आत्रेय शिक्षा कारिका

आत्रेय शिक्षा कारिका
कारिकां सम्प्रवक्ष्यामि प्रथमं पारिभाषिकम्
संहिताविषयं वेदपारायणफलं ततः १
पारायणक्रमश्चैव वाग्वृत्तिः पदलक्षणम्
क्रमस्याथ जटायाश्च शुद्धवर्णक्रमस्य च २
लक्षणञ्च क्रमात्तत्र यौ च द्वित्वागमौ स्मृतौ
तयोरभिनिधानस्य केवलाख्यागमस्य च ३
यमानां तन्निषेधानां द्वित्वागमनिषेधयोः
लक्षणं स्वरभक्तीनां सोदाहरणसंज्ञिकाः ४
विवृत्तेर्लक्षणं तस्यां सञ्ज्ञोदाहरणानि च
व्यक्तिमध्यस्थनासिक्यो रङ्गाख्यप्लुतदीर्घयोः ५
लक्षणं स्वरितोदात्तकम्पानाञ्च विशेषतः
स्याद्वैकृतप्राकृतयोर्नासिक्यौरस्ययोरपि ६
विधिश्च जिह्वामूलीय्योपध्मानीयाख्ययोरपि
स्थितिसन्धिविधिश्चैव तथा प्रणवलक्षणम् ७
स्वरवर्णक्रमस्तत्रोदात्तादीनां निरूपणम्
उदाहरणसंयुक्तसप्तस्वरितलक्षणम् ८
तत्प्रयत्नप्रभेदाश्च मात्रावर्णक्रमस्तथा
मात्रामाननिरूपञ्च मात्राकालोक्तिविध्यपि ९
अङ्गवर्णक्रमस्तत्र परपूर्वाङ्गलक्षणम्
अङ्गवर्णक्रमोक्तेश्च सुस्पष्टं लक्षणं ततः १०
निर्वचनं वर्णसारभूतवर्णक्रमस्य तु
सङ्ख्या च वर्णधर्माणां तदुक्तेरानुपूर्विका ११
भक्त्यनुस्वारकम्पानां रङ्गस्याप्युक्तिलक्षणम्
शब्दोत्पत्तिप्रकारश्च तत्र ध्वनिनिरूपणम् १२
शरीरान्तर्गतं तत्र सर्वव्यापारलक्षणम्
जाठराग्निस्थितिः पञ्चवायूनां स्थानचेष्टिकाः १३
ध्वनिभेदास्तत्र जातवर्णानां च विनिश्चयः
तेषां तु स्थानकरणविवेकस्तत्प्रकारकः १४
प्रयत्नभेदा वर्णानां देवताजातिसञ्ज्ञिकाः
उदात्तादिस्वराणां च देवता जातयो गुणाः १५
ततो हस्तस्वरन्यासलक्षणं तस्य तत्फलम्
अङ्गाद्यवस्थाषड्जादि सप्तस्वरनिरूपणम् १६
उदात्तादिस्वरोत्पत्तिर्वेदस्य महिमा ततः
विकृत्यष्टकसंयुक्ते वेदस्याध्ययने फलम् १७
इत्येवमानुपूर्व्येण शीक्षा सम्प्रोच्यतेऽधुना १८
इत्यात्रेयशीक्षाकारिका समाप्ता

आत्रेय शिक्षा
परिभाषा
आम्नाया यस्य निःश्वासाश्चन्द्रसूर्यौ च चक्षुषी
तत्प्रणम्य परंज्योतिः शिक्षां वक्ष्यामि निर्मलाम् १
अचः स्वरा इति प्रोक्ता व्यञ्जनानि हलः स्मृताः
ह्रस्वदीर्घप्लुतावर्णेवर्णोवर्णा ऋ ॠ ऌ च २
एदैदोदौदिति ज्ञेयाः षोडशेहादिताः स्वराः
कखौ गघौ ङचछजा झञौ टठडढा णतौ ३
थदौ धनौ पफबभा मः स्पर्शाः पञ्चविंशतिः
यरौ लवौ चतस्रोऽन्तस्थाश्चःकशषसःपहाः ४
षडूष्मानो विसर्गोऽनुस्वारो ळो नास्यपञ्चकम्
इत्येते याजुषा वर्णा एकोनाःषष्टिरीरिताः ५
क्रमेण पञ्च पञ्च स्युः स्पर्शानां वर्गसंज्ञिकाः
वर्गेषु तेषु संज्ञा स्युश्चतुर्णां प्रथमादयः ६
पञ्चमस्योत्तमः प्रोक्तो घोषाघोषौ कृतेषु वै
हान्योष्मा प्रथमाश्चैव विसर्गश्च द्वितीयकाः ७
अघोषा स्युश्च तेभ्योऽन्ये घोषवन्तो हलस्मृताः
परिविन्याभ्युपप्रावप्रत्यधीत्युपसर्गकाः ८
कारशब्दोत्तरोवर्णोवर्णाख्या प्रतिपाद्यते
व्यञ्जनानामकारः स्याच्छषसेत्यादिसंग्रहात् ९
ह्रस्वोदिदुदृकारश्च तथलृकारस्वरेषु वै
वर्गोत्तरस्तु वर्गाख्या प्रथमो भवतीत्यपि १०
इत्यात्रेयशिक्षापरिभाषा समाप्ता
संहिताविषयः
आरंभे यजुषःशाखा या स्यात्सा संहिता स्मृता
काण्डप्रश्नानुवाकाद्यैः प्रविभक्तान्तरान्तरौ ११
यास्ततोऽन्या यजुःशाखा न तासां विकृतिः पठेत्
संहिता ग्रन्थमात्रस्य सविशेषौ पदक्रमौ १२
जटावर्णक्रमाश्चैव क्रमाद्विकृतयः स्मृताः
केवलस्वरसंयुक्तो मात्रिका सहितस्तथा १३
साङ्गश्च वर्णसारश्च पञ्चवर्णक्रमानि दुः
सर्वधानाधिगन्तव्यो वेदो लिखितपाठतः १४
वेदपारायणफलम्
अध्येतव्यः स विकृतिर्द्विजैर्यत्नाद्गुरोर्मुखात्
वेदेष्वक्षरमेकैकमेकैकं हरिनामकम् १५
अन्यूना स्वरतश्चैव वर्णतो या च संहिता
सकृत्पारायणे तस्या यावत्फलमिहोच्यते १६
पारायणक्रमम्
त्रिगुणं तत्पदे तस्मात्क्रमे त्वष्टगुणं भवेत्
जटाध्याये शतं प्रोक्तं शुद्धवर्णे सहस्रकम् १७
स्वरवर्णे युतं विद्यान्नियुतं मात्रिका युते
प्रयुतं त्वङ्गवर्णे स्यादनन्तं वर्णसारके १८
प्रायश्चित्तविधौ कृच्छ्रे ब्रह्मयज्ञे क्रिया विधौ
संहिता पठनं कुर्यान्नियमान्न पदादिकान् १९
उत्सवार्थं तु देवेशे निर्गते गर्भगे हतः
क्रमादिकं पठेद्यद्वा तथोपनिषदं पठेत् २०
यस्तु पारायणं हित्वा कालातिक्रमशङ्कया
कुर्यात्संध्यां सनिष्कर्मी विज्ञेयस्तत्र पातकी २१
प्राप्ते महाप्रदोषेऽपि तदा देवेशसन्निधौ
अनद्ध्ययनमासेन न च पारायणं त्यजेत् २२
त्यजेद्यदि तदा मोहाद्ब्रह्महत्यां समाविशेत्
वाग्वृत्तिः
वाचस्तु वृत्तयस्तिस्रो द्रुतमध्यविळंबिताः २३
आवृत्यावृत्य चाभ्यासे द्रुतवृत्या पठे द्विजः
