१ किमर्थं सरलं मानकं च संस्कृतम्

यदि संस्कृतं सामान्यानां जनानां दैनन्दिनजीवनात् पृथक्क्रियेत तर्हि तेषां जीवनस्य प्रकाशः एव विलुप्तः स्यात् । ये विशिष्टाः गुणाः भारतीयसंस्कृति विश्वचिन्तने प्रतिष्ठापितवन्तः तेषाम् उपरि दुष्प्रभावः भवेत्, येन भारतस्य, विश्वस्य च महती क्षतिः स्यात् । - सर् मिर्जा इस्माईल

जनाः न जानन्ति यत् संस्कृतं कियता प्रमाणेन तेषां मस्तिष्कं प्रभावितवत् स्यात् इति । संस्कृतसाहित्यं राष्ट्रिय स्यात् चेदपि तस्य उद्देशः तु सार्वभौमिकः अस्ति । एतस्मात् एव कारणात्, ये कस्याश्चित् संस्कृतेः अनुयायिनः न स्युः तेषाम् अपि अवधानम् आकर्षति एषा भाषा। - डा. एस्. राधाकृष्णन्

१.१ प्रस्तावना

आ प्राचीनकालात् भारतीयसंस्कृतिः अविच्छिन्नतया प्रवहन्ती भारतीयं समाजं समृद्धं कृतवती अस्ति । तस्याः संस्कृतेः प्रमुखा वाहिका अस्ति संस्कृतभाषा । अतः एव अद्यापि यदा संस्कृतेः प्रस्तावः भवति तदा ऐदम्प्राथम्येन उपादीयते संस्कृतम् इति नाम । संस्कारदानमपि शिक्षणस्य प्रमुखं लक्ष्यं भवति इत्यतः सहजतया शिक्षणक्षेत्रे अपि संस्कृतस्य स्थानम् अतिविशिष्टम् अस्ति एव ।

समग्रस्य शिक्षणक्षेत्रस्य परिशीलनात् स्पष्टं भवति यत् सर्वेषु अपि कालेषु संस्कृतक्षेत्रे पाठ्यवस्तु भाषास्वरूपं च समानं न आसीत् इति । सूत्रकारादीनां काले सूत्राणि कारिकादीनि च गुरुभिः बोध्यन्ते स्म व्याख्यानावलम्बनं विना एव । गुरोः बोधनात् एव शिष्यैः सूत्रादीनाम् आशयः अवगम्यते स्म । अग्रिमे काले व्याख्यानानि आगतानि । व्याख्यानानां द्वारा सूत्रादीनाम् आशयस्य अवगमनम् आरब्धम् । ततः व्याख्यानानां व्याख्याः अपि आगताः । मूलग्रन्थानां सारस्य सङ्ग्रहाय अपि प्रयासः आरब्धः । शास्त्रप्रवेशात् पूर्व सामान्यभाषापरिचायनाय प्रयासाः अपि आरब्धाः । आधुनिके काले तु संस्कृतपरिचयप्रदानमात्रमपि आरब्धम् । एवं कालानुगुण्येन संस्कृतशिक्षणक्षेत्रे अनेकविधानि परिवर्तनानि जातानि । तेनैव सह बोधनाय उपयुज्यमानायाः भाषायाः स्वरूपे अपि परिवर्तनानि जातानि।

संस्कृतं भारतीयतत्त्वज्ञानस्य आधारभूता भाषा अस्ति । एषः आधारः यथा विषयाणाम् अवगतये ग्राहकताम् आदधाति तथा स्वस्य विषये तन्नाम संस्कृतभाषाविषये ग्राह्यताम् अपि पोषयति । अतः एव भारतीयमनीषायाः सर्वविधा अभिव्यक्तिः अनया भाषया एव अभूत् । किं च तत्तेषां शास्त्राणाम् अध्ययनाध्यापनविधिः अपि संस्कृतभाषामुखेन एव प्रचलितः आसीत् इति प्रायः प्रमाणितमिदं तथ्यम् । स च शास्त्रकाव्यादिगतविषयाणां सम्प्रेषणविधिः सरलया संस्कृतभाषया एव आसीत् । ‘एषा भाषा दुरूहा क्लिष्टा च, केवलैः प्रौढमतिभिः विद्वद्भिरेव ग्राह्या’ इति प्रचारं विधाय आङ्ग्लशासकैः संस्कृतभाषा लोकव्यवहारतः न केवलं दूरं गमिता, अपि तु ‘एतस्याः प्रयोगे कृते पश्चाद्भाविता आगमिष्यति, एतद्भाषया निबद्धेषु ग्रन्थेषु न किमपि तत्त्वं, न च किमपि तथ्यम्’ इत्यादयः भ्रान्तयः अपि जनमनसि आरोपिताः । अतः तस्मिन् काले विद्वद्भिः स्वप्रयत्नेन निष्ठया च शास्त्रसंरक्षणविधौ प्रवर्तमानैः सद्भिरपि एषा भाषा क्रमशः उपेक्षाभूमौ पातिता अभवत् ।

१.२ प्रसिद्धानां भाषाणां स्थितिः दृष्टिश्च

विश्वस्मिन् प्रसिद्धानां व्यापकानां च भाषाणां प्रसिद्धेः व्याप्तेश्च कारणानि अनुध्यायामश्चेद् वयं साक्षात् पश्यामः यत् तासां कृते भाषाप्रयोगस्य एकमपि क्षेत्रम् अस्पृष्टं नास्ति इति । आङ्ग्लभाषाम् एव पश्यत । कलासाहित्यतः आरभ्य गणित-भौतिकशास्त्रादिविज्ञानं यावत्, महाकाशविज्ञानतः आरभ्य आयुर्विज्ञान-कृषि-वाणिज्यादिकं यावत्, ज्ञानविज्ञानयोः सर्वासु विधासु आङ्ग्लभाषा भावसंप्रेषिका विद्यते । एवमेव चीन-जापान-जर्मन्-फ्रेंच्-प्रभृतीनां भाषाणां प्रयोगक्षेत्रम् अपि विम्रष्टुं शक्नुमः वयम् । एतया दृष्ट्या भारतीयभाषाः पश्यामश्चेत् स्वतन्त्रतायाः अनन्तरं हिन्दी-तमिलादिभाषासु एकस्याः अपि तादृशी व्यापकता आगता नास्ति । किन्तु व्यवहारदृष्ट्या हिन्दी-ओडिआ बंगला-तमिल-तेलगु-प्रभृतयः भाषाः सर्वकारीय-कार्यालयकार्येषु, विद्यालय-महाविद्यालयाद्यध्ययनकेन्द्रेषु, कृषि वाणिज्यादिक्षेत्रेषु, रुग्णालय-न्यायालयादिसर्वसाधारणस्थलेषु च माध्यमभाषारूपेण व्यवहारपथम् आगताः सन्ति एव।

