त्रयो वोच्चा नीचमन्यत्पदं स्मृतम् ७१
नक्तोषासा यज्ञपता३उ
नं प्रणक्तु स्यात्
लाही नीचात्परः स्वारो — न चेत् ७२
इन्द्रियं वीर्यमयुवत
अग्ने यं यज्ञमध्वरम्
स्वरात्परान्नयेन्नीचान् प्रचयत्वं बहूनपि ७३
अग्ने दुध्र गह्य किंशिल वन्य या
उदात्तस्वारयोः पूर्वं धृतं नीचतरं वदेत् ७४
तया नो मृड तस्याः
पाक्या चिद्वसवो धीर्या चित्
उच्चैकादेश उच्चन्तु स्वारो
ऊभावः पूर्वरूपश्च दिग्भ्यो हीत्यादिना विना ७५
प्रातरनुवाकमुपाकुर्यात्
दशसु मासूत्तिष्ठन् ७६
सोऽब्रवीत्
तेऽब्रुवन्
दिग्भ्यो हि समीरियन्ति
स्वारो नीचोदयोऽप्येवं नीचश्चान्योन्यापास्पदात् ७७
याज्यैषा वै । ऊत्यश्याम । दिक्ष्वृध्नुवन्ति
अन्यस्वारस्त्रयः कम्पस्तेष्वेव स्वरितेषु च
अणुमात्रं निहत्यान्ते स्वकं प्रथममेव वा
द्वितीयं वा तुरीयं वा भागमित्यपरे विदुः ७८
वीर्यं व्यभजन्त
सोऽ३पोऽ३भ्यम्रियत
तेऽ३न्योऽन्यमुपाधावन् ७९
स्वाध्यायब्राह्मणेऽप्येवमुदात्ते परतस्थिते ८०
तेन योऽ१स्मत्
उच्चोदय उदात्तस्तु स्वरितः स्वरितोदये
कम्पेषु पूर्वभागः स्यादिति तत्र व्यवस्थितिः ८१
वीर्यं३ व्यभजन्त
अदीर्घं दीर्घवत्कुर्याद्विस्वरं यत्प्रदृश्यते
कम्पोत्स्वरिताभिगीताद्ध्रस्वाकर्षणमेव तु ८२
वीर्यं३ व्यभजन्त
इत्येते कथिता बाह्याः प्रयत्ना वर्णसंश्रयाः ८३
येन निर्वर्त्यन्ते वर्णाः करणं तदुदीरितम् ८४
जिह्वामूलमवर्णस्याप्यनुस्वारविसर्गयोः
तस्याधो भाग उद्दिष्ट उत्स्पृष्टश्च मनीषिभिः ८५
जिह्वामध्यमिवर्णस्य स्याच्चवर्गशकारयोः
तस्यादौ तु अकारस्याप्येकारैकारयोस्तथा ८६
ऋवर्णस्य लृवर्णस्य जिह्वाग्रं सतवर्गयोः
काठकोऽन्तस्य मध्यं तु भवेद्रेफलकारयोः ८७
षकारस्य टवर्गस्य जिह्वाग्रं वेष्टितं मतम्
शेषाः स्वस्थानकरणा विशेषस्त्वत्र कथ्यते ८८
ओकारौकारयोरोष्ठे द्वयं करणमिष्यते
पुवोरुपध्मानीयस्याप्यधरोष्ठ उदाहृतः ८९
इह कीर्तिमवाप्नोति ब्रह्मलोके महीयते ९०
इति वासिष्ठशिक्षा समाप्ता