परिचयः
पाठः
प्रतिज्ञा
अथ शिक्षां प्रवक्ष्यामि
पाणिनीयं मतं यथा
शास्त्रानुपूर्व्यं तद् विद्याद्
यथोक्तं लोकवेदयोः १
प्रसिद्धम् अपि शब्दार्थम्
अविज्ञातम् अबुद्धिभिः।
पुनर्-व्यक्ती-करिष्यामि
वाच उच्चारणे विधिम् २
वर्णाः
+++(स्पष्टीकरिष्यमाणया गणनया)+++
त्रिषष्टिश् चतुःषष्टिर् वा
वर्णाः सम्भवतो मताः।
प्राकृते संस्कृते चापि
स्वयं प्रोक्ताः स्वयम्भुवा ३
स्वरा विंशतिर् एकश् च
+++(अ-इ-उ-ऋ x १-२-३ मात्राः। ऌ। ए-ऐ-ओ-औ x २-३ )+++
स्पर्शानां पञ्च-विंशतिः।
+++(क-च-ट-त-प-वर्गाः।)+++
यादयश् च स्मृता ह्य् अष्टौ
+++(यरलवशषसहाः।)+++
चत्वारश् च यमः स्मृताः ४+++(4)+++
+++(पलिक्क्ँनीः चख्ख्ँनतुः जग्ग्ँमतुः, जघ्घ्ँनतुः इत्यत्र ककारसरूपादयो यमाः। कोऽत्र विशेषः??? )+++
अनुस्वारो विसर्गश् चᳲ
कᳲपौ चापि पराश्रितौ।
दुःस्पृष्टश्+++(=ळकारः)+++ चेति विज्ञेयो
ऌकारः प्लुत एव च +++(६४-तमम्)+++ ५
शब्दोत्पत्तिक्रमः
आत्मा बुद्ध्या समेत्याऽऽर्थान्
मनो युङ्क्ते विवक्षया।
मनः कायाग्निम् आहन्ति
स प्रेरयति मारुतम् ६
मारुतस् तूरसि चरन्
मन्द्रं जनयति स्वरम्।
प्रातःसवन-योगं तं
छन्दो-गायत्रम् आश्रितम् ७
कण्ठे माध्यन्दिन-युगं
मध्यमं त्रैष्टुभानुगम्।
तारं तार्तीय-सवनं
शीर्षण्यं जागतानुगम् ८
सोदीर्णो मूर्ध्न्य् अभिहतो
वक्त्रम् आपद्य मारुतः।
वर्णाञ् जनयते तेषां
विभागः पञ्चधा स्मृतः ९
विभागाः
स्वरतः कालतः स्थानात्
प्रयत्नानुप्रदानतः।
इति वर्णविदः प्राहुर्
निपुणं तं निबोधत १०
उदात्तश् चानुदात्तश् च
स्वरितश् च स्वरास् त्रयः।
ह्रस्वो दीर्घः प्लुत इति
कालतो नियमा अचि ११
उदात्तादि-स्वराः
उदात्ते निषाद-गान्धाराव्
अनुदात्त ऋषभ-धैवतौ।
स्वरित-प्रभवा ह्येते
षड्ज-मध्यम-पञ्चमाः १२
स्थानानि
अष्टौ स्थानानि वर्णानाम्
उरः कण्ठः शिरस् तथा।
जिह्वा-मूलं च दन्ताश् च
नासिकोष्ठौ च तालु च १३
ऊष्मणो विसर्गविकाराः
ओभावश् च विवृत्तिश् च
शषसा रेफ एव च।
जिह्वामूलम् उपध्मा च
गतिर् अष्ट-विधोष्मणः +++(विसर्गविवारा शुद्ध-विसर्गम् अन्तरा)+++ १४
+++(ग्रामोदनम् इत्यत्र यथा गुणसन्धौ)+++ यद्य् ओभाव-प्रसन्धानम्
उकारादि-परं पदम्।
स्वरान्तं तादृशं विद्याद्,
