अञ्च्
- {प्रत्यञ्च्}
- अञ्च् (अञ्चु गतिपूजनयोः)।
- ‘प्रत्यङ् नः सुमना भव’ (अथर्व० ३।२०।२, ऋ० १०।१४१।१)। अस्मान्प्रत्यञ्चन्, अस्मदभिमुखं गच्छन्।
- ‘जहि प्रतीचो अनूचः पराचः’ (अथर्व० ३।१।४)। प्रतीचः प्रतिमुखमागच्छतः। पराचः पराङ्मुखं गच्छतः।
- ‘ऋतव: सर्वे पराञ्चः सर्वे प्रत्यञ्चः’ (श० ब्रा० १२।८।२।३५)। प्रत्यञ्चः परावृत्ताः, अभिमुखगामिनः।
अञ्ज्
- {प्रत्यञ्ज्}
- अञ्ज् (अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु)।
- ‘प्रत्यनक्त्त्यवदानानि’ (श० ब्रा० ५।१।३।६)।
- ‘नराशंसः प्रति धामान्यञ्जन्’ (ऋ० २।३।२)।
- ‘स्रुवेण कपालानि प्रत्यज्य’ (आप० श्रौ० २।३।११।३)। कपालानि प्रत्येकम् अङ्क्त्वा म्रक्षयित्वा।
अर्च्
- {प्रत्यर्च्}
- अर्च् (अर्च पूजायाम्, वेदे दीप्तावपि)।
- ‘अग्ने यत्तेऽर्चिस्तेन तम्प्रत्यर्च योऽस्मान् द्वेष्टि’ (अथर्व० २।१९।३)। तं प्रत्यर्च तं दग्धुं दीप्यस्वेत्यर्थः।
- ‘स्त्रियश्च तां प्रत्यर्चयामासुः’ (भा०)। पूजिताः सत्यः प्रत्यपूजयन्।
अर्थ्
- {प्रत्यर्थ्}
- अर्थ् (अर्थ उपयाच्ञायाम्)।
- ‘प्रत्यर्थयत राघवम्’ (भट्टि० ६।२५)। प्रत्यर्थिनं कुरुतेति जयमङ्गला। तत्करोति तदाचष्ट इति णिच्। अर्थयतेस्तु नित्यमात्मनेपदित्वात्प्रत्यर्थयध्वमिति स्यात्। आश्चर्यं मृगपोतः केसरिकिशोरकं प्रत्यर्थयिष्यते। अभियास्यति, आक्रमिष्यतीत्यर्थः।
- ‘बहुप्रत्यर्थिकं ह्येतद्राज्यं नाम कुरूद्वह’ (भा० आश्रम० ३६।१२)। प्रत्यर्थी विरोधी। विरोधिबहुलमित्यर्थः।
- ‘निर्वेदप्रत्यर्थिनी खलु प्रार्थना’ (मध्यम० १)। वैराग्यविरोधिनी, औदासीन्याननुरूपा।
- ‘अपराङ्मुखतार्थिभ्यः प्रत्यर्थिभ्यो विशेषतः’ (स्कन्द० पु० का० ४।१९।४३)। प्रत्यर्थिनः परिपन्थिनो द्विषन्तः।
- ‘अहो सुखप्रत्यर्थिता दैवस्य’ (विक्रम० ६)। सुखविरोधितेत्यर्थः।
अस्
- {प्रत्यस्}
- अस् (असु क्षेपे)।
- ‘अन्तकमु तर्हि पश्चात् प्रत्यस्येत्’ (श० ब्रा० ३।२।१।४)।
- ‘मुखे प्रथमं प्रत्यस्यति’ (श० ब्रा० ३।२।१।४)।
- ‘तं प्रत्यस्यामि मृत्यवे’ (अथर्व० ६।३६।३)। प्रत्यस्यामि प्रतिक्षिपामि, अग्रतः क्षिपामि।
- ‘तस्मा अश्वं प्रत्यास्यत्’ (तै० सं० ५।७।१०।४०)। प्रातिकूल्येनाग्रतः क्षिप्तवान्। अश्वेन प्रतिरुद्धवान् इत्यर्थः। शार्दूलचर्मणो जघनार्धे।
- ‘सीसं निहितं भवति तत्पदा प्रत्यस्यति’ (श० ब्रा० ५।४।१।९)। प्रत्यस्यति आहन्ति प्रहरति, ताडयति।
- ‘प्रत्यस्तरूपां भावेषु क्रियेति प्रतिजानते’ (वा० प० ३।८।२४)। प्रत्यस्ताऽध्यारोपिता।
इ
- {प्रती}
- इ (इण गतौ)।
- ‘असन्तप्तं तु यद् दारु (वंशादि ऋजूकृतम्) प्रत्येति प्रकृतिं पुनः’ (भा० शां० १०२।३१)। प्रत्येति प्रतिगच्छति अभ्येति।
- ‘प्रतीयाय गुरोः सकाशम्’ (रघु० ५।३५)। प्रतीयाय प्रतिनिववृते।
- ‘यत्तन्निः सत्तासत्तं…प्रधानं प्रतियन्ति’ (यो० सू० २।१९ भाष्ये)। प्रतियन्ति अपियन्ति, अभिसंविशन्ति।
- ‘अग्निर्नः शत्रून्प्रत्येतु’ (अथर्व० ३।१।१)। प्रत्यनीकः सन् यातु, अभिमुखं प्रातिभट्येन गच्छतु।
- ‘अनिशं चिन्तयानोपि यः प्रतीयाद्रथेन तम्’ (भा० उ० ५२।२)।
- ‘तेन (कवचेन) मामद्य संयुक्तं रथस्थमिह संयुगे। प्रतीयात् कोऽद्य मामाजौ साक्षादपि पुरन्दरः’ (रा० ६।९२।२९)॥
- ‘सहसैन्यानहं तांश्च प्रतीयां रणमूर्धनि’ (भा० उ० १७२।१३)।
- ‘यः प्रतीयाद्रणे द्रोणं यावद् गच्छामि पाण्डवम्’ (भा० द्रोण० १११।२७)।
- ‘कृष्णपार्थौ जिघांसन्तः प्रतीयुर्विविधायुधाः’ (भा० आदि० २२७।५९)। अत्र सर्वत्रोदितचर एवार्थः।
- ‘सैषाऽन्वारम्भणीयायाः स्थानं प्रत्येति’ (भा० श्रौ० ८।१।५)। स्थानं प्रत्येति पदमापद्यते।
- ‘कलहंसमालाः प्रतीयिरे श्रोत्रसुखैर्निनादः’ (भट्टि० २।१८)। प्रतीयिरे जज्ञिरेऽनुममिरे, ज्ञप्ता अनुमिताः, उन्नीताः।
- ‘उच्चावचा जनपदधर्मा ग्रामधर्माश्च, तान् विवाहे प्रतीयात्’ (आश्व० गृ० १।७)। प्रतीयात् निश्चिनुयात्, परिचिनुयात्, व्यवस्येत्।
- ‘तं मोपयातं प्रतियन्तु विप्राः’ (भा० पु० १।१९।१५)। प्रतियन्तु विदाङ्कुर्वन्तु। भवतु।
- ‘प्रतीमस्तावत्’ (प्र० च०)। तत्त्वतो विजानामेत्यर्थः।
- ‘कः प्रत्येति सैवेयमिति’ (उत्तर० ४)।
- ‘प्रत्येतु कस्तद् भुवि’ (उत्तर०)। कः श्रद्दध्यादित्यर्थः।
- ‘ततः परशुरामस्य न प्रतीमः पराभवम्’ (महा० च० २।१४)।
- ‘किं वक्ष्ये तत्र लोकश्च प्रत्येष्यति कथं मम’ (कथा० २९।९७)। उक्तोऽर्थः।
- ‘विभाषोपपदेन प्रतीयमाने’ (पा० १।३।७७)। प्रतीयमाने द्योतिते सति।
- ‘प्रतियन्तं चिदेनसः’ (ऋ० ८।६७।१७)। प्रतिगच्छन्तम्।
- ‘बलवत्तु दूयमानं प्रत्याययतीव मां हृदयम्’ (शा० ५।३१)। विश्वासयति।
- ‘प्रत्याय्यन्ते ते च तदानीं परलोकम्’ (अवदा० जा० १९)। श्रद्धाप्यन्त इत्यर्थः।
- ‘तं प्रतीतं स्वधर्मेण ब्रह्मदायहरं पितुः’ (मनु० ३।३)। प्रतीतं ख्यातम्।
- ‘सोऽयं वटः श्याम इति प्रतीतः’ (रघु० १३।५३)।
- ‘ततः प्रतीतं प्लवतां वरिष्ठम्’ (रा० ४।६५।३५)। उक्तोऽर्थः।
- ‘तथापि नेच्छेयमिति प्रतीतः’ (भा० आश्व० ९।२३)। प्रतीतः कृतनिश्चयः।
- ‘भरतश्चेत्प्रतीतः स्याद्राज्यं प्राप्यैतदव्ययम्’ (रा० २।४२।९)। प्रतीतः सन्तुष्टः।
- ‘पतिः प्रतीतः प्रसवोन्मुखीं प्रियां ददर्श…’ (रघु० ३।१२)॥ प्रतीतः प्रसन्नः प्रमुदितः।
- ‘भव इव षण्मुखजन्मना प्रतीतः’ (बुद्ध० १।९४)।
- ‘एवं राजर्षयः सर्वे प्रतीता रघुनन्दन’ (रा० २।१०७।१४)। प्रतीताः प्रेताः। प्रतिशब्दोऽस्थाने, न विवक्षितमर्थमुपकरोति।
- ‘सुहिता एतां रात्रिं वसन्ति प्रतीता अनवर्तिमुखिनः’ (भा० श्रौ० ८।१३।२०)। प्रतीताः समिताः संगताः। प्रतिशब्दः प्रातिमुख्यमाह, तेन च सामीप्यं संनिकर्षो लक्ष्यते। अनवर्तिमुखिनो दारिद्र्येऽऽसंलपन्तः। अवर्तिर्दारिद्र्यम्।
- ‘अप्रतीतो जयति सं धनानि’ (ऋ० ४।५०।९, ऐ० ब्रा० ८।२६)। शत्रुभिरितः प्राप्तः प्रतीतः, तद्विपरीतोऽप्रतीत इति सायणः। अप्रत्यृतोऽपराङ्मुख इति वयम्। अत्रार्थे न किञ्चिद् उपस्करणीयं भवतीति गुणः।
- ‘यौ पत्येते अप्रतीतौ सहोभिः’ (अथर्व० ७।२५।१)। अप्रतिरुद्धाविति सायणः। अयमप्यप्रसिद्धोऽर्थः। प्रतिपूर्व एतिर्न क्वचिद्रोधने दृष्टः। तस्मादस्मदुक्तपूर्व एवार्थः श्रेयान्।
- ‘ते प्रजापतिं पितरं प्रतीत्योचुः’ (श० ब्रा० २।२।४।१६)। प्रतीत्य तत्सकाशमित्वा, तमुपेत्य।
- ‘ऊतीः कुर्वाणो यत्पृथिवीमचरो गुहाकारमाखुरूपं प्रतीत्य’ (आप० श्रौ० ५।१।१।७)। प्रतीत्य प्राप्य परिगृह्य आस्थाय। हेतून्प्रत्ययान् प्रतीत्य समाश्रित्य यः स्कन्धादीनां समुत्पादः स प्रतीत्यसमुत्पादः।
- ‘न मुग्धे प्रत्येतुं प्रभवति गतः कालहरिणः’ (का० प्र० ७।३२७)। प्रत्येतुं प्रतिनिवर्तितुम्।
- ‘तत्प्रत्याययितव्योऽसौ (प्राणः) क्रमेणारण्यहस्तिवत्’ (स्कन्द० पु० का० ४।४१।८०)। प्रत्याययितव्यो लालयितव्यः, क्रमेण संनियाम्यः।
- ‘मूढः परप्रत्ययनेयबुद्धिः’ (माल० १।२)। प्रत्ययो विश्वासः।
- ‘साधुकामश्च स्पृहयेन्नायतिं प्रत्ययेषु च’ (भा० शां० २२०।११)। प्रत्ययाः सुखदुःखानुभवाः।
- ‘अपेक्षते प्रत्ययमुत्तमं त्वाम्’ (कु० ३।८)। प्रत्ययः कारणम्।
- ‘एवं परतो धर्मश्रवणं सम्यग्दृष्ट्युत्पादप्रत्ययो भवति’ (अवदा० जा० २९)। उक्तोऽर्थः।
- ‘राजप्रत्ययाः प्रजाः’ (अमरोद्घाटने स्वामी)। राजाधीना इत्यर्थः।
- ‘अथाब्रवीन्मघवा प्रत्ययं स्वम्’ (भा० अनु० ९४।४३)। प्रत्ययोऽभिप्रायः।
- ‘लोकवीरौ महेष्वासौ त्यक्तात्मानौ च भारत। प्रत्ययं परिरक्षन्तौ महत्कर्म करिष्यतः’ (भा० उ० १७०।१४)॥ प्रत्ययः शपथः।
- ‘प्रत्यायनं विवादं मन्यमाना दुराशयाः’ (कथा० ७४।१६०)। प्रत्यायनं प्रत्ययस्य विश्वासस्योत्पादनम्।
- ‘एकदा पाण्डवान्द्रष्टुं प्रतीतान्पुरुषोत्तमः’ (भा० पु० १०।५८।१)। प्रतीतान् प्रकटान् अज्ञातवासान्निर्गत्य सर्वत्र प्रकाशान्।
- ‘नैनमेते रश्मयः प्रत्याययन्ति’ (छां० उ० ५।५।२)। न परावर्तयन्ति। अप्रतिरोधका भवन्तीत्यर्थः।
इष्
- {प्रतीष्}
- इष् (इष इच्छायाम्, इष गतौ)।
- ‘असत्यसन्धस्य सतश्चलस्यास्थिरचेतसः। नैव देवा न पितरः प्रतीच्छन्तीति नः श्रुतम्’ (रा० २।१०९।१८)॥ प्रतीच्छन्ति परिगृह्णन्ति, अभ्युपयन्ति।
- ‘तदहं किञ्चिद् भवतः प्रार्थये यदि प्रतीच्छसि’ (तन्त्रा० १।१२)। प्रतीच्छसि अभ्युपैषि। बाढं करिष्यामीति चेत्प्रतिजानीष इत्यर्थः।
- ‘गोणीं जनेन स्म निघातुमुद्धृतामनुक्षणं नोक्षतरः प्रतीच्छति’ (शिशु० १२।१०)। न प्रतीच्छति नाङ्गी करोति। उक्षतरो वृद्धोक्षः। पा० ५।३।९१ सूत्रेण तनुत्वे द्योत्ये स्वार्थिकः ष्टरच्।
- ‘भक्ष्यान् द्विजेन्द्रैरपि सम्प्रदत्तान्नैव प्रतीच्छन्ति विभोर्भयेन’ (वाम० पु० ९१।३)। उक्तोऽर्थः।
- ‘उष्णार्तो हि नरो यद्वज्जलधाराः प्रतीच्छति’ (भा० भीष्म० ११७।२४)। प्रतीच्छति ग्रहीतुमिच्छति।
- ‘हन्त गृह्ण प्रतीच्छेति तावुभौ योधसत्तमौ’ (हरि० २।७३।४४)। गृह्ण गृहाण। प्रतीच्छ देहि। प्रहारमिति शेषः।
- ‘प्रतीच्छ मत्कृतं धर्मं यदि ते मय्यनुग्रहः’ (भा० शां० १९९।८३)। प्रतीच्छ गृहाण।
- ‘प्रतीच्छत्या शोकीं किसलयपरावृत्तिमधरः’ (भोजप्र० १।७२)। प्रतीच्छति गृह्णाति आदत्ते।
- ‘अत्रागत्य स्ववासांसि प्रतीच्छन्तु शुचिस्मिताः’ (भा० पु० १०।२२।१६)। स्वस्यैवार्थस्य प्रत्यादित्सा प्रतीच्छाशब्दार्थः।
- ‘एष उपहाररमणीयतया माधवीमण्डपः स्वागतेनेव नौ प्रतीच्छति’ (शा० ६)। प्रतीच्छति प्रतिगृह्णाति सभाजयति।
- ‘एष खलु त्वां प्रतीच्छति’ (विक्रम० २)। उक्तोऽर्थः।
- ‘अथाऽन्येषु प्रतीच्छामि’ (आप० ध० १।८।२२।६)। प्रतीच्छामि अन्विष्यामि, आप्तुमीहे।
- ‘गदा शक्रजिता जिघ्ये तां प्रतीयेष वालिजः’ (भट्टि० १४।३६)। प्रतीयेष प्रतिजग्राह रुरोध। जिघ्य इति हिनोतेरनुपसृष्टस्य कर्मणि लिटि रूपम्। लोके केवलस्य हिनोतेः प्रयोगो दुर्लभ इति मतं नः।
- ‘अथ प्रवृत्तिरागच्छेत् प्रतीच्छेत् समात्रयम्’ (कृत्यकल्पतरौ द्वितीये सम्पुटे पृ० ५९ कात्यायनीयं वचनमित्युद्धृतम्)। प्रतीच्छेत् प्रतीक्षेत।
- ‘तेन पापानुबन्धेन वचनं न प्रतीच्छता’ (रा० १।३३।४)। न प्रतीच्छता न स्वीकुर्वता, न गृह्णता, नानुतिष्ठता, नानुविदधता।
- ‘स तद्बाणमयं वर्षमश्मवर्षमिवाचलः। प्रतीच्छन् पाण्डुदायादः’ (भा० द्रोण० १२७।६५)॥ प्रतीच्छन् प्रतिगृह्णन्, रुन्धानः।
- ‘ततः शरसहस्राणि प्रतीच्छन्तौ रणेषिणौ’ (हरि० २।४३।३३)। उक्तोऽर्थः।
- ‘सतो बन्धुमसति निरविन्दन् हृदि प्रतीष्या कवयो मनीषा’ (ऋ० १०।१२९।४)। प्रतीष्या प्रतीष्य अन्विष्य। सांहितिको दीर्घः।
- ‘देवस्य शासनं प्रतीष्य’ (शा० ६)। प्रतीष्य स्वीकृत्य, अनुमत्य। ‘सत्कारो नाम सत्कारेण प्रतीष्टः प्रीतिं जनयति’ (स्वप्न० ४)।
ई
- {प्रती}
- ई (ईङ् गतौ)।
- ‘प्रतीयन्ते न नीतिज्ञा कृतावज्ञस्य वैरिणः’ (कथा० ६२।१०३)। प्रतीयन्ते विश्वसन्ति श्रद्दधते, प्रतियन्ति।
- ‘कुशलः प्रतिपत्ता तामग्रथार्थां प्रतीयते’ (वा० प० २।३१९)। प्रतीयते बुध्यते मन्यते जानाति।
ईक्ष्
- {प्रतिईक्ष्}
- ईक्ष् (ईक्ष दर्शने)।
- ‘मित्रस्य त्वा चक्षुषा प्रतीक्षे’ (आप० श्रौ० १।१३१)। प्रतीक्षे ईक्षे पश्यामि।
- ‘तत् (मधु) प्रतीक्षते’ (अग्नि० गृ० १।४)। मधुनि दृशं पातयतीत्यर्थः।
- ‘प्रतीक्षन्ते श्वशुरो देवरश्च’ (अथर्व० १४।१।३९)।
- ‘प्राशित्रं प्रतीक्षते’ (का० श्रौ० २।२।१५)।
- ‘मधुपर्कमाह्रियमाणं प्रतीक्षते’ (वा० गृ० ११।५)।
- ‘गार्हपत्यं प्रतीक्षते’ (तै० ब्रा० २।१।४।३)। उक्तोऽर्थः।
- ‘किं न प्रतीक्षसेऽस्माकं गृहान्बलिभुजो यथा’ (भा० पु० ९।१८।१६)। न प्रतीक्षसे न ध्यायसि, नोपास्से, न सेवसे।
- ‘तत्र मे कारणं भाति कौन्तेयो यत्प्रतीक्षते’ (भा० वि० २१।२)। प्रतीक्षते तदेव सूचयन्मामवेक्षतेऽवहितमीक्षते। कारणं प्राकट्यं मा भूदिति हेतुः।
- ‘संवत्सरं प्रतीक्षेत द्विषन्तीं योषितं पतिः’ (मनु० ९।७७)। प्रतीक्षेत उदासीनवदीक्षेत। सहेतेत्यर्थः।
- ‘प्रतीक्षमाणोऽभिजनं तदार्तमनार्तरूपः प्रहसन्निवाथ’ (रा० २।३३।२९)। प्रतीक्षमाणः प्रेक्षमाणः।
- ‘कस्य न प्रतीक्ष्यो मुनिभावः’ (हर्ष० उच्छ्वासे ८)।
- ‘तथासीनं च त्रिभुवनप्रतीक्ष्यं मनुदक्षचाक्षुषप्रभृतथः प्रजापतयः सिषेविरे’ (हर्ष०)।
- ‘भक्तिः प्रतीक्ष्येषु कूलोचिता ते’ (रघु० ५।१४)। प्रतीक्ष्य आदृत्यः संभावनीयः पूज्यः।
- ‘प्रतीक्ष्यं तत् प्रतीक्ष्यायै पितृष्वस्रे प्रतिश्रुतम्’ (शिशु० २।१०८)। प्रतीक्ष्यं परिपाल्यं रक्ष्यम्, प्रत्यवेक्षणीयम्।
- ‘न त्वां हत्वा प्रदास्यामि क्रव्याद्भ्यो मद्रकाधम। मित्रप्रतीक्षया शल्य धृतराष्ट्रस्य चोभयोः’ (भा० कर्ण० ४०।५३)॥ प्रतीक्षाऽऽदरः।
- ‘निकारा मनुजश्रेष्ठ पाण्डवैस्त्वत्प्रतीक्षया। अनुभूताः…’ (भा० उ० १५९।११)॥ अनुभूताः सोढाः।
- ‘निकारो निकृतिप्रज्ञैः पाण्डवैस्त्वत्प्रतीक्षया। अनुभूत: ’ (भा० भीष्म० १५।४)। त्वत्प्रतीक्षया त्वयि समादरेण।
- ‘तस्यारण्येनैवात ऊर्ध्वं होमो वृत्तिः प्रतीक्षाऽऽच्छादनं च’ (आप० ध० २।९।२२।१७)। प्रतीक्षाऽतिथिपूजा।
- ‘घोषा द्वैतवने सर्वे त्वत्प्रतीक्षा नराधिप’ (भा० वन० २२९।१९)। त्वत्प्रतीक्षास्त्वां प्रतीक्षमाणाः प्रतिपालयन्तः।
- ‘तत्प्रत्ययमुदकमुत्सिच्याप्रतीक्षा ग्राममेत्य’ (आप० ध० २।६।१५।९)। प्रतीक्षा प्रतिनिवृत्य ईक्षणम्, पृष्ठतो विलोकनम्। अप्रतीक्षा अविद्यमानप्रतीक्षाः, पृष्ठतोऽनवलोकयन्तः, अपराङ्मुखीभूताः।
- ‘अहं चाप्रतीक्षमेव सङ्ग्रामभूमिमागतः’ (महावीर० पृ० २०३, निर्णय०)। इदं क्रियाविशेषणम्। अपराङ्मुखीभूयेत्यर्थः।
- ‘अप्रतीक्षमायन्ति’ (तै० ब्रा० १।६।५)। उक्तोऽर्थः।
- ‘प्रतीक्षायै कुमारीम्’ (तै० ब्रा० ३।४।१।१९)। प्रतीक्षा संभावनाऽऽशास्यम्।
- ‘कुम्भकर्णं प्रतीक्ष्यैव हरयोद्य प्रदुद्रुवुः’ (रा० ६।६।३१)। प्रतीक्ष्य अभिमुखे वीक्ष्य।
ईड्
- {प्रतीड्}
- ईड् (ईड स्तुतौ)।
- ‘प्रति त्वा स्तोमैरीडते वसिष्ठाः’ (ऋ० ७।७६।६)।
उष्
- {प्रत्युष्}
- उष् (उष दाहे)।
- ‘स त्वमग्ने प्रतीकेन प्रत्योष यातुधान्यः’ (ऋ० १०।११८।८, तै० सं० २।५।१२।४)। प्रत्योष प्रतिमुखं प्रत्येकं वा दह। यातुधान्यः यातुधानीः।
- ‘प्रति तमोष यः प्रत्युष्यः’ (श० ब्रा० १।९।३।२)। प्रत्योष=ओष। सद्यो वा दहेत्यर्थः।
- ‘प्रत्युष्टं रक्षः प्रत्युष्टा अरातयः’ (वा० सं० १।७)। प्रत्युष्टं=प्रत्युषितम्। प्रविज्ञाय उषितं दग्धमिति उवटः। प्रत्युष्टाः प्रत्येकं दग्धा इति च सः। उभयत्रार्थाभेद एव तु युक्तः।
ऊह्
- {प्रत्यूह्}
- ऊह् (ऊह वितर्के)।
- ‘विद्युद्भवन्ती प्रति वव्रिमौहत’ (ऋ० १।१६४।२९)। प्रत्यौहत व्यवादधात्, आच्छादयत्, तिरोधत्त, उपसमहरत्, अपाकरोत्। वव्रिं रूपम्।
- ‘प्रत्यौहन्मृत्युममृतेन साकम्’ (अथर्व० ५।२८।८)।
- ‘प्रत्यौहतामश्विना मृत्युमस्मत्’ (वा० सं० २७।९, अथर्व० ७।५५।१)। उक्तोऽर्थः।
- ‘प्रत्यूहेन्नाग्निषु क्रियाः’ (मनु० ५।८४)। अग्निहोत्रहोमान्न विघातयेदित्यर्थः। तत्र प्रत्यूहमन्तरायं न कुर्यादिति यावत्।
- ‘पशून्देवताभ्यः प्रत्यौहत’ (श० ब्रा० १०।६।५।८)। प्रत्यौहत समार्पयत् पशून्देवतासादकरोत्।
- ‘स प्रत्यूढानङ्गारान् प्रत्यूहेत्’ (शां० ब्रा० २।१)। प्रत्यूहेत्=व्यूहेत्, विविक्ततया विस्तारेण रचयेत्।
- ‘न पास्ये न च भोक्ष्ये प्रत्यूढं मम भोजनम्’ (रा० ५।३१।१४)। प्रत्यूढमनादरेण पराकृतं त्यक्तम्।
- ‘एवमेवेमाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विदन्त्यनृतेन हि प्रत्यूढाः’ (छां० ८।३।२)। प्रत्यूढा विपरीतं नीताः।
- ‘इतीन्द्रदूत्याः प्रतिवाचमर्धे प्रत्युह्य सैषाऽभिदधे वयस्याः’ (नै० ६।१०१)। प्रत्युह्य विहत्य, प्रतिबध्य, विच्छिद्य।
- ‘अहत्वा समरे कृष्णमप्रत्यूह्य च रुक्मिणीम्’ (भा० पु० १०।५४।२०)। अप्रत्यूह्य अप्रत्यावर्त्य। अप्रतिहत्येति त्वक्षरार्थः।
ऋ
- {प्रत्यृ}
- ऋ (ऋ गतिप्रापणयोः)।
- ‘अनर्वाऽप्रत्यृतोऽन्यस्मिन्’ (नि० ६।२३।४)। प्रत्यृत आश्रितः (इति दुर्गः)।
- ‘अरणी प्रत्यृत एने अग्निः’ (नि० ५।१०।१)। प्रत्यृतः प्रतिगतोन्तर्निविष्टः।
काश्
- {प्रतिकाश् }
- काश् (काशृ दीप्तौ)।
- निभसंकाशनीकाशप्रतीकाशोपमादय इति सदृशपर्यायान्पठत्यमरः।
कूज्
- {प्रतिकूज्}
- कूज् (कुज अव्यक्ते शब्दे)।
- ‘एष क्रोशति दात्यूहस्तं शिखी प्रतिकूजति’ (रा० २।५६।९)। प्रतिकूजति दात्यूहं स्पर्धमानः कूजति।
कृ
- {प्रतिकृ}
- कृ (डुकृञ् करणे)।
- ‘इत्येवमग्निविषसर्पेभ्यः प्रतिकुर्वीत’ (कौ० अ० १।२०।९)। अग्न्यादीनां प्रतिविधानं कुर्यादित्यर्थः।
- ‘न तं पश्यामि लोकेस्मिन्कृते प्रतिकरोति यः। सर्वस्य हि कृतार्थस्य मतिरन्या प्रवर्तते’ (भा०)॥ कृते उपकृते प्रतिकरोति प्रत्युपकारं करोति।
- ‘मयास्योपकृतं पूर्वमयं प्रतिकरिष्यति’ (का० नी० सा० ९।११)।
- ‘पूर्वं कृतार्थो मित्राणां न तत् प्रतिकरोति यः। कृतघ्नः सर्वभूतानां वध्यः प्लवगेश्वर’ (रा० ३।३४।१०)॥
- ‘कृतं न प्रतिकुर्याद्यः पुरुषाणां स दूषकः’ (रा० ४।३८।२८)। उक्तोऽर्थः।
- ‘कृतार्थः पूर्वमार्येण नार्थं प्रतिचिकीर्षति’ (रा० ४।३४।२०)। प्रत्युपकर्तुं नेच्छति।
- ‘वैरं प्रतिकुरुष्वेह तस्मिन्’ (रा० ३।३८।२२)। प्रतिनिर्यातयेत्यर्थः।
- ‘व्याधिमिच्छामि ते ज्ञातुं प्रतिकुर्यां हि तत्र वै’ (भा० आदि० ४०२७)। प्रतिकुर्याम् उपचरेयम् चिकित्सेयम् भैषज्यं कुर्याम्।
- ‘पाण्डवा अपि तत्सर्वं प्रतिचक्रुर्यथागतम्’ (भा० आदि० १४१।२२)। प्रतिचक्रुः= अपाकुर्वन्, न्यवारयन्, अपौहन्त प्रत्यघ्नन्।
- ‘नास्य प्रत्यकरोद्वीर्यं विक्लवेनान्तरात्मना’ (रा० ६।८८।३४)। उक्तोऽर्थः।
- ‘संक्रमध्वजयष्टीनां प्रतिमानां च भेदकः। प्रतिकुर्याच्च तत्सर्वम्…’ (मनु० ९।२८५)॥ प्रतिकुर्यात् प्रसाधयेत, समादध्यात्, पुनर्नवाः कुर्यात्।
- ‘पुर इमाँल्लोकान् प्रतिकरवामहा इति’ (ऐ० ब्रा० १।२३)। असुराणां प्रतिकूलानि सम्पादयाम इति सायणः।
- ‘अनायतना ह वै स्मः, तस्मात्पराजयामहा इति एतास्ताः प्रत्यकुर्वत हविर्धानं दिव आग्नीध्रमन्तरिक्षात् सदः पृथिव्याः’ (गो० ब्रा० उ० २।७)। प्रत्यकुर्वत विरोधायाकुर्वत निरमिमत।
- ‘भीष्मे प्रतिचिकीर्षामि’ (भा० उ० १८७।६)। भीष्माय वैरं निर्यातयितुमिच्छामीत्यर्थः।
- ‘कृते प्रतिकरिष्यन्तः केशवस्यार्जुनस्य च’ (भा० द्रोण० १०४।१८)। प्रतिकर्तुकामाः प्रत्यपकारबुद्धयः।
- ‘वयं च मन्युना दग्धा वैरं प्रतिचिकीर्षवः’ (भा० स्वर्गा० १।२१)। वैरं निर्यातयितुमिच्छन्त इत्यर्थः।
- ‘अकृतज्ञोऽप्रतिकृतो हन्ति सत्त्ववतां मनः’ (रा० ४।२७।४५)। अप्रतिकृतः=अकृतप्रत्युपकारः।
- ‘कर्तास्मि कृते प्रतिकृतं तव’ (भा० वन० १८७।९)। उक्तोऽर्थः।
- ‘प्रतिकर्तुं प्रकृष्टस्य नापकृष्टेन युज्यते’ (रा० ४१७।४७)। प्रतिकर्तुं प्रत्युपकर्तुम्, कृतमुपकारं प्ररिणदातुम् प्रत्यर्पयितुम्।
- ‘प्रतिकर्तुं बलवति नहुषे देवमोहिते। पितामहनियोगेन भवन्तं सोऽहमागतः’ (भा० अनु० अनु० ९९।२२)॥ प्रतिकर्तुं प्रतिविधातुम् प्रत्यपकर्तुम्।
- ‘न शेकुरतिकायस्य प्रतिकर्तुं महाहवे’ (रा० ६।७१।४२)। उक्तोऽर्थः।
- ‘कृते च प्रतिकर्तव्यमेष धर्मः सनातनः’ (रा० ५।१।११४)। कृत उपकृते। प्रतिकर्तव्यं प्रत्युपकर्तव्यम्। व्याधशाकुनिकपतितपापकारिणां न च प्रतिकर्तव्यम्। नैवोपचरितव्यम्। तेषु भिषक्कर्म न प्रयोज्यमित्याह।
- ‘प्रतिकृत्य यथाकामं शत्रूणां शत्रुसूदनः’ (भा० सौ० १।४४)। प्रतिकृत्य वैरं निर्यात्य। व्याधिमप्रतिकृत्य। अचिकित्सित्वा, उपचारमकृत्वा।
- ‘परिजनोपनीतमपि प्रतिकर्म नाग्रहीत्’ (हर्ष०)। प्रतिकर्म प्रसाधनम्। अङ्गसंस्कारोपकरणम्।
- ‘प्रतिकर्म च रामस्य कारयामास वीर्यवान्’ (रा० ६।१२८।१६)। प्रतिकर्माङ्गसंस्कारः।
- ‘विभूषितेयं प्रतिकर्मनित्या वसत्वरण्ये सह राघवेण’ (रा० २।३७।३५)।
- ‘उषिताः स्मो वने वासं प्रतिकर्म चिकीर्षवः’ (भा० वि० ५८।१८)। प्रतिकर्म शत्रूणामपकारः।
- ‘ऋचीकस्तु महातेजाः पुत्रस्याप्रतिकर्मणः’ (रा० १।७५।२२)। अप्रतिकर्मणः प्रतिक्रियारहितस्य। स्वघातके कार्तवीर्ये शापादिप्रतिकारशून्यस्येत्यर्थः।
- ‘सा कृष्णमाराधय सौहृदेन प्रेम्णा च नित्यं प्रतिकर्मणा च’ (भा० वन० २३४।४)। प्रतिकर्मणा कायक्लेशेनेति नीलकण्ठः। कथमस्यार्थस्योपलब्धिरिति न विजानीमः।
- ‘मिथ्योपचारः प्रतिकर्मणां च’ (चरक० चि० १२।)। प्रतिकर्म प्रतिक्रिया वमनादिः।
- ‘प्रतिकर्मपराचार ऋत्विजां स्म विधीयते’ (भा० शां० ७९।२)। शान्तिकपौष्टिकादि कर्म प्रयोगशुद्ध्याख्यम्।
- ‘यश्चास्य वैद्यः प्रतिकर्म करोति’ (चरक० सूत्र० २९।९)। प्रतिकर्म प्रतिक्रिया चिकित्सा, भैषज्यम्।
- ‘उपकारेण वीरस्तु प्रतिकारेण युज्यते’ (रा० ४।२७।४५)। प्रतिकारः प्रत्युपकारः।
- ‘विकारं खलु परमार्थतोऽज्ञात्वाऽनारम्भः प्रतीकारस्य’ (शा० ३)। प्रतीकार उपचारः चिकित्सा।
- ‘प्रतीकारो व्याधेः सुखमिति विपर्यस्यति जनः’ (भर्तृ० ३।९२)। उक्तोऽर्थः।
- ‘प्रियस्य भर्तुः प्रतिकारकामा’ (रा० २।३७।३७)। अनुकार इह प्रतिकारः। प्रतिः सादृश्ये। वेषादिभिस्तदवस्थासदृशावस्थासम्पादनकामेत्यर्थ इति तिलकः।
- ‘खलानां कण्टकानां च द्विविधैव प्रतिक्रिया। उपानन्मुखभङ्गो वा दूरतो वा विसर्जनम्॥’ प्रतिक्रिया प्रतिकारः प्रतिविधानम्।
- ‘भैक्षेणाप्यर्जयिष्यामि पुनर्न्यास-प्रतिक्रियाम्’ (मृच्छ० ३।२६)। प्रतिक्रिया निर्यातनम्, प्रत्यर्पणम्।
- ‘मङ्गलालम्भनं चैव शरीरस्य प्रतिक्रिया’ (भा० शां० ५९।६६)। प्रतिक्रिया प्रतिकर्म अलङ्क्रिया।
- ‘तत्राप्रतिकारिणोऽपचारिणश्च रोगो व्यक्ततरः’ (सुश्रुत० चि० ५।४)। अप्रतिकारी यो भैषज्यं न कारयति। अपचारी अयथार्थकारी।
- ‘सा तु रज्ज्वादिभिर्बद्धा विषप्रतिकरी मता’ (सुश्रुत० उत्तर० सर्प० कल्प० ५।५)। विषप्रतिकरी विषप्रतिकारहेतुः।
- ‘ततः सीतां शिरःस्नातां संयुक्तां प्रतिकर्मणा’ (रा० ६।११४।१४)। प्रतिकर्म प्रसाधनमित्यमरः।
कृष्
- {प्रतिकृष्}
- कृष् (कृष विलेखने)।
- ‘प्रतिकृष्टं मतं गुह्ये द्विरावृत्त्यां च कर्षिते। प्रतिकृष्टः प्रेषिते स्यात्प्रत्याख्याते च वाच्यवत्’ (विश्व:)॥ निकृष्टप्रतिकृष्टार्वयाप्यरेफावमाधमाः (अमरः)।
- ‘उत्सर्जनस्य वा प्रतिकर्षः’ (आप० ध० १।९।३ इत्यत्रोज्ज्वलायाम्)। भविष्यतोऽर्थस्य प्राक् सम्भावनं प्रतिकर्षः।
कॄ
- {प्रतिकॄ}
- कॄ (कॄ विक्षेपे)।
- ‘उरोविदारं प्रतिचस्करे नखैः’ (शिशु० १।४७)। प्रतिचस्करे हतः (हिंसितः)। निरङ्कुशः कविरस्थाने किरतेः सुटं करोति।
- ‘प्रतिस्कीर्णं हं ते वृषल भूयात्। तथा ते वृषल विक्षेपो भूयाद्यथा हिंसामनुबध्नाति’ (हिंसायां प्रतेश्च ६।१।१४१ सूत्र वृत्तिः)।
क्लृप्
- {प्रतिक्लृप्}
- क्लृप् (कृपू सामर्थ्ये )।
- ‘तद्यथा राजानमायान्तमुग्राः प्रत्येनसः सूतग्रामण्योऽन्नैः पानैरावसथैः प्रतिकल्पन्ते’ (श० ब्रा० १४।७।२।४३)। प्रतिग्रहीतुं सम्भावयितुं सज्जन्त उद्यता भवन्तीति यावत्।
क्रम्
- {प्रतिक्रम्}
- क्रम् (क्रमु पादविक्षेपे)।
- ‘तदु ह जानश्रुतिः पौत्रायणः षट् शतानि गवां निष्कमश्वतरीरथं तदादाय प्रतिचक्रमे’ (छां० उ० ४।२।१)। प्रतिचक्रमे प्रतिजगाम।
- ‘भद्रे प्रतिक्राम नियच्छ वाचम्’ (भा० वन० १६९।२३)। प्रतिक्राम निवर्तस्व इतः प्रतियाहि। गृहान् प्रतिनिवर्तस्व।
क्रुध्
- {प्रतिक्रुध्}
- क्रुध् (क्रुध क्रोधे)।
- ‘क्रुध्यन्त न प्रतिक्रुध्येत्’ (मनु० ६।४८)।
क्षि
- {प्रतिक्षि}
- क्षि (क्षि निवासगत्योः)।
- ‘आ त्वा जिघर्मि मनसा घृतेन प्रतिक्षियन्तं भुवनानि विश्वा’ (ऋ० २।१०।४)। विश्वानि भुवनानि प्रत्येकमधिवसन्तम्। अधितिष्ठन्तम्।
क्षिप्
- {प्रतिक्षिप्}
- क्षिप् (क्षिप प्रेरणे)।
- ‘प्रतिक्षिपन्तः संसारमिहिकावरणं वयम्’ (यो० वा० ५।४।३०)। प्रतिक्षिपन्तः प्रास्यन्तः पराकुर्वन्तः। प्रतिक्षिप्तोऽधिक्षिप्त इत्यमरः। प्रतिक्षिप्यते न्यक् क्रियते स्मेति स्वामी।
- ‘अग्नावेनां प्रतिक्षिप्य’ (भा० आदि० )। प्रतिक्षिप्य=प्रास्य।
- ‘न हि सामान्यमात्रलक्षणेनोपयोगिविशेषलक्षणानां प्रतिक्षेपः शक्यः कर्तुम्’ (ध्वन्या० ३।३३ इत्यत्र लोचने)।
- ‘तस्य प्रदीपादिनिष्ठस्य वास्तवस्य शब्दार्थ-विषयत्वस्य प्रतिक्षेपात्’ (व्यक्ति० १)। प्रतिक्षेपो निरासोऽनङ्गीकारः।
ख्या
- {प्रतिख्या}
- ख्या (ख्या प्रकथने, चक्षिङ आदेशो वा)।
- ‘तामस्य रीतिं परशोरिव प्रत्यनीकमख्यम्…’ (ऋ० ५।४८।४)। प्रत्यख्यम् ऐक्षिषि।
- ‘तं हो प्रतिख्यायोवाच’ (याज्ञवल्क्यः) (श० ब्रा० ११।६।३।३)। प्रतिख्याय=अभिवीक्ष्य।
- ‘अशनायां ह वा एषा यजमानस्य प्रतिख्याय वाश्यते तामन्नमप्यादयेच्छान्त्यै’ (ऐ० ब्रा० ५।२७)। प्रतिख्याय प्रख्याप्य सूचयित्वा।
- ‘पाप्मानं प्रतिख्याय’ (तै० ब्रा० १।४।६।२)। प्रख्याप्येत्यर्थः।
गद्
- {प्रतिगद्}
- गद् (गद व्यक्तायां वाचि)।
- ‘आभिर्गाथाभिरव्यग्रः प्रश्नं प्रतिजगाद ह’ (भा० अनु० १२४।८)। प्रतिजगाद प्रत्युवाच।
गम्
- {प्रतिगम्}
- गम् (गम्लृ गतौ)।
- ‘प्रकर्षेणानित्यः स विज्ञायते। स पुनः सत्येवाश्रयेऽभूत्वा भवतीति यो भूत्वा प्रतिगच्छति स एव भवितुमर्हति’ (वर्णे चानित्ये ५।४।३१ सूत्रे न्यासः)।
- ‘अहं न तान् (लोकान्) वै प्रतिगन्ता’ (भा० आदि० ९३।५)। प्रतिगन्ता=प्रतिगन्तास्मि=निवर्तिताहे।
- ‘प्रतिजग्मुर्यथागतम्’ (नै० ५।३९)। उक्तोऽर्थः।
- ‘तस्य सन्दिदिहे बुद्धिस्तां दृष्ट्वा तद्विनिर्णये। अधीतां योगहीनस्य विद्यां प्रतिगतामिव’ (रा० ५।१८।१८)॥ प्रतिगतां विस्मृताम्।
- ‘प्रयतेनात्मना तात प्रतिगम्याभिवादय’ (भा० वन० १४२।१०)। प्रतिगम्य=उपेत्य=तत्सकाशमित्वा।
- ‘एनसा प्रतिगतः प्रत्येनाः’ (आदिः प्रत्येनसि ६।२।२७ सूत्रे वृत्तौ)। प्रत्येना नेदिष्ठी येन प्रेतस्य पित्रादेर्ऋणमपाकरणीयं भवति (१)। प्रतिभूः (२)। आगस्कृतां शासनेऽधिकृतश्च (३)।
गर्ज्
- {प्रतिगर्ज्}
- गर्ज् (गर्ज अव्यक्ते शब्दे)।
- ‘कृष्टासेः प्रतिबिम्बं स्वं हित्वा नान्योऽस्य संमुखः। नापरः प्रतिशब्दाच्च गर्जतः प्रतिगर्जति’ (राज० ८।१५६३)॥ प्रतिगर्जति प्रतिद्वन्द्वितया गर्जति। अहो अयोनिजोपमा कवेः। ऋषीणां कदनं कृत्वा गर्जति मामपि प्रतिगर्जति। सिंहो धनध्वनिं प्रतिगर्जति। उक्तोऽर्थः।
गाह्
- {प्रतिगाह्}
- गाह् (गाहू विलोडने)।
- ‘प्रतिगाहन्ते वनानि’ (रा० ३।७६।३४)। प्रतिगाहन्तेऽन्तः प्रविशन्ति, हठात् प्रविशन्तीति वा।
गुप्
- {प्रतिगुप्}
- गुप् (गुपू रक्षणे)।
- ‘प्रतिगुप्त०’ (श० ब्रा० ३।२।२।२७)। प्रतिगुप्तः=गुप्तः=रक्षितः, कृतावेक्षणः, कृतप्रतिजागरः।
गुह्
- {प्रतिगुह्}
- गुह् (गुहू संवरणे)।
- ‘प्रत्यगूहुर्महानद्यः’ (भा० सौ० १।३)। प्रत्यगूहुः प्रत्यगूहन् (प्रत्यगूहन्त) अन्तरदधत, तिरोऽदधत।
गृध्
- {प्रतिगृध्}
- गृध् (गृधु अभिकाङ्क्षायाम्)।
- ‘आघ्राय सुबहून्गन्धांस्तानेव प्रतिगृध्यति’ (भा० आश्व० ३०।९)। तेषु गन्धेषु गृध्यति लुभ्यतीत्यर्थः। प्रतिः केवलं सकर्मकतां प्रयोजयति नार्थे विशेषं करोति।
गृ
- {प्रतिगृ}
- गृ (गृ शब्दे)।
- ‘प्रति वां सूर उदिते मित्रं गृणीषे वरुणम्’ (ऋ० ७।६६।७)। प्रतिगृणीषे उपह्वयसि, स्तौषि।
- ‘प्रति षीमग्निर्जरते समिद्धः। प्रति विप्रासो मतिभिर्गृणन्तः’ (ऋ० ७।७८।२)॥ उक्तोऽर्थः।
- ‘शंसावाध्वर्यो प्रति मे गृणीहि’ (ऋ० ३।५३।३)। प्रतिगृणीहि प्रतिवाचं ब्रूहि।
- ‘ओमुन्नय हव्य देवेभ्यः पाप्मनो माम् इत्युच्चैः प्रतिगृणाति’ (भा० श्रौ० ६।११।२)। प्रतिशंसतीत्यर्थः।
- ‘होत्रेऽनुगृणाति होत्रे प्रतिगृणाति। होतारं शंसन्तं प्रोत्साहयतीत्यर्थ इति अनुप्रतिगृणश्च’ (पा० १।४।४१) इति सूत्रे वृत्तिः।
- ‘ओमामोदैष इत्यादिको होतुरुत्साहजननः प्रतिगरः’ (आश्व० श्रौ० ७।११)।
- ‘ओम् इत्यध्वर्युः प्रतिगरं प्रतिगृणाति’ (तै० सं० १।८।१)। उक्तोऽर्थः।
- ‘प्रत्यगृणात्तस्मै लक्ष्मणः’ (मुग्ध-बोधव्याकरणे)। इत्युदाहरन्मुग्धो बोपदेवो वृत्ति-विरोधादुपेक्ष्यः। प्रतिशंसने होतृकर्मकेऽध्वर्युकर्तृके प्रतिनियतः प्रतिगृणातिरनन्यविषयः। अनुगरः प्रतिगरः शंसितुः (होतुः) प्रोत्साहने वर्तते इति पा० १।४।४१ सूत्रे वृत्तिः।
ग्रह्
- {प्रतिग्रह्}
- ग्रह् (ग्रह उपादाने)।
- ‘केनेमान् कामान् प्रतिग्रहीष्यामः’ (श० ब्रा० ९।३।२।७)। प्राप्स्याम इत्यर्थः।
- ‘तां चार्जुनः प्रत्यगृह्णात्सुतार्थे’ (भा० आदि० १।१७१)। तामुत्तरां सुतस्याभिमन्योरर्थेऽभ्युपैदित्यर्थः।
- ‘प्रतिजग्राह चाग्निस्तु राजकन्यां सुदर्शनाम्’ (भा० अनु० २।३४)। प्रतिजग्राह अभ्युपजगाम आददे उपयेम इत्यर्थः।
- ‘प्रतिग्रहीता तामस्मि न भरेयं च यामहम्’ (भा० आदि० ४६।९) उक्तोऽर्थः।
- ‘न तु पापकृतां राज्ञां प्रतिगृह्णन्ति साधवः’ (भा० अनु० ६१।५)। न प्रतिगृह्णन्ति, दानं न प्रतीच्छन्ति।
- ‘ददति प्रतिगृह्णन्ति षट्सु कर्म्मस्ववस्थिताः’ (भा० शां० ७७।११)।
- ‘रथन्तरं प्रतिगृह्णाति पश्चात्’ (अथर्व० १३।३।११)। प्रतिगृह्णाति अवलम्बते।
- ‘परशुं तप्तं प्रतिगृह्णाति’ (छां० उ० ६।१६।१)।
- ‘स चैनं वृत्तपीनाभ्यां बाहुभ्यां प्रत्यगृह्णत’ (भा० वन० ४३।१९)। प्रत्यगृह्णत=प्रत्यगृह्णात्, प्रत्यगृह्णीत=पर्यरभत=उपागूहत=पर्यष्वजत। स इन्द्रः। एनं कौन्तेयम्।
- ‘अभिपद्य च बाहुभ्यां प्रत्यगृह्णादमर्षितः। मातङ्गमिव मातङ्गः प्रभिन्नकरटामुखम्’ (भा० वन० ११।५६)॥ प्रत्यगृह्णादवालम्बत उपापीडयत्, अबाधत।
- ‘ते तं मङ्गलानि…प्रयुञ्जानाः प्रत्यगृह्णन्दृढव्रताः’ (रा० ३।१।११ कतकधूतः पाठः)। प्रत्यगृह्णन् असभाजयन्, समभावयन्, सदकुर्वन्।
- ‘अभिवादयमानं त्वां पाणिभ्यां भीमपूर्वजः। प्रतिगृह्णातु सौहार्दात् कुन्तीपुत्रो युधिष्ठिरः’ (भा० उ० १३८।१४)॥ उपेतं त्वाम् आद्रियताम् इत्याह।
- ‘दृष्ट्या प्रसादामलया कुमारं प्रत्यग्रहीत्संवरणस्रजेव’ (रघु० ६।८०)। प्रसन्नावदातया दृशा कुमारं समबीभवदित्यर्थः।
- ‘स चापि प्रतिजग्राह धर्मेण विदुरं ततः’ (भा० आदि० २०६।१०)। आतिथ्येन सच्चकारेत्यर्थः।
- ‘स रामं सर्वकामैस्तं भरद्वाजः प्रियातिथिम्। सभार्यं सह च भ्रात्रा प्रतिजग्राह हर्षयन्’ (रा० २।५४।३३)॥ प्रतिजग्राह कामैः काम्यैः पदार्थैरुपचचारेति यावत्। आतिथ्येन वशीकृतवानिति तिलकः।
- ‘प्रत्यगृह्णाद् यथान्यायं विदुरश्च महामनाः’ (भा० आश्व० ६६।६)। तानागतान्सदकरोदित्यर्थः।
- ‘स चैनं प्रतिजग्राह विधिदृष्टेन कर्मणा’ (भा० उ० ४१।९)। उक्तोऽर्थः।
- ‘विधिदृष्टेन कर्मणा मधुपर्कादिना। कच्चिद् वचः प्रतिगृह्णाति तच्च’ (भा० आश्व० ९।२१)। प्रतिगृह्णाति अनुरुणद्धि अनुसरति, अनुमन्यते।
- ‘तद्वाक्यं…न प्रतिजग्राह मर्तुकाम इवौषधम्’ (रा० ३।४४।१)।
- ‘तथेति च नृपस्याज्ञां मन्त्रिणः प्रतिगृह्णते’ (रा० १।११।१८)। उक्तोऽर्थः।
- ‘एवं शप्तस्तु गुरुणा प्रत्यगृह्णात्कृताञ्जलिः’ (भा० पु० ९।२।१०)।
- ‘प्रियमाख्यामि ते देवि राघवस्य महाजयम्। धर्मज्ञे वर्धसे दिष्ट्या जयोऽयं प्रतिगृह्यताम्’ (रा० ६।९८।६)॥ प्रतिगृह्यतां समुपजोषं बुध्यतां श्रूयताम्।
- ‘तं देवासः प्रति गृभ्णन्त्यश्वम्’ (ऋ० १।१६२।१५)। प्रतिगृभ्णन्ति प्रतिगृह्णन्ति प्रतीच्छन्ति स्वीकुर्वन्ति।
- ‘एष ह वै कुणपमत्ते यः सत्रे प्रतिगृह्णाति।’ प्रतिग्रहं दानमादत्ते।
- ‘गायतश्च मत्तस्य च न प्रतिगृह्यं यत्प्रतिगृह्णीयाच्छमलं प्रतिगृह्णीयात्’ (तै० ब्रा० १।३।२।७)। उक्तोऽर्थः।
- ‘ये दानशीलान् प्रतिगृह्णते सदा न चाप्यर्थांश्चाददते परेभ्यः’ (भा० अनु० १०२।३०)।
- ‘सो अर्णवो न नद्यः समुद्रियः प्रतिगृभ्णाति।’ (ऋ० १।५५।२)। प्रतिगृभ्णाति आत्मन्यन्तर्धत्ते, समावेशयति।
- ‘वशा यज्ञं प्रत्यगृह्णाद् वशा सूर्यमधारयत्’ (अथर्व० १०।१०।२५)। उक्तोऽर्थः।
- ‘यथा हि गोवृषो वर्षं प्रतिगृह्णाति लीलया’ (भा० द्रोण० १२८।१७)। प्रतिगृह्णाति सहते।
- ‘प्रतिजग्राह कालिङ्गस्तमस्त्रैर्गजसाधनः’ (रघु० ४।४०)। प्रतिजग्राह रुरोध।
- ‘तानि मुक्तानि शस्त्राणि…। प्रतिजग्राह विशिखैर्नद्योघानिव सागरः’ (रा० ३।२५।१३)॥ अवरुरोधेति तिलकः।
- ‘तत्र द्रमाणां शिलानां च वर्षं प्राणहरं महत्। प्रतिजग्राह धर्मात्मा राघवस्तीक्ष्णसायकैः’ (रा० ३।२६।३-४)॥
- ‘…सायकैः शितैः। तीक्ष्णाग्रैः प्रतिजग्राह सम्प्राप्तानतिथीनिव’ (रा० ३।२६।२०)।
- ‘तं शरैः प्रतिजग्राह’ (रघु० १२।४७)। उक्तोऽर्थः।
- ‘तुरगादीनि भिन्नानि प्रतिगृह्णाति यद्बलम्। प्रतिग्रह इति ख्यातः स तु कार्यो भरक्षमः’ (का० नी० सा० २०।४ इत्यत्र प्रक्षिप्तः श्लोकः)॥ निगदव्याख्यातम्।
- ‘यस्त्वा शाले प्रतिगृह्णाति’ (अथर्व० ९।३।९)। प्रतिगृह्णाति वासाय परिगृह्णाति स्वीकरोति।
- ‘अन्येन पात्रेण पशून्दुहन्ति, अन्येन प्रतिगृह्णन्ति’ (तै० ब्रा० १।४।१।५)। प्रतिगृह्णन्ति मुखेन सन्धाय गृह्णन्ति अश्नन्ति।
- ‘प्रयम्यमानान् (सोमान्) प्रति षू गृभाय’ (ऋ० ३।३६।२)। उक्तोऽर्थः।
- ‘एकाहमपि पश्येयं यद्यहं राममातरम्। अञ्जलिं प्रतिगृह्णन्तीम्…’ (रा० २।१२।४८)॥ अञ्जलिबन्धं सत्कारं प्रतीच्छन्तीम्।
- ‘प्रतिगृह्णन्नविद्वांस्तु भस्मीभवति दारुवत्’ (मनु० ४।१८८)। प्रतिगृह्णन् दानमाददानः।
- ‘स्तुवतो दुहिता त्वं वै याचतः प्रतिगृह्णतः। अथाहं स्तूयमानस्य ददतोऽप्रतिगृह्णतः’ (शर्मिष्ठादेवयान्योः संवादगाथा, बौ० ध० २।२।४।२७)॥ उक्तोऽर्थः।
- ‘मुष्टं प्रतिग्राहयता स्वमर्थं पात्रीकृतो दस्युरिवासि येन’ (शा० ५।२०)।
- ‘तेन हि वर्षवरप्रतिगृहीतमेनं तत्र भवतः सकाशं प्रापय’ (माल० ४)। प्रतिगृहीतमवलम्बितम् अवष्टब्धम्।
- ‘प्रतिगृहीतं वचः सिद्धिदर्शिनो ब्राह्मणस्य’ (माल० ३)।
- ‘सखे त्वमम्बया पुत्र इति प्रतिगृहीतः’ (शा० २)। प्रतिगृहीतः स्वीकृतः।
- ‘जाया-प्रतिग्राहितगन्ध-माल्याम्’ (रघु० २।१)। प्रतिग्राहिते स्वीकारिते।
- ‘प्रतिग्राहितविप्रप्रकीर्यमाणशान्त्युदकविप्रुषि’ (हर्ष० पञ्चम उच्छ्वासे)। प्रतिग्राहिता विप्राः स्वीकारिताः प्रतिग्रहं प्रतिपादिताः।
- ‘तेषामञ्जलिपद्मानि प्रगृहीतानि सर्वशः। प्रतिगृह्यः…’ (रा० २।३।१)॥ प्रतिगृह्य स्वीकृत्य प्रतीष्य।
- ‘प्रतिगृह्येप्सितं दण्डम्’ (मनु० २।४८)। प्रतिगृह्य गृहीत्वा।
- ‘प्रतिगृह्याप्यनध्यायः’ (शां० गृ० ४।७।५५)। प्रतिग्रहं गृहीत्वा।
- ‘विधिवत् प्रतिगृह्यापि त्यजेत्कन्यां विगर्हिताम्’ (मनु० ९।७२)। विधिनोपयम्पेत्यर्थः।
- ‘प्रतिगृह्य तु कैकेयी श्वशुरं सुकृतेन मे’ (रा० ३।४७।७)। प्रतिगृह्य स्वीकृत्य वशेकृत्वा, आत्मसात् कृत्वा प्राध्वंकृत्य।
- ‘ग्रामादाहृत्य वाश्नीयादष्टौ ग्रामान्वने वसन्। प्रतिगृह्य पुटेनैव पाणिना शकलेन वा’ (मनु० ६।२८)॥ प्रतिगृह्य आदाय।
- ‘नरः प्रतिग्राह्य महीं न याति परमापदम्’ (भा० अनु० ६२।३२)। प्रतिग्राह्य प्रदिश्य वितीर्य दत्त्वा।
- ‘यदि चास्मि प्रतिग्राह्यः साम्प्रतं तद् वदस्व मे’ (भा० आश्व० ५७।११)। प्रतिगृह्यतेऽस्मादिति प्रतिग्राह्यः। प्रतिग्रहे योग्य इत्यर्थः।
- ‘अपादाने कृत्यो बाहुलकात्। नास्माभिः प्रतिग्राह्यं सखे देयं तु सर्वदा’ (रा० २।८७।१७)। न प्रतिग्राह्यं दानमिति न ग्राह्यम्। इयं भरतोक्तिः।
- ‘स ते प्रतिग्रहीतव्यः सौमित्रिसहितोऽतिथिः’ (रा० ३।७४।१६)। प्रतिग्रहीतव्यः प्रत्येषणीयः सत्कर्तव्यः संभावनीयः।
- ‘प्रतिग्रहसमर्थोपि प्रसङ्गं तत्र वर्जयेत्’ (मनु० ४।१८६)। यत् प्रतिगृह्यते स्वीक्रियत आदीयते याचमानैरयाचमानैर्वा विप्रादिभिः क्षत्रियादिभ्यः स प्रतिग्रहः।
- ‘प्रतिग्रहाद्याजनाद्वा तथैवाध्यापनादपि। प्रतिग्रहः प्रत्यवरः…’ (मनु० १०।१०९)॥ निन्दितादसतः प्रतिग्रह इति कुल्लूकः। तत्र निन्दितादित्युक्तिरमूला।
- ‘राज्ञः प्रतिग्रहोऽयम्’ (शा० १)। प्रतिग्रह उपहारः प्राभृतकमुपदा।
- ‘प्रतिग्रहाय कृष्णस्य यमौ प्रास्थापयत्तदा’ (भा० आदि० २२१।३४)। प्रतिग्रहाय सन्मानेनानेतुम्।
- ‘प्रतिग्रहाय पाण्डूनां प्रेषयामास कौरवान्’ (भा० आदि० २०७।१२)। प्रत्युद्गमनायेत्यर्थः।
- ‘तां सर्वशक्त्या प्रहितां सुशक्तिं…। प्रतिग्रहायाभिननर्द शल्यः’ (भा० शल्य० १७।४९)। प्रतिग्रहाय=प्रतिवारणाय।
- ‘यश्च बाल एव प्रीत्या द्विजातीनप्रीत्या चारातीन् समग्रान् प्रतिग्रहानग्राहयत्’ (हर्ष० ७मे उच्छ्वासे)। प्रतिग्रहः सैन्यपश्चाद्भागः। तथा चामरः–सैन्यपृष्ठे प्रतिग्रहः।
- ‘पृष्ठानीकाद् द्विशतधनुर्व्यवहितं पृष्ठतोऽवस्थितं राजावस्थानं प्रतिग्रह उच्यते’ (का० नी० सा० २०।३० इत्यत्रोपाध्यायनिरपेक्षा)। निगदव्याख्यातम्।
- ‘अजः केशप्रतिग्राहाय’ (गो० गृ० ३।१।९)। केशप्रतिग्राहः केशकल्पको नापितः। प्रतिग्राहः पतद्ग्रहः (इत्यमरः)।
- ‘श्रोत्रिया अप्रतिग्राहका उपसमेता भवन्ति’ (श० ब्रा० १३।४।३।१४)। अप्रतिग्राहका ये न प्रतिगृह्णन्ति दानं न स्वीकुर्वते।
- ‘अप्रतिग्राहिणां चैव यतीनामूर्ध्वरेतसाम्’ (भा० वि० १८।२२)। उक्तोऽर्थः।
- ‘यद्वै ददाति विप्रेभ्यो ब्राह्मणः प्रतिगृह्य वै’ (भा० अनु० ६८।३०)। प्रतिगृह्य प्रतिग्रह इत्यावाय।
- ‘शूद्राः प्रतिग्रहीष्यन्ति’ (भा० पु० १२।३।६८)। दानं ग्रहीष्यन्तीत्यर्थः।
- ‘प्रेव रिच्यते यो याजयति प्रति वा गृह्णाति’ (तै० ब्रा० २।१६)। उक्तोऽर्थः।
चक्ष्
- {प्रतिचक्ष्}
- चक्ष् (चक्षिङ् व्यक्तायां वाचि, छन्दसि दर्शनेपि)।
- ‘प्रति यच्चष्टं अनृतमनेना अव द्विता वरुणो मायी नः सात्’ (ऋ० ७।२८।४)। प्रतिचष्टं प्रतिपश्यति।
- ‘स्वसा स्वस्रे ज्यायस्यै योनिमारैगपैत्यस्याः प्रतिचक्ष्येव’ (ऋ० १।१२८।४)॥ उक्तोऽर्थः। स्वसारावुषसौ।
- ‘प्रति चक्ष्व वि चक्ष्वेन्द्रश्च सोम जागृतम्’ (अथर्व० ८।४।२५)। प्रतिचक्ष्व प्रतिकूलं प्रत्येकं वा पश्य।
- ‘यदा तु सर्वभूतेषु दारुष्वग्निमिव स्थितम्। प्रति चक्षीत मां लोकः’ (भा० पु० ३।९।३२) प्रतिचक्षीत पश्येत्। छन्दश्छायानुकार्येष कविः। लोके तु दर्शनेऽर्थे प्रयोगः सुदुरापः।
- ‘प्रत्यचष्ट… द्विजागमनमेव सः’ (भा० पु० ९।४।४१)। प्रत्यचष्ट प्रत्यैक्षत उदैक्षत आशंसत। अत्रार्थेपि च्छन्दोनुकार एव कारणम्।
- ‘विश्वा रूपा प्रतिचक्षाणः’ (ऋ० ९।८५।१२)। प्रतिचक्षाणः प्रतिपश्यन्।
- ‘यद्वा केशेषु प्रतिचक्षणे वा’ (अथर्व० १।१८।३)। प्रतिचक्षणं चक्षुः।
चर्
- {प्रतिचर्}
- चर् (चर गतिभक्षणयोः)।
- ‘अत उ त्वा पितुभृतो जनित्रीरन्नावृधं प्रति चरन्त्यन्नैः’ (ऋ० १०।१।४)। प्रतिचरन्ति अभिमुखमायान्ति उपक्रामन्ति।
- ‘देवताभिरेव देवताः प्रतिचरति’ (तै० सं० २।२।९।२)। प्रतिचरति प्रापयति।
चि
- {प्रतिचि}
- चि (चिञ् चयने)।
- ‘धमनीप्रतिचयः’ (चरक० सूत्र० २०।२०)। धमन्युपलेप इत्यर्थः।
- ‘सुदिनासु सभासु कार्यमेतत् प्रतिचिन्वीत विशेषतः स्वयं तु’ (पुण्यसुदिनाभ्यां क्लीबतेष्टा इत्यत्र तत्त्वबोधिन्याम्)।
चिन्त्
- {प्रतिचिन्त्}
- चिन्त् (चिति स्मृत्याम्)।
- ‘शास्त्रं सुविचिन्त्यापि प्रतिचिन्तनीयम्’ (सुभाषितम्)। प्रतिचिन्तनीयं पुनश्चिन्तनीयम्।
जन्
- {प्रतिजन्}
- जन् (जनी प्रादुर्भावे)।
- ‘त्वमेव प्रतिजायसे’ (प्रश्नोप० २।७)। पुनर्जायसे इत्यर्थः। प्रतिजातकोपः=पुनरुत्पन्नक्रोधः।
जागृ
- {प्रतिजागृ}
- जागृ (जागृ निद्राक्षये)।
- ‘सर्वदा स भवत्येवं सर्वत्र प्रति-जागृविः’ (अष्टाङ्ग० सूत्र० ७।१)।
- ‘ज्योतिरग्रा उषसः प्रति जागरासि’ (अथर्व० १४।२।३१)। प्रति जागरासि जागृहि। अनत्यन्तसंयोगेपि उषस इति द्वितीयान्तम्। प्रतियोगे वा द्वितीया द्रष्टव्या। तदा प्रतिरनुपसर्गो भवति।
- ‘उद्बुध्यस्वाग्ने प्रतिजागृहि’ (वा० सं० १५।५४)। प्रतिजागृहि संनिकर्षे सनीडे जागरिता भव। जाग्रस्तृन्।
जुष्
- {प्रतिजुष्}
- (जुषी प्रीतिसेवनयोः)।
- ‘प्रति देवाँ अजुषत प्रयोभिः’ (ऋ० ९।९२।१)।
ज्ञा
- {प्रतिज्ञा}
- ज्ञा (ज्ञा अवबोधने)।
- ‘वास्तोष्पते प्रति जानीह्यस्मान्’ (तै० सं० ३।४।१०।३६)। आत्मीयत्वेन बुध्यस्व प्रत्येकं वाऽस्माञ्जानीहीति भट्टभास्करः। प्रतिजानीहि अङ्गीकुर्विति लौ० गृ० सू० देवपालः।
- ‘चाण्डाल प्रतिजानीहि येन मोक्षमवाप्स्यसि’ (भा० अनु० १०१।२६)। प्रतिजानीहि=जानीहि। नार्थः प्रतिना।
- ‘अनामयं प्रतिजाने तवाहं सहानुजैः कुशली चास्मि विद्वन्’ (भा० उ० २३।६)। अत्रापि जान इत्येवार्थः। सञ्जयकृतस्य कुशलप्रश्नस्यानन्तरं यौधिष्ठिरं प्रतिवचनमिदम्।
- ‘येदिलस्येहितं सद्यः प्रतिजज्ञे प्रतापवान्’ (शि० भा० ४।७)। उक्तचर एवार्थः।
- ‘कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति’ (गीता० ९।३१)। प्रतिजानीहि निश्चितं जानीहि, अवधारय।
- ‘शतं प्रतिजानीते’ (पा० १।३।४६ वृत्तौ)। प्रतिशृणोति।
- ‘हरचापारोपणेन कन्यादानं प्रतिजानीते’ (प्र० रा०)। उक्तोऽर्थः।
- ‘ब्रह्मन्न प्रतिजानीमो नास्तिको जायते जनः’ (रा० १।६५।१४)। प्रतिकारं प्रतिक्रियां न जानीम इति कतकः।
- ‘नो हि न प्रत्यज्ञास्था ३ इति’ (ऐ० ब्रा० ६।३४)। आदित्यैरुक्तमर्थमभ्युपगतवानसीत्याह।
- ‘प्रति त्वा जानन्तु पितरः परेतम्।’ (अथर्व० १८।४।५१)। अभिजानन्तु प्रत्यभिजानन्त्वित्यर्थो भाति। सायणस्त्वनुजानन्त्वित्याह।
- ‘बृहस्पतिर्म आकूतिमाङ्गिरसः प्रति जानातु वाचमेताम्’ (अथर्व० १९।४।४)। मह्यं दातुं प्रतिजानातु स्मरत्विति सायणः।
- ‘सा यन्न प्रतिजानीत ज्ञातिभ्यो हास्यै तदहितᳫ स्यात्’ (श० ब्रा० २।५।२।२०)। प्रतिजानीत स्वीकुर्यात्। स्वकृतं व्यभिचारमिति शेषः।
- ‘को नु त्वाऽनुशशासेत्यन्ये मनुष्येभ्य इति ह प्रतिजज्ञे’ (छां० उ० ४।९।२)। प्रतिजज्ञे प्रत्युवाच।
- ‘त्वं नु भगवः सयुग्वा रैक्व इत्यहं ह्यरा ३ इति ह प्रतिजज्ञे’ (छां० उ० ४।१।८)। प्रतिजज्ञे बाढमित्युवाच।
- ‘प्रतिजानन्ति पूर्वाह्णे व्ययं व्यसनजं तव’ (भा० सभा० ५।६९)। प्रतिजानन्ति प्रतिज्ञापयन्ति निवेदयन्ति।
- ‘प्रेतलोकं गते मर्त्ये तत्तत्सर्वं विभावसुः। प्रतिजानाति पुण्यात्मा…’ (भा० अनु० १३०।१७)॥ प्रतिजानाति अर्पयति।
- ‘प्रतिज्ञातो म एष वरः’ (श० ब्रा० १४।९।१।८)। प्रतिज्ञातः स्वीकृतः।
- ‘प्रतिज्ञातं मया तावत् त्वयोक्तं देवि शृण्वता’ (रा० २।३८।१०)। प्रतिज्ञातं तथास्त्वित्यनुमतम्।
- ‘तीर्त्वा जवेनैव नितान्तदुस्तरां नदीं प्रतिज्ञामिव तां गरीयसीम्’ (शिशु० १२।७४)। प्रतिज्ञा प्रतिश्रवः, सङ्गरः।
- ‘दैवात् तीर्णप्रतिज्ञः’ (मुद्रा० ४।१२)। उक्तोऽर्थः। न्याये साध्यस्यार्थस्योपन्यासः प्रतिज्ञोच्यते यथा पर्वतो वह्निमान्।
तॄ
- {प्रतितॄ}
- तॄ (तॄ प्लवनतरणयोः)।
- ‘प्लवं प्रतितरैर्हीनं कर्णधार इवाम्भसि’ (सुश्रुत० १।३४।१७)। नाव्यन्तः प्रविष्टजलोत्क्षेपकाः पुरुषाः प्रतितराः।
दह्
- {प्रतिदह्}
- दह् (दह भस्मी करणे)।
- ‘प्रति ते ते अजरासस्तपिष्ठा अघशंसं शोशुचतो दहन्तु’ (ऋ० १०।८७।२०)। प्रतिदहन्तु प्रत्येकं दहन्तु ते तेऽजराः=शिखाः।
- ‘स तिग्मजम्भ रक्षसो दह प्रति’ (वा० सं० १५।३७)।
- ‘प्रति दह यातुधानम्’ (अथर्व० १।२८।२)। उक्तोऽर्थः।
दा
- {प्रतिदा}
- दा (दाण् दाने, डुदाञ् दाने)।
- ‘सहस्रं वै प्रति पुरुषः पशूनां प्रति यच्छति’ (तै० सं०)। पुरुषः सहस्रस्य पशूनां भारेण तुल्यभारो भवतीत्यर्थः।
- ‘तिलेभ्यः प्रति यच्छति माषान्’ (पा० २।३।११ इत्यत्रोदाहरणम्)। तिलानादाय तदर्थे माषान् ददाति। इह प्रतिः कर्मप्रवचनीयः।
- ‘एतदादाय ते प्राणान् प्रतिदास्यन्ति पाण्डवाः’ (भा० सौ० १५।२७)। प्रतिदास्यन्ति=प्रणिदास्यन्ति विनिमास्यन्ते।
- ‘मन्यस्व नरदेवाय जानकी प्रतिदीयताम्’ (रा० ५।५१।२१)। आत्तपूर्वायाः सीताया दानं प्रतिदानम्। जानकी प्रत्यर्प्यतामित्यर्थः।
- ‘अद्यापि कोपविमुखीकृतगन्तुकामा नोक्तं वचः प्रतिददाति यथैव पूर्वम्’ (चौर० ३६)। उक्तं वचो न प्रतिददाति न प्रतिसन्दिशतीत्यर्थः।
- ‘सन्देशं प्रतिदास्यामि विष्णोः’ (हरि० ७२५०)। प्रतिसन्देशं दास्यामीत्यर्थः।
- ‘प्रतिदास्यामि भगवन् पुँल्लिङ्गं तव सुव्रत’ (भा० उ० १९२।६)। पूर्वमात्तं प्रत्यर्पयिष्यामीत्यर्थः।
- ‘दत्तैषा भवता मह्यं तां ते प्रतिददाम्यहम्’ (भा० आश्व० ८९।१७)। उक्तोऽर्थः।
- ‘इहैव सन्तः प्रति दद्म एनत्’ (अथर्व० ६।११७।२)। एनद्ऋणं प्रतिदद्मो विगणयामः प्रतिनिर्यातयामः।
- ‘यत्र खल्वेकः प्रत्यादेयं ददाति द्वितीयश्च प्रतिदेयं गृह्णाति तत्रास्य दृष्टत्वात्प्रधानमृणशब्दः’ (न्या० सू० ४।१।६० भा०)। प्रतिदेयं पुनर्देयम्। पुमानुपनिधिर्न्यासः प्रतिदानं तदर्पणम् इत्यमरः। प्रतीपं दानं प्रतिदानमिति स्वामी।
दिव्
- {प्रतिदिव्}
- दिव् (दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु)।
- ‘शतं प्रतिदीव्यति। सहस्रं प्रतिदीव्यति। शतस्य प्रतिदीव्यति’ (पा० २।३।५९ सूत्रे वृत्तौ)। पणत इत्यर्थः। प्रतिरनर्थकः। यो दीव्यतेरर्थः स एव प्रतिदीव्यतेः।
- ‘शलाकां प्रतिदीव्यति’ (पा० २।३।५९ सूत्रे वृत्तौ प्रत्युदाहरणम्)। प्रतिदीव्यति प्रातिमुख्येन क्षