स्वराभिज्ञानक्रमः

क्रमः

  • समस्याः - उदात्त+एकश्रुति-विवेकः। सन्नतरैकश्रुतिविवेकः।

  • परिहारः - सोपानक्रमेण स्वरस्थानावगतिः।

    • “उदात्तत्वं वर्णस्य बलिष्ठम्” इति। एवम् बलक्रमः - उदात्तत्वम् > सन्नतरत्वम् > स्वरितत्वम् > एकश्रुतित्वम्। तेनैवाश्रितः क्रमः सोपाने।
  • संहितायाम् पदविभागावगतिः - साधारणसंस्कृतज्ञानेन, टीकादर्शनेन, संहितायां स्वराङ्कनावलोकनेन, पदपाठदर्शनेन वा

  • पदेषु + उदात्त-नित्यस्वरितयोर् अभिज्ञानम् - दत्तपाठे संहितायां सन्नतर+स्वरित-स्वराङ्कनावलोकनेन, प्रकृति-स्वर-ज्ञानेन वा ।

    • स्व-भावतस् तु पदे पृथग्-गृहीते एको वा (ततो नाधिको) वर्ण उदात्तो भवति। अथवा +उदात्तस्य स्थाने जात्यस्वरितो /नित्यस्वरितो भवति।
    • सन्नतरचिह्नात् परं झटिति स्वरितो भवति चेत् तत्र प्रायेण जात्यस्वरित एव। यथा - वात्स्यः॒ क्व॑। वी॒र्या॑णि।
    • उदात्तात् पूर्वम् अपरस्मिन् उदात्तानुदात्त-सन्धि-जन्यः स्वरितोऽस्ति चेत्, तत्र स्वरित एवाङ्क्येत। यथा तैत्तिरीय-ब्राह्मणे - ते᳚ऽग्निना॒ प्राञ्चो॑ऽजयन्न् ।
  • वाक्य उदात्त-जात्यस्वरितयोर् अभिज्ञानम् - गत-सोपान-फलात् पद-सन्धानेन लब्धम्।

  • सन्नतरस्थानाभिज्ञानम् - उदात्त/जात्यस्वरित-स्थानावलम्बनेन।

  • उदात्त-सन्नतरयोस् सन्धिना जातानां स्वरितानाम् अभिज्ञानम्

    • क्षैप्र-स्वरिताभिज्ञानम् - संहितायां सन्नतर+स्वरित-स्वराङ्कनावलोकनेन, यण्-सन्धेर् अभिज्ञानेन च, चिह्नविशेषेण वा। यथा - अ॒प्सु अ॒न्तः - अ॒प्स्व॒॑न्तः। सा रो॑हि॒ण्य॑भवत् ।
    • कम्प-स्वरिताभिज्ञानम् - संहितायां सन्नतर+स्वरित-स्वराङ्कनावलोकनेन सन्ध्यभिज्ञानेन च, चिह्नविशेषेण वा। यथा - र॒यः अ॒वनिः॑ - र॒यो॒॑वनिः। रा॒यो३॒॑वनिः।
    • प्रश्लिष्ट-स्वरिताभिज्ञानम् - संहितायां सन्नतर+स्वरित-स्वराङ्कनावलोकनेन सन्ध्यभिज्ञानेन च, चिह्नविशेषेण वा। वैकल्पिकोऽयं स्वरितभावः। यथा - न ए॒व - नै॒॑व। ते᳚ ऽग्नये॑ पाव॒काय॑।
  • शुद्ध-स्वरिताभिज्ञानम् - “उदात्ताद् अनुदात्तस्य स्वरितः” इत्यनेन।

  • स्वरिते दीर्घे सति दीर्घस्वरिताभिज्ञानम्

  • एकश्रुत्य्-अभिज्ञानम् - पूर्वाभिज्ञानात् परं व्यतिरिक्ताः स्वरा एकश्रुतय इति ज्ञेयाः।

प्रदर्शनानि

समस्या

  • दत्तम् - काम॑मू॒र्ध्वन्देय᳚म् । अप॑रिमित॒स्याव॑रुद्ध्यै ॥5
  • साध्यम् - “कामम् ऊर्ध्वन् देयम् , अपरिमितस्यावरुद्ध्यै ॥55” इत्यस्मिन् स्वराङ्कनम्।

परिहारः

  • पदविभागः - कामं, ऊर्ध्वं, देयम्, अपरिमितस्य, अवरु्ध्यै
  • उदात्ताभिज्ञानम् - “(का)मम् ऊ(र्ध्व)न् (दे)यम् , (अ)परिमित(स्या)वरुद्ध्यै ॥55” - ()चिह्नैर् अङ्कितानाम् वर्णानाम् उदात्तत्वं दत्तपाठे स्वरचिह्नानाम् अवलोकनेन लब्धम्।
  • सन्नतराभिज्ञानम् - (का)मम् ऊ॒(र्ध्व)न् (दे)य॒म् , (अ)परिमित॒(स्या)वरुद्ध्यै ॥5 - प्राक्तसोपानलब्ध+उदात्तस्थानाधारेण।
  • शुद्ध-स्वरिताभिज्ञानम् - (का)म॑म् ऊ॒(र्ध्व)न् (दे)य॒म् , (अ)प॑रिमित॒(स्या)व॑रुद्ध्यै ॥5 -“उदात्ताद् अनुदात्तस्य स्वरितः” इत्यनेन।
  • एकश्रुत्य्-अभिज्ञानम् - पूर्वाभिज्ञानात् परं व्यतिरिक्ताः स्वरा एकश्रुतय इति ज्ञेयाः।
  • फलम् - काम॑म् ऊ॒र्ध्वन् देय॒म् , अप॑रिमित॒स्याव॑रुद्ध्यै ॥5