यद् अन्यद् व्यक्तम् ऊष्मणः १५
स्थानानि
हकारं पञ्चमैर् युक्तम्
अन्तःस्थाभिश् च संयुतम्।
औरस्यं तं विजानीयात्
कण्ठ्यम् आहुर् असंयुतम् १६
कण्ठ्याव् अहाव् इचुयशास्
तालव्या ओष्ठजाव् उपू
स्युर् मूर्धन्या ऋटुरषा
दन्त्या ऌतुलसाः स्मृताः १७
जिह्वामूले तु कुः प्रोक्तो
दन्त्योष्ठ्यो वः स्मृतो बुधैः।
ए ऐ तु कण्ठ-तालव्या
ओ औ कण्ठोष्ठजौ स्मृतौ १८
४ सन्ध्यक्षराणि
अर्धमात्रा तु कण्ठ्यस्य
ह्य् एकारौकारयोर् भवेत्
ओकारौकारयोर् मात्रा +++(कण्ठ्यस्य)+++
तयोर् +++(→ ऐऔगणस्य एओगणस्य च)+++ विवृत-संवृतम् +++(अकारवचनम् आदौ)+++१९
संवृतं मात्रिकं ज्ञेयं
विवृतं तु द्वि-मात्रिकम्।
घोषा वा संवृताः सर्वे
अघोषा विवृताः स्मृताः २०
स्वर-करणम्
स्वराणाम् ऊष्मणां चैव
विवृतं करणं स्मृतम्
तेभ्योऽपि विवृताव् एङौ
ताभ्याम् ऐचौ तथैव च २१
स्थानानि
अनुस्वार-यमानां च
नासिका स्थानमुच्यते
[उपध्मानीय ऊष्मा च
जिह्वामूलीय-नासिके +++(→अनुस्वारे)+++]
अयोगवाहा विज्ञेया
आश्रय+++(स्वर)+++स्थान-भागिनः २२
अनुस्वार-श्रुतिः
अलाबु+++(=सोरेकायिफल)+++-वीणा-निर्घोषो
दन्त-मूल्यः स्वरानुगः।
अनुस्वारस् तु +++(परिवर्तनं विना)+++ कर्तव्यो
नित्यं ह्रोः शषसेषु च २३
+++(अनुस्वारः परसवर्णस् तु स्याद् अन्यत्र।)+++
ओष्ठ-विग्रहणम्
अनुस्वारे विवृत्त्यां तु
विरामे चाक्षर-द्वये
द्विर् ओष्ठौ तु विगृह्णीयाद्
यत्रौकार-वकारयोः २४
व्याघ्री यथा हरेत् पुत्रान्
दंष्ट्राभ्यां न च पीडयेत्
भीता पतन-भेदाभ्यां
तद्-वद् वर्णान् प्रयोजयेत् २५+++(5)+++
रङ्गवर्णाः
यथा सौराष्ट्रिका नारी
तक्रँ इत्यभिभाषते
एवं रङ्गाः प्रयोक्तव्याः
+++(उदाहरणाय)+++ “खे अराँ इव खेदया “२६
+++(तथा लोकाँ अकल्पयन्। नॄँरभि। उग्रँ ओकः।)+++
रङ्ग-वर्णं प्रयुञ्जीरन्
नो ग्रसेत् पूर्वम् अक्षरम्
दीर्घ-स्वरं प्रयुञ्जीयात्
पश्चान् नासिक्यम् आचरेत् २७
+++(“देवाँ आसादयाद्” इत्यत्र यथा)+++
हृदये चैक-मात्रस् तु
अर्ध-मात्रस् तु मूर्धनि
नासिकायां त्व् अथार्धं च
रङ्गस्यैव द्विमात्रता २८
हृदयाद् उत्कटे तिष्ठन्
कांस्येन स्वम् अनुस्वरन्
मार्दवं च द्वि-मात्रं च
“जघन्वाँ२” इति निदर्शनम् २९
