विसर्जनीयलक्षणम्

विसर्जनीयलक्षणम्
स पूर्वं स्वर्यते ह्रस्वो दीर्घोऽन्त्यांशे तदुत्तरौ
नादानुस्वारकावेव स्वर्यते पूर्वमुच्चवत्
अन्त्यांशे स्वर्यते दीर्घो विरामव्यञ्जने परे
संयोगे चावसाने च नादानुस्वारकौ स्वयम्
इत्युच्चारणविषयः
दैवीं धियमजस्रन्त्वामिति क्यद्यावतीः क्यतिः
येना पुरस्ताद्देवानामेषान्तासां यथा सदे
ओम्
मावो हुतो दिवो विष्णोरक्रन्ददग्निरिष्टयजुषस्सन एभ्योध्वनः
पूर्णवन्धुरः पञ्चदशस्सप्तदश एकविंशो लोका बर्हिषो रेवतो या
अन्यस्य सन्धी ऋचो गायत्रीयो बर्हिः सोमो बर्हिषो भवत्यप्रतिष्ठितस्तोमोंशुर्द्रफ्सः
पराचीभिस्सरस्वतो मिहो यो अफ्सरसस्सुवर्मलिम्लवश्चक्षुरुपरिष्टास्त्रिणवः
प्राची दिशामग्नेर्भागोसीत्यनुवाकयोस्सर्वष्षोडश उक्थेभिर्द्विबर्हा मनवो
वृत्रघ्नश्चतुर्जातवेदास्ताः पुरुषो रुक्मो जातो प्रतिष्ठितोऽग्नेरभिचार
एषविचलो गन्धर्वा एकोबर्हिरुत्तरबर्हिर्गर्भोविभक्ता
एकादशष्षोडशिनो ज्योतिरुद्यन्तश्शुभो ज्ञातास्तोमाः
क्लृप्ता ऋतव आयुर्यप्त्रे यो प्रियो मध्यतोऽन्तस्सदस्तिष्ठन्तश्छन्दोभिरिति सकाराः विसर्जनीयाः
ओम्
प्राजापत्योनुवाके तु पदं पश्यति चोच्चकः
नरोन्योनीयवीयापि वीर्यान्पीयूषपीयति
लीयन्ते लीयषोमीयः वाल्पीयन्तद्वितीय च
इति विसर्जनीयलक्षणम्