१.३ संस्कृतभाषायाः स्थितिः

संस्कृतभाषायाः स्थितिं पश्यामः चेद् ज्ञायते यत् इयं भाषा यद्यपि अन्यभारतीयभाषाः इव आधुनिकयुगं प्रविष्टवती, तथापि प्रयोगव्याप्तेः दृष्ट्या इदानीमपि हिन्दी-ओडिआ-बंगला-तमिल-तेलूगु-आदीतरभाषामुखेनैव आत्मप्रकाशनं कुर्वती अस्ति इति । अर्थात् इयमेव एका भाषा या भाषाशिक्षणप्रसङ्गे व्याकरणानुवादद्वारा इतरभाषामाध्यमेन शिक्ष्यते, किञ्च संस्कृतवाङ्मयं हिन्द्यादिभाषानुवादमुखेन पठ्यते, पाठ्यते, अवगम्यते च । अतः एव भारतवर्षे संस्कृतशिक्षणसंस्थासु संस्कृतमयः परिवेशः (यत्र अध्ययनम् अध्यापनं विचारविमर्शः शोधकार्याणि च संस्कृतमुखेन स्युः) विरलमेव परिलक्ष्यते । संस्कृतभाषा स्वप्राणैः न श्वसिति, स्वनिद्रया न स्वपिति, न च स्वनेत्रोन्मीलितैः जागर्ति । सर्वविधाभिप्रायसंप्रेषणे स्वयं पूर्णतः समर्था अपि इयं सर्वदा अन्यभाषामाध्यमम् आश्रित्य वैकल्यं भजते । स्वतन्त्रतायाः अनन्तरं सप्तत्यधिकवर्षावधौ अतीतेऽपि एतस्याः स्थितौ अन्यभारतीयभाषातुलनया उत्साहप्रदा प्रगतिः नैव आगतास्ति । तत्र संस्कृतभाषायाः स्वभावः स्वरूपं वा कारणं न, अपि तु तस्याः व्यवहारे प्रयोगे वा अपेक्षितायाः चेष्टायाः उद्यमस्य वा न्यूनता एव कारणम् । तादृश्यां न्यूनतायां च ‘संस्कृतं कठिनम्’ इति आङ्ग्लशासनकालाद् अद्यावधि प्रचारिता अपख्यातिः, ‘प्रौढसंस्कृतप्रयोगः एव संस्कृतस्य गौरवाय’ इति संस्कृतप्रयोगक्षेत्रे अस्मदीया मानसिकी अवधारणा, तया अवधारणया जातः प्रौढः जटिलश्च संस्कृतप्रयोगः च कारणभूतः अस्ति । ‘संस्कृतं कठिनम्’ इति प्रचारं कुर्वाणाः कतिपयान् क्लिष्टप्रयोगान् पुरतः प्रदर्श्य सम्पूर्णा संस्कृतभाषा आपादमस्तकं तथैव अस्तीति उपस्थापयन्तः प्रवर्तन्ते । स्वदेशे विदेशेषु च तादृशी अवधारणा ‘महाजनो येन गतः स पन्थाः’ इति लोकोक्त्या महाजनः इव सामान्यजनानां पन्थानं निश्चिनोति । स च पन्थाः अतीव दुरूहः विद्वज्जनमात्रगम्यः इति प्रथनकारणेन संस्कृतं जनव्यवहारतः अपसृतम्, अध्ययनाध्यापनादिमाध्यमप्रसङ्गतः दूरे स्थापितं च । केवलम् एषा अलङ्करणस्य, कर्मकाण्डस्य च भाषा अस्तीति गणबोधः एतस्याः सरलसहज स्वरूपप्रकाशनम् अवरुणद्धि । एतम् अवरोधम् अपाकर्तुं धैर्यस्थैर्ययुतः जातिवर्णसम्प्रदायनिर्विशेषेण सर्वव्यापकः कार्यक्रमः स्वीकरणीयः।

१.४. सरलं संस्कृतम्

सामान्याः जनाः विशेषक्लेशं विना यत् वस्तु प्राप्तुं न अर्हन्ति तत् दुर्लभत्वेन निर्दिश्यते । अत्र वस्तुनः महार्यता न कारणम् । अल्पार्घमपि वस्तु दुर्लभत्वेन परिगणितं भवितुम् अर्हति । भाषाक्षेत्रे तु या दुर्लभा स्यात् तस्यां ‘काठिन्यम्’ आरोप्यते । संस्कृतं कठिनम् इति भावः अद्य लोके यदि स्यात् तर्हि तत्र कारणं - सा सामान्यैः जनैः प्राप्यमाणा नास्ति इत्येव । अतः संस्कृतसम्बद्धस्य कठिनताभावस्य निवारणार्थं स्थितः एकः एव उपायः - सरलतायाः प्रदर्शनम् । ‘संस्कृतं सरलम्’ इति भाषणशतेनापि न किमपि प्रयोजनम् । यदि सरलतामुखं दर्येत तर्हि सहजतया ‘संस्कृतं सरलम्’ इति भावः जागरितः स्यात् । यदि अयं भावः सर्वत्र भवेत् तर्हि संस्कृतक्षेत्रे महत् परिवर्तनमेव स्यात् ।

यदि शिक्षणक्षेत्रे सरलसंस्कृतस्य अन्वयः स्यात् तर्हि कोटिशः छात्राः उपकृताः भवेयुः । स्वीयान् भावान् संस्कृतेन अभिव्यञ्जयितुं समर्थानां तेषाम् आत्मविश्वासः वर्धेत । अद्य शिक्षणक्षेत्रे सरलसंस्कृतस्य अभावः दृश्यते इत्यतः छात्रेषु आत्मविश्वासः न दृश्यते । कानिचन वर्षाणि संस्कृतम् अधीत्य अपि संस्कृतेन भावाभिव्यञ्जने असमर्थाः ते आत्मग्लानिम् अनुभवन्ति । यदि पाठ्यपुस्तकानि सरलसंस्कृतेन भवेयुः, यदि च बोधनं सरलसंस्कृतेन स्यात् तर्हि संस्कृतं पठतां सङ्ख्यायामपि मह्ती वृद्धिः भवेत् ।

