संस्कृतेन व्यवहारः यत्र प्रचलति तत्र अनेकविधानां शब्दानां प्रयोगः भवति । तत्रापि संज्ञापदानां प्रयोगे भवति महती समस्या । व्यक्तिनामानि, ग्रामनगरादिनामानि, वस्तुनामानि, ….. इत्येवं भवन्ति बहुविधानि संज्ञापदानि । एतानि व्यवहारे बहुधा उपयोक्तव्यानि एव भवन्ति । एतादृशानि पदानि अन्यासु अपि भाषासु उपयुज्यन्ते एव । तत्र विशेषसमस्या न अनुभूयते । किन्तु संस्कृतभाषायां तु शास्त्रानुग्रहः चिन्तनीयः एव इत्यतः विषयेऽस्मिन् विवेक्तव्यम् अस्ति किञ्चित् ।
संस्कृतव्याकरणनियमानाम् अन्यभाषानियमानां च मध्ये अस्ति महान् भेदः । अन्यासु भाषासु विभक्तियोजनादिकं न क्लेशाय । संस्कृतभाषायां तु नियमः अस्ति - ‘अपदं न प्रयुञ्जीत’ इति । पदसंज्ञाविहीनः प्रयोगः न अनुमन्यते संस्कृतक्षेत्रे । एतां पदसंज्ञां पुरस्कृय एव विभक्तिप्रत्ययादयः समासादिशास्त्राणि च प्रवर्तन्ते । विभक्तिप्रत्ययेषु परेषु अनेकविधानि सन्धिकार्याणि प्रवर्तन्ते, अनेकानि सूत्राणि बहुधा विकारं जनयन्ति च । लिङ्गभेदात् रूपभेदाः सम्भवन्ति अपि । लेनिन्, क्लिण्टन् इत्यादौ नकारलोपः प्रसज्येत । अय्यर्, हिट्लर् इत्यादिषु रेफस्य विसर्गः भवेत् । साक्रेटीस्, फर्नाण्डीस् इत्यादौ रुत्वं, ततः विसर्गः च स्यात् । क्रुश्चेव् इत्यादिषु ऊठः प्रसक्तिः स्यात् । ऐलेण्डु, इङ्गलेण्ड् इत्यादिषु संयोगान्तलोपः करणीयः भवेत् । आदेशलोपादयः क्रियेरन् चेत् संज्ञास्वरूपभङ्गः स्यात् । कः अंशः (जनः नगरादिकं वा) निर्दिश्यमानः अस्ति इत्यस्य अवगमनं न भवेत् । विकृतरूपश्रवणात् श्रोतॄणां महान् उद्वेगः स्यात् । एतादृशः व्यवहारः उपहासास्पदतां गच्छेत् । ये पूर्वोक्तान् नलोप-संयोगान्तलोप-रुत्व-विसर्गादिसम्बद्धान् नियमान् न जानीयुः (प्रक्रियां न जानीयुः) ते नगरादिवाचकपदानां प्रयोगे महान्तं क्लेशम् अनुभवेयुः ।