षड्विंशति सूत्र

षड्विंशति सूत्र
इषे मयोभूः प्रथममहमस्मि द्वितीयं तृतीयं तृतीयस्यां याः पुरस्तादमावास्यायाꣳ रात्र्यां फलीकरणहोमं पूर्वꣳ सोमस्याहं यदृतेचित्तामन्दसाना शर्मवर्मेदं द्वितीयं प्रजावतीः । अन्यत्र प्रजापतिः १
वैश्वानरोऽम्बे जुष्टोऽघोषमतारिषत् । अन्यत्राऽतारिषः २
धनस्य देवा जिह्वामर्त्यस्याभिभूतिस्स्वर्वाची सुप्रयसो मानुषं कवीरिषं चिकीरुषं चतस्र ओजिष्ठः पोतारा नेतारा नेष्टारा निषसाद धृतव्रता यद्योषिद्यत्परं मन्द्रं मन्द्राः । अन्यत्र मन्त्रः ३
उभा अयंपुरः मधुः सहस्राणि मृडयन्तु । कदाचनेन्द्रं वो मृडयन्तः । समीची द्वे पूर्वे मृडयताम् । द्रापेऽग्न उदधे मयोभूर्यदस्य पारे मृड । इन्द्रं वो द्वितीयं नमस्ते द्रापे द्वितीयं ममाग्ने मृडय । अन्यत्र मृडयत । समीची द्वे पूर्वे तं वाम् । अन्यत्र तं वः ४
पुराताꣳ स्रजꣳ स एतया तेजः पशूनाशिषो यस्मा अन्यस्मै तीर्थे वि यो मधव्यो ज्योतिस्स्रुच इतिनाऽग्निमुखान् प्रसूत्या आत्मैषां त्रयस्त्रिꣳशत् प्रजापतिः संवत्सरः परं ददाति ५
अयज्ञः क्रूरमग्निर्देवेभ्यो वैष्णव्यर्चाऽवभृथयजूंष्यादित्या वसिष्ठो द्वितीयं ज्योतिष्टोमं ब्रह्मन् प्रचरिष्यामष्षड्वा ऋतव ऋतुषु । साध्या ऋतव ऋक्षा वसिष्ठः प्रथम षड्वा ऋतवष्षट् पृष्ठानि । अन्यत्र षड्वा
ऋतवसँवथ्सरः ६
सम्पश्याम्यगन्म सुवर्गाय वै पशोर्यथा वै यन्निक्तं घर्मयाते प्र वा एषोऽस्माल्लोकाच्च्यवते । देवासुरामिथस्सन्ततिर्देवस्याहं प्रतिपूरुषं प्र वा एतेऽस्माल्लोकाच्च्यवन्ते ७
इडायन्नवꣳ रथमुखे नास्योपयामगृहीतोऽस्यापोयावतीमेध्यत्वाय निरृतिलोक एकधा प्रत्यञ्चं श्मशानं यो रुद्रो वायव्योऽपक्रामुका उन्नेतरिपशुमानेव परमुपतिष्ठन्ते ८
प्रथमवसन्ता सारस्वतीमाग्नावैष्णवं यदिन्द्राय यदेव सर्वं पुष्यति मध्यतः प्रायणीये निवेशनो यो यत्पराचीनानि द्वादश विधृत्यै प्रजननाय मासान्तत्तदन्व प्रतिहिताभिः पृथिव्यै सप्तदश नवदाव्यासु सहस्राश्वस्यामृतं वेतसशाखो नास्माच्छ्रियमुत्तरं प्रत्यग्नय उद्धते सिकतोपोप्ते परिश्रिते निदधति शान्त्यै संवथ्सरोऽग्निजास्संवथ्सरं प्रजापतिः परं दधति ९
इन्द्रो वलस्य वषट्कारोऽग्नये पथिकृते नाकसद्भिरृतव्या आवृश्चति । अन्यदावृश्च्यते । यां वा आवृश्च्येते । अग्निना रयिं वज्रो वै द्वितीयं वृश्चन्ति । श्येनायेन्द्रः प्रजापतिरग्निꣳ रुद्रो वाकप्रथमं वृश्च्येत । वैष्णव्यर्च्चा वृश्चेत् । राष्ट्रकामाय प्रजापतिरकामयत वज्रः प्रवृश्चति । अथ स्रुचौ वृश्चनानि । परिस्तृणीत वृश्चामि । ते तपरो यकारः । नीचैर्देवा निवृश्चत वृश्चतश्चेति वर्जयित्वा । १०
इन्द्रं कस्त्वा योगोयोग ऋतुधा । अन्यत्रर्तुथा ११
अग्नयेऽन्नवते आयुर्दाविवा एताविन्द्रस्य भागधेयेनैवैनौ । अन्यत्र भागधेयेनैवैनम् १२
अग्नयेऽन्नवते नासोमयाजी धात्रे पूर्वं प्रजां वृद्धामिन्द्रः । देवा वै मृत्योर्धात्रे परं पशून्वृद्धानिन्द्रः १३
वैश्वानरं वैश्वदेवेन सप्तकपालो भवति । ऐन्द्रमेकादशकपालꣳ सप्तकपालो मारुतो भवति । आदित्येभ्यः प्राचीमिति सप्त भवन्ति १४
अथो आघारꣳ सर्वाणि पुरस्तादग्नेर्यच्छतायुधाय शिरो न यदेकस्मिन्नुलूखलबुध्नोऽर्क्येण वाचस्पतिर्द्वादशदशभिर्यत्प्राङ्मारुत इन्द्रस्य देवस्य पूर्वेद्युः कर्मणे वामासीनो यजमानदेवत्या केशश्मश्रु चतुष्टय्यस्स्तोक्या भुवो यःप्राणत एकयूपो नान्येषाꣳ शतꣳ हिङ्करोति केतुमापमापामपस्सर्वतो धून्वन्ति परꣳ सुवर्गस्य लोकस्य समष्ट्यै १५
देवा वै वसोर्धारामग्निर्देवेभ्यस्सुवर्गं तार्प्येण रूपꣳ रूपेणैव । ब्रह्मवादिनो विचित्यः पुरोहविषि ब्रह्मवादिनोऽग्निहोत्रप्रायणा यज्ञा रूपꣳ रूपेणैवास्मै । मेदसा रूपेणैवास्मै । अन्यत्र रूपमेवास्मै १६
चित्रया षट्पदान्यग्निना कुसुरुबिन्दस्सप्त ग्राम्याः पशवस्सप्तारण्याः । अन्यत्र सप्त ग्राम्या ओषधयः सप्तारण्याः १७
त्वष्टैष वै मित्रं यज्ञस्य बृहस्पतिर्देवा वै सत्रं द्वितीयं वरं वृणावहै । अन्यत्र वरं वृणामहै १८
त्रीꣳस्त्रिष्टुप्त्रिष्टुभा । ऋतवस्त्रिष्टुप्त्रिष्टुभि ।
अन्नपतेऽग्ने तव त्रिष्टुभाफ्सु शय्युँम् । देवस्य खनति त्रिष्टुग्भिर्यम् १९
त्रीन् यावती देवा वै वैष्णव्यर्चाऽङ्गिरसो बृहस्पतिर्यथा वै यदाग्नेयो गायत्री गायत्री । यद्वा ऋतवो गायत्री गायत्रम् २० अयं पुरो गायत्रियै गायत्रम् ।
ब्रह्मवादिनोऽद्भिः प्रथममेकविꣳशत्याऽपो देवीरेभ्य एवैनत् । अन्यत्रैभ्य एवैनम् २१
ब्रह्मवादिनोऽद्भिर्निनयति । देवस्य पृथिव्या अपोऽवनयति २२
अवसो विक्ष्वरातीयन्तन्तुरीपममुत्रभूयाच्छोचिरोहैश्शर्वा ब्रूहि पश्चाद्वृश्चेद्भूस्स पृथिवीं विच्छिन्द्या दाजिं यज्ञपतौ सप्रथा अङ्गैर्नवन्नग्नहुर्देवं भोजनꣳ सप्तरश्मिश्शृण्वे रश्मिरेषाꣳ सहमाने सहसे सहध्या ऊर्जयमाने वोचते मुञ्चते भूयिष्ठभाजोऽनागसो जहि कृधि कृत्वोत्तराभ्यः पूर्वमध । अन्यत्राथ २३
त्रीणि विश्वकर्मा प्राणः प्रथममजिगाꣳसन्न् । अन्यत्राजिघाꣳसन्न् २४
वायुर्यावत्युदेनमपरं प्रजापतिरृतुभिर्यो वै विराड्विराजि । अन्यत्र विराड्विराजा । २५
क्रूरꣳ रुद्रोऽग्न उदधे समीच्यपां ग्रहाननुमत्यै नार्तिमार्च्छत्यध्वर्युर्न यजमानः । अन्यत्र नार्तिमार्च्छति यजमानः २६
एकविꣳशत्या स्वयमातृण्णामिन्द्राग्नी नाकसद्भिर्देवासुरास्तेन सुवर्गायर्तवो वै यथा वा ऋक्षा वा आदित्या अकामयन्त गावो वा अग्निना वै होत्रोत्तमं तार्प्येण सुवर्गस्य लोकस्यानुख्यात्यै २७
वि वै सन्ततिरप्रतिष्ठां तार्प्यं तृतीयचतुर्थे यस्य प्रातस्सवनेऽसुर्यमुत्तमं युञ्जन्ति तार्प्येणाश्वं प्रजापतिꣳ शुक्रं प्रथमꣳ समर्धयन्ति । पश्चात्पूर्वमर्धयन्ति २८
आदित्यमुत्क्राम पुरुषमात्रेण देवासुरा मिथ आयुर्वै साध्याः कुसुरुबिन्दः प्रजापतिःक्षुधं नवरात्रमृतव एष वै प्रभृत्यष्टानुवाके बृहस्पतिः श्रदादि सप्तानुवाके ज्योतिष्टोमं गावस्समान्यो देवानामर्क्येण सन्ततिरप्रतिष्ठां प्रतिपूरुषं प्रजापतिरग्निमसृजतान्तो वै देवस्य स्फ्यं धिष्णिया द्वितीयꣳ साकञ्जानां ब्रह्मन् प्रचरिष्यामो द्वितीयं तृतीयं प्रतितिष्ठन्ति । अन्यत्र प्रतितिष्ठति २९
