३ २ क्रियान्वयनाय केचन उपायाः

एवं विविधेषु क्षेत्रेषु सरलमानकसंस्कृतस्य क्रियान्वयनाय अधोनिर्दिष्टाः केचन उपायाः अनुसर्तुं शक्याः -

  • सरलमानकसंस्कृतसम्बद्धान् अंशान् समायोज्य, आवश्यकतां सुष्ठु प्रतिपाद्य लघुपुस्तकं प्रकाशनीयम् ।
  • एतत् अधिकृत्य सङ्गोष्ठ्यः आयोजनीयाः । तासु एतद्विषये चर्चा, व्यवहारपथं प्रति आनयनविषये योजनाः च भवेयुः।
  • सरलसंस्कृतेन लेखनम् इच्छामात्रेण न भवति । विद्वांसः अपि अकृताभ्यासाः सरलमानकसंस्कृतेन लेखितुम् अर्हेयुः । अतः एतादृशलेकनाभ्यासाय कार्यशालाः आयोजनीयाः ।
  • सरलमानकसंस्कृतेन लिखिताः कृतयः प्रकाशनीयाः।
  • सरलमानकसंस्कृतोपनिबद्धानां शिक्षणसामग्रीणां निर्माणं महता प्रमाणेन स्यात् । रघुवंशशाकुन्तलादीनां वस्तु सरलसंस्कृतेन लिखितं स्यात् ।
  • विज्ञानगणितादिसम्बद्धानि पाठ्यपुस्तकानि प्राथमिकस्तरीयाणि माध्यमिकस्तरीयाणि च सरलमानक-संस्कृतेन अनुवक्तव्यानि, नूतनतया सज्जीकरणीयानि वा । तादृशानां पुस्तकानाम् उपयोगे आसक्ताः विद्यालयाः तु बहवः सन्ति । पाठ्यसामग्रीणाम् एव अभावः विशेषतः ।
  • शिक्षाशास्त्रपाठ्यक्रमे ‘सरलमानकसंस्कृतम्’ इति विषयः कश्चन पाठ्यांशः स्यात् । छात्राध्यापकाः सरलमानकसंस्कृतेन लेखनाय प्रशिक्षणं प्राप्नुयुः । बोधनकौशलमपि आत्मसात्कुर्युः । शिक्षाशास्त्रसम्बद्धाः ग्रन्थाः अपि सरलमानकसंस्कृतेन एव लिखिताः भवेयुः ।
  • शास्त्रिप्रभृतिषु कक्ष्यासु अपि सरलमानकसंस्कृतं, तस्य आवश्यकता, प्रयोगकौशलम् इत्यादयः पाठ्यत्वेन अन्तर्भवेयुः।
  • सेवानिरतानां कृते सेवान्तर्गतप्रशिक्षणं व्यवस्थाप्यते । क्वचित् पुनश्चर्यापाठ्यक्रमकार्यक्रमाः आयोज्यन्ते । एतादृशेषु सर्वविधप्रशिक्षणेषु सरलमानकसंस्कृतम् अध्ययनविषयः स्यात् ।
  • विद्यावारिधिः (पि.एच्.डी.) विशिष्टाचार्यः (एम्.फिल्) इत्यादीनां पाठ्यचर्याप्रशिक्षणावसरे सरलमानक-संस्कृतस्यापि अन्तर्भावः चिन्तनीयः।
  • शोधप्रबन्धः (Phd Thesis) सरलमानकसंस्कृतेन स्यात् इति विश्वविद्यालयानुदानयोगः (यु.जि.सि.) आदेशं प्रसारयेत् ।
  • पाठ्यपुस्तकानां निर्माणे (विशेषतः प्राथमिक/माध्यमिकस्तरे) सरलमानकसंस्कृतस्य अनुसरणं चिन्तनीयम् ।
  • शास्त्री, आचार्यः इत्यादिषु कक्ष्यासु सरलमानकसंस्कृतेन रचिताः ग्रन्थाः अविस्तरपाठ्यपुस्तकत्वेन (Non detail Text) नियुज्येरन्।
  • शिक्षकनियुक्तिनिमित्तं सरलमानकसंस्कृतेन अभिव्यक्तेः (सम्भाषणस्य, लेखनस्य च) अनिवार्यता कल्पनीया । (विज्ञापिकादानावसरे एव अयम् अंशः स्पष्टीकरणीयः ।)
  • संस्कृतविश्वविद्यालयानां, संस्कृतकार्यालयानां, संस्कृतविद्यालयमहाविद्यालयानां च सर्वे आन्तरिकाः व्यवहाराः, अन्यैः सह जायमानाः व्यवहाराः च सरलमानकसंस्कृतेन एव स्युः। एतदर्थं यत् प्रशिक्षणम् आवश्यकं स्यात् तस्य दानाय व्यवस्था करणीया । अपेक्षिताः सामग्यः सज्जीकरणीयाः । पत्रलेखनादीनां प्रारूपं निश्चित्य कर्मचारिभ्यः देयम् ।
  • संस्कृतविश्वविद्यालयानां संस्कृतसम्बद्धानां सर्वासां संस्थानां च सर्वाः गतिविधयः (कार्यशालाः, व्याख्यानानि, प्रकाशनानि इत्यादीनि) सरलमानकसंस्कृतेन भवेयुः ।