सर्वे जनाः विद्यालयशिक्षणे संस्कृतं पठितुम् अवसरं न प्राप्नुवन्ति । ये तादृशम् अवसरं प्राप्तवन्तः स्युः तेऽपि अल्पाः एव । तेन अध्ययनेन न सन्तुष्टाः भवन्ति ते । अतः तेऽपि उद्योगादिप्राप्तेः अनन्तरं संस्कृतं पठितुम् इच्छन्ति । एवं संस्कृतं पठितुम् इच्छतां प्रौढानां सङ्ख्या अपि न अल्पा । एते यदि सरलसंस्कृतद्वारा संस्कृताध्ययनाय अवसरं प्राप्नुयुः तर्हि अपि संस्कृतक्षेत्रे अनितरसाधारणं परिवर्तन सम्भवेत्।।

संस्कृताभिमानिनां सङ्ख्या अपारा । तेऽपि असकृत् संस्कृतं श्रोतुम् इच्छन्ति । तादृशाः (संस्कृतानभिज्ञाः) अपि यथा अवगच्छेयुः तथा भाषणानि सरलसंस्कृतेन यदि प्रवर्तेरन् तर्हि अपि महत् परिवर्तनं जायेत । एवमेव वार्ताप्रसारणम्, नाटकादीनां प्रदर्शनम् इत्यादिकं सरलसंस्कृतेन यदि प्रवर्तेत तर्हि जायमानः परिणामः अपि अनूह्यः एव स्यात् ।

ये संस्कृतस्य सामान्य परिचयं प्राप्तवन्तः स्युः ते स्वस्तरानुगुणं पठनसाहित्यम् इच्छन्ति । अतः संस्कृतपत्रिकासु प्रयुज्यमाना भाषा सरला स्यात् । कथापुस्तकेषु (उपन्यासेषु, लघुकथासु, अनूदितकथाग्रन्थादिषु इत्येवम् …) भाषा सरला स्यात् । एतादृशस्य साहित्यस्य प्रभावः अपि अपूर्वः एव ।

संस्कृताभिमानिनः सर्वेऽपि संस्कृतेन स्वाभिप्रायं प्रकाशयितुम् इच्छन्ति । सरलसंस्कृतस्य परिचयः यदि तेषां स्यात् तर्हि तेऽपि अल्पेन एव परिश्रमेण स्वाभिप्रायं संस्कृतेन प्रकाश्य आत्मतृप्तिं प्राप्नुयुः, संस्कृतस्य समाराधकाः भवेयुः।

‘संस्कृतं मम’ इति कथयतां सङ्ख्या अद्यापि अत्यल्पा एव । सरलसंस्कृतप्रचारद्वारा यदि वयं महता प्रमाणेन सामान्यान् जनान् शिक्षयेम, तर्हि संस्कृते ममत्वं वहतां सङ्ख्या अपारा स्यात् । एतादृशाः ममत्ववाहकाः जनाः प्राशासनिकक्षेत्रे, उद्यमक्षेत्रे, वाणिज्यक्षेत्रे, विज्ञानक्षेत्रे, राजनीतिक्षेत्रे, अन्येषु प्रमुखक्षेत्रेषु च यदि भवेयुः तर्हि संस्कृतस्य आनुकूल्यं सिद्ध्येत् सहजतया । तदा संस्कृतस्य विरोधः, पाठ्यक्रमात् संस्कृतस्य अपसारणं, संस्कृतस्य उपेक्षा इत्यादयः समस्याः स्वयमेव विलीनाः भवेयुः।

‘संस्कृतं द्वितीयराजभाषा स्यात्’ इति केचन प्रयासम् अकुर्वन् । बहवः संस्कृतसम्बद्धाः कार्यालयाः स्वीयेषु सर्वेषु व्यवहारेषु संस्कृतम् आनेतुम् इच्छन्ति । अत्र सर्वत्र आदेशमात्रदानेन न किमपि प्रयोजनम् । सरलसंस्कृतस्य शिक्षणं, सरलतया भावाविष्काराय नियमानां रचनं च यदि क्रियेत तर्हि एव एतादृशेषु क्षेत्रेषु संस्कृतस्य उपयोगस्य आरम्भः भवेत्। संस्कृतविषये प्राधान्येन त्रयः आक्षेपाः सन्ति - १. एषा जीवन्ती भाषा न २. एषा कठिना ३. एषा जातिविशेषस्य भाषा चेति । सरलसंस्कृतस्य व्यापकप्रचारतः एतान् त्रीन् अपि आक्षेपान् अपसारयितुम् अर्हामः वयम् । जातिमतभेदं विना, उच्चनीचभेदं विना च व्यापकतया संस्कृतं पाठनीयं चेत् तस्य सरलं स्वरूपमेव अनन्यशरणम् अस्माकम्।

एवं सरलसंस्कृतस्य महती आवश्यकता अस्ति संस्कृतक्षेत्रे । एतस्य परिणामः अपि सुमहान् ।

