सामवेदसप्तलक्षणम्

सामवेदसप्तलक्षणम्
शमानम्
आकारः प्लुतपूर्वो यो घोषवद्व्यञ्जनोत्तरः
शसकारपरश्चैव विसर्गः स तु लुप्यते १
संहितायामृचां तानि पदान्यत्र विवृण्महे
घोषवन्ति व्यञ्जनानि हकारो गजडादयः
दादयो बादयो वान्त याजयोऽन्ययुजौ शसौ २
इति परिभाषा
इतरा विदा मुनि स्तोमा देवा रुद्रा न मर्त्य वर्धे देवे वसु मयोभुत्यये शरम् । प्रचेता अनूधाः पृथिव्या भूतन्नसृणित्यये । धियं धा विश्वार्युगम् ॥
न साह चक्षुर्द्वेषांसि यद्रू दधान वसु वह्नि परि नेत्रं रूपाणि करं धनानि श्रोत्रं भूता शविष्ठ धामानि करं च सोम दाशुषे पार्थिवा च नो युग्म भुवना सौभगानि चक्षाणो दिवो रजांसि दधे ऋक्षर त्यये जातवेदा युग्म हेत्याः प्रथमः ३
कशा इष्टाः सजोषा नयनं सोमाः करं काष्ठा युक्ता न व तत्ययौ वर्धत्यये । तु या मधुमत्तमा रुद्रा जीवा द्वितीयः ४
यत्त्वार्या ईषमाणा नेत्रभुवनकरं ब्रह्मत्यये लोचनम् ।
पृतना स्पर्धमाना भ्राजमाना धीराः कृष्णगर्भा विप्रमूर्ति मेधत्यये ।
ऋणया व्यक्ताः सनीडाश्चिता गोः सुता वि तृतीयः ५
अव्या मुनि रत्नधा नेत्रेन्द्रियार्हयाः । प्रजा वेदं न तोक पतेत्यये ।
शतदा धारा दृष्टि न पृष्ठ सुतमन्धो य ऊत्यये पादम्
वावशाना मित्राः शुक्रार्युगं सुदुघा युग्म उस्रियाश्चतुर्थः ६
ताजा अन्या अन्तमा अप्रा अयनमश्वा न शिशुत्यये
दाः समुद्रियार्वर्चोधा अपवथाः सर्वाः पंचमः ७
दुध्रा स्थिरा याते भी द द्गा दधानार्या वां मृज्यमाना अश्वसा मवा स्वानासः षष्ठः ८
मणा गृणाना न जमत्यये । अत्या हि यानाः पवमानाः करमुत त्याः पुनानाः सोमपाश्चक्षुः सप्तमः ९
अनागाः पदज्ञा वेधा अवा अयक्ष्मा अज्ञाता वृजना निष्ठाः प्रथमाः स्मृडीकाः प्रियाः संयोगेत्यये । सुगोपा देवया अरुणा यजमानास्ता नः सहोजास्ता जयन्तूग्रा अनाधृष्याः कुमारा वृद्धश्रवा अमित्रा अष्टमः १०
उच्यते धह संख्यानि सूत्राण्यासन् शमानके
एकादिरुद्रपर्यन्तमुदाहरणमस्ति हि ११
तेषु षड् वसुशक्तीश्च दशकं च न दृश्यते
एकस्य चैकरीत्या च नवसप्ततिदाहृतिः १२
एकस्य द्वितयत्वेन रुद्रसंख्या इहेरिताः
एकस्य चैव सूत्रस्य त्रितयं समुदाहृतम् १३
वेदसंख्याकसूत्राणां त्रितयं वर्तते स्फुटम्
भूतसंख्याकसूत्राणामेकमेव हि निश्चितम् १४