पारायणे प्रयोगार्थे मध्यमां वृत्तिमाचरेत् २४
बोधनार्थं तु शिष्याणां वृत्तिं कुर्याद्विळंबिताम्
पदलक्षणम्
पदाध्याये पदान्ते यदिति शब्दं प्रयुज्य च २५
पुनरुच्चार्यते द्वेधा तद्वेष्टनपदं स्मृतम्
यत्पदं वेष्टनोपेतं तदिंग्यमिति कथ्यते २६
इंग्यते हि पदस्यार्थ इत्यस्मादिंग्यमुच्यते
विभागवत्पदस्यार्थो विभागे न विचाल्यते २७
इत्येवमिंग्यशब्दार्थस्तस्य पूर्वं त्ववग्रहः
पर्यादीनि दशप्रोक्तान्युपसर्गपदानि च २८
अन्वपाद्यपि सूत्सन्निःपरा नव पदानि च
इत्यन्तानि स्युरेतानि पदान्येकोनविंशतिः २९
वाक्यान्तगं द्वयोरादि निहतं त्रिषु मध्यमम्
अवग्रहेऽत्र नेत्यन्तं यत्तत्स्यादध्वरा वच ३०
लक्षणैः प्रग्रहा ये स्युरित्यन्तास्ते पदे सति
क्रमलक्षणम्
संहितावत्पठेत्पूर्वमनुक्रम्य पदद्वयम् ३१
द्वितीयं तत्र पदवदवसाने समापयेत्
ततस्त्वादि पदं हित्वा द्वितीयञ्च तृतीयकम् ३२
पठेत्ततस्तद्द्वितीयं पदं हित्वा तृतीयकम्
चतुर्थञ्च पठेत्पश्चात् क्रमादेवं पठेत्पुनः ३३
पूर्वं पूर्वं पदं मुक्त्वा संयुज्योत्तरमुत्तरम्
एवमुच्चार्यते यस्तु क्रमाध्यायः स उच्यते ३४
क्रमे तावत्तथोच्चार्धे यदींग्यं पूर्विकं पदम्
पठित्वा वेष्टनं तस्य पठेत्पश्चाद्यथा क्रमम् ३५
पूर्ववाक्यान्तगं यच्च परवाक्यादिकं तथा
तयोर्नानुक्रमेत्तद्वदन्तमाद्यनुवाकयोः ३६
प्रग्रहानिंग्ययुक्तञ्च यदि स्यादादिमं पदम्
अखण्डवेष्टनं तस्य वाक्यान्ते यदनिंग्यकम् ३७
पदे तु यद्यदित्यन्तं तन्नेत्यन्तं पठेत्क्रमे
षणत्वटत्व विधिना सह नित्यमनुक्रमेत् ३८
आदन्तं यदुदात्तान्तं पूर्वं यद्युपसर्गतः
तस्योर्ध्वेन त्रिक्रमः स्यान्नः परंषुपदं त्वधः ३९
पदत्रयमनुक्रम्य हित्वा चादि पदं पुनः
मध्यमान्तिममुच्चार्य त्रिक्रमे क्रमशो वदेत् ४०
इति द्वितीयोऽध्यायः
जटालक्षणम्
क्रमवत्पूर्वमुच्चार्य प्रतिलोमं पठेच्च तत्
सन्धितश्च पुनः कुर्यात् क्रमपाठं पदद्वयम् ४१
एवं पाठक्रमो यस्तु सा जटेति प्रकीर्तिता
अखण्डवेष्टनेंग्यादि यद्यदुक्तं क्रमे यथा ४२
तत्र तत्र तथा सर्वं जटायाञ्च पठेद्बुधः
त्रिक्रमे त्रिपदस्यापि जटामुक्त्वा यथा विधि ४३
ततस्तत्र द्वितीयादि पदानां पूर्ववत्पठेत्
तुल्यं पदद्वयं यत्र स्वरतो वर्णतोऽपि वा ४४
न पठेत्तु जटान्तत्र क्रममात्रं पठेत्सदा
लोपालोपादयो ये च षत्वणत्वादयश्च ये ४५
जटायां लक्षणैरुक्तास्तान् पठेत्तु यथा विधि
केवलवर्णक्रमलक्षणम्
येऽत्र सांहिता वर्णाः समाम्नाताश्च शास्त्रतः ४६
तान्सर्वान्कारशब्दान्तान्वदेद्वर्णक्रमोक्तिषु
अकारेण व्यवेत स्यात्कारशब्दो हलामिह ४७
अनुस्वारे च नासिक्ये जिह्वामूल्यविसर्गयोः
उपद्ध्मानीय वर्णे च कारशब्दस्तु नेष्यते ४८
रस्यत्वेफस्त्रयाणाञ्च ह्रस्वो वर्णोत्तरो भवेत्
स्वरात्कारपरादर्वाङ् न सन्धिर्वर्णपाठके ४९
तान्स दीर्घविसर्गांश्च वदेदुक्तिसमापने
पूर्वं वर्णक्रमोक्तेस्तु तत्तावत्संहितां पठेत् ५०
यस्तु संहितया हीनाञ्छुष्कान्वर्णक्रमान्वदेत्
निष्फलं स्याद्यथा भित्तिहीनं चित्र विलेखनम् ५१
येनावसीयते वाक्यं वर्णेनापि स्वरेण च
तमेव वर्णपाठेषु प्रवदेन्न च सांहितम् ५२
एतेन विधिना विद्वान् क्रमाद्वर्णक्रमान् वदेत्
द्वित्वप्रकरणम्
अच्पूर्वं व्यञ्जनोर्ध्वं यत् व्यञ्जनं द्वित्वमाप्नुयात् ५३
स्पर्शश्च लवपूर्वो यो यत्तु रेफात्परञ्च तत्
ह्रस्वपूर्वौ पदान्तस्थौ ङनौ द्वित्वं परेऽच्यपि ५४
योऽनुस्वारो यजुष्यत्र स स्यादर्धगकारयुक्
यद्यात्माधः सरूर्ध्वे च शान्तिः शोर्ध्वेन गो भवेत् ५५
योगात्पूर्वमनुस्वारो ह्रस्वाद्यश्च परस्थितः
स एव द्वित्वामाप्नोति तस्य स्यादेकमात्रता ५६
आगमप्रकरणम्
व्यञ्जनं यन्निमित्तेन द्वित्वमाप्नोति तेन वै
पूर्वागमः क्रमात्तत्र स्याद्द्वितीयचतुर्थयोः ५७
अखण्डे स्वरयोर्मध्ये यदि द्वित्वागमौ पदे
लक्ष्यानुसारसंज्ञौ तौ भवेतां लक्षणैः पृथक् ५८
पाथ एषोऽतिधामाति भूते परमपूर्विकाः
तथोपसर्गपूर्वाश्चागमञ्छखिभुजा इयुः ५९
प्रथमस्योष्मणि परे द्वितीयादेशकः पदे
समे वर्णद्वयं भिन्ने ६०
तैत्तिरीये शपूर्वस्य नस्य ञः स्यान्न काठके
इति तृतीयोऽध्यायः
अभिनिधानप्रकरणम्
अघोषादूष्मणः स्पर्शपराद्यत्र परस्थितः ६१
प्रथमोऽभिनिधानः स्यात्तस्य स स्थान एव च
शसौ यत्रागमौ स्यातां प्रथमः परतो यदि ६२
न तत्राभिनिधानोक्तिः प्रथमं द्विर्वदेद्बुधः
केवलागमप्रकरणम्
नीचा पूर्वस्तथोच्चोर्ध्वो दकारः केवलागमः ६३
तथोत्तरे ङतोऽनन्त्यादागमौ स्तः कगौ क्रमात्
स्याद्यत्रानुत्तमात्स्पर्शादुत्तमः परतो यदि ६४
यमप्रकरणम्
क्रमेण स्युर्यमास्तत्र नान्तस्था परतो यदि
स्पर्शो यद्यूष्मविकृतिर्न तत्र स्याद्यमागमः ६५
यत्र यस्माद्यमप्राप्तिस्तत्रोष्मा वर्त्तते यदि
यमनिषेधप्रकरणम्
नैव तत्र यमावाप्तिरप्यूष्मा द्वित्वमाप्नुयात् ६६
यो पदान्ते पदान्ते वा प्रथमः स्यात्सषोत्तरे
स द्वितीयमवाप्नोति शोर्ध्वेऽनन्त्यः स चेत्तथा ६७
नादप्रकरणम्
ह्रस्वात्परस्तु यो नादो भवत्यत्र द्विरूपवत्
तञ्च वर्णक्रमाध्याये सकृदेव वदेद्बुधः ६८
द्वित्वागमनिषेधप्रकरणम्
प्राप्ते पूर्वागमद्वित्वलक्षणे यस्य वै हलः
द्वित्वं पूर्वागमो यस्तु निवर्त्तेत तदुच्यते ६९
द्विरूपन्नाप्नुयादूष्मा प्रथमोऽर्ध्वेऽच्परेऽपि वा
वकारश्च परे स्पर्शे विसर्गो रेफ एव च ७०
लकार ऊष्मणि स्पर्शे पर ईदैदधश्च यः
स वर्गीयानुत्तमोर्ध्वे स वर्णोर्ध्वे च हल्तथा ७१
मस्पर्शयवलोर्ध्वश्चेत्तेषामेत्यनुनासिकम्
दीर्घात्परोऽन्तगो वोर्ध्वे न द्विर्न्नो न व्यवृण्व्र च ७२
परोऽपि ह्रस्वदीर्घाभ्यां न च द्वित्वं यहोत्तरे
स्वरभक्तिविषयः
आप्नुतो रलयोर्यस्मादूर्ध्वे सत्यच्परोष्मणि ७३
ऋ लृ स्वरार्धा वा देशौ तस्मात्स्यात्स्वरभक्तिता
चतुर्भिरेव साश्लिष्टा पादैरज्व्यञ्जनात्मिका ७४
आद्यन्तौ तेषु पादेषु पादौ स्यातां स्वरात्मकौ
स्थितौ मध्ये तु यौ पादौ तौ ज्ञेयौ व्यञ्जनात्मकौ ७५
पादं द्वितीयं पादेन प्रथमे नैव योजयेत्
तृतीयञ्च चतुर्थेन पादं पादेन योजयेत् ७६
एवं तत्र क्रमात्पादौ द्वौ द्वौ तु विभजेत्पृथक्
हलन्ता स्यात्पूर्वभागस्वरभक्तिस्तु संवृता ७७
भक्तिरुत्तरभागा स्याद्विवृता च स्वरोदया
पूर्वभागो हकारे स्याच्छषसेषूत्तरस्तथा ७८
अत्वमित्वं तथोत्वञ्च भक्तेरूर्ध्वस्वरस्य च
स्वरभक्तिसञ्ज्ञा
त्रयमेतदनुच्चार्य स्वरभक्तिं समुच्चरेत् ७९
बर्हिः करेणु संज्ञा स्याद्योगे तु रहयोर्यदि
सामल्हाकर्वणी ज्ञेया संयोगे लहकारयोः ८०
वर्षं हंस पदा ज्ञेया योगे तु रषयोरपि
शोत्तरे हरिणी रेफो दर्शः पर्शुरुदाहृतम् ८१
सपरे यत्र रेफः स्याद्धस्तिनीबर्समित्यपि
तस्य धूर्षदमित्यादौ सा स्वतन्त्रा प्रचक्षते ८२
हारिता लशयोर्योगे शतवल्शमुदाहृतम्
क्रमेणैवं सुविज्ञेयाः सप्तैता स्वरभक्तयः ८३
इति चतुर्त्थोऽध्यायः
विवृत्तिलक्षणम्
स्वरयोरुभयोः सन्धिर्विवृत्तिरिति कथ्यते
अत्र सैव विवृत्तिस्तु व्यक्तिरित्यपि चोच्यते ८४
वत्सानुसृतिराख्याता तथा वत्सानुसारिणी
वैशेषिका पाकवती मध्यमा च पिपीलिका ८५
तथा सवर्णदीर्घी चोभयदीर्घी तथा स्मृता
इत्येवमष्टसंज्ञा स्युर्विवृत्तीनां तु भेदतः ८६
ह्रस्वपूर्वा च या व्यक्तिस्तथैवोत्तरदीर्घिका
सा वत्सानुसृतिः प्रोक्ता समात्रा कालतस्तथा ८७
ह्रस्वात्पूर्वे विवृत्तिः स्यात् प्लुताददीर्घात्परा च या
वत्सानुसारिणी सेयमेकमात्रेण संयुता ८८
व्यक्तेराद्यन्तयोर्यस्याः दीर्घौ यद्यसवर्णकौ
यदि मध्ये विसर्गः स्यात् तदभावोऽथवा यदि ८९
सा तु वैशेषिकाख्या स्यात्साणुमात्रा च तत्र वै
पूर्वे यत्रोत्तरे चैव ह्रस्वो यदि भवेत्तदा ९०
पादोनमात्रिका तत्र सा च पाकवती स्मृता
यस्याः स वर्णदीर्घौ स्त उभयत्रोच्चनीचकौ ९१
विसर्गस्तत्र च स्वारः सन्धौ मात्रा च मध्यमा
मध्यमा लक्षणे तत्र विसर्गो न भवेद्यदि ९२
पिपीलिकेति विज्ञेया सा व्यक्तिः पादमात्रिका
स वर्णदीर्घौ यद्यादावन्ते भिन्ने विसर्गकः ९३
सवर्णदीर्घ्येकमात्रा न सन्धौ स्वरितो यदि
तस्याः स वर्णदीर्घ्यास्तु संपूर्णे लक्षणे सति ९४
विसर्गस्तत्र नोचेत्सा समात्रोभयदीर्घ्यथ
विवृत्त्युदाहरणम्
उदाह्रियन्ते वत्सानुसृत्यादिव्यक्तयः क्रमात् ९५
वत्सानुसृतिसंज्ञा स्यात्त एनंभिस आयुरा
वत्सानुसारिणी प्रोक्ता सेदग्ने अस्तु वा इयम् ९६
वैशेषिका स्यात्ता एव कक्षीवां औशिजस्तथा
सा तु पाकवती ज्ञेया प्रउगञ्च स इज्जने ९७
व्यक्तिमध्यनासिक्यम्
मध्यमाया आविविशुर्वेद्या आदन्यदित्यपि
पिपीलिका तु ते एनं वा आरण्यमुदाहृतम् ९८
स वर्णदीर्घी संयुक्ता आसन्नित्यादिदर्शनात्
इयन्तूभयदीर्घी स्याद्वा आपस्ततथेत्यपि ९९
नासिक्यो व्यक्तिमध्ये यः स भवेत्साणुमात्रिकः
व्यक्तेश्च साणुमात्रत्वं नामपूर्वोक्तमेव हि १००
रङ्गप्लुतप्रकरणम्
यशोममोपहूता च सुश्लोका च सुमङ्गला
एते रङ्गप्लुता ज्ञेयास्तथा यद्घ्रां इतीत्यपि १०१
रङ्गप्लुते द्विमात्रं स्यादादौ व्याघ्ररुतोपमम्
अनास्यं हृदयोत्पन्नं मन्द्रध्वनियुतं भवेत् १०२
अथ मध्यमभागे स्यात्तृतीयो मूर्धसंभवः
कांस्य घण्टा नादसमः स कम्पस्त्वेकमात्रिकः १०३
अथान्त्यभागे नासिक्य रज्रद्वयविनिस्रुतः
एकमात्रस्तुरीयांशः स तु काकळिको भवेत् १०४
यथा सौराष्ट्रिका गोपी मधुरेण स्वरेण वै
तक्रां इत्युच्चरेदुच्चैस्तथा रङ्गं समुच्चरेत् १०५
रङ्गदीर्घप्रकरणम्
देवा उता इम्यमृवा अवस्वा अह काठके
रङ्गदीर्घा इति प्रोक्तास्ते सपादत्रिमात्रिकाः १०६
हृज्जातो मात्रिकस्तस्मिन् स्यात्सपादत्रिमात्रिके
मूर्धजस्त्वर्धमात्रः स्यात् तच्छेषो मुखनासिकात् १०७
इति पञ्चमोऽध्यायः
स्वरितोदात्तकम्पविषयः
नित्याभिनिहितक्षैप्रप्रश्लिष्टाः स्वरिता इमे
सन्धौ तत्र प्रकंपन्ते यत्रोच्चस्वरितोदयाः १०८
नीचं पूर्वस्वरस्यान्ते कुर्यात्स्यात्कंप एव सः
ह्रस्वमप्यत्र कंपेऽस्मिन् यथा दीर्घं तमुच्चरेत् १०९
स च कंपोऽत्र विज्ञेयः स्वार उच्च इति द्विधा
स्वारकंपः संहितायामुच्चस्त्वारण्यके भवेत् ११०
पुनश्च तत्र तौ कंपौ ह्रस्वदीर्घाविति स्मृतौ
आदौ तु तस्य कंपस्य स्वारः सत्र्यणुमात्रिकः १११
अन्त्यभागे तु निहतः पादमात्रः प्रकीर्त्तितः
उदात्तश्च तथैवादौ त्रिपादाधिकमात्रिकः ११२
तस्यान्ते चानुदात्तः स्यादणुमात्रो भवेत्तथा
सम्मेळने द्विमात्रः स्यात्तयोरेवं सुनिश्चितः ११३
वैकृतप्राकृतादि
शषसेष्वच्परेष्वत्र विसर्गो यत्र दृश्यते
वैकृतत्वं प्राकृतत्वं क्रमात्स्याच्छ्लिष्ट एव हि ११४
हकारान्नणमा यत्र दृश्यन्ते परतस्तदा
नासिक्यत्वोरस्यत्वादि
नासिक्यत्वमुरस्यत्वं हस्य तत्र द्विरुच्यते ११५
विवृत्तिमध्ये यत्र स्याद्विसर्गः सोऽर्धमात्रिकः
विरामश्चैकमात्रः स्यात्तस्याः संज्ञा यथा विधि ११६
प्राग्यद्यघोषवर्णाभ्यां विसर्गः कपवर्गयोः
जिह्वामूलीयादि
क्रमात्स जिह्वामूलीय उपध्मानीय उच्यते ११७
ककारः षवरो यत्र भवेत्तस्मिन् परे सति
स्थितिसंधिः
पूर्वस्थितो विसर्गः स्यात् स्थितिसन्धिरिति स्मृतः ११८
वर्णस्य स्वरहीनस्य नाम वाचकमुच्यते
वर्णक्रमस्याध्ययने न वदेदन्यसंज्ञिकाम् ११९
योऽनुस्वारः केवलाख्यः स मध्यस्थो विधेरपि
तत्परस्य तु योगादेर्न जातु द्वित्वमिष्यते १२०
प्रारंभकोंकारादि सन्धिनिषेधः
आदौ प्रारम्भकोंकारे त्वकारः पादमात्रिकः
स त्रिपादद्विमात्रः स्यादुकारोमस्तु मात्रिकः १२१
अध्यायान्तेऽनुवाकान्ते मकारस्त्वर्धमात्रिकः
वर्णक्रमप्रपाठेषु स्वरात्कारपरादधः १२२
हरिःप्रणवमध्येऽपि सन्धिर्न स्यात्प्लुतेषु च
स्वरवर्णक्रमलक्षणम्
शुद्धवर्णक्रमे तस्मिन्नुच्यमाने यथा क्रमम् १२३
तत्रोदात्तानुदात्तौ च प्रचयश्च त्रयस्वराः
तथैव सप्त स्वरिताः स प्रयत्नाः स नामकाः १२४
दशैतांस्तत्र तत्रैव स्वरेभ्योर्वाक्प्रयोज्य च
प्रवदेद्यदि नाम्नासौ स्वरवर्णक्रमो भवेत् १२५
उदात्तादीनां संज्ञा
व्यञ्जनानामुदात्तादीन्वर्णोक्तौ न वदेत्स्वरान्
तत्र तावदुदात्ताद्याः स्वरास्तन्नाम वाचकः १२६
प्रयत्नाश्च क्रमेणैव निरूप्यन्ते यथा विधि
उच्चैरुदात्तो नीचैस्तु निहतश्चानुदात्तकः १२७
स्वरितः स्यात्समाहारः स्वार इत्यपि चोच्यते
परेषामनुदात्तानां स्वरितात्पदवर्त्तिनाम् १२८
संहितायान्तु प्रचय उदात्तः श्रुतिरिष्यते
धृतप्रचयशब्दौ च पर्यायौ स्तः परस्परम् १२९
इति षष्ठोऽध्यायः
सप्तस्वरितलक्षणम्
स्वाराः सप्तविधा ज्ञेयास्तत्प्रयत्नाश्चतुर्विधाः
क्षैप्रः प्राथमिक स्वारो द्वितीयो नित्यसंज्ञकः १३०
तृतीयः स्यात्प्रातिहतश्चतुर्थो नामतो द्विधा
तत्राभिनिहतश्चैक इतरोऽभिहतः स्मृतः १३१
प्रश्लिष्टः पञ्चमः षष्ठो वृत्तः स्यात्पादवृत्तकः
तैरोव्यञ्जनसंज्ञो यः स्वरितः सप्तमो भवेत् १३२
इवर्णोतोर्यवत्वे सत्युच्चयो स्वर्यते चयः
स च क्षैप्राभिधस्वारस्त्र्यंबकं द्र्वन्न इत्यपि १३३
पदे स्थितेऽप्यपूर्वे वा नीचपूर्वे यवाक्षरम्
स्वर्यते यत्र नित्यः स्यान्न्यञ्चंकुह्वा उदाहृतम् १३४
उच्चे नाना पदस्थेऽपि श्लिष्टेन स्वर्यते च यः
स प्रातिहत एव स्यात्स इधा नः स तेजसम् १३५
नानापदे ह्युच्चपूर्वं नीचं यत्स्वर्यते यदि
व्यक्तेरभावे भावेऽपि स प्रातिहत इष्यते १३६
तस्मिन्नकारलोपश्चेत्पृथग्भूतपदे तदा
स्वारोऽभिनिहतो ज्ञेयः सोऽब्रवीत्तेऽब्रुवन्नपि १३७
उदात्तपूर्वे तस्मिन् स्यादूभावस्वर्यते यदि
प्रश्लिष्टाख्यः स सूद्गाता सून्नीयमिवयस्तथा १३८
यात्वखण्डपदे व्यक्तिः सा भवेदर्धमात्रिका
यस्तस्याः परतस्वारः पादवृत्तः स कथ्यते १३९
मध्ये पदस्य या व्यक्तिस्तस्याञ्च स्वरितश्च यः
स एव पादवृत्तः स्यात् प्रउगन्नान्यदिष्यते १४०
तिरस्तिर्यगिति प्रोक्तं हल्व्यञ्जनमिति स्मृतम्
तेन व्यवेतो यः स्वारस्तैरोव्यञ्जनसंज्ञकः १४१
व्यञ्जनेन व्यवहितः पदे तूदात्तपूर्वकः
स्वरितो यः स एव स्यात्तैरोव्यञ्जन उच्यते
यः समानपदे स्वारः स्वर्यते ह्युच्चपूर्वकः
स तैरोव्यञ्जनो ज्ञेय आपो वाचमुपायवः १४२
स्वरितानां प्रयत्नभेदः
क्षैप्रे नित्ये प्रयत्नः स्यात्स्वारे दृढतरो भवेत्
नीचपूर्वेऽभिनिहते प्रयत्नोति दृढस्मृतः १४३
उच्चपूर्वेऽप्यपूर्वे च प्रयत्नो दृढ इष्यते
प्रश्लिष्टप्रातिहतयोः स वै मृदुतरः स्मृतः १४४
स तैरोव्यञ्जने पादवृत्ते चाल्पतरः स्मृतः
एवं स्वरितभेदानां प्रयत्नानाञ्च भेदतः १४५
विवक्षया लक्षणानि तेषामुक्तानि शास्त्रतः
एतत्सर्वं विदित्वैव स्वरवर्णक्रमं वदेत् १४६
मात्राकालवर्णक्रमलक्षणम्
अथातः संहिताध्याये लक्षणैरानुपूर्व्यशः
भवन्ति यद्यद्वर्णानां यद्यत्कालाः सुनिश्चिताः १४७
तत्र तत्र च ते सर्वे स्वरवर्णे यथा विधि
उदात्तादिस्वरेभ्योऽर्वाक् प्रयुज्यन्ते तथा यदि १४८
एवं पाठक्रमो यः स्यान्मात्रिका वर्ण उच्यते
इति सप्तमोऽध्यायः
मात्राकाललक्षणम्
मात्राणां कालनियमा उच्यन्ते हेतुभिः पृथक् १४९
ब्राह्मणी न कुलश्चाषो वायसश्च शिखी क्रमात्
अण्वर्धैकद्वित्रिमात्रान् ब्रुवते कालतः सुखम् १५०
इन्द्रियाविषयो योऽसावणुरित्युच्यते बुधैः
चतुर्भिरणुभिर्मात्रा परिमाणमिति स्मृतम् १५१
एकमात्रो भवेद्ध्रस्वो दीर्घः स्यात्तु द्विमात्रिकः
त्रिमात्रिकः प्लुतो ज्ञेयो ह्रस्वार्धं त्वर्धमात्रिकम् १५२
तत्र रङ्गप्लुतो यः स्याच्चातुर्मात्रः स कथ्यते
तं तु व्याघ्ररुतान्ते यो घण्टा नादोऽनुवर्त्तते १५३
मात्राकालोक्तिविवेकः
संयुक्तं वाप्यसंयुक्तं व्यञ्जनं स स्वरं यदि
स्वरकालं वदेत्तत्र न पृथग्व्यञ्जनस्य तु १५४
सिधेऽप्यर्धाणुमात्रत्वे स स्वरे वा पृथग्घलि
तथापि न वदेत्तस्य कालं वर्णक्रमेषु वै १५५
हलस्त्ववसिता यत्र तत्रैषां काल इष्यते
अनुत्तमे त्वर्धमात्रो विरामस्थे विधीयते १५६
विरामस्थेषूत्तमेषु कालाधिक्यं प्रदृश्यते
पूर्वेऽनुनासिकं ह्रस्वाद्विमात्रं यत्तदुच्यते १५७
दीर्घात्प्लुताच्च तन्नादमेकमात्रमिति श्रुतिः
अवसाने विशेषो यमन्येषाञ्च न विद्यते १५८
संहितायान्तु तन्मात्रः पदकालेऽधिको भवेत्
ह्रस्वात्परोऽवसानस्थः पदाध्यायेऽनुनासिकः १५९
द्विमात्रो मात्रिकस्त्वन्यः संहितायां तथा खिलः
तत्तत्कालान्विदित्वैवं मात्रका वर्णमुच्चरेत् १६०
अङ्गवर्णक्रमलक्षणम्
अङ्गवर्णे हलामादावङ्गं संज्ञाञ्च नाम च
अचां संज्ञाञ्च मात्राञ्च स्वरन्नाम वदेत्क्रमात् १६१
वर्णानामङ्गवर्णेऽस्मिन् सुव्यक्तञ्चाङ्गलक्षणम्
पूर्वत्वेन परत्वेन विधिना वा सहोच्यते १६२
राजतेऽसौ स्वयं यस्मात्तस्मात्तु स्वर उच्यते
उपरिस्थाधिना तेन व्यंग्यं व्यञ्जनमुच्यते १६३
अङ्गलक्षणम्
न शक्यं केवलं स्थातुं व्यञ्जनं तु स्वरं विना
सापेक्षं व्यञ्जनं नित्यं स्वरस्तु निरपेक्षकः १६४
व्यञ्जनानि च सर्वाणि स्वराङ्गानि भवन्ति हि
पराङ्गपूर्वाङ्गलक्षणम्
भवेत्परस्वरस्याङ्गं व्यञ्जनं प्रायशोऽपि हि १६५
तत्र पूर्वस्वराङ्गं स्यादवसाने स्थितञ्च यत्
परा युक्तमनुस्वारो विसर्गो भक्तिरेव च १६६
योगाद्यसंयुतो ङो नो रेफः स्यादृपरे सति १६७
पूर्वाङ्गं न भवेत्स्पर्श ऊष्मणो विकृतिर्यदि
सा पराङ्गं भवत्येव या भक्तिः प्रचयात्परा १६८
धृते ह्यृकारे परतो रेफश्च स्यात्पराङ्गभाक्
पराङ्गमसवर्णं स्यादन्तस्थाः परमेव यत् १६९
पराङ्गे चोष्मणि परे पराङ्गं स्पर्शको यमाः
अङ्गवर्णक्रमोक्तिलक्षणम्
पौर्वापर्यक्रमेणैव विदित्वाङ्गं प्रयोजयेत् १७०
हलान्तु पूर्वशब्दं वा परशब्दमथापि वा
उक्त्वा ततोऽङ्गशब्दन्तु भूतशब्दोत्तरं क्रमात् १७१
हल्संज्ञकेति संज्ञाञ्च नामकारोत्तरं वदेत्
अचामच्संज्ञकेत्युक्त्वा तन्मात्रांश्च ततः स्वरान् १७२
उदात्तादींस्ततो नामान्यानुपूर्व्येण संवदेत्
संयोगो यत्र पूर्वाङ्गं स्यात्सवर्णात्मको यदि १७३
सकृदेव वदेत्तत्र पूर्वाङ्गादिपठेत्ततः
योगो यत्रोभयाङ्गं स्याद्यद्येकव्यञ्जनात्मकः १७४
पौर्वापर्यक्रमात्तत्र पृथगङ्गं प्रयोजयेत्
यद्यदुक्तं शुद्धवर्णे द्वित्वागमयमादिकम् १७५
अङ्गवर्णे तु तत्सर्वं तत्र तत्र वदेत्क्रमात्
स्वरवर्णे स्वरा यद्वल्लक्षणैः प्रतिपादिताः १७६
मात्राश्च मात्रिका वर्णे यथा यत्र विनिश्चिताः
तान्सर्वानङ्गवर्णोक्तौ तथा तत्र वदेत्सुधीः १७७
इत्यष्टमोऽध्यायः
वर्णसारभूतवर्णक्रमनिर्वचनम्
सर्वेषामेव वर्णानां साराध्वन्यादयः स्मृताः
ध्वनिस्थानादयो ये स्युस्ते धर्मा इति कीर्त्तिताः १७८
तैर्भूतो भूतशब्देन प्रापितार्थ इहोच्यते