१.५ सरलं संस्कृतम्, सरलीकृतं न

अत्र अवधेयं यत् ‘सरलं संस्कृतम्’ इति यत् उच्यते तत् ‘सरलीकृतात् संस्कृतात्’ सर्वथा भिन्नम् एव इति । ‘सरलं संस्कृतम्’ इत्येतत् संस्कृते विद्यमानम् एव किञ्चन मुखं निरूपयति । ‘सरलीकृतम्’ इति पदं तु अभूततद्भावार्थं प्रतिपादयति (अभूततद्भावे च्विः) । ‘पूर्वं यत् न आसीत् तत् इदानी प्रयत्नेन कृतम्’ इति तस्य अर्थः । अतः ‘पूर्वं संस्कृतं सरलं न आसीत्, तत् इदानीं प्रयत्नेन सरलं क्रियमाणम् अस्ति’ इति तस्य तात्पर्य सिद्धं भवति । ‘प्रौढं कठिनं वा संस्कृतमेव “संस्कृतम्” इत्यतः तत् सरलं कृत्वा व्यवहारपथे आनेतुं योग्यम्’ इति अनिष्टः कश्चिद् भावः इतः आगच्छति । सः अत्र सर्वथा न अभिप्रेतः ननु !! ‘सरलं संस्कृतम्’ इत्यनेन एषः बोधः मनसि निर्धारणीयः यत् अपराः व्यवहारभाषाः हिन्दी-गुजराती-तमिलादिभाषाः इव संस्कृतम् अपि वस्तुतः सरलम् अस्ति, केवलं व्यवहारतः कथमपि तत् दूरं गतम् इति कारणेन तस्य सरलरूपस्य स्वीकारः अपि लोकप्रयोगाद् दूरं गतः अस्ति इति । उपर्युक्तानां भाषाणाम् इव संस्कृतभाषायाः अपि ‘प्रौढं सरलं च’ इति रूपद्वयम् अस्ति । भाषाबोधस्य प्रथमस्तरे सरलं संस्कृतम् उपयुज्य अभिव्यक्तिकौशलं सम्पादनीयम् । ततः क्रमशः योग्यताविस्तारणपूर्वकं प्रौढं संस्कृतम् आत्मसात् कर्तुं शक्यम् । अतः ‘सरलीकरण’नाम्ना संस्कृतस्य विकृततासम्पादनं सर्वथा अनुचितम् एव । ‘संस्कृतं मूलतः कठिनं, तत्र यत्नेन सरलता आपादनीया’ इति भावं मनसि निधाय ‘सिगारेटं पिबति’, ‘स्कूलं गच्छति’ इत्यादयः च्युतसंस्काराः अपप्रयोगाः न करणीयाः । तादृशाः प्रयोगाः यदि क्रियेरन् तर्हि संस्कृतस्य मूलस्वरूपमेव नश्येत् । अतः संस्कृतस्य यत् सरलं मानकं च रूपं तदेव अग्रे सारणीयम्।

१.६ मानकं संस्कृतम्

‘सरलं मानकं च संस्कृतं प्रयोक्तव्यम्’ इत्यत्र ‘मानकम्’ इति पदेन -

  • पाणिनीयपद्धत्या सम्मतमेव संस्कृतं मानकम् इति स्वीकरणीयम् । तेन ‘कृपया’ इत्यस्य स्थाने ‘कृप्या’ इति, ‘आशीर्वाद’ इत्यस्य स्थाने ‘आर्शीवाद’ इति च न प्रयोक्तव्यम् । एवमेव ‘षष्ठमः’ इत्यादयः अपपाठाः अपि परिहरणीयाः।
  • एतद् मानकं संस्कृतं यथाशक्ति अखिलभारतीयस्तरे सर्वत्र समानायाः अवगमनयोग्यतायाः पालकं भविष्यति । अतः एकस्य वस्तुनः निर्देशाय अनेकेषु पदेषु सत्सु, किमपि एकमेव पदं स्वीकरणीयं, यच्च समग्रे अपि भारते समानम् अर्थं दद्यात् । मानकसंस्कृते प्रादेशिकभाषायाः अनपेक्षितः प्रभावः न भविष्यति । तद् यथा - ‘सौन्दर्गीकरणम्’, ‘बाजारीकरणम्’ इत्यादयः अपपाठाः मानकसंस्कृते न भविष्यन्ति ।

किमर्थं सरलं मानकं च संस्कृतम् इति जनमनसि प्रश्नः उदियाद् एव । संस्कृतग्रन्थानां काव्यानां शास्त्राणां काव्य नाटकादीनां च तासु तासु प्रान्तीयभाषासु आङ्ग्लादिवैदेशिकभाषासु अनुवादेषु च उपलभ्यमानेषु आधुनिककाले सरलसंस्कृतेन ग्रन्थलेखन-पठन-पाठनादीनां का प्रासङ्गिकता इति प्रश्नः उत्थाप्यते चेत् किम् उत्तरं स्यात् ?

१.७ भाषायाः व्यवहारे सरलतायाः आवश्यकता

कस्याश्चिदपि भाषायाः प्रयोगे सारल्यस्य प्रयोजनानि प्रायः इत्थम्भूतानि भवन्ति

  • १.७.१ मुख्यं प्रयोजनम् -

    • १.१ लोकव्यवहारः
    • १.२ शिक्षणे माध्यमम्
  • १.७.२ गौणं प्रयोजनम् -

    • २.१ प्रसारः
    • २.२ पाठ्यपुस्तकनिर्माणम्
    • २.३ भाषानुवादः
    • २.४ साहित्यसमृद्धिः

संस्कृतभाषा गणतन्त्रभारतस्य संविधानस्य अष्टम्याम् अनुसूच्यां विधिवद् अन्तर्भूता अस्तीत्यतः इतरासां भारतीयभाषाणाम् इव अस्याः अपि एतानि प्रयोजनानि सन्त्येव।

१.७.१.१ लोकव्यवहारः

लोके सरलतया शुद्धतया च संस्कृतभाषायाः व्यवहारेण संस्कृतविषये जनानां ‘संस्कृतं कठिनम्’ इति भ्रान्तिः अपगन्तुम् अर्हति । तदर्थं केचन परिमिताः शब्दाः, परिमिताः क्रियाः (त्रिषु कालेषु), परिमितानि कानिचन वाक्यानि च चित्वा तैः परस्परं भावविनिगमकरूपेण संस्कृतस्य सामान्यः व्यवहारः प्रारब्धव्यः । अत्रेदं ज्ञातव्यं यत् आङ्ग्लाः भारतवर्षे आङ्ग्लभाषायाः प्रचारं यदा आरब्धवन्तः तदवसरे (१९३० तमवर्षसम्बद्धे दशके) केवलानाम् आष्टशतशब्दानां प्रयोगेण आङ्ग्लभाषया सहजतया व्यवहर्तुं शक्यते इति जनमनसि एतस्याः वैदेशिकभाषायाः सुखबोध्यतां सारल्यं च प्रदर्शितवन्तः आसन् । संस्कृतं तु अस्माकं देशस्य मौलिकी भाषा । विविधेषु प्रान्तेषु साक्षात् संस्कृतशब्दाः (‘तत्सम पदवाच्याः), संस्कृताद् उत्पन्नाः (‘तद्भव’पदवाच्याः) च शब्दाः प्रायः ७०-७५% सन्ति एव । न केवलं तत्, प्रान्तीयभाषासु क्रियाः वाक्यसंरचनाविधयः इत्यादयः अपि संस्कृततुल्याः एव । एतत् सादृश्यम् आश्रित्य संस्कृतं केन विधिना लोके अविभजनीयसम्बन्धेन अनुस्यूतम् अस्ति इति प्रदर्श्य सरलतया लोके संस्कृतव्यवहारकौशलं वर्धयितुं शक्यते । तेन ‘अहमपि संस्कृतभाषाव्यवहारे क्षमः, एषा भाषा न कठिना, अपि तु मम प्रान्तीयमातृभाषा इव सरला’ इति बोधः प्रसरिष्यति । एतेन संस्कृतम् अन्यभारतीयभाषावत् जीवद्भाषा इति संस्कृतभाषास्वीकारप्रवृत्तिरूपा मानसिकता स्थायिरूपतां प्राप्स्यति, येन ‘संस्कृतं संस्कृतेन’ इति लक्ष्यसिद्धौ मार्गः सुगमः भविष्यति।