  • आकाशवाणी-दूरदर्शनादीनां वार्ताः संस्कृतकार्यक्रमाः च सरलमानकसंस्कृतेन भवेयुः ।
  • राष्ट्रियमूल्याङ्कनप्रत्यायनपरिषदा (NAAC) यदा संस्कृतविश्वविद्यालयेभ्यः मान्यता दीयेत तदवसरे सरलमानकसंस्कृतस्य क्रियान्वयनं कियता प्रमाणेन कृतम् इत्ययम् अंशः अपि परिशीलनीयः परिगणनीयः च ।
  • विकिपीडियायोजनायां छात्राः अध्यापकाः च योजिताः चेत् सरलमानकसंस्कृतस्य अभ्यासः भवितुम् अर्हति । अतः एतदर्थं मार्गः चिन्तनीयः।
  • तन्त्रज्ञानस्य अन्वयस्य (Technology Adaption) निमित्तं किं किं कर्तुं शक्यते इति चिन्तनीयम् । तदर्थं विस्तृता योजना रचनीया। तस्याः योजनायाः अन्वयनाय व्यवस्था अपि चिन्तनीया।
  • तत्तद्भाषासु प्रयुज्यमानानां तत्समतद्भावशब्दानाम् आवलिः निर्मातव्या । तत्र प्रयुज्यमानानां तेषां वास्तविकः अर्थः संस्कृतभाषायां कः, तत्र कस्मिन्नर्थे प्रयुज्यते, तादृशानां मानकससंस्कृते स्वीकारः कथं भवेत् इत्यादीनां चिन्तनार्थमपि कार्यशालाः आयोजनीयाः।
  • सरलमानकसंस्कृतेन सज्जीकृतानां कृतीनां समीक्षणं भवेत् । तत्र - - केषां पदानां प्रयोगप्राचुर्यं दृश्यते ? - उत्तमाः प्रयोगाः के ? - अपप्रयोगाः के ? - वाचोयुक्तिसमेताः प्रयोगाः (ईडियोमेटिक्) के ? इत्यादीनां विश्लेषणं भवेत् । अतः शोधविषयत्वेन एतासां कृतीनां समीक्षणस्य स्वीकाराय शोधार्थिनः प्रेरणीयाः ।
  • संस्कृतत्वोपेताः प्राचीनाः प्रयोगाः विविधेषु ग्रन्थेषु उपलभ्यन्ते । तेषां सङ्ग्रहः कार्यशालादिद्वारा चिन्तनीयाः । प्राचीनैः प्रयुक्ताः अद्यतने व्यवहारे उपयोक्तुं योग्याः शब्दाः अपि एतादृशात् अध्ययनात् प्राप्तुं शक्याः ।
  • क्रियाणां वस्तूनां च सूक्ष्माः भेदाः आयुर्वेदग्रन्थादिषु बहुधा उपलभ्यन्ते । कृष्यादिषु उपयुक्ताः शब्दाः अपि तत्र उपलभ्यन्ते । एतादृशानां सङ्ग्रहात् अद्यतनीयं संस्कृतव्यवहारक्षेत्रं सुसमृद्धं भवेत्।
  • आधुनिकशब्दनिर्माणम् अपि सरलमानकसंस्कृतस्य किञ्चन अङ्गम् । आधुनिकशब्दनिर्माणावसरे अवधातव्यानाम् अंशानां निश्चयः स्यात् । तन्नियमानुगुणमेव शब्दाः निर्मातव्याः, अन्यैः निर्मिताः शब्दाः अङ्गीकरणीयाः वा । प्राचीनसाहित्यपरिशीलनात् अपि असङ्ख्याः व्यावहारिकाः शब्दाः प्राप्तुं शक्याः । एतत्सर्वं कर्तुं ‘शब्दशाला’ (Word Bank) इति योजना आरब्धुं शक्या। अस्याः मार्गदर्शकसमितौ समग्रस्य देशस्य विदुषां प्रातिनिध्यं स्यात् । भारतशासनेन परिगणिताः राज्यभाषाः हिन्दी तेलुगु इत्यादयः याः भारतीयानां मातृभाषारूपेण सन्ति । इदानीं यः कोऽपि संस्कृते भाषितुमिच्छति, सः प्रथमं वक्तव्यं स्वमातृभाषया चिन्तयति । ततः तत् संस्कृतेन प्रकाशयति इति सर्वविदितोऽयं विषयः । अतः तत्तद्भाषासु सामान्यव्यवहारोपयुक्तपदावली या Basic Vocabalary नाम्ना अभिधीयते, तस्याः संस्कृतपर्यायपदनिर्माणम् आवश्यकम् । अतः तादृशाः कोशाः निर्मातव्याः । तदर्थं तत्तद्राज्ये कार्यशालाः भवेयुः । मानकसंस्कृतम् आश्रित्य कोशनिर्माणाय विद्वत्समितिः तत्तद्राज्ये पृथक पृथक् रचनीया । इदं च कार्यं सपदि स्वीकरणीयम् । तत्र संस्कृतपर्यायचिन्तने पूर्वोक्तनियमाः अवश्यम् अनुसरणीयाः।