मुनिसंख्याकसूत्राणां नेत्रसंख्या प्रकीर्तिता
रुद्रसंख्याप्रदेशानामेकमेव प्रकीर्तितम् १५
एकमेषां विना संख्या शमानो भौतिकं विदुः
आहत्योदाहृतिः प्रोक्ता कुभूता संख्यया स्फुटम्
सूत्रेष्वेव विसर्गस्तु दशस्थलनिषेधभाक् १६
इति शमानं समाप्तम्

विसर्गलोपालोपौ
आप्लुतस्वारमध्ये तु यो विधिः परिकीर्तितः
तस्यान्येऽत्र तथा नेति ब्रूमो दृष्टान्तपूर्वकम् १७
पाहि विश्वस्या अरातेः पतिः पृथिव्या अयम् १८
तथा मह्न ऋतेकर्ममुदहर्यत आवश्मशा अधिश्रितः
रुधत् नाहुषीष्वा चर्कृषदा चैवमादि विलोकयेत् १९

रङ्गः
रङ्गस्तु द्विविधो ज्ञेयः स्वरपरो व्यञ्जनपरः
कथ्यते लक्षणं तस्य निदर्शनमिति स्फुटम् २०
नकारवैकृतं चात्र नासिक्यं रङ्ग उच्यते
पदमध्ये पदान्ते वा स्वरे च कलशाँ इति २१
व्यञ्जने प्रत्यये यच्च रङ्गस्तेन निदर्शनम्
दाशिवाँ वोऽथ गोमाँ य दधन्वाँ यो महाँ हि षः २२

विलिङ्घ्यम्
प्रणम्य भारतीं देवीं सर्वलोकैकमातरम्
नारायणं प्रवक्ष्यामि विलिङ्घ्यानि पदान्यहम् २३
एकारैकारवर्णौ यौ संहितायां विकारिणौ
तदन्तानि विलिङ्घ्यान्युच्यन्ते वेदवित्तमैः २४
पुरातनेऽतिरिक्तं यत्त्यक्त्वानुक्तं समोप्य च
ऋक्तन्त्रेण तु गृह्यन्ते सव्याख्येनैव तान्यपि २५
निमित्तत्वेन यद्ग्राह्यं गृह्यते पदमेव तत्
अपि चेत् स्याद्धि नान्यस्तु पूरणेऽत्र विधीयते २६
अग्ने पक्व वर्धसे कण्वे इदं ते ऊ ते दिवेदिवे
एते शरणे महाधने शृण्वे कर मिमे वर्ण सधमादे अयं ते प्रथमः २७
त्विषे ते अर्णवदुहते सोमे सिञ्चे के युग्म हर्यते इष्टये देवतातये दृष्टि हवामहे शचीपते पीतये युयोजते मदे चिकित्रे बाहु वरन्त सोमपीतये रिरिक्षे द्वितीयः २८
कामे भरणी मे शूलं यजामहे मध्ये नयन वावृते त्रिते स्तुषे गोपते पवसे ऋञ्जसे सुम्ने तृतीयः २९
स्कृण्वे बृहते वतये प्रिये ईयमाने चतुर्थः ३०
जरित्रे कोशे वृधे दधसे रथे सुदानवे योग नयनं वाजसातये द्युम्ने चक्षसे ईडते देववीतये पवते पञ्चमः ३१
विश्वचर्षणे स्थूणे हूयते श्रीणीषे पते श्रोत्रं घृष्वये सूरे युग्मकं करामहे योजते हरसे इद्धे ये युग्ममव्ये ववक्षेत्येधत्ते कृपे दमे मूर्ति ब्रुवते प्रस्नापयन्ते यज्ञे षष्ठः ३२
कलशे पिप्ये पुनते वृष्णे दृशे ववृषे वने जज्ञे उपाके वोचे येमिरे ऊतये स्वर मध्यंदिने विदे सप्तमः ३३
एकारविलिङ्घ्यं समाप्तम्

वन्दध्यै वैतसै मकरं तरध्यै हन्तवै सनतै सर्तवै विश्वा अम्नवै अश्नवै तस्मै अस्मै नेत्रस्तवेऽष्टमः ३४
ऐकारं समाप्तम्

अथो विलिङ्घ्यसूत्रस्य संख्याय कलिसंज्ञिका
एकादिपञ्चपर्यन्तमुदाहरणमाह हि ३५
पञ्चदशस्यैकं तु चतुर्विंशतिरेव च
एकस्य चैकरीत्या च धमसंख्या तथेरिता ३६
एकस्य द्वितयत्वेन राशिसंख्या तथेरिता
एकस्य चैव सूत्रस्य द्वितयत्वेन निश्चितम् ३७
वाणसंख्याकसूत्राणामेकमेवं प्रकीर्तितम्
आहत्योदाहृतिः प्रोक्ता संख्याय कलिसंज्ञिका ३८
एकमेषां विना संख्या विलिङ्घ्ये भौतिकं विदुः
ऐकारस्य च सूत्राणि दशसंख्या समीरिता ३९
एकस्य चैकरीत्या च वसुसंख्यास्तथेरिताः
एकस्य द्वितयत्वेन करसंख्या तथेरिता
आहत्योदाहृतिः प्रोक्ता राशिसंख्यासमेन तु ४०
विलिङ्घ्यं समाप्तम्

नपरतपरे
नत्वा विनायकं देवं सर्वसंपत्करं परम्
शौरिसूनुः प्रवक्ष्यामि नवं नतपरं पदम् ४१
लक्षणं क्रियते चादि परं नाम नवं मया
दुर्ज्ञानं दुष्पठं यत्तु सापेक्षं चाक्रमं तथा ४२
तत्परित्यज्य व्याख्यानं चकारापि च पौष्कलम्
नारम्भणीयमेतच्च स्वत एव व्यवस्थितेः ४३
प्रसिद्धाध्ययनात्तत्र केचित् संदिह्यते भृशम्
कुतोऽवसीयते कैश्चिन्निपुणैश्च महात्मभिः ४४
निश्चितं स्वानुरूपेण लक्षणेनावसीयते
चादौ विकारिणौ नेतः पदान्तो विषयोऽस्य सः ४५
अभिधेयौ च तावेव तज्ज्ञानं च प्रयोजनम्
न छजेषु तवर्गीये थकारेण विवर्जिते ४६
चतुष्टये मकारे च लकारे च परे स्थिते
विकारिणः पदान्तो यस्तकारे नपरश्च यः ४७
दृश्यते येषु तौ ज्ञातुं प्रवक्ष्यामि पदान्यहम्
तकारान्तं पदं पूर्वमकारादिक्रमेण तु
तकारान्तं ततोऽनेन क्रमेणैव च गृह्यते ४८
इति परिभाषा
महान्नभोविन्नासन् नर्धानान्न त्वा महान्परेः
नि यामं चित्र देवान् देवयास्मान्निधयेव च ४९
शीर्वान्ममत्वर्णवान् जगम्याश्च हरिवान्दधे
मघवन्मातथा अग्मन्देवाहन्नवतीर्नव ५०
महान्मित्रो न रेभन् मितेव सद्म व्रजन्नप
इन्वन्मदाय पश्यं जन्मानि सू संयमं न च ५१
वि यमन्न समुद्यँल्लोकानिमांल्लोकमरोचयः
न्यस्मिन् दध्रे तु क्रंदन्देवा अजीजनयन्मधु ५२
ऊर्मिन्न सिन्धुः शत्रून्मदे सोमस्य च वै बुधाः
म दस्यून्तनूभिरग्मन्मंदी परि ज्मन्मही तथा ५३
विभ्राज ज्योति देवान्मत्सि गच्छं जार एव हि
अप सेधन् दुरिता सर्दधन्वान् मत्सरिंतमः ५४
मधुमान्द्रप्सः सामन्तपता धर्मन्दिवस्तथा
मघवन्न नकारान्तं पदमेव प्रकीर्तितम् ५५
नपरं समाप्तम्
अथो नपरसूत्राणि गलसंख्या समीरिता
एकस्य चैकरीत्या च बहुसंख्यास्तथेरिताः ५६
एकस्य द्वितयत्वेन एकसंख्या तथेरिता
आहत्योदाहृतिः प्रोक्ता वनसंख्यासमेन तु ५७
इति नपरं समाप्तम्

अथ तपरसन्धिः
यन्मातृः स्यान्नः सूनुर्बोध त्मनार्चिन्न ओहसे
केचिन्नियेमुरिन्न पाशिन इन्मघवत्तथा ५८
त्वमिन्न आप्यमस्मिन्नि रीरमन् तव तन्न ऊ
उपोपेन्नु च भूय इन्नु ते तन्नो विदद्वसो ५९
सोम इन्मदस्तमिन्महत्सु त्यन्माययावधीः
यथा चिन्नो तव त्यन्न गोमन्न इन्नु पावकः ६०
तन्नो मित्रः सहस्तन्न असदन्मातरं पुरः
व्यख्यन्महियो यन्मनः शूलस्तन्मयि संकृतिः ६१
उन्नयामि करं भुवन्नेमानामिंद्र इन्न तु
विश्वस्यावीवशन्मतिमुद्यन्नक्षत्रमर्चिवत् ६२
सुशक्तिरिन्म भुवन्मित्रः कुविन्नो बृहन्मते
चिकित्विन्म मनसीदन्नि होता तन्नः पुनान तु ६३
अस्वापयन्नि वाजवन्मधु यन्मन्यसे वरे
विश्वविन्मन जमदग्निवन्नश्चिन्निदधे पदम् ६४
मनश्चिन्मन तन्मे जुषस्वातिरन्मदे तथा
गमन्नारे तन्न मोघमन्यत् मघवनिन्मह ६५
यत्र क्वचन तेनैव पूर्वदृष्टमवेक्षते
न तान्ता पदमालेयं न परत्रोत्तराक्षरा ६६
सगुणा वेदविदुषा रचिता कर्णभूषणम्
अथो तपरसूत्राणि यमसंख्या समीरिता ६७
एकस्य चैकरीत्या च वथसंख्या समीरिता
एकस्य द्वितयत्वेन एकसंख्या समीरिता ६८
एकस्य त्रितयत्वेन मूर्तिसंख्या तथेरिता
आहत्योदाहृतिः प्रोक्ता महसंख्यासमेन तु ६९
इति तपरं समाप्तम्

अवर्णि
अवर्णिन्यनुक्तं समोप्यातिरिक्तम्
परित्यज्य दुष्कीर्तितं चाभिवीक्ष्य
ककारादिवर्णक्रमेणाहमेतत्
सुवृत्तिं करिष्यामि विस्पष्टवाच्याम् ७०
ओदेदवर्णं सछन्नं संहितायां पदादिगम्
अवर्णं ज्ञातुमस्माभिरिदं शास्त्रं प्रणीयते ७१
आगाद्भूतमभरच्च असदत्पादमेव च
अग्निमतनो अप्राद्य आयं गौः पृश्निरक्रमीत् ७२
आरोहन्नागमन्नरुहाम् नेत्रारुहरीक्षणम्
असदर्नेत्रान्तरीक्ष्या विशदग्ने जति स्मृतम् ७३
अथ चावर्णिसूत्राण्येकविंशतिरेव च
एकस्य चैकरीत्या च ऋत्विक् संख्या तथेरिता ७४
एकस्य द्वितयत्वेन मूर्तिसंख्या तथेरिता
वेदसंख्याकसूत्राणामेकमेव हि निश्चितम् ७५
भूतसंख्याकसूत्राणामेकमेवं प्रकीर्तितम्
आहत्योदाहृतिः प्रोक्ता गयसंख्यासमेन तु ७६
तेऽग्न इत्था नरोऽग्निः सुयशोऽग्ने भानवेऽर्च दे
वचोऽग्नये तु वोचेऽरि त्वायवोऽभि वसोऽभि तु ७७
सतोऽरुणप्सुर्नोनुमोऽदु पाशिनो नवेऽसि च
विपश्चितोऽभिवृधेऽस्मान् जूतिर्नो ह्योऽपीपेम तु ७८
क्षपमाणो अंशुना नरोऽपीप्यन् महेवसे शची
जायमानोऽशत्रु यथा नोऽविता जग्मयेऽत्रिणः ७९
इन्द्र तेऽस्ति मन्यवेहन्निन्दवेऽश्वपते नोऽविशत्
अपोऽर्चन्नद्रिवोऽनुत्तं भरन्तोऽवस्यवस्तथा ८०
आशवोऽस्तं दधोऽस्माँ इ विपश्चितो नृतोऽप इ
द्युमत्तमोऽभि मृधोऽप सातमोऽभ्यभवोंऽगिरः ८१
मर्जयन्तोऽछ गर्भोऽवृण्योजोऽजनेन्दवोऽस्मभि
अरातयोऽर्यरिन्दवोऽसिष्यदन्त सुतोऽव्य च ८२
षु नोऽव सह यशोऽथ ते मन्वसा सदोऽह तु
पादोऽस्येह विमानोऽज पादोऽस्य साद्रिवोंऽशु च ८३
तुभेरश्वा शिशुगर्भोऽग्नि द्वौ तमोऽवे रजोऽप तु
सृणीकोऽग्नि नमोऽस्यद्भ्यर्नमोऽन्नाय नमोऽन्नप ८४
वर्चोऽसि मनोऽसि मनोऽजयदिन्द्रोऽजयत्तथा
प्राणोऽपानर्यशोक्रान् च इन्दवोऽस्तं वृषायते ८५
मधुना पयोऽथ ऊर्मयोऽभिक्षरं गवेभ्य तु
अपोऽग्रियः पदेर्चंतो चतुरोऽस्मभ्यमुक्थिनः ८६
वनामहेऽति सेतुं धिया हितोऽभ्यद्रुहोऽपि तु
इन्दोऽस्मभ्यं श्रियोऽग्नि देववीतयेऽव्याश्चुतोऽसृमि ८७
विद्युतोऽग्नेरिमेऽभिस्तो र सेन्य वहतोऽप्रति
साधनोऽयं धियोऽग्ने तु स्तुभोऽभि धेनवस्तथा ८८
इन्दवोऽभि वत्सं विचक्षणो व्यार्यसेऽवि च
वृष्णोऽग्ने गोमतोऽपावरभिष्टुतोऽपकृतोऽतिराम् ८९
नीयतेऽन्तरथोऽव्या रसोऽव चष्टे शुभायते
इषितोऽभि पुनानोऽविभिर्नोऽजस्रया केतवः ९०
गृणानोऽभि सु नोऽपां शर्धतोऽभिशोदितेऽनागाः
इदन्धसो स्वतवसेऽरुणाय अपोऽति शूर त ९१
मा शिवासोऽव धीयते सृजिरेऽरुषीरधि
वाजेषु नोऽव मीढुषोऽनाधृष्टाभिः समिध्यते ९२
वृणीमहे ईमहे अग्निमायवोऽनुष्टुवन्ति पू
ऊतयेऽस्मिन् युयोधि नोऽदेवा वृष्ण्यंशवोऽस्म तु ९३
गविष्टयेऽग्ने गायन्तोऽवसोऽस्मानाहुवेऽग्नि तु
पित्वेऽवस वाहनोऽग्ने गावोऽरुषीररातयो ९४
अवासृजो वीरुधोऽन्तः कामयन्ते गृहेऽमृतम्
संक्रन्दनो नि स्वोऽरणः गाहमानोऽदयस्तथा ९५
युध्योऽस्माकं बाहवोऽनाशीर्षाणोऽहय वै बुधाः
मर्मृजानोऽविभि षोऽछावाजं नैतश स्मृतः ९६
अथ चावर्णिसूत्राणि कुभुवासंख्यया स्फुटम्
एकस्य चैकरीत्या च यमला संख्यया स्फुटम् ९७
एकस्य द्वितयत्वेन एकसंख्या तथेरिता
आहत्योदाहृतिः प्रोक्ता यवमो संख्यका स्फुटम् ९८
उप त्वाग्ने विजावाग्ने साते सुम पुराश्वहया
पूषा भुवद् विश्वथातन स्थूणाँसत्र चैव हि ९९
अतः पर गछन्न त्वाद्रिषः महित्वाद्या ममार
शुक्रस्य त्वाभि माप स्था माययावधीरर्च तु १००
मघवन्मातथा विश्वाभि धा रुचाभि गा इहि
जनिताग्नेर्धारयापो ऋतावापोर्मिणाव्य तु १०१
एव माव च मध्वा हि गन्तासि रोचनास्य तु
वृत्वात्यतिष्ठत् सं त्वा नोनवुर्मूर्धाभवाद्दिवः १०२
श्रद्धया श्रद्धचारिण्यः समो चाभि च दक्षिणा
प्रतिष्ठासि विपानया चाग्निनाग्निः समिध्यते १०३
इन्द्र त्वास्मिन्मावराणि न किष्ट्वानु म ओजसा
रूपाभ्यर्षसि दस्युहाभवर्वृत्रहणापरा १०४
यस्य वार्यम येवाद रोजसाभि रनूषता
धर्तासि चित्वाप्सु मदा वृत्रहाज सखाश्ववत् १०५
हिरण्याभि वृत्रहावधीन्मा शिवासोवक्रमुः
युधाभवन्मधुनाभि भुवनाभि सदासरः १०६
विभक्तासि व त्मनाग्निं सेनयाग्ने तवोत्या
बृहतासिक्नी नमसावटमुच्च तु १०७
मही न धारा ऊत्याभि प्र राजाप्यस्तविष्यते
सजित्वानापरा चित्रारुषी उत सखाश्विनोः १०८
दिवाभिपित्वेऽवसागमिष्ठाः प्रास्तासि शत्रवे
पितासि नस्तमसापव्रते पद्यस्व मामीषाम् १०९
रक्षोहामित्रान् राजामृतेनानु व यथासथ
जयन्तं त्वानु देवा मदोक्तो ह्रस्वस्य संग्रहः ११०
इति ह्रस्वसंग्रहणं समाप्तम्

अथ चावर्णिसूत्राणि सवसंख्या समीरिता
एकस्य चैकरीत्या च सवसंख्यास्तथेरिताः १११
आहत्य त्वत्र सूत्राणि रलघे संख्यका स्फुटम्
अतः परं पादादौ वर्तमानस्या वर्णः संगृह्यते ११२
वीरयाशव ये त्वारभ्य यथाजौ वृषाविश
ज्योतिषावीच्च युज्यावृणीमहे त्वावसो गमी ११३
मारे अस्मन् मश्विना त विश्वायुश्च इषायुषा
सातये पुरन्ध्या विवासैष वर्णिः सुनिर्मितः ११४
ऊत्यागमच्च पूर्वागाच्छ्वेत्यागा सवना गहि ११५
अथ चावर्णिसूत्राणि तिथिसंख्या समीरिता
एकस्य चैकरीत्या च पक्षसंख्यास्तथेरिताः ११६
आकारान्तं स्वरितान्तमाङ्परं यत्र दृश्यते
ऊत्यागमच्च पूर्वागा पुरन्ध्याव्यश्विनातता ११७
वृषाविशत श्वेत्यागाद्युज्यावृणीमहे
आकारादाङ्परश्चेत्स्यादकारस्तु परो भवेत्
पूर्वागादिति वै ज्ञेयं श्वेत्यागादिति च द्वयम् ११८
अवर्णि समाप्तम्

अनवग्रहम्
मुनिमानसमं धानमथितागमसागरात्
उदिताय नमो भूयादमृताय मुरारये ११९
गुणत्रयविहीनाय जगत्त्रयविधायिने
श्रुतित्रयदिशे शश्वत् पुरत्रयमथे नमः १२०
नमसस्कृत्य विनेतारं विघ्नानामनुशिष्यते
अधुना लक्षणं वक्ष्ये अनवग्रहसंज्ञकम् १२१
इति परिभाषा
त्वमग्ने यज्ञ एह्यू षु त्वामग्ने सु प्रति त्य तु
अग्निं वो आदित् प्रत्नस्याग्निस्तिग्मे युंक्ष्व पाहि नः १२२
श्रुष्ट्यग्ने तु दधन्वेव तदग्ने द्युम्नमिन्द्र तु
त्वमिन्द्र बलवयमिं भिंधीहेवोप नो हवम् १२३
सोमानां स्वर देवानां यदिन्द्रो अन गौर्धया
इन्द्रायम द्वनेऽभि त्वा प्र व इन्द्र महाँ क इ १२४
आयाहि सुषु गव्योषु सदा वारं त इन्द्र तु
इन्द्रमिद् गाथिनो वृ यथा गौर यदिन्द्र ना १२५
एवा ह्यसि विश्रायन्तस्तवेदिन्द्र प्र यो रि तु
आ त्वा सोमस्य यद्यावासावि सोम स पूर्व्य च १२६
यदी वह स घा यस्ते ऋचं सामेन्दुमिन्द्र तु
इन्द्र सुतेषु यत्सोम एष ब्रह्म भगो न चि १२७
सोममहेऽग्निं तं मन्ये ब्रह्मा णेमा नु कं तथा
आ याहि वनसाग्ने त्वं वि स्रु विश्वस्य सृक्षत १२८
स्वादिष्ठयेन्द्रो विश्वस्य वृषा पवस्व धारया
इन्दुः पविः पवस्वेन्दो तिस्रो वाच उदीरते १२९
परि स्वाना सर्जि रथ्यः प्र यद्गाया पवस्व धा
स पवस्वानु प्रत्नास तरत्स म इषे पव १३०
अर्षा सोम मन्द्रया सो प्र न इन्दो प्र गायत
सोम उ ष्वाण पवमाना असृ प्र त्वसर्जि र १३१
सोमः पवास्य प्रेषा हे त्वपामिवे महत्त तु
अयं पूषा सुतासो म परि त्यं प्र पुनान तु १३२
असावि सोमो सोमः प्र पवते हर्यभि द्यु च
एषस्य धेमं वृषणमेना विश्व त्वमेत तु १३३
इन्द्रस्यानु वसन्तश्च हरी ता दृश्र यद्वर्चः
अग्न आयूंषि त्रिंशद्धा एवा ह्येना पवा हि षः १३४
यो मांहिष्ठ आ इ स्तोभं विपश्चितेः प्र सो मदे
वृषा सोम तया पवस्व दे वृषा पवस्व धा १३५
अयं पूषा तु यद्याव तवाहं सो त्वसृक्षत
अर्षा सोम पुनानो अक्र पघ्नन् पव आयुषक् १३६
अया पवस्व चाध्वर्येतो न्विन्द्र मेन्दुमिन्द्र तु
कया त्वं नः सोम मह त्वमिंद्र प्र समस्य तु १३७
इन्द्रमिद्देव पवमाना अ स रेवाँ इ प्रसोऽग्नि रि
अग्निर्जागा त्वेन्द्र याहि यमक्ष इति संख्यकाः १३८
अनवग्रहलक्षणं समाप्तम्
सप्तलक्षणनामायं ग्रन्थः समाप्तिमगमत्