१.७.१.२ शिक्षणे माध्यमम्

संस्कृतभाषाशिक्षणे एतावत्पर्यन्तं व्याकरणानुवादपद्धतेः प्रयोगः भवति स्म । एषा पद्धतिः भाषाशिक्षणाय उपयुक्ता न इति इदानीं सर्वेषां मतं विद्यते । केवलं संस्कृताद् भाषान्तरेण अनुवादाय कदाचिद् एषा पद्धतिः उपयोगिनी स्यात् चेदपि जीवद्भाषायाः अध्ययने तु सर्वथा अनुपयोगिनी एव । संस्कृतम् अपि जीवद्भाषा एव इत्यतः तस्याः शिक्षणं तया एव भाषया स्यात् । तेन न केवलं संस्कृतवाङ्मये प्रवेशः भवति, अपि तु संस्कृतेन आधुनिकसाहित्यनिर्माणम् अपि शक्यं भवति।

संस्कृतमाध्यमेन शिक्षणाभावात् एम्.ए., आचार्यः इत्याधुपाधिधारिणोऽपि अधीतं विषयं संस्कृतेन प्रकटयितुम् असमर्थाः भवन्ति । एतादृशम् अनर्थकरम् उत्साहहीनं चित्रम् अपाकृत्य सार्थकम् उत्साहजनकं च पक्षं पोषयितुं

सरलतया -
सरलसंस्कृतेन शिक्षणविधिः अङ्गीकर्तव्यः एव । ‘इतराभिः आधुनिकभाषाभिः शिक्षणम् अदत्त्वा यदि संस्कृतेन शिक्षणं दीयेत तर्हि संस्कृतच्छात्राणां संख्यायां न्यूनता आगमिष्यति” इति केचन भीतिं प्राप्नुवन्ति । अस्थाने भीतिः एषा । वस्तुतः तु संस्कृतच्छात्राणां संख्यायां न्यूनता अपरेण कारणद्वयेन भवितुम् अर्हति । तच्च इत्थम्भूतम् -

  • १. निष्ठापूर्वकम्, निरन्तरतया, सर्वान्तर्भावेन, सरलतया च संस्कृतेन शिक्षणक्रियायाः अभावः।
    • निष्ठापूर्वकम् - आधुनिकभाषान्तरम् अस्वीकृत्य सर्वथा शिक्षणमाध्यमरूपेण संस्कृतस्य एव प्रयोगः ।
    • निरन्तरतया - कतिपयदिनानि किञ्चित्कालं यावत् संस्कृतमाध्यमम् आश्रित्य अनन्तरं पुनः इतरभाषायाः प्रयोगः इति न।
    • सर्वान्तर्भावेन- एकस्यां संस्थायाम् द्वित्रविषयाणां व्याकरणन्यायादीनां शिक्षाणमाध्यमं संस्कृतम्, इतरेषां साहित्येतिहासादीनां शिक्षणभाषा प्रान्तीया भाषा अन्या वा आङ्ग्लादिः इति न। विभिन्नविषयाणां सम्प्रेषणभाषाभावरीतयः सर्वथा परस्परम् अभिन्नाः अभूत्वा भिद्यन्ते इत्यतः तत्तद्विषयविशेषज्ञस्य स्वसम्बद्धविषये पाठनकौशलं सरलसंस्कृतेन यथा स्यात् तथा अपेक्षितं यत्नम् अभ्यासं च विधाय प्रवर्तनम् ।
  • २. व्याकरणानुवादपद्धत्याः स्थाने संस्कृतभाषाप्रयोगमाध्यमेन (न तु ग्रन्थपङ्क्तीनाम् अनुवादमुखेन) पाठन कौशलस्य तदनुसारं स्तरानुगुणं (विद्यालय-महाविद्यालय-विश्वविद्यालय-संस्कृतपाठशालादिसम्बद्धं) प्रशिक्षणस्य अभावः।
    • एतदभावद्वयस्य निरसनं भवति चेत् सम्पूर्णेऽपि देशे सर्वेषु इतरेषु पाठनक्रमेषु यथा हिन्दी-मराठी-कन्नड आङ्ग्लादिषु स्वस्वमाध्यमेन शिक्षणं सफलतया प्रचलति तथा संस्कृतमाध्यमेन संस्कृतशिक्षणम् अपि सफलतया प्रचलेत् ।
    • एतदर्थं विश्वविद्यालयानुदानायोगः, राष्ट्रियसंस्कृतसंस्थानम्, संस्कृतविश्वविद्यालयाः, विश्वविद्यालय महाविद्यालयानां संस्कृतविभागाः, केन्द्रीयमाध्यमिकशिक्षासमितिः, प्रान्तीयमाध्यमिकशिक्षासमितयः, संस्कृत माध्यमिक-शिक्षासमितयः, इत्येभिः “संस्कृतं संस्कृतेन” इति लक्ष्यम् उद्दिश्य आगामिषु पञ्चसु वर्षेषु एतस्य पूर्तये संस्कृतशिक्षकाणां तत्तत्स्तरानुगुणं प्रशिक्षणं, पक्षात्मिका कार्यशाला, प्रत्येकं पाठ्यक्रमे नवप्रवेष्टणां छात्राणां कृते सरलसंस्कृतसेतुपाठ्यक्रमः च आयोजनीयाः।