मातृभाषया एव सर्वे शासकीयव्यवहाराः स्युः इति इच्छन्ति राज्यसर्वकाराः । तदर्थं प्रयासः अपि निरन्तरं प्रचलति । तथापि अपेक्षितप्रमाणेन फलं न प्राप्यते । किमर्थम् एवं भवति ? तत्र मुख्य कारणं तु - एतदर्थम् अपेक्षिता पदावली शैली च न निश्चिता इत्येतदेव ।

1949 तमे वर्षे ‘संस्कृतं भारतसङ्घस्य राजभाषा भवेत्’ (Sanskrit should be the officiallanguage of the Indian Union) इति डा.अम्बेडकरः प्रतिपादितवान् । किन्तु तत् अङ्गीकृतं भवेत् इत्यत्र संस्कृतज्ञानामेव आत्मविश्वासः न आसीत्।

उत्तराखण्डे संस्कृतं द्वितीयराजभाषात्वेन स्यात् इति निर्णयः कृतः । किन्तु अस्य क्रियान्वयने प्रगतिः तु अत्यल्पा । ‘अधिकारिणः अनासक्ताः’ इति तु सामान्य कारणम् । यावत् शासनस्य सर्वेषु स्तरेषु सरलमानक संस्कृतस्य परिचयः न भवेत् तावत् अधिकारिणः जनाः वा संस्कृतव्यवहारे आसक्तिं न दर्शयेयुः । इदानीं या शैली आश्रीयते सा तु उपयोगाय न स्यात् ।

यदि सरलमानकसंस्कृतं व्यापकतया व्यवहारे भवेत् तर्हि संस्कृतसम्बद्धे व्यवहारक्षेत्रे, शिक्षणक्षेत्रे, साहित्यक्षेत्रे, प्राशासनिकक्षेत्रे च महत् परिवर्तनं भवेत् । महता प्रमाणेन सामान्यजनसमर्थनमपि प्राप्येत । जनता अपि नितराम् उपकृता भवेत् । संस्कृतक्षेत्रे जायमाना प्रगतिः सर्वासां भारतीयभाषाणां, भारतीयसंस्कृतेः च प्रगतेः कारणं स्यात्।