अनुनासिकम्

प्रादेशिकोच्चारणानि

रङ्गचिह्नं लिखितेऽलिखितेऽपि वा, अनुनासिकस्य व्याहरणं कथं वा कर्तव्यम् इति मुख्यः प्रश्नोऽत्र वर्तते । अस्यास्य देशभेदेन विभिद्यते समभिन्याहरणम् । ‘गँ, गुँ, ग्वं, ग्वँ,’ इत्येवम् आदीनि क्रियन्तेऽस्योदीरणानि । एतान्य् असमीचीनान्य् एवेति प्रतिभाति, यतस् तत्र गकारस्य कण्ठ्यस्य, उकार-वकारयोर् ओष्ठ्य-योग-दने नास्ति प्रमाण-लेशोऽपि । अनुस्वारस्य नासिकैव स्थानम् , अनुनासिकस्य तु मुखनासिके । एवं सति स्थानान्तरयोः कण्ठ्यौष्ठयोवर्णयोर् भाषणं नैव कथंचिद् अपि प्रमाणयितुं शक्यते । व्याहरण-शुद्धाशुद्धत्व-विनिर्णये स्थानविचार एव बलवत्तरं प्रमाणं भवति ।

  • सात्वळेकरश्रीपदः सामवेदसंहिताभूमिकायाम्।

पाणिनीय-शिक्षा-मतम्

अनुनासिकोच्चारण-विषये यद् उक्तं पाणिनीयायां शिक्षायां तत् तु तत्वतो ऽनुसन्धेयम् अत्र । … एवं सति, तस्य रङ्गस्य ‘ग्वँ, ग्वं, गुं, ’ इत्यादीनि मार्दवहीनानि कठोराणि स्थानव्यभिचार-दोष-दुष्टानि व्याहरणानि, सर्वथा त्याज्यान्य् एवेति । एवं शषसहरेफेषु परेषु सत्सु अनुनासिक-पूर्वं स्वरं दीर्घम् उच्चार्य नासिकायाम् एवानुनासिक गुञ्जयित्वा, तदूर्ध्वम् अग्रेवासिनं वर्णं प्रयुञ्जीयात्, यथा ’ वसते’ इत्यस्य ’ वा अंसते ’ इति । न तु ‘वग्वँसते’ इति ।

  • सात्वळेकरश्रीपदः सामवेदसंहिताभूमिकायाम्।

किञ्चात्र मे प्राक्तनवर्णस्य दीर्घीकरणम् अयुक्तम् एवेति भाति (केषुचिद् वेदपाठपरम्परासु सद्यो दृश्यमानं चेद् अपि)।