कम्पः
मध्ये तु कम्पयेत् कम्पम्
उभौ पार्श्वौ समो भवेत्
सरङ्गं कम्पयेत् कम्पं
“रथीवेति” +++(र॒थी॑व = र॒थी + इ॑व॒)+++ निदर्शनम् ३०
पाठ-सौष्ठवम्
एवं वर्णाः प्रयोक्तव्या
नाव्यक्ता न च पीडिताः
सम्यग्-वर्ण-प्रयोगेण
ब्रह्म-लोके महीयते ३१
गीती शीघ्री शिरःकम्पी
तथा लिखित-पाठकः
अनर्थज्ञो ऽल्प-कण्ठश् च
षडेते पाठकाधमाः ३२+++(5)+++
माधुर्यम् अक्षर-व्यक्तिः
पदच्छेदस् तु सुस्वरः
धैर्यं लय-समर्थं च
षडेते पाठका गुणाः ३३+++(5)+++
शङ्कितं भीतम् उद्घुष्टम्
अव्यक्तम् अनुनासिकम्
काकस्वरं शिरसिगं
तथा स्थान-विवर्जितम् ३४
उपांशु दष्टं त्वरितं निरस्तं
विलम्बितं गद्-गदितं प्रगीतम्
निष्पीडितं ग्रस्तपदाक्षरं च
वदेन् न दीनं न तु सानुनास्यम् ३५+++(5)+++
प्रातः पठेन् नित्यम् उरःस्थितेन
स्वरेण शार्दूल-रुतोपमेन
मध्यन्दिने कण्ठ-गतेन चैव
चक्राह्व-संकूजित-सन्निभेन ३६
तारं तु विद्यात् सवने तृतीये
शिरोगतं तच् च सदा प्रयोज्यम्
मयूर-हंसान्य-भृत-स्वराणां
तुल्येन नादेन शिरःस्थितेन ३७
प्रयत्नाः
+++(उच्चारणात् र्पाग् आभ्यन्तरप्रयत्नाः-)+++
अचोऽस्पृष्टा यणस् त्वीषन्
नेम+++(=अर्ध)+++-स्पृष्टाः शलः स्मृताः
शेषाः स्पृष्टा हलः प्रोक्ता
निबोधानु+++(शब्द)+++प्रदानतः +++(बाह्यप्रयत्नान् अग्रे)+++ ३८
ञमो ऽनुनासिका, न ह्रौ,
नादिनो हझषः स्मृताः
ईषन्-नादा यणो जश्
च श्वासिनस् तु खफादयः ३९
ईषच्-छ्वासांश् चरो विद्याद्
शास्त्रप्रशंसा
गोर्+++(=वाचः)+++ धामैतत् +++(शिक्षाशास्त्रम्)+++ प्रचक्षते
दाक्षीपुत्रः पाणिनिना
येनेदं व्यापितं भुवि ४०
छन्दः पादौ तु वेदस्य
हस्तौ कल्पोऽथ पठ्यते
ज्योतिषाम् अयनं चक्षुर्
निरुक्तं श्रोत्रम् उच्यते ४१+++(4)+++
शिक्षा घ्राणं तु वेदस्य
मुखं व्याकरणं स्मृतम्
तस्मात् साङ्गम् अधीत्यैव
ब्रह्मलोके महीयते ४२
मुद्राः
उदात्तम् आख्याति वृषोऽङ्गुलीनां
प्रदेशिनी-मूल-निविष्ट-मूर्धा
उपान्त-मध्ये स्वरितं धृतं च
कनिष्ठिकायाम् अनुदात्तम् एव ४३
उदात्तं प्रदेशिनीं विद्यात्
प्रचयं मध्यतोऽङ्गुलिम्
निहतं तु कनिष्ठिक्यां
स्वरितोपकनिष्ठिकाम् ४४
पदे स्वरविन्यासः
अन्तोदात्तम् आद्युदात्तम्