समस्या

  • दत्तम् - यदे॒वादि॒त्य आसी᳚त् । तत्तेनावा॑रुन्धत ।
  • साध्यम् - यद् एवादित्य आसीत् तत् तेनावारुन्धत । इत्यस्मिन् स्वराङ्कनम्।

परिहारः

  • पदविभागः - यद् एव आदित्य आसीत् तत् तेन अव अरुन्धत ।
  • पदेषूदात्ताभिज्ञानम् - (य)द् ए(व) आदि(त्य) (आ)सीत् (त)त् (ते)न (अ)वारुन्धत - ()चिह्नैर् अङ्कितानाम् वर्णानाम् उदात्तत्वं दत्तपाठे स्वरचिह्नानाम् अवलोकनेन लब्धम्।
  • वाक्य उदात्ताभिज्ञानम् - (य)दे(वा)दि(त्य) (आ)सीत् (त)त् (ते)(ना)वारुन्धत - पदसन्धानेन लब्धम्।
  • सन्नतराभिज्ञानम् - (य)दे॒(वा)दि॒(त्य) (आ)सी॒त् (त)त् (ते)(ना)वारुन्धत - प्राक्तसोपानलब्ध+उदात्तस्थानाधारेण।
  • शुद्ध-स्वरिताभिज्ञानम् - (य)दे॒(वा)दि॒(त्य) (आ)सी॒त् (त)त् (ते)(ना)वा॑रुन्धत -“उदात्ताद् अनुदात्तस्य स्वरितः” इत्यनेन।
  • एकश्रुत्य्-अभिज्ञानम् - पूर्वाभिज्ञानात् परं व्यतिरिक्ताः स्वरा एकश्रुतय इति ज्ञेयाः।
  • फलम् - (य)दे॒(वा)दि॒(त्य) (आ)सी॒त् (त)त् (ते)(ना)वा॑रुन्धत।

समस्या

  • दत्तम् - यदि॑ सव्ँवथ्स॒रे नाद॒ध्यात् । द्वा॒द॒श्या᳚म्पु॒रस्ता॒दाद॑ध्यात् ।
  • साध्यम् - “यदि सव्ँवथ्सरे नादध्याद्, द्वादश्याम्पुरस्तादादध्यात्” इत्यस्मिन् स्वराङ्कनम्।

परिहारः

  • संहितायाम् पदविभागावगतिः - यदि सव्ँवथ्सरे न आदध्यात् द्वादश्याम् पुरस्तात् पुरस्तात् आदध्यात्
  • पदेषु + उदात्त-नित्यस्वरितयोर् भिज्ञानम् - (य)दि सव्ँवथ्स(रे) (न) आद(ध्या)त् द्वादश्या॑म् पु(र)स्तात् (आ)दध्यात्
  • वाक्य उदात्त-जात्यस्वरितयोर् अभिज्ञानम् - (य)दि सव्ँवथ्स(रे) (ना)द(ध्या)द् द्वादश्या॑म् पु(र)स्ताद् (आ)दध्यात्
  • सन्नतरस्थानाभिज्ञानम् - (य)दि सव्ँवथ्स॒(रे) (ना)द॒(ध्या)द् द्वाद॒श्या॑म् पु॒(र)स्ता॒द् (आ)दध्यात्
  • शुद्ध-स्वरिताभिज्ञानम् - (य)दि॑ सव्ँवथ्स॒(रे) (ना)द॒(ध्या)द् द्वा॑द॒श्या॑म् पु॒(र)स्ता॒द् (आ)द॑ध्यात्
  • स्वरिते दीर्घे सति दीर्घस्वरिताभिज्ञानम् - (य)दि॑ सव्ँवथ्स॒(रे) (ना)द॒(ध्या)द् द्वा᳚द॒श्या᳚म् पु॒(र)स्ता॒द् (आ)द॑ध्यात्
  • एकश्रुत्य्-अभिज्ञानम् - पूर्वाभिज्ञानात् परं व्यतिरिक्ताः स्वरा एकश्रुतय इति ज्ञेयाः।
  • फलम् - (य)दि॑ सव्ँवथ्स॒(रे) (ना)द॒(ध्या)द् द्वा᳚द॒श्या᳚म् पु॒(र)स्ता॒द् (आ)द॑ध्यात्

क्रमावगति-परीक्षा

  • यद् अ॑न्वाहार्य॒-पच॑ने ऽन्वाहा॒र्य॑म् पच॑न्ति॒ , तेन॒ सो᳚ ऽस्या॒भीष्ट॑ᳶ प्री॒तः ।
  • सा रो॑हि॒ण्य॑भवत् । तद्रो॑हि॒ण्यै रो॑हिणि॒त्वम् ।