१.७.२.१ प्रसारः

अद्य यावत् संस्कृतस्य उपयोगः केवलं बी.ए., एम्.ए., शास्त्री, आचार्यः, तीर्थः इत्यादीनाम् उपाधीनां प्राप्तिः, तन्मुखेन संस्कृताध्यापकरूपेण जीविकाप्राप्तिः इति अस्ति । किन्तु इदानीं कालः परिवृत्तः दृश्यते । सम्पूर्णे अपि देशे विदेशेषु च एतस्याः भाषायाः अध्ययनविषये, एतन्निहितानां वेदादिशास्त्राणां रामायणादिकाव्यानां वेदान्तादिदर्शनानां मनु-याज्ञवल्क्यादिस्मृतीनाम् इतरेषां च कौटिल्यादिग्रन्थानाम् आयुर्वेदादीनां च विषये महती श्रद्धा जिज्ञासा अनुसन्धित्सा च विद्यते । अतः संस्कृतनिबद्धानां विविधानां शास्त्राणां लोकेन सह सम्बन्धस्थापनाय माध्यमभाषारूपेण सरलसंस्कृतस्य प्रयोगः करणीयः । अनुवादिकायाः भाषायाः अनूद्यमानविषयप्रकाशने असामर्थ्यम्, अनुवादकस्य व्यक्तिविशेषस्य असामर्थ्यम् इत्यादीनां कारणतः परिवर्तितमूलभावार्थानाम् एव ग्रन्थानां बहुधा प्रचलनं दृश्यते । अतः सरलसंस्कृतेन संस्कृतभाषानिहितानां ज्ञानविज्ञानसम्बद्धानां तत्त्वानां प्रसारः करणीयः । तेषाम् अनुवादिका च भाषा सरलसंस्कृतं भवेत्, येन सर्वे अनायासेन तत्तत्-तत्त्वानि जानीयुः।

१.७.२.२ पाठ्यपुस्तकनिर्माणम्

संस्कृतग्रन्थानां पाठनं संस्कृतेन करणीयं चेत्तदर्थं सरलसंस्कृतेन तेषां व्याख्यानात्मकानां पुस्तकानां निर्माणं करणीयम् । न्याय-व्याकरण-मीमांसादिग्रन्थाः विषयदृष्ट्या यथा गम्भीराः तथा तत्तद्न्थप्रयुक्तायाः प्रौढसंस्कृत भाषायाः कारणेनापि दुरूहाः सन्ति इत्यतः तत्र प्रवेष्टुकामानां कृते तेषां पाठ्यग्रन्थानां पुनः सरलसंस्कृतभाषया लेखनं प्रकाशनं च अपेक्ष्यते । संस्कृतभाषानिबद्धानां वाल्मीकि-व्यास-भास-कालिदासादीनां काव्यरचनानां सम्प्रेषणक्रमः सरलया संस्कृतभाषया लिखितैः पुस्तकैः पुनरपि प्रसरेत् । एतदतिरिच्य भूगोलेतिहास गणितविज्ञानादीनाम् आधुनिकानां पाठ्यविषयाणां पुस्तकानि अपि सरलसंस्कृतेन निर्मातव्यानि सन्ति, येन संस्कृतभाषायाः सर्वव्यापकत्वं, सर्वविषयाणाम् अवबोधनाय योग्यता सामर्थ्यवत्वं च सिद्धं भवेत् ।

१.७.२.३ संस्कृतभाषानुवादः

अन्याभिः भारतीयाभिः वैदेशिकीभिश्च भाषाभिः रचितानाम् उत्तमानां ग्रन्थानां संस्कृतेन अनुवादकरणेन संस्कृतसाहित्यम् आधुनिकतमं, सुसमृद्धं च भवेत् इति धिया प्रभूतानाम् अपरभाषानिबद्धानां ज्ञानविज्ञानसम्बद्धानां काव्य-कथा-नाट्यानां च संस्कृतानुवादः करणीयः । तदर्थं केवलं सरलं प्रामाणिकं च प्रवाहमयं संस्कृतम् एव उपयोक्तव्यम् । आधुनिककाले एतादृशः व्यवहारः बहुभिः जनैः विविधैः संघटनैः च क्रियमाणः दृश्यते । एतस्मिन् श्लाघ्ये कर्मणि सरलसंस्कृतस्य एव प्रयोगे कृते, इष्टसिद्धौ अधिका व्यापकता, प्रामाणिकता च आगमिष्यति ।

१.७.२.४ साहित्यसमृद्धिः

आधुनिककाले सकलाभिः आधुनिकभारतीयभाषाभिः, आङ्ग्लादिवैदेशिकभाषाभिः च सह आत्मनः समानता स्वरूपयोग्यतासिद्धिः च करणीया चेत् तदर्थं संख्यात्मकदृष्ट्या, गुणात्मकदृष्ट्या च संस्कृतेन नवीनसाहित्यसृष्टिः अवश्यं करणीया । साहित्यस्य सर्वासु विधासु सर्वेषु आधुनिकविषयेषु च संस्कृतरचनाः स्युः । यद्यपि आधुनिके काले संस्कृतरचनायाः नव्यः कालः समायातः, तथापि सर्वथा लेखकैः सरलसंस्कृतस्य एव प्रयोगः कृत इति नास्ति । यदि इदानीन्तनसंस्कृतरचनानां भाषा पूर्वरचनानाम् इव प्रौढा स्यात् तर्हि आधुनिकभाषाभिः सह समभावं समानगतिं च विनिश्चित्य बहुदूरं गमने महत् काठिन्यम् आपतिष्यति । अतः सहजा सकलजनैः ग्राह्या हृद्या रम्या प्रामाणिकी संस्कृतभाषा एव प्रयोक्तव्या । तेन जनमनसि ‘संस्कृतं कठिनम्’ इति यः भावः विद्यते सः स्वयमेव अपसृतः भवष्यति । किं च संस्कृतं पुनरपि स्वस्य सर्वजनभाषास्वरूपम् आश्रित्य सुप्रतिष्ठितं भविष्यति।

१.८. सरलमानकसंस्कृतं संस्कृतत्वस्य काव्यादीनां वा न हान्यै

सरलमानकसंस्कृतं किं संस्कृतत्वस्य हान्यै न भवेत् इति केषाञ्चित् आतङ्कः स्यात् । संस्कृतस्य पदसम्पत्ति शब्दवैचित्र्य-सन्धिसमासादीनाम् अप्रयोगः एव भवेत् इति चिन्ता उत्पद्येत । सरलमानकसंस्कृतस्य व्यापकता यदि स्यात् तर्हि भास-बाण-कालिदास-भारवि-श्रीहर्षादीनां काव्यादिसम्पत्तेः का गतिः स्यात् इति प्रश्नः केषाञ्चित् मनसि उदियात् । प्रौढशैल्या आधुनिकसाहित्यसृष्टिः या क्रियते तस्य का गतिः इति भीतिः अपि स्यात् । एते आतङ्कप्रश्न भीतिचिन्तादयः वस्तुतः निर्मूलाः एव । सरलमानकसंस्कृतं सर्वस्यापि संस्कृतजगतः एव पोषकं, न कदापि हानिकारकम्।

प्राथमिकस्तरे एव एतस्य उपयोगः प्राधान्येन । प्राथमिकस्तरे महती व्यापकता अपेक्षिता इत्यतः अस्याः क्रियान्वयनविषये अधिकं नैर्भर्यम् आवश्यकं भवति । सरलमानकसंस्कृतम् अवलम्ब्य ये संस्कृतं पठितवन्तः ते स्वज्ञानविकासार्थम् अग्रे गच्छेयुः एव । ते व्याकरणनियमान् सर्वान् अभ्यस्येयुः । विविधानि शास्त्राणि पठेयुः । काव्यानाम् अध्ययने रसास्वादने च प्रवृत्ताः भवेयुः च । वेदोपनिषदादयः अपि तैः अध्येतव्याः एव । एतत्सर्वं कर्तुं सरलमानकसंस्कृतमेव द्वारं भवितुम् अर्हति । ‘द्वार’द्वारा अन्तः प्रवेशः, अन्तः विद्यमानायाः सम्पदः उपयोगः च उद्दिष्टमस्ति, न तु द्वारे एव विश्रामः ।

‘सः निर्गतवान्’ इति प्रयोगं यः करोति, सः गच्छता कालेन ‘सः निरगच्छत्’ इत्यस्य प्रयोगे अपि समर्थः भवेत्, ‘तेन निरगम्यत’ इत्यादीनि प्रयुञ्जीत चापि । सम्भवन्तः सर्वविधप्रयोगाः इष्टाः एव । किन्तु यावत् धातूपसर्गसन्धि नियमादयः न बोध्येरन् तावत् ‘निरगच्छत्’ इत्यादीनां प्रयोगः मास्तु इति वदति सरलमानकसंस्कृतम् । स्तरानुगुणं बोधनं सर्वेषु अपि क्षेत्रेषु अस्ति एव । अतः सरलमानकसंस्कृतं प्राथमिके स्तरे, सामान्यानां पाठने च उपयोक्तव्यम् इत्येतदेव अभिप्रेतम् अत्र । प्रौढशैल्याः तिरस्कारः, इतः परं सर्वैः अपि सरलमानकशैल्या एव काव्यं रचनीयम् इति अनुरोधः वा सर्वथा नास्ति।

सरलमानकसंस्कृतं पाणिनिपरिधेः पालने विशेषनैर्भर्यं दर्शयति इत्यतः तन्निबद्धं सर्वं व्याकरणनियमानुसारमेव भविष्यति । व्याकरणनियमबाह्याः प्रयोगाः तु संस्कृतक्षेत्रे एव निषेध्यन्ते इत्यतः सरलमानकसंस्कृते अपि ते निषिद्धाः भवेयुः एव।

१.९. मनीषिणां समर्थनम्

यदेतत्सर्वं विवृतं तत् ऐदम्प्राथम्येन प्रतिपाद्यमानम् अस्ति इति तु न । आधुनिकभारतस्य निर्मातारः बहवः एतस्मिन् विषये अवधानवन्तः आसन् कृतप्रयत्नाः च आसन् । ते न केवलं संस्कृतभाषानिबद्धानां तत्त्वानां संरक्षण संवर्धनविषये दत्तचित्ताः आसन्, अपि तु तेषु तात्त्विकविवेकेषु प्रवेशाय सामान्यजनानां यथा सामर्थ्यं स्यात् तथा सरलं प्रामाणिकं च संस्कृतं प्रयोक्तव्यम् इति स्वाभिमतं समुपस्थापितवन्तः आसन् अपि । वाराणस्यां काशीहिन्दू विश्वविद्यालयस्य स्थापनायाः प्राथमिककाले एतस्य संस्थापकः भारतरत्नं महामनाः पण्डितः मदनमोहनमालवीयः सरलसंस्कृतशिक्षणाय ‘संस्कृतसरणिः’ इत्याख्यं पुस्तकं लेखितवान् । अत्र लघुवाक्यव्यवहारमुखेन साक्षात् संस्कृतभाषायाः मौलिकान् सरलान् च प्रयोगान् ग्रन्थकारः दर्शयति । किं च ‘पुरुषः, कुमारः, समुद्रः, कुटुम्बम्, गगनम्, पुस्तकम्, लता, नदी, बाला इत्यादयः शब्दाः; नमति, मिलति, हसति, गायति, रटति, रक्षति, धावति इत्यादयः अतिप्रचलितक्रियाः च संस्कृतभाषायां प्रवेशाय प्रदर्शिताः सन्ति तत्र । ‘अयं राजमार्गः, अत्र जनाः सञ्चरन्ति’ इत्येतादृशानि लघुवाक्यानि प्रयुज्य तन्मुखेन सम्बद्धं तत्त्वं यथा विज्ञापितं, तथा संस्कृतभाषायाः सकलजनमनोरमणीयता अपि सम्यक् साधिता अस्ति।

विश्वकविः रवीन्द्रनाथठाकुरोऽपि ‘पाठ्यपुस्तक’शीर्षकेण यथा आङ्ग्लभाषाशिक्षणाय ‘इंराजि-सोपान’ इति पुस्तकं रचितवान् तथैव संस्कृतभाषायाः शिक्षणाय बङ्गभाषामाध्यमेन ‘संस्कृतशिक्षा’नामधेयं पुस्तकं भागद्वयेन लिखितवान् (- रवीन्द्ररचनावली, भागः १५, विश्वभारती, कलिकता, अत्र द्वितीयभागः प्रकाशितोऽस्ति, प्रथमो भागः प्रकशनाधीनो विद्यते) । अत्र अपि लघुवाक्यप्रयोगद्वारा प्रश्नोत्तरविधिना संस्कृतशिक्षणस्य सरलमार्गः प्रदर्शितः अस्ति ।