यां वै पर्यग्नि करोति स्फ्येन वेदिं घर्म या ते दिवि शुगिति भ्रातृव्यापनुत्त्यै । तेषां भ्रातृव्यपराणुत्त्यै । अन्यत्र भ्रातृव्याभिभूत्यै ३०
कत्कटश्शित्पुटः उद्रो मद्गुर्बद्बधानो मीवत्कोनैवत्को नचिन्वत्को नपात्को यत्को वत्को यद्बꣳहिष्ठन्नातिरेफलकारं वर्जयित्वा । परिमिताकूत्यै पथ्यां पञ्च । ब्रह्मवादिन आपतयेऽख्ष्णया पञ्च । देवस्य ग्रावाणं पञ्चपञ्च । त्रिवृदसत्रं त्रीणि पदपञ्चाक्षरा ३१
वागिन्द्रस्त्रिवृत्प्रतिष्ठापयन्ति । अन्यत्र प्रतिष्ठापयति ३२
देवासुरामिथस्सन्ततिर्देवस्याहं प्रतिपूरुषं घर्मप्रवा एते स्माल्लोकाच्च्यवन्ते ३२-२
रुन्धते दधते तिष्ठन्ते जायन्ते प्रजननमङ्गिरसोऽत्रिर्जमदग्निस्सव्वँथ्सरः कुसुरुबिन्दस्सप्तरात्रं बृहस्पतिरष्टरात्रं प्रजापतिस्ताः क्षुधं नवरात्रं प्रजापतिरकामयत दशहोतारं वर्जयित्वा ३३
भुवत्पुनस्त्वावतो यज्ञेन सुप्रतूर्ति भुवो देवाता पितृणाꣳ सहस्रेषु तुवी पितरो ये विद्म पितृभ्य स्वाहा चनो वसुवलꣳ सोम सुरेतसं कृधि मत्स्यं पूर्वं मघ । वकारपरश्च । तेषां मखं वैष्णवमिति वर्जयित्वा । अन्यत्र मख ३४
अग्निहोत्रं बर्हिषो द्वितीयं प्रजापतिस्तास्तृतीयं सर्वाणि यत्पुण्यं प्रजापतिः पशून् प्रजापतिः पशूनसृजत । अन्यत्र प्रजापतिः प्रजा असृजत ३५
भुवनमस्याकूत्या आ दद ऋतस्य यो वै वाजस्येमं वैश्वानरमग्निं वै देवा वै नर्चि न प्रथममग्नीधे प्रजापतिरकामयतैष ते गायत्रः प्राजापत्या द्वितीयं यो वै पूर्णाष्टनव सर्वाभ्यो नृषदे यदेकेन पञ्चमं चित्तिं वाग्वै वारुणो वै नोतमं यदुभौ बद्धमिषे पर्यग्निपशोर्द्वितीयं तृतीयं देवा वा आग्रयणाग्रा नैन्द्रवायवाग्रान् प्रजवमृक्षा वै सव्वँथ्सरायाऽक्रा नारभ्यारभते । प्र वो यद्धस्तेन स एन मृध्नो त्यक्ष्णयाऽग्निस्सप्त मुष्टी पत्न्ये तद्वपाश्रपण्यस्मिन्न दतो या अथो अभिधाः परꣳरभते । अनुपूर्वमारभते । अन्यरालभ्यालभते ३६
आप उन्दन्तूदायुषा युञ्जतेऽयं वां देवासुरा इन्द्रं
देवस्याहमग्नाविष्णू इन्द्रꣳ हिरण्यगर्भो मारुतं नवोनवो निवीतमुशन्तस्त्वा निग्राभ्यास्थाऽग्निना रयिमुपयामगृहीतोऽसि समितं मा नो हिꣳसीं नमो ज्येष्ठाय द्रापेऽग्नाविष्णू बलाय वाजमहः प्राचीनवꣳशꣳ सोमो वा ईंकारायाऽर्वाङ्श्रु । शुपूर्वश्च । नणकारपरः । यच्छ्मश्रुणस्तदिति वर्जयित्वा । असि ततो गण ऋषिꣳ हृदयेन देवाश्च परः स्वाहापरः श्रुतेति श्रु ३७ अन्यत्र श्र
पशुर्वृष्टिसनीर्देवासुरास्तेन पूर्वं छन्दश्चितं यथा वै तृतीयं ता उपाधत्त । यथा वै शेषन्तामुपाधत्त । अन्यत्र ता उपादधत ३८
याऽग्नेरग्निर्हिरण्य वान्देवमन्द्रयोत्सादेन तेन सरस्वतीमुप मा सप्ताऽथ तद्यद्यज्ञस्य शुचि सवने सां वैपूर्वो जिह्वा । पवित्रं मे शुचयो मन्मान्यसि सन्धानं देवानां गुरुपरश्च अन्यत्र जुह्वा । तपूꣳष्यग्न इति वर्जयित्वा ३९
कवचतपरः स्रु । सृकꣳ सꣳशाय सृकावन्तः सृकाविभ्य इति वर्जयित्वा ४० सपउपप्रति विसिशवाजपूर्वः ।
ङमुक्षद्धरष्टषपरक्रु । योनिर्यजै यजामहै वहै महस्तस्माद्गर्भ स्थ एष पूर्व ऋत्वियः । अन्यत्र ऋत्विजः ४१
ध्रुव इत्यैन्द्रमेकादशकपालꣳ सर्वाणि देवा वै नर्चि न निवीतमग्नीधे राष्ट्रकामायाऽग्निना देवेन पुरुषमात्रेणोथ्सन्नयज्ञो नृषदे वड्विश्वकर्माऽग्न उदधे समीची तेभ्य उत्तरवेदिरिषे त्वेत्यग्निना वै होत्रा देवा वा इन्द्रियं वीर्यमसावादित्योऽर्क्येणैवैनान् । दिग्भ्य एवैनां प्रोख्षतीति वर्जयित्वा । अन्यत्रैभ्य एवैनाम् । पशुरृतव्याः पूर्वं यस्यैता उपधीयान्तै य उ चैना एवं वेद । अपां परं यस्यैष उपधीयते य उ चैनमेवं वेद ।
सावित्रं देवस्य रशनां मेध्यानेवैनान् करोति । अन्यत्र मेध्यामेवैनां करोति ।
उपहोमाच्छिद्रारण्यकाठकमानुषीणाम् । अन्यत्र मानुषाणाम् ।
अथ वाक्यान्ताः पञ्चाशतः ।
उभा वाꣳ होतर्दोषाऽगन्म सुवस्सं ज्योतिषा सोमाय पितृमते सुवानस्सोमो वर्धन्तु त्वा राजं दिवोस्यऽस्य जगतो रराणो वीहि कव्यवाहन पितॄन्कर्मण्यः स्वधायै नमो मन्यासै शं प्र देवꣳ सन्ते वायुरग्ने यं क्षये पाथा ध्रुवक्षितिरपामतिं व्रतमेकाऽस्य सुमतावग्निर्वृत्राणि चर्षणीनां य इमा वीरश्शतमन्युः पयसा महीङ्गाꣳ सुहिरण्ये सुशिल्पे शुक्रास्ताः पुष्टं पशु मन्यते त्रिꣳशत् ३०
अथ पूर्वदीर्घिणः ।
वशान्नायाकवारिं महेन्द्राय माहेन्द्रस्यैतुमैतोरष्टाश्रिरष्टाक्षरेणाष्टाक्षरामष्टापद्यष्टाक्षरण्यष्टाक्षराऽऽजेदेयातामार्पयन्ति याज्यानुवाक्ये
याज्यानुवाक्ययोर्याज्यानुवाक्याभ्यां याज्यानुवाक्याः परेत्य परोच्यः परोवप पराऽपतत्पराऽवधीद्दूर्वेष्टकामाऽन्तमाराग्रामाराग्राञ्जनमाञ्जत आञ्जीतऽजावयो जिह्वाग्रेण यथोदितमेत्याऽयनाय विश्वाहाऽञ्जसायनी आर्तोर्महेन्द्रमित्येते पूर्वदीर्घिणः
अथ उत्तरदीर्घिणः ।
उपायवो विश्वायुरदब्धायो तिग्मायुधा वृद्धायुꣳ शतायुस्सत्यायुस्सर्वायुश्चित्रायुर्यज्ञायुधान्युपाप्नोति
साऽशीर्केणोपावर्तेतामक्षावापस्य यवाचितं प्राप्नुयात्प्राप्तुं प्राप्नोति प्रेरते पुरुषाहुतिर्घृताहवनो मध्यमेषायां प्राचीनावीतमुपावर्तन्त उपाकरोत्युपाकुर्यादप्राप्य साशिरमुपाकृतं वैश्वदेवाग्निमारुते उपागुः पुरीषायतनꣳ सायतनꣳ शृतातङ्क्येन सात्मा यजमानायतनमुपावर्तते यत्राकूतायापात्मानꣳ सात्मानमुपाववर्तीत्युपाकृत्योपायन्ति तूषाधानꣳ हस्तादाना अपाकृतमुपाकृतमुपागामुपाकरोति निष्कृताहावमुपा-
वृतश्शतायुषमुपावर्थ्स्यत्युपावर्थ्यतोऽप्रतीक्षं वीक्षिष्यते वीक्षमाणाय वीक्षिताय मृगाखर इत्येते उत्तरदीर्घिणः ।
उक्षान्नायोपावहरन्नुपावहरेदनवानं परार्धायेत्येते उभयह्रस्विणः ।
ऐतोरैतुं पराह दक्षिणावृतो यथायतनं यथायतनादित्येत उभयदीर्घिणः ।
अगाद्धिषणा त्रिꣳशद्धामोदजयद्धातैद्धरुण उपरिष्टाद्धिनोति
ध्वनयिद्धूमगन्धिर्गोजिद्धनजिद्यद्धावेदन्नाद्याद्धावेदेतावद्धा यद्धा चात्वालाद्धिष्णियान् यद्धिष्णियानेतद्धिष्णिया यद्धानाभिरित्येतासु संहितासु पदाध्ययने धकार उत्तरपदादिः ।
यो हि यद्यतो यावत्सोमे सोममुभयान् विमुक्तः सौम्यो यदि यानि येन यत्र यस्य यस्मिन् ययोर्येषां यासां यथा यस्मात्कस्मात् तेषां आसप्तमपरपदात्स्वरितं वा समासं वा अन्तोदात्तं वा भवति । प्रजां पशून् प्राणो वसन्ताय प्र वै सपूर्वश्च । द्वित्वष्टा सोमं तेभ्यः पूर्वं यदग्नेः यत्सौम्यो ब्रह्मवर्चसं यतः पुरोडाशो यद्वेणोर्यत्पुरीषं यदन्तरिख्षं यत्त्रैधातवीयं यद्द्वादशोद्यामं पश्चात्सृष्टꣳ हि पुनर्यद्दशममहः यच्चतुर्थमहः यत्पञ्चममहः यथ्षष्ठमहर्यथ्सप्तममह-स्सोममरक्षन्थ्सोममाहरन्थ्सोममघ्नंस्तस्मिन्नुत्क्रोधो न ह्यासामिति वर्जयित्वा । न वासारुद्वयो पूर्वन्त्रिषु मध्यम् वानः । इति शब्दनिषेधः ।
पुनरकस्सुवरन्तरावर्विवरजीगरेनोःस्युः कर्होतरिति रेफेण ।
अथ इतिकरणे रेफान्तपदानि । सुवः पुनरकर्होतरन्तरावर्विवश्च कः । अजीगरिति रेफेण सहावृत्या पदावलिः । इति रेफान्तपदानि ।
नैयग्रोधः प्रैयङ्गवं प्रैयमेधा वैयाघ्रे दोहै यज्ञं दैयां पातीत्येतेष्वैकारः ॥
त्रय्योऽयस्मय्यस्तेनोदय्यश्चतुष्टय्य इति वर्जयित्वा
पृथिव्याङ्गिरसी वस्वी स्वस्त्ययनी प्रणीत्युर्वश्यूती मधुमती भाग्यपानती कर्णकावती तेजस्वी वाजीन्द्रियावी सूनरी यावती समावती हविष्मती देवी विश्वरूप्यवित्री ।
ग्रामी ब्रह्मवर्चसी ज्योगामयावी भुञ्जती प्रतीची सरस्वती गायत्री ह्रीतमुखी सोमयाजी बहुयाजी हविर्धान्यत्यासारिणी स्त्री घृतपदी मैत्रावरुणी ।
देवयशस्यामयावी स्वर्वाची पीवरी सप्तपदी परमेष्ठ्योजस्वी सिनीवाली पौर्णमास्याश्वत्थी ।
श्रौत्री शारदी राज्ञ्यधिपत्नी यन्त्री धर्त्री धरित्री वदन्ती व्यूषुषी यानी प्राची वज्री सहस्वती विष्णुपत्नी बाहुशर्ध्युखाभ्राजन्ती ।
वारुणी कार्ष्मर्यमयी जगती बृहती पत्नी मही ग्रही तिरश्च्येणी नैरृती पापीयसी चतुर्थी सप्तम्येकादशी ।
सावित्री वैश्वदेवी पौष्णी सती पराच्ययस्मयी परोवरीयसी मन्थ्यत्र्यर्धी तथ्षोडशी ।
सहस्रतमी पयस्वती । ते स्वरपरा दीर्घाः ।
यणादेशसूत्रं – सूत्रं ।
देव्यदिते सरस्वत्यावदन्त्याग्नेयी यान्येव पृथिव्याशा भ्राजन्त्यर्चयोवदन्त्यकूटया वाप्युपस्थाने षोडश्युत्तरे मन्थ्यग्राꣳ सरस्वत्यभिवदन्ति ।
देव्यदिते सरस्वत्या वदन्त्याग्नेयमित्यपि । यान्येव च पृथिव्याशा भ्राजन्त्यर्चय इत्यपि ।
सरस्वत्यभिमन्थ्यग्रान् यान्यस्थान्येति षोडशी । वदन्त्यकूटयेत्येते पूर्वप्राप्तिवर्जितः ।
ह्रस्वविरळाः
नप्त्रिय प्रिय त्रिय ध्रिय ह्रिय भ्रिय म्रिय श्रिय स्त्रिय इत्येतेषु पदान्तेषु रेफ इकारात्परो यकारो ह्रस्वविरळाः
दीर्घविरळाः
असुरो निष्परि विक्रीय नप्त्रीयꣳ स्वस्रीयꣳ होत्रीयꣳ होत्रिय आग्नीध्रीयः शतरुद्रीयꣳ शतरुद्रीयस्य स्तोत्रीया गायत्रियां नेष्ट्रीयां पोत्रीयां शुनासीरीयेण दीर्घविरळाः ।
