सामान्यव्यवहारे सर्वैः अपि सरला भाषा प्रयोक्तव्या इत्यंशं प्रायः सर्वे अपि अङ्गीकुर्वन्ति । किन्तु अस्माभिः प्रयुज्यमाना भाषा सरला अस्ति, उत न इत्यत्र निर्णायकः अंशः कः इति प्रश्नः उदेति । यम् उद्दिश्य अस्माभिः भाषाप्रयोगः कृतः भवति सः जनः अस्माकम् अभिप्रायम् अवगन्तुं शक्तः, उत न इति अस्माभिः स्वयमेव आत्मा प्रष्टव्यः । यदि शक्तः स्यात् तर्हि अस्माकं भाषा सरला इति, यदि न शक्तः स्यात् तर्हि सरला नास्ति इति च आपाततः निर्णेतुं शक्यते।
येन जीवने कदापि संस्कृतं न पठितं तादृशः कथं वा संस्कृतेन उक्तम् अर्थम् अवगन्तुं शक्नुयात् इति प्रश्नः भवति एव । किन्तु यां काञ्चित् भारतीयभाषां जानन्तः अपि जनाः सरलसंस्कृतेन उक्तम् अर्थम् अवगन्तुं शक्नुवन्ति इत्येषः बहूनाम् अनुभवः । यतः तैः अद्यपर्यन्तं संस्कृतभाषणं संस्कृतसम्भाषणं वा श्रुतं न स्यात् चेदपि बहून् संस्कृतशब्दान् तु ते जानन्ति एव । यतः सर्वासु अपि भारतीयभाषासु बहवः संस्कृतशब्दाः भवन्ति एव । ते संस्कृतशब्दाः इति अजानन्तः अपि ते तान् शब्दान् जानन्ति एव । ज्ञातानाम् एव शब्दानां प्रयोगः यदा श्रूयते तदा अर्थावगमनं न क्लेशाय।
प्रायः सर्वासाम् अपि भारतीयभाषाणां वाक्यरचना समाना । व्याकरणं च समानम् । बोधव्यवस्था अपि समाना। प्रतिपादनरीतौ अल्पः भेदः स्यात् चेदपि एतेषु अंशेषु महत् साम्यं तु अस्ति एव । अतः मातृभाषां जानन् कोऽपि भारतीयः तस्याः भाषायाः संस्कारवशात् एव संस्कृतभाषां सुखेन अवगन्तुं शक्नोति।
तथा च सरलं कठिनमिति वा निर्धारणे श्रोतृणाम् अवगमनानवगमने एव निमित्तभूते इति आगतम् । तत्र पुनः अयं प्रश्नः उदेति । ….. कश्चन महाविद्वान् संस्कृतेन व्यवहृतवान् । तत्समाः पण्डिताः, तच्छिष्याः च तत् अवगन्तुं शक्ताः, यतः तेषां तादृशम् उत्तमं संस्कृतज्ञानम् अस्ति । पुनः पुनः तस्य मुखात् तादृशभाषणश्रवणेन ते तु तदीयां भाषाम् अवगन्तुं क्लेशं न अनुभवेयुः । किम् एतां भाषां वयं सरलां भावयितुम् अर्हेम ? न खलु ? सा भाषा अत्यन्तं कठिना अपि भवितुम् अर्हति । केषाञ्चित् दृष्ट्या सा दुर्बोधा अपि भवेत् ।
कैश्चित् पाण्डित्यप्रकर्षप्रदर्शनाय लेखने सामान्यजनानाम् अपरिचिताः शब्दाः प्रयुज्यन्ते । ‘त्वया निर्दोषं कथितम्’ इति वक्तव्ये ‘श्रीमतानादीनवमभ्यधायि’ इति कथ्यते । ‘दोष आदीनवः प्रोक्तः’ इति कोशं यः जानाति सः एव एतस्य वाक्यस्य तात्पर्य परिजानाति । ‘एतत् असन्दिग्धम्’ इति वक्तव्ये ‘एतदद्वापरम्’ इति केचन कथयन्ति । ‘विचिकित्सा तु संशयः । सन्देहद्वापरौ च’ इति कोशं यः जानाति सः एव अस्य तात्पर्यम् अवगच्छति । केचन दीर्घसमासान् क्लिष्टसन्धिबन्धांश्च कुर्वन्ति । (एच्. वि. नागराजराव्, सुधर्मा-सम्पादकीयम्, ३.८.१६) एतादृशी प्रवृत्तिः भाषायाः दुर्बोधताम् एव सम्पादयेत्, नान्यत् किमपि। एवं तर्हि सरलतानिर्णायकः मानदण्डः कः भवेत् ?