स्वामी विवेकानन्दः संस्कृतस्य भाषात्वविषये अनतिसाधारणः श्रद्धालुः आसीत् । स्वप्रेरणया सः न केवलं मुग्धबोधव्याकरणं कण्ठस्थीकृतवान्, लघुकौमुदी चाधीतवान्, अपि तु बहूनां धर्म-दर्शनशास्त्राणां गहनम् अध्ययनम् अपि कृतवान् । प्रवासाङ्गतया ‘पोरबन्दरं’ गतेन तेन तत्रत्येन पण्डितशङ्करपाण्डुरङ्गवर्येण क्रियमाणे वेदानुवादकर्मणि साहाय्यमपि विहितम् । संस्कृतस्य सरलसहजरूपाणां प्रयोगः प्रचारश्च करणीयः इति तस्य मतम् आसीत् । ‘हरिः’ इति शब्दस्य पर्यायत्वेन ‘अघभवनरकविनाशनः’, ‘त्रिपुरमदभञ्जनः’, ‘अशेषनिश्शेषकल्याणकरः’ इत्यादिकठिनशब्दप्रयोगं स न अनुमन्यते स्म । तस्य मतम् आसीत् यत् या भाषा प्रयुज्येत सा सरला, सहजा, सर्वजनबोधगम्या च भवेदिति । सः वदति स्म यत् ‘संस्कृतशब्दानाम् उच्चारणमात्रेण एव भारतीयेषु कश्चन गौरवभावः समुत्पद्यते’ इति । त्रिशूरनगरे प्रवासकाले ‘कोचुन्नी थम्पुरन्-भट्टन् थम्पुरन्’ इति राजकुमारद्वयेन सह स्वामिवर्येण संस्कृतेन एव सम्भाषणं विहितम् इति तयोः कृते परमविस्मयकारकः अयं प्रसङ्गः आसीत्।।

नोबल्-पुरस्कारविजेत्रा विश्वप्रसिद्धेन भौतिकशास्त्रविदा डा. सी.वी.रामनमहोदयेन कथितम् आसीत् यत् ‘संस्कृतम् अस्माकं धमनीषु प्रवहद् अस्ति, केवलं संस्कृतेन एव देशस्य एकता सुरक्षिता भवितुम् अर्हति’ इति।

भारतस्य सांविधानिकपरिषदि १९४९ वर्षस्य सितम्बरमासस्य १२ दिनाङ्के यदा श्रीमता नजिरुद्दिन अहमदमहोदयेन प्रस्तावितम् आसीद् यत् संस्कृतं भारतस्य ‘राजभाषा’ भवेदिति, तदा तत्र उपस्थितेन डा. भीमराव अम्बेदकरमहोदयेन स प्रस्तावः समर्थितः आसीत् ।

१९९४ तमे वर्षे बेळगांव-नगरे प्रवृत्तायां कांग्रेस्-सभायां वासिष्ठगणपतिमुनिः संस्कृतस्य सरलं मुखम् उपस्थाप्य तत् स्वरूपं ‘ललिता भाषा’ (लालीभाषा) इति निर्दिश्य ‘एतत्स्वरूपयुक्ता संस्कृतभाषा एव भारतस्य राजभाषा भवितुम् अर्हति’ इति प्रतिपादितवान्, यस्यां च सभायां गान्धिमालवीयप्रभृतयः राष्ट्रनेतारः वेदिकायाम् उपस्थिताः आसन् । (महातपस्वी - काव्यकण्ठस्य गणपतिमुनेः जीवनचित्रम् - ए.सि.रमणः, आङ्ग्लानुवादः - श्रीमती सोत्ती अनसूयम्मा, पृ ३५-२३८) एकविंशशतके अन्तर्जालयुगेऽस्मिन् ‘वीकीपेडिया’विशेषज्ञेन श्रीमता सैयद मुजाम्मिलुद्दिनवर्येण संस्कृतभाषा व्यवहारस्य व्यापकतां साधयितुं विशिष्टः यत्नः क्रियमाणोऽस्ति।

एवं संस्कृतस्य सरलतासमर्थकाः आसन् बहवः मनीषिणः । अरविन्दाश्रमस्य अरविन्दमहर्षिः, तच्छिष्या श्रीमाता च सबलं वदतः स्म यत् संस्कृतस्य पाठनं सरलसंस्कृतेन एव स्यात् इति । सा एव परम्परा अनुवर्तते अरविन्दाश्रमे अद्यापि । वाराणसेयः वासुदेवद्विवेदी शास्त्री आजीवनं सरलसंस्कृतप्रसाराय महान्तं प्रयासं कृतवान् । बहवः ग्रन्थाः अपि तेन लिखिताः सरलसंस्कृतेन एव । सः पृच्छति - ‘भवता यन्मुखेनैव आओ, जाओ निगद्यते । आगच्छ गच्छेति कथं तन्मुखेनैव नोच्यते ?’ इति । महाराष्ट्रीयस्य भण्डारकरवर्यस्य, एतादृशानाम् अन्येषां विदुषां च बहवः प्रयासाः एतस्मिन् क्षेत्रे अनुपमाः एव सन्ति।

अन्यः कश्चन अंशः अत्र अवश्यम् उल्लेखनीयः अस्ति । उत्तरप्रदेशीयः मान्यः साहित्यरत्नं विद्याभूषणः श्यामकुमारसिंहवर्यः (आगरास्थायाः भारतीयविद्यासमितेः मन्त्री) १९४९ तमे वर्षे ‘कीदृशं संस्कृतम् ?’ इति पुस्तकं प्रकाशितवान् । १८७ पुटात्मके स्वीये पुस्तके सः सरलसंस्कृतस्य आवश्यकतां विस्तरेण प्रतिपाद्य तस्य स्वरूपमपि विशदय्य, बहूनां विदुषां मतमपि विमृश्य कथयति - ‘यदि पण्डिताः भारतीयाः वा इच्छन्ति यत् संस्कृतं भूयः अपि देशस्य राष्ट्रभाषा अन्ताराष्ट्रीया भाषा च भवेत् पूर्ववत् इति, तर्हि तस्य सारल्यम् आवश्यकम् अनिवार्यं च’ इति।

सर्वस्यास्य परिशीलनात् स्पष्टं भवति यत् सरलमानकसंस्कृतम् अद्यतनस्य कालस्य अनन्यावलम्बनम् इति संस्कृतस्य प्रसाराय संरक्षणाय च सरलमानकसंस्कृतं किञ्चन विशिष्टं साधनम् इति च।