रात्र्या मन्त्र्य पित्र्य भर्त्र्यो जनयित्र्यो धिष्ण्यात्काठके । स्वस्रीयेण यकारादिर्यणेव च । स्त्रियं तेरभपकु । हन उस्र धेनुः ।
इषे विजिहाथां पर्यधत्था जुषेथाꣳ सयूथ्यो नाथितमाघोषेथामत्ररमेथां व्यथिः प्रथिष्ठमापृणेथां दधाथां त्रायेथां भवथ वीडयेथां विमुच्येथां प्रत्नथा पूर्वथा विश्वथेमथा नीथेनीथे शिश्रथः श्रथायाह्वथाः समिथेषु मन्थमर्थेतस्ततश्चक्षाथाम् ।
वायव्यं त्रीणि व्रता विदथे मन्थेन्मथितं बडित्था समिथेबभूथ बभूवथुश्चक्रथुर्वृथा पथिभिर्दीर्घयाथैरग्नावनाथन्त भविष्यथेत्युदीरयथा वर्षथा होतारमवृथा रुरोजिथ ततन्थ ।
प्रजापतिरकामयत निर्मन्थ्यं मन्थिनो निरयाचथा यत्क्रीडथ सिञ्चथा वर्चसेपवेथां जनप्रथनायोद्गीथाः सख्यमाविथ जिग्यथुरपस्पृधेथामैरयेथां विदथा श्नथिष्ठमाश्वत्थ्युपभृत् ।
युञ्जानो विदथेषु संवसाथां प्राणथेन मा सुभित्थाः करिष्यथः श्रथायाऽजगन्थ वसुनीथ सङ्कल्पेथां किलासथ सनवथाव्यथमाना घोषथ भूषथ श्नथद्रिरिचाथे विथुरेवाव्यथयन्ती प्रथन्तु प्रोथत उत्थास्यते नाथितो नुदेथे याथउग्रा विदथानि शिश्रथो विष्वक् ।
सावित्राणि निरमन्थत्तमुत्वापाथ्यस्सरथिना यथापूर्वं मान्थीलवः पृश्निसक्थे यथा यूथेयूथेऽनुजीवाथ निर्मन्थ्यमुपैष्यथेत्यानन्दन्नन्दथुना ।
प्राचीनवꣳशमनुशृन्थत्यनुपग्रथ्य नरथायैतद्वै साथो नाथितं व्यथितंमाघोषेथामत्ररमेथाम्मन्थी निहन्त्यग्निम्मन्थेदेवम्मन्थे वृषणन्दधाथाम्मथ्यमानाय पशुं त्रायेथाꣳ सलक्ष्माणो भवथ ।
प्रजननमुभा जिग्यथुर्जयेथे अपस्पृधेथान्तदैरयेथां प्रोथत्त उत्थास्यते मन्थ्यग्रान्मन्थिपात्रꣳ शवसाजगन्थ संप्रोर्ण्वाथां गाथाभ्यस्स्वाहा ।
आयुषे धामुभा राधस उशते धेष्ठा शुरुधो वर्चोधा राधसा रत्नधानुष्वधन्नेमधितां गावीधुकꣳ स॑न्निधाय तमवरुधं ता अरीरधामाग्धादेको नैयग्रोधो हवमानाय साध भृत्यामृणधद्वयोनाधै-
र्विदधमविदद्धि गाधं देवꣳ राधो वसेधरुम समिध्यमानायैव यज्ञे धित्वा विविवधꣳस्यात्सविवधत्वाय ।
अधमगामविषꣳ सुकृतमशकं पृष्वां धुनिं नप्रमेकां घर्मꣳ सर्ववीरामल्पं नीचायोशकृशं दक्षिणां कुसीदं दक्षमर्त्यमरिष्टनेमिं वितरां वीर्णि प्रतरां प्रशस्तां भेषमिमं कल्पेतां मूर्खां तज्जघन्यां सुधामिरामेनासामूमि क्षौमम् ।
अथ त्रिक्रमाः
अकारान्तमुदात्तान्तान्तमाङ्परं यत्र दृश्यते । त्रिक्रमं तं विजानीयात् मोषूण ऊषुणस्तथा ।
मास्थात्प्रियधाविशत पूषाधत्त धाताधत्त कृत्वाधत्त ऊत्याप्रमावृख्षि मावृख्षि मोषूणोर्यमायाति दध्नातनक्त्यूषुणो महित्वनानाकमूषुण ऊषुणः कृत्वाहरति
दख्षिणावर्ततर्चासादयति कृत्वालभते प्रियधाविशत भूत्वाहरद्भूताविश भूताविशत्यासन्दीमुद्गातारोहति चतुर्विंशतिस्त्रिक्रमाः ।
अथ प्लुताः
बृहस्पतिसुतस्याग्निहोत्रꣳ सꣳश्रवा द्वेद्वे मित्रोऽसि सप्त त्वष्टा ब्रह्मवादिनोऽद्भिर्मनुरेकमेकं यदेकेन यजुषा वै वाग्वै ब्रह्मवादिनो विचित्यः पर्यग्निर्द्वेद्वे पशुमालभ्य ब्रह्मवादिनः स त्वै प्राणो वा एकमेकमिन्द्रो वृत्रमहन्नमध्यमꣳ समिष्टयजूꣳषि द्वेद्वे सोमो वा एकꣳ सहस्रतम्या न मध्यमं द्वे भूस्त्रीण्युथ्सृज्या न मध्यमं द्वे एकचत्वारिꣳशत्प्लुताः ४१