स तथोक्तश्च वर्णानां क्रमो वर्णक्रमः स च १७९
असौ वर्णक्रमश्चेति विग्रहो विशदी कृतः
तस्मादयं वर्णसारभूतवर्णक्रमः स्मृतः १८०
वर्णधर्मक्रमः
एकस्योच्चादियुक्तस्याप्यचः सव्यञ्जनस्य च
धर्माः षड्विंशतिः प्रोक्ताः क इतीत्थमुदाहृतः १८१
लक्षणैः शब्द एवात्र ध्वनिरित्युच्यते तथा
ध्वनिः प्राथमिको धर्मो द्वितीयस्थानमुच्यते १८२
तृतीयः करणं विद्यात्प्रयत्नः स्यात्तुरीयकः
देवता पञ्चमो ज्ञेयः षष्ठो जातिरिहोच्यते १८३
अङ्गं तु सप्तमः प्रोक्तो वर्णसंज्ञाष्टमो भवेत्
एते धर्माः क्रमेणैव विधीयन्ते हलामिह १८४
अचान्धर्माष्टकेऽप्यस्मिन्नुच्यमाने सति क्रमात्
मात्राकालश्च वक्तव्यो मध्ये देवप्रयत्नयोः १८५
स्वराणान्निहतादीनां दश धर्माः समीरिताः
तत्रादौ देवता ज्ञेया ततो जातिस्ततो गुणः १८६
ततो रेखा दर्शनं स्यादङ्गावस्था त्रयं पुनः
ततः षड्जादिहेतुः स्यादुत्पत्तिस्थानकं ततः १८७
तत्संज्ञा च ततश्चैतान्दशधर्मान्वदेत्क्रमात्
केवलस्वरमात्राङ्गवर्णेषु चतृषूदिताः १८८
ये ये धर्माश्च तान्सर्वान् प्रयुज्यास्मिन् क्रमात्पठेत्
यो धर्मः पञ्चमत्वेन स्यादचां वर्णसारके १८९
इति नवमोऽध्यायः
अनुस्वरभक्तिकम्पविषयः
स्वरभक्त्यंशभूतानामचां स्यात्सप्तमो हि सः
अनुस्वारस्य भक्तीनामंशभूताज्झलामपि १९०
धर्मान्यथावद्ध्वन्यादीन्वर्णसारे वदेत्सदा
अनुस्वारस्य वर्णेऽस्मिन्नङ्गात्पूर्वं तु मात्रिकाम् १९१
अप्यनुस्वारभक्त्यंशे व्यङ्गान्धर्मान् क्रमाद्वदेत्
कंपे तद्धेतुकस्वारधर्मानादौ पठेत्तदा १९२
तस्मादुत्पन्नकंपस्य य आद्यंशश्च तस्य तु
त्रिपादाधिकमात्रस्य धर्मान्स्वारस्य नोच्चरेत् १९३
तदन्त्यांशस्य नीचस्य ब्रूयाद्धर्मान्यथा विधि
शुद्धवर्णो यथा तत्र तथैवात्रापि योजयेत् १९४
रङ्गप्लुतविषयः
रङ्गप्लुते त्ववर्णोच्च प्लुतानामानुपूर्व्यशः
वदेद्धर्मान्वर्णसारे तदन्ते वर्णसंज्ञकाम् १९५
सर्वत्राभिनिधानाख्यो यस्तस्याङ्गं तथैव च
वर्णसंज्ञामपि ब्रूयान्नान्यधर्मान् पठेत्सदा १९६
न ध्वन्यादीन्यमे ब्रुयान्न स्थानाङ्गं निषिध्यते
शब्दोत्पत्तिप्रकरणम्
अथात्र सर्ववर्णानां याजुषाणां विशेषतः १९७
उच्चारणप्रसिद्ध्यर्थं शब्दस्योत्पत्तिरुच्यते
नित्यः कार्य इति द्वेधा शब्दः सामान्यतो भवेत् १९८
नित्यो व्यक्तो विभुः शब्दो यो ब्रह्मव्यपदेशभाक्
तस्माद्व्यक्तः कार्यशब्दः कार्यादुत्पद्यते श्रुतिः १९९
श्रुतेन्नादस्ततो नाळी नाळ्या उच्चावचस्वराः
ध्वनिनिरूपणप्रकरणे शरीरान्तर्गतजाठराग्निस्थितिः
एते क्रमात्प्रजायन्ते शब्दोच्चारणमात्रतः २००
मिथो पृथक्त्वमेतेषां दीप्तत्प्रभयोरिव
भवन्ति नादप्रमुखा वर्णोच्चारणहेतवः २०१
उपनाभ्युदये सूक्ष्मधमनी घटिबन्धनम्
आधारं सर्वधातूनामिन्द्रियाणां भवत्यपि २०२
तत्प्रत्यगाढकस्थूलाप्यर्धाङ्गुलिसमुच्छृता
निश्चला सततं दीप्ता ज्वालावह्नेस्तु जाठरी २०३
पराणुसूक्ष्मावरणा धमनी तत्परिस्थिता
इति दशमोऽध्यायः
प्राणादीनां पञ्चानां वायूनां स्थानस्थित्यादिकञ्च
वायुना पूरिता वृत्ता द्रुतं सञ्चरतानिशम् २०४
प्राणोदानापानसमा हृत् कण्ठगुदनाभिषु
चत्वारः संस्थिता देहे व्यानः सर्वाङ्गसंश्रितः २०५
एते पञ्चांशकास्तत्र स्थित्वैवांशैस्त्रिभिस्त्रिभिः
द्वाभ्यान्द्वाभ्यां शरीरेऽस्मिन् स्वस्व चेष्टां प्रकुर्वते २०६
समःसुषिरचक्रस्थस्तौदम्बर्हिषमावति
नाडीलताश्रितो पानः शिक्यमूले त्रिकोपरि २०७
विभज्योच्चारशमलौ पुरः पश्चात् क्षिपत्यधः
सर्वनाडीः समाश्रित्य व्यानः सर्वत्र सञ्चरन् २०८
सदा वितनुते सर्वं न मनोन्नमनादिकम्
उदानो गळवर्त्मस्थो व्यानदत्तं रसादिकम् २०९
आजिह्वामूलमुत्प्लुत्य गृहीत्वान्तः क्षिपत्यधः
हृत्पद्मकोशपृष्ठस्थे नडीनाळनिरन्तरे २१०
स्थित्वा स्थाने बलीप्राणो ह्रासैर्विकसनैरपि
यथा क्रमं स्वयं दत्ते भुक्तिमुक्त्योः सृतिं पराम् २११
तेषां स्थूलसूक्ष्मरूपचेष्टा विशेषः
प्राणादीनामिमाञ्चेष्टा स्थूलाः सूक्ष्मा तु कथ्यते
प्राणे हृदिस्थस्वांशेन कण्ठस्थोदानमंशतः २१२
अन्तराकर्षतिबहिस्तदंशोस्यांशकं क्रमात्
उभाभ्यां श्वासरूपाभ्यामंशाभ्यां धार्यते वपुः २१३
विवक्षुणात्मनानुन्नम्मनोरुध्वागळानिलम्
स हतेन पतित्वाग्नौ जाठरे तत्समुत्थया २१४
ज्वालया भेदयत्याशु समानावरणं ततः
भिन्ना वृतौ समे कण्ठवायुना मनसा सह २१५
कण्ठोरोमध्यदेशस्थे प्राणोंऽशं स्वन्नियच्छति
श्रुत्यादिः प्रकृतिः कार्यो नित्याच्छब्दोऽत्र जायते २१६
स्थानं कण्ठोरसोर्मध्यं करणं तु समोऽनिलः
मनः प्रयोगो यत्नोऽस्य स्याच्छब्दोत्पत्तिरीदृशी २१७
इत्थमुच्चार्यमाणेषु शब्देषु श्वासरोधिषु
तदर्थं सममच्छिन्नमाकृष्योदानसंयुते २१८
मनस्य भ्युत्थिते तस्मिन्नैश्चेष्ट्यं सोढुमक्षमः
सममध्ये पुनः प्राणः स्वांशेनैव पतत्यसौ २१९
तस्माद्विच्छिद्यते तत्र प्राणसंघट्टनात्समः
छिन्नधारो भवत्याशु स्वस्थानान्तर्गतश्च सः २२०
सद्यस्तत्त्वक्तिरोधत्ते प्राणोदानौ तु पूर्ववत्
विचेष्टे ते तदा ताभ्यां महाञ्छ्वासः प्रजायते २२१
भूयो मनः प्रयोगेन शब्दः संपद्यते तथा
कण्ठाकाशगतः कार्यः शब्द एव ध्वनिः स्मृतः २२२
ध्वनिभेदाः तजजातवर्णाः
नादश्वासो हकारश्चेत्येवं त्रेधा ध्वनिर्भवेत्
कण्ठे तु संवृते नादश्वासः स्याद्विवृते सति २२३
मध्यस्थे तु हकारः स्याद्वर्णप्रकृतयश्च ताः
नादजा स्वरघोषा स्युर्हचतुर्था हकारजाः २२४
अघोषाश्वासजास्तत्र श्वासो द्वेधाल्पको महान्
प्रथमाश्च तदन्ये च वर्णा अल्पमहद्भवाः २२५
वर्णानां स्थानकरणविवेकलक्षणम्
अचां स्थानमुपश्लेषो यत्रान्याङ्गस्य तन्यते
तदङ्गं करणं स्थानसमीपे नीयते च यत् २२६
यदङ्गं स्पृश्यतेऽङ्गेन हलां स्थानं तदिष्यते
अङ्गेन स्पृश्यते स्थानं येन तत्करणं हलाम् २२७
संहिता यामचो नित्यं यत्रा व्यञ्जनपूर्वकाः
भवन्ति तेषां स्थानोक्तौ पूर्वं कण्ठेति संवदेत् २२८
अकारोच्चारणे चोष्ठौ हनूनात्युपसंहृतौ
कार्यौ तु दीर्घप्लुतयोर्न चातिविवृता इमे २२९
उपश्लेष्यमिवर्णोक्तौ जिह्वामध्यन्तु तालुनि
ओष्ठावुवर्णे दीर्घौ स्त उपश्लेषयुतौ तथा २३०
पृथगोष्ठोपसंहारो नार्धमात्रान्तरे भवेत्
एकमात्रोऽन्तरत्वस्य स्यात्तु सर्वत्र संभवे २३१
ऋवर्णे लृतिच स्यातामोष्ठौ नात्युपसंहृतौ
हनू अत्युपसंहार्ये जिह्वाग्रं बर्स्वके भवेत् २३२
एकारे व्यञ्जने जिह्वा प्रान्तावीषद्युतोष्ठकौ
करणं तालु तु स्थानमतिश्लिष्टहनूर्ध्वयुक् २३३
सव्यञ्जनेऽस्मिन् करणमीषच्छ्लिष्टोष्ठयुग्भवेत्
जिह्वामध्यं स्थानमतिश्लेषवद्धनुतालुकम् २३४
हनू अनतिविश्लेषे ओष्ठौ चात्युपसंहृतौ
दीर्घौ च भवतस्तत्र त्वोकारोच्चारणे सति २३५
अणुस्त्वादा वदेदोतोरन्त्ये सत्र्यणुकस्त्विदुत्
ऐकारौकारयोरादावकारस्त्वर्धमात्रिकः २३६
इवर्णोवर्णयोः शेषौ स्यातामध्यर्धमात्रिकौ
ऐकारौकारावयवेष्वदिदुत्सु यथा क्रमम् २३७
अदिदुत्स्थानकरणप्रयत्ना एव नान्यथा
एदोतोरदिदुत् स्वल्पोऽप्यत्र न श्रूयते पृथक् २३८
नातोस्ति तेषान्धर्मोऽस्य किन्त्वेत्वन्त्वोत्वमेव हि
ऐदौ तोराद्यकारस्य करणी भवदोष्ठकः २३९
संवृताख्य इति प्राहुर्वर्णक्रमविचक्षणाः
उच्चारणे कवर्गस्य हनूमूलं स्पृशेद्बुधः २४०
जिह्वामूलेन चोरुक्तौ जिह्वामध्येन तालु च
जिह्वाग्रेण टवर्गे तु प्रतिवेष्ट्य शिरः स्पृशेत् २४१
जिह्वाग्रतस्तवर्गे च दन्तमूलेष्वधस्तथा
अथ रेणोत्तरोष्ठन्तु पवर्गोच्चारणे स्पृशेत् २४२
जिह्वामध्यस्य पार्श्वाभ्यां तालुयोच्चारणे स्पृशेत्
जिह्वाञ्चलस्य मध्येन दन्तमूलोपरिक्रमात् २४३
आसन्नमत्यासन्नञ्च प्रदेशं रलयोः स्पृशेत्
अधरोष्ठाग्रभागेन बाह्येनोर्ध्वं तदस्पृशेत् २४४
ओष्ठ्य स्वरान्तरस्थेव तद्भिन्ने त्वान्तरेण चेत्
जिह्वामूलीय पूर्वाणां हभिन्नानां तथोष्मणाम् २४५
कवर्गादिषु यत्स्थानं तदेव स्युर्यथा क्रमम्
कारणानां तु यत्तेषां मध्यं तु विवृतं भवेत् २४६
विसर्गस्य च हस्य स्यात्स्थानञ्च करणं गळः
उरो हस्योत्तमान्तस्था परत्वे स्यात्तु तद्वयम् २४७
वर्गान्त्यानासिकामात्रः स्थानकाहात्परे परे
मुखावयवनासिक्या नासिकानस्विका सतः २४८
इति स्थानकरणविवेकप्रकरणम्
इत्येकादशोऽध्यायः
वर्णानां प्रयत्नभेदाः
प्रयत्नाः पञ्चधा ज्ञेयाः वर्णानां संवृतादयः
संवृतो विवृतस्पृष्ट ईषत्स्पृष्टोऽतिपूर्वकः २४९
संवृतो कारमात्रस्य प्रयत्नः परिकीर्त्तितः
प्रयत्नो विवृतोऽन्येषां स्वराणामूष्मणामपि २५०
स्पर्शेषु स्पष्टतान्तस्थास्वीषत्स्पृष्टत्वमीरितम्
द्वितीयाश्च चतुर्थाश्चाप्यतिस्पृष्टप्रयत्नजाः २५१
अतिस्पृष्टे चतुर्थानां न्यूनत्वं किंचिदिष्यते
वर्णानां स्वरानां च देवताजातिनिरूपणम्
देवता वेदवर्णानां वाय्वग्निक्ष्मेन्दुभानवः
यशकारा वेदवर्णौ प्रथमा वायुदेवकाः २५२
आग्नेया ऐदिवर्णौ च द्वितीयाश्च रषावपि
उवर्ण ओत्तृतीयाश्च सलौ स्युर्भूमिदेवकाः
ऋवर्ण औच्चतुर्थाश्च वहौ चान्द्रमसा स्मृताः
लृकारोत्तमशाः सौर्यानेतरेषां तु देवताः २५३
वर्गप्रथमवर्णाश्च स्वरा स्युर्ब्रह्मजातयः
क्षात्रा द्वित्रितुरीया स्युर्वर्गोऽन्तस्थोत्तमा अपि २५४
शूद्रा ऊष्मविसर्गानुस्वारा स्युरिति निश्चिताः
इति द्वादशोऽध्यायः
वर्णसंज्ञा