उदात्तम् अनुदात्तं नीच+++(=अनुदात्त)+++स्वरितम्
मध्योदात्तं स्वरितं
द्व्युदात्तं त्र्युदात्तम् इति नवपदशय्या ४५
+++(उदाहरणानि -)+++
अ॒ग्निः सोमः॑ प्र वो वी॒र्यं॑ ह॒विषां॑
स्व॑र् बृह॒स्पति॑र् इन्द्रा॒बृह॒स्पती॑।
अग्निर् इत्य् अन्तोदात्तं सोम इत्य् आद्युदात्तं
प्रेत्य् उदात्तं व इत्य् अनुदात्तं वीर्यं नीच-स्वरितम् ४६
हविषां मध्योदात्तं
स्वरिति स्वरितं
बृहस्पतिर् इति द्व्युदात्तम्
इन्द्राबृहस्पती इति त्र्युदात्तम् ४७
हस्तचालनम्
अनुदात्तो हृदि ज्ञेयो
मूर्ध्न्य् उदात्त उदाहृतः
स्वरितः कर्णमूलीयः
सर्वास्ये प्रचयः स्मृतः ४८
मात्रागणना
चाषस्+++(=blue jay/ kingfisher)+++ तु वदते मात्रां
द्विमात्रं चैव वायसः
शिखी रौति त्रिमात्रं तु
नकुलस् त्व् अर्ध-मात्रकम् ४९
पाठ-सौष्ठवम्
कुतीर्थाद् आगतं दग्धम्
अपवर्णं च भक्षितम्
न तस्य पाठे मोक्षोऽस्ति
पापाहेर् इव किल्बिषात् ५०
सुतीर्थाद् आगतं व्यक्तं
स्वाम्नाय्यं सुव्यवस्थितम्
सुस्वरेण सुवक्त्रेण
प्रयुक्तं ब्रह्म राजते ५१
मन्त्रो हीनः स्वरतो वर्णतो वा
मिथ्या प्रयुक्तो न तम् अर्थमाह
स वाग्-वज्रो यजमानं हिनस्ति
यथेन्द्रशत्रुः स्वरतोऽपराधात् ५२+++(5)+++
अनक्षरम् +++(पठिते)+++ अनायुष्यं +++(भवति)+++
विस्वरं +++(पठिते)+++ व्याधिपीडितम्
अक्षताशस्त्र-रूपेण
वज्रं पतति मस्तके ५३ +++(4)+++
हस्त-हीनं योऽधीते
स्वर-वर्ण-विवर्जितम्
ऋग्-यजुः-सामभिर् दग्धो
वियोनिम् अधिगच्छति ५४
हस्तेन वेदं योऽधीते
स्वर-वर्णार्थ-संयुतम्
ऋग्-यजुः-सामभिः पूतो
ब्रह्मलोके महीयते ५५
पाणिनिस्तुतिः
शङ्करः शाङ्करीं प्रादाद्
दाक्षीपुत्राय धीमते
वाङ्मयेभ्यः समाहृत्य
देवीं वाचम् इति स्थितिः ५६
येनाक्षर-समाम्नायम्
अधिगम्य महेष्वरात्
कृत्स्नं व्याकरणं प्रोक्तं
तस्मै पाणिनये नमः ५७
येन धौता गिरः पुंसां
विमलैः शब्द-वारिभिः
तमश् चाज्ञानजं भिन्नं
तस्मै पाणिनये नमः ५८
अज्ञानान्धस्य लोकस्य
ज्ञानाञ्जन-शलाकया
चक्षुर् उन्मीलितं येन
तस्मै पाणिनये नमः ५९
त्रिनयन-मुख-निःसृताम् इमां
य इह पठेत् प्रयतः सदा द्विजः
स भवति पशु-पुत्र-कीर्तिमान् सुखम्
अतुलं च समश्नुते दिवीति दिवीति ६०
इति परिभाषा
इति पाणिनीय शिक्षा