Translation for Another 200 Years?

Source: here.

spf

I came to know that Sahitya Akademi has decided to translate ancient Indian texts like Vedas, Upanishads, Bhagavadgita etc into Indian languages and has constituted a committee for this purpose with eminent scholars like Prof Abhiraja Rajendra Mishra, Prof Satyavrata Shastri, Prof Kapil Kapoor, Prof Nanda Kishor Pandey, Prof Uma Vaidya, Prof Harekrishna Satapathy and Sri Janardana Hegde. I have nothing against these great scholars. Each one of them have done the highest and greatest contribution to the nation, Samskrit language and Indian languages and literature in particular. I salute them for their service, tapas and achievements. Here in this short article, I am only trying to convey about one of the roadblocks for the development of Samskrit and the need to have a paradigm shift amongst the lovers of Samskrit and the scholars of Samskrit.

This type of translation from Samskrit to other Indian languages, of the above-mentioned texts in particular, has been going on for the last 200 years and every other translation is said to be more accurate and authentic than the earlier ones! Instead, I am of the opinion that the need of the hour is translation from other Indian languages into Samskrit language in order to contemporize Samskrit literature, to create new content, new literature, new words, new writers, new critics, new journals, new styles and new scholars, to add new dimensions and new courses in Samskrit studies and to bring the Samskrit language and literature out from the current stagnation.

For 200 years, people have been reading translations, not Samskrit. Other languages have thus gotten enriched by such translations, and not Samskrit literature. Samskrit scholars have gotten enriched, not Samskrit language. The publishers got enriched, not the Samskrit language.+++(5)+++ Those who read translations remained as readers of translations all their life and few learnt Samskrit language. People buy Gita Press’ Bhagavadgita and read the translation, but not the Bhagavadgita, because they never learn the Samskrit language, they have been happy with the easy readymade shortcut called translation! Translated books keep people always dependent on secondary sources. Translated books are the preferred texts in Ayurveda colleges and the referred books for Samskrit papers in BA and MA courses.

Translation from Samskrit language to other languages has become a great obstruction to the development of Samskrit language.+++(5)+++ For those people who do not know the Samskrit language, it is the easiest way to know the content without the difficulty of learning the language. For young scholars, it is the easiest way to increase their list of publications.+++(5)+++ For publishers, it is the easiest product to sell and make money. For scholars it fetches both good royalty and plenty of awards. For the politicians it gives them a feeling of satisfaction that they did something for Samskrit. For the Institutional Heads, it pleases their bosses and enhances their achievement list. All are happy. The ecosystem thrives! For how long do we keep doing this business at the cost of Samskrit? For another 200 years?


** By :- Chamu Krishna Shastry | Views:- 1562 | 12-07-2021 11:18 PM**


विश्वासाभिप्रायः

शशिकिरणप्रतिक्रिया

तत्रभवता चमू-कृष्णशास्त्रिवर्येण कश्चन लेखः प्रणीतः - यस्मिन् संस्कृतग्रन्थानाम् अनुवादा मूलच्छेदाय कल्पन्त इति विषयः समुपस्थापितः। श्रीमान् चमू-कृष्णशास्त्रिवर्यः संस्कृतम् अतितरां सेवते। स हि नः श्लाघापात्रम्। अत्र तदीयं विचारजातं दिङ्मात्रं यावद्विमृश्यते। लेखमेनं प्रपठ्य विद्वद्रसिकाः प्रमाणम्॥ — बि. एन्. शशिकिरणः

देवभाषास्तुतिर् मा भूद् देश-भाषा-विगर्हिका+++(5)+++

सम्प्रति संस्कृतभाषा सर्वमुखसुखवास्तव्या जायमानेति महते मोदाय कल्पते। को वा मतिमान् निजमातुः सार्वदिकं+++(←सर्वदा)+++ संस्तवं न कामयते? अतः खल्वस्यां दिशि क्रियमाणाः प्रयत्नाः स्वीक्रियमाणाः प्रकल्पाश्च सोत्साहं समाद्रियन्ते। किञ्च देवभाषायाः स्तुतिर् न जातु देशभाषा उपालभेत॥

यत् केचिद् आचक्षते देश-भाषाभिः सुमहद् अपकृतं संस्कृतस्येति, तद् अनृतम्। भारते न क्वापि संस्कृतं स्वातिशयाय देशभाषाः तिरश्चकार। न वा देशभाषाः संस्कृतसरस्वतीं निरुरुधुः। तयोः सम्बन्धः किल दम्पत्योरिव परस्परपरिपूरको बभूव। कलहास्तु कदाचिदुद्बभूवुः। अथापि न विच्छिन्नं दाम्पत्यम्। इत्थं सुखम् एधमानां गृहमेधितां मा स्म भिन्द्यात॥

किं बहुना, कवीबुभूषुणा देशभाषोपनिबद्धानि काव्यानि पठनीयानीति ब्रुवता क्षेमेन्द्रेण, विविधदेशभाषाभिः प्रणीतानेकग्रन्थैः संस्कृतकविपण्डितैश्च युक्तः पन्थाः प्रदर्शितः॥

संस्कृतसम्बद्धाः सर्वे विषयाः संस्कृतेनैव बोधनीया इति कृष्णशास्त्रिवर्यः प्रतिपादयति। महदिदं लक्ष्यं क्रमशः साधनीयम्। ओमिति ब्रूमः। तथापि विषयं स्पष्टयितुं श्रोतॄणां सौविध्यं च साधयितुं कदाचिदन्या अपि वाण्यः प्रयोज्याः। यया गिरा प्रतिपाद्यो विषयः सुग्रहः स्यात् सैव समादर्तव्या। ननु विचारप्रतिपादनावसरे विचार एव प्रामुख्यमर्हति, न भाषा। तदास्तां नाम। इत्थमेव बहवः पण्डिताः शास्त्राणि प्राबोधयन् इति सर्वं सुस्थम्॥

अनुवादैः संस्कृतं पर्याकुलतां नीतमिति प्रायोवादः। अत्र भाषां विषयं चाधिकृत्य किञ्चिद्विचार्यते। अथ भाषा। वर्तन्ते वैदेशिक्यो भाषाः संस्कृत्या स्वरूपेण च संस्कृताद् व्यक्तं भिन्नाः। सन्ति च देशभाषाः संस्कृत्या स्वरूपेण च संस्कृतम् अनुसरन्त्यः। एवं स्थिते देशभाषाभिः कृतोऽनुवादो यथा प्रशस्यते विदेशभाषाभिः कृतो न तथेति वक्तुं युक्तम्। अथ विषयः। अयं द्विविधः, काव्यशास्त्रभेदात्। अनुवादासहत्वम् अथवा परिवृत्त्य्-असहत्वं काव्यस्य भवेद् उपलक्षणम्, न शास्त्रस्य। अर्थप्राधान्यात् शास्त्रस्य, शब्दार्थोभयप्राधान्याच्च काव्यस्य। अनुवादसहानि शास्त्राणि, काव्यानि तु न तथेति निर्गलितोऽर्थः॥

कृष्णशास्त्रिवर्यो हि मूलं बहुमन्यते। स्थाने खल्वभिमानः प्रदर्शितः। किञ्च अन्यनिरपेक्षं मूलमिति न युक्तियुक्तं वचः। अत्र संस्कृतभाषाविकासः किञ्चिद्विचार्यते। वैदिकी वाणी प्रकृतिः। ततः प्राप्तसंस्कारा वागुदियाय लौकिकी। ततश्च विविधाः प्राकृता जनिं लेभिरे, या एव प्रायेण ऐदंयुगीनानां भाषाणां मातृकाः।+++(5)+++ वस्तुतस्तु अनुवादो नाम भाषाया रूपान्तरप्रापणप्रक्रिया। अतो वैदिकवाण्याः संस्कृतम्, संस्कृतस्य प्राकृताः, प्राकृतानां च देशभाषा अनुवादा एवेत्यवसीयते। यद्यनुवादो दोषाय, वैदिकभाषाम् अनुवदन्ती संस्कृतभारती वाच्यतां यायात्। अन्ततः सर्वेऽपि भाषाप्रभेदा इत्थम् एव परिगण्येरन्। तस्मादनुवादो न दोषायेति निश्चीयते॥