अचः स्वरा व्यञ्जनानि स्पर्शान्तस्थोष्मणो हलः २५५
अघोषघोषवद्वर्गप्रथमाद्युत्तमादयः
ह्रस्वदीर्घप्लुता भक्तिकंपरङ्गप्लुता यमः २५६
विसर्गजिह्वामूलीयोपध्मानीयादयस्तथा
अनुस्वरादयश्चैते वर्णसंज्ञा इति स्मृताः २५७
उदात्तादीनां देवता जातिगुणलक्षणम्
सूर्याग्निचन्द्रवसुधाश्चत्वारश्च क्रमादिह
धृतानुदात्तस्वारोच्चस्वराणां देवता स्मृताः २५८
उच्चनीचस्वारधृता स्वराश्चत्वार एव च
ब्रह्मक्षत्रियविच्छूद्रा आसन् जात्या क्रमादिह २५९
सात्विकः स्याद्गुणेनोच्चस्वरितो राजसः स्मृतः
द्वौ तामसगुणौ स्यातामनुदात्तधृतावपि २६०
हस्तस्वरविन्यासलक्षणम्
यः स्वरन्यासकृद्विद्वान् स आसीनस्त्वतन्द्रितः
कृत्वा गोकर्णवद्धस्तं दक्षिणं दक्षजानुनि २६१
क्रमात्स्वरेषु हस्ते च मनोदृष्टिन्निवेश्य च
यथा शास्त्रं स्वरन्या समङ्गुष्ठाग्रेण विन्यसेत् २६२
तदा यद्यागतः पूज्यो गुरुर्वा देवतापि वा
प्रणम्याथ न्यसेत्तिष्ठन् कृत्वा नाभिसमं करम् २६३
यदि तैरभ्यनुज्ञातः सोऽभ्यासकरणे सति
आसीन एव कुर्वीत स्वरन्यासं यथा विधि २६४
उदात्तन्निर्दिशेन्न्यासे तर्जनीमध्यपर्वणि
नीचं कनिष्ठिकादौ च मध्यमामध्यमे धृतम् २६५
स्वारञ्चानामिकान्त्ये तु सर्वत्रैवं विनिर्दिशेत्
यः स्वरः स्यात्पृथग्भक्ते स्वरे खास्थानमाप्नुयात् २६६
स्याद्यत्रोच्च इव स्वारः स्यात्तदूर्ध्वस्थितश्च यः
क्रमादनामिकायास्तौ विन्यसेन्मध्यमान्त्ययोः २६७
आद्यन्त्यांशौ स्वारकंपे यौ स्यातां स्वारनीचकौ
अनामिकान्त्यादिमयोस्तौ न्यसेद्वावपि क्रमात् २६८
ततश्चोदात्तकंपे तु यावुच्चनीहतौ च तौ
मध्याद्ययोः प्रदेशिन्याः क्रमात्सन्निर्दिशेदपि २६९
स्वरविन्यासफलम्
विरामे व्यञ्जनं यत्तदुच्चारणवशात्क्वचित्
स्वरान्तरश्रुतिं सम्यक्स्वतन्त्रमिव चाप्नुयात् २७०
तथापि तस्य विन्यासे पृथक्स्थानं न निर्दिशेत्
य एवं स्वरवर्णार्थाञ्छास्त्रदृष्ट्यानुचिन्तयन् २७१
स्वरन्यासक्रमेणैव सह वेदमिमं पठेत्
स पूतः सर्ववेदैश्च परं ब्रह्माभिगच्छति २७२
अङ्गाद्यवस्था
गात्रदैर्घ्यं ध्वनेर्दार्ढ्यं कण्ठाकाशाणुता तथा
तिस्रोऽवस्था इमाः शब्दमुच्चैः कुर्वन्ति तत्र तु २७३
ह्रस्वताया च देहस्य मृदुता च ध्वनेश्च या
महत्ताकण्ठखस्यैताः नीचैः कुर्वन्ति शब्दकम् २७४
षड्जादिस्वरनिरूपणम्
नीचात् षड्जर्षभौ जातावुच्चाद्गान्धारमध्यमौ
निषादः पञ्चमश्चैव धैवतश्च त्रयस्वराः २७५
स्वरितप्रभवास्तेषां पुनस्तत्कारणक्रमः
नित्याभिनिहतक्षैप्रा निषादस्वरहेतवः २७६
हतश्लिष्टावुभौ स्यातां पञ्चमस्वरहेतुकौ
तैरोव्यञ्जनवृत्ताभ्यां जायते धैवतस्वरः २७७
दीर्घह्रस्वानुदात्ताभ्यां जातौ षड्जर्षभावुभौ
उदात्तप्रचयाभ्यान्तु गान्धारो मध्यमस्तथा २७८
रौतिक्वणत्यजा क्रौञ्चो गान्धारं मध्यमं क्रमात्
केकारुतसमः षड्ज उक्षारौ त्यृषभस्वरम् २७९
निषादं बृंहते कुम्भी पिकः कूजति पञ्चमम्
हयहेषा तुल्यरूपं संविद्याद्धैवतस्वरम् २८०
इति त्रयोदशोऽध्यायः
उदात्तादिस्वरोत्पत्तिस्थानम्
अनुदात्तो हृदि ज्ञेयो मूर्द्ध्न्युदात्त उदाहृतः
स्वरितः कर्णमूलीयः सर्वाङ्गे प्रचयः स्मृतः २८१
वेदाद्ध्ययनफलम्
अङ्गमात्रादयो धर्माः पूर्वमेवोदिताश्च ये
तान्सर्वान्वर्णसारेऽस्मिन् तत्र तत्र प्रयोजयेत् २८२
एवं स लक्षणं वेदं योऽधीते ध्यापयत्यपि
न तत्कल्प सहस्रैश्च गदितुं शक्यते फलम् २८३
वेदमहिमा
वेद एव परो धर्मो वेद एव परं तपः
वेद एव परं ब्रह्म सर्वं वेदमयञ्जगत् २८४
तस्माच्छ्रेयः परं प्राप्तुं विधिनैव गुरोर्मुखात्
अध्येतव्योऽखिलैर्विप्रैरेषधर्मः सनातनः २८५
अध्ययनरहितदोषः
धर्मेण य इमां ब्राह्मीं विद्यां शिष्याय बोधयेत्
नन्दन्ति देवताः सर्वे तं विप्रं नाविशेद्भयम् २८६
यो हित्वा ब्राह्मणो वेदानन्यग्रन्थे प्रवर्त्तते
ब्रह्मत्यागी सविज्ञेयः कर्म शूद्र इति स्मृतः २८७
वेदहीनस्य विप्रस्य सर्वशास्त्रप्रगल्भता
वस्त्रहीनस्य देहस्य सर्वभूषणता यथा २८८
योनिराकृतिना विप्रः स जग्धिं कुरुते यदा
स विप्रस्तु तदाप्नोति सुरापानफलं ध्रुवम् २८९
तदा निराकृतिः सो यं लभते पावनं परम्
तस्मान्निराकृतेः पापं न कुर्यात्पङ्क्तिभोजनम् २९०
निराकृतिः अध्ययनरहित इत्यर्त्थः
वेदांश्च श्रोत्रियं ब्रह्म ये के दूष्यन्ति मानवाः २९१
ते घोरं नरकं प्राप्य जायन्ते भुवि सूकराः
साङ्गवेदाद्ध्ययनफलम्
वेदरूपविलसत्परात्परं ये पठन्ति विधिना द्विजोत्तमाः २९२
ते त्रिवर्गमिह चानुभूय तच्छाश्वतं पदमवाप्नुयुः परम् २९३
इति चतुर्दशोऽध्यायः
इत्यात्रेयशिक्षामूलं संपूर्णम्