रङ्गानां गणनाभावे मित्रोसीत्यत्र द्वयोः मनुरित्यत्रैकस्य तथा भूर्भुवस्सुवित्यत्रैकस्य च न्यूनत्वात् एकचत्वारिंशात् चतुर्ह्रासात्प्लुतानां सप्तत्रिंशत् भवतीति ज्ञेयम् ।
द्वादशसु देवासुरा इन्द्रो वृत्रꣳ हत्वाऽग्निर्वाव संवथ्सरो द्वेद्वे मित्रोऽसि सप्त प्रजापतिरग्निन्न मध्यमं द्वे प्रजापतिर्व्यस्रꣳसत यज्ञो राय एकमेकं मित्रोऽसि त्रीणि प्रजापतिस्ता ओदनन्ता सूर्याचन्द्रमसा द्वेद्वे
उपहूतमुपहूतमेकमेकं यो वै ब्रह्मणे द्वे युञ्जन्ति त्रीण्यश्वस्य द्वे प्रजापतिर्देवान् द्वेद्वे एकचत्वारिꣳशत्प्लुताः ४१
रङ्गानां गणनाभावे द्विः मित्रोसीत्यत्र द्वयोः उपहूतमुपहूतमित्यनयोः एकैकस्य युञ्जन्तीत्यत्रैकस्य च न्यूनत्वात् एकचत्वारिंशात् सप्त ह्रासात्प्लुतानां द्वात्रिंशत् भवतीति ज्ञेयम् ।
विश्वा अग्निश्च सावित्रमसन्नेव द्वयंद्वयम् । देवा एकन्नकꣳ सप्त षोडशारण्यके प्लुताः १६
प्राण - व्यान - अपानाः - सू. - विश्वकर्मात ऊर्ध्वं । व्यानं मध्यं । कस्त्वावर्जम् ॥ अमुंपूर्वं - इमंपरं - सू. - प्रान्यान्यमुं पूर्वमम्भाꣳसि पर्यन्तममुंपूर्वमिमंपरम् । प्रजापतिर्नवरात्रवर्जं । यांप्रथमामिष्टकामितिवर्जं ।
मर्त्येष्वानुद्यूनन्यकेषां कासुचिद्वावशानाः प्रणीता यह्वीरविदाम देवाना गम्यात्तत्तदेषां गवीन्यौ यत्परो दूराद्द्रुद्राः कृत्वाय परोङ्गिरस्वद्भरा पृथिवी दिदिहिहेच्छ सुमतीनां वा मतीनामेतदनीक दिदीहिस्वदितानि वक्षदावपनं महत्त्वेषां परमोतसंदृगसुरैर्गुहा यत्सुकृतꣳ सं प्रजां पशून्ममामं ।
इत्यनुवाकार्धान्तिकाः ।
स्वधा पूषा प्रपा प्रबुध्निया प्रमा प्रतिमा रेजते विमोन्मा द्यामिथुन्यमिनन्त बृहस्पते द्रापे धर्मे अग्ने अंबे मन्दे वन्दे विश्वे श्येती नैरृती त्वी अस्तु ही इति वृथा व्यक्तिः ॥
एष्टस्तन्यतुः शुचिर्जरायुर्भिः पतिः कविर्वृष्टिर्दुर्नहेतिस्तित्तिरी रुरु
स्युतिस्युर्विष्णुरिन्दुश्चतुर्जिष्णुश्चरुरिति दीर्घरेफपरो ह्रस्वविसर्जनीयाः ॥
विष्णोः क्वलैरग्नेरन्तोदात्तं प्रजापते रक्षोघ्नीर्योनेरराती हिꣳसीरशस्ती रेवतीरूर्जस्वतीर्ग्रामणीः सजातैः सजूः सिꣳही महानाम्नीर्यवागूयुरिति दीर्घरेफपरो दीर्घविसर्जनीयाः ।
अवेष्टपदानि - सोमः पिबत्वग्ने गोभिर्नान्तरेति तपोस्य वातो देवताग्निश्चम इन्द्रः पशुः सौरी बलाका तिष्ठत्येव तमो ह्येष सन्नेवास्यापुवायतेग्नये स्वाहाग्नये स्वाहा विꣳशत्यै स्वाहाक्रान् षोडश पंचाशत्यवेष्टपदानि ।
सकाररेफविसर्जनीयः ।
वो हुतो दिवो विष्णोरक्रन्ददग्निरिष्टयजुषः स एन एभ्योध्वरः पूर्णवन्धुर सपञ्चदशस्सप्तदश एकविꣳशो लोको बर्हिषो रेवतो या अन्यस्य सन्धी ऋचो गायत्रियो बर्हिस्तेजो बर्हिर्भवत्यप्रतिष्ठितस्तोमोꣳशुर्द्रप्सः पराचीभिस्सरस्वतो निहो सो अप्सरसो गृहाः १
सुवर्मलिम्लवश्चष्यपरिष्ठास्तृणवश्चतुर्विꣳशः
पञ्चविꣳशश्चतुष्टोमश्चतुश्चत्वारिꣳशस्त्रयस्त्रिꣳशष्षोडश
उक्थेभिर्द्विबर्हानिर्मनस्वोवृत्रघ्नः २ चतुर्जातवेदास्ताः पुरुषो रुक्मो जातो प्रतिष्ठितोप्रतिष्ठितोग्नेरभिचार एष विचलः ३ गन्धर्वा एको बर्हिरुत्तरबर्हिरेकोर्जर्भोषि भक्ता एकादशष्षोडशिनः ४ ज्योतिरुद्यन्तश्शुभो ज्ञाता ऋग्भिः क्लृप्ता आयुर्यमश्रियोमध्यलेभान्तस्सदसस्तिष्ठन्तश्छन्दोभिः ५
इति सकाररेफविसर्जनीयः ।
अथ रेफपरविसर्जनीयान्तपदानि ।
विसर्जनीयान् वक्ष्यामि लुप्तान् रेफपरांस्तथा । आराती रेवती हंसि विष्णोरूर्जस्वती । सजातैर्ग्रामणीस्सिꣳहीर्योग्नेर्यूश्च प्रजापतेः ।
क्वलैरशस्तिरक्षोघ्नीर्महानाम्नीस्तथा भवेत् । अन्तोदात्तन्तथाग्नेस्तु यवागूस्परन्तथा । इति रेफपरविसर्जनीयान्तपदानि ।
अथ दकारपर तकारान्तपदानि ।
सीदास्तभ्नादाराच्चिदावतो यद्यदेतद्विगुणं यद्विरूपयोद्रावायोद्रुतायेति स्याद्यत्पूर्वन्दकारपरः ।
इति दपरपदानि । - ।
मघोनीन्द्रियावती गायत्री मानवी घृतपदी मैत्रावरुणी घृतवती यमित्री वक्ष्यन्त्यौदुंबरी प्ररोहन्ती दशम्युभयतःशीर्ष्णी सोमक्रयणीत्सार्युताभिवीकारपर ईकारान्तानि दीर्घानि ।
महिषी मघोनीन्द्रियावती गायत्री मानवी घृतपदी मैत्रावरुणी घृतवती वक्ष्यन्ती प्ररोहन्ती त्सारी घृताची त्विकारपर ईकारान्ताः ।
अयं स्वाहा जर्हृषाणःस्तमस्य या मुचेनालिनोनाग्ने हुतः शास्ते क्रीतो राज गच्छते याभ्यो जायते मा पूर्वः । अत्यन्यानगां भूमिराद्ययज्ञो यावतीत्येषु च ।
आक्रान्प्राण पूर्वपरस्पृ । इन्द्रे .. वज्र पूर्वं परस्तृ ।
न शषसहरेफपरोनुस्वारो मकारान्तम् । तच्च स्वरपरोनुस्वारो नकारान्त रुद्रो ध्यायेदेवैनं । द्वितीय दहेयुरेवैनान् । नो द्वेष्टि ध्यायेयुरेवैनान् । आहुरानीतो यश्चातुर्मास्ययाजी ॥ अन्यत्र यच्चातुर्मास्ययाजी । अहरृध्यते यः संवथ्सरः ॥ तवस्वरपरोनुस्वारो नकारान्तः ।
कद्रूस्वरनुदात्तः । वारुणस्सुप्रचयः ।
रुद्रस्यानधस्तमसीन्द्रोऽविदहन्ता रात्रिं परं गुप्त्यै । धूनश्येश्यवशकुरोमाश्ये ।
ते तदध्वर्युर्नि ह्नुते । पर्यग्नि पशुभ्य एव तन्निह्नुते ।
दिवश्शिल्पꣳ रूपमेवैषाम् ।
प्रजापतेर्जायमाना यद्देवा विश्वान्मुञ्चतु । नक्तञ्जाता विश्वान्मुञ्चन्तु । यद्देवा आपश्शुन्धन्तु ।
यदग्ने यानि यविष्ठ्य । सकारपरश्च । अन्यत्र यविष्ठ । होतर्यविष्ठ सुक्रतो इति वर्जयित्वा ।
युक्ष्वा यदग्न उद्धन्यमानं पूर्वं प्र वो वाजा यविष्ठ्य । सशकारपरो यविष्ठ्य । अन्यत्र यविष्ठ ।
न होतःपूर्वः ।
यदꣳसशोर्ध्वश्च यविष्ठ्य ।
या जाता यविष्ठ्य । होतर्यविष्ठवर्जं ।
रेफसकारपरो यविष्ठ्य ।
व्याघ्रः पूर्वमा देवो यात्वग्निर्नः पातु चित्रभानुः ।
इति षड्विंशतिसूत्रं मूलं समाप्तम्

[अन्ये त्वितोऽपि सूत्राणि पठन्ति। यथा - “स्वरपवर्गान्तस्थासु परासु (परतः) त्रिष्टुगनुष्टुक् ककारान्ते । पकारान्ते अन्यत्र/इतरेषु । विपरीते प्राणानां ग्रैष्मी(ति वर्जयित्वा)परे ॥ “]