भारते अनुवाद-कर्म आसीद् अस्ति भविष्यति च। महता हि कालपूगेन संस्कृतकृतयो देशभाषाभिर् अनूद्यन्ते। संस्कृतभाषा समग्रां भारतीयसंस्कृतिं स्वस्मिन् निधत्ते, तां +++(प्रतिनिधिर् भूत्वा)+++ प्रतिनिधत्ते चेति सर्वे जानन्ति। तत्सहोदर्यो देशभाषा अपि भारतीय-संस्कृतिं पोषयन्ति। न कापि दैशिकी वागत्र व्यभिचरति। यदि स्वातन्त्र्यं प्रदर्शयितुकामा देशभाषाः संस्कृताद् अनुवादादिकम् अकृत्वा तद्विमुखा अभविष्यन्, भारतीयसंस्कृतेः सुतरां क्षतिर् अभविष्यत्। अथ चेदानीं केचन दुराग्रह-ग्रहिलाः+++(5)+++ स्वदेशीया विदेशीयाश् च संस्कृत-देशभाषयोः परस्परं वैरं कल्पयन्तः सर्वा अपि देशभाषाः संस्कृत-शून्या विदधानाः सन्ति। तद् अस्मिन् काले दुरध्यवसायम् एनम् अपाकर्तुं राष्ट्रैक्यं च परिरक्षितुं संस्कृतज्ञाः प्रयतेरन्। अत्र अनुवादा उपकुर्वन्तीति स्फुटम्॥

प्रान्ते प्रान्ते प्राप्त-जन्मानः कवयः पण्डिताश् च संस्कृत-सम्पदं स्वगिरा प्रकाशयामासुः, क्वचन प्रवर्धयाम् आसुश्च। आधुनिके काले तावत् बलदेव-उपाध्यायप्रमुखैः हिन्दीभाषया, रङ्गनाथशर्मप्रमुखैः कन्नडभाषया, पुल्लेल-श्रीरामचन्द्रुडुप्रमुखैः आन्ध्रभाषया च बहवः संस्कृतग्रन्था अनूदिताः। किम् एभिः प्रातःस्मरणीयैः पण्डितप्राग्रहरैः कलुषितं संस्कृतं महदपराद्धं चेति घुष्यते?

स्वभाषासु प्रतिफलितां संस्कृत-श्रियं दर्शं दर्शं मोदन्ते लोकाः। यद्यपि ते संस्कृतया गिरा भगवद्गीताम् अध्येतुं न पारयेयुः। अथापि गीतासु निक्षिप्तं तत्त्वम् अवश्यम् आत्मसात्कुर्युः। अनेन किं नश्छिन्नम्? संस्कृतम् अजानन्तोऽपि लोकाः स्वदेश-भाषा-संस्कारेण तन्-महिमानं विज्ञाय तस्मिन् आदरं प्रदर्शयन्ति। आदरवत्सु केचन देवभाषाम् अभ्यसितुं प्रारभन्ते च। सोऽयम् आदर-विशेषः सर्वेणापि संस्कृतज्ञेन यत्नेन रक्षणीयः॥

मूल-ग्रन्थेषु प्रतिपादितोऽर्थः तद्-अनुवादेषु यथातथं न प्रतिफलति। अन्ततः समेषां मूलमेव शरण्यम् इत्य् अत्र न कापि विप्रतिपत्तिः। किञ्च मूलं कामयमानः शाखां न विलुञ्चेद् इति शम्॥

देवा दैवीं नरा नारीं शबराश्चापि शाबरीम्।
तिर्यञ्चोऽपि च तैरश्चीं मेनिरे भगवद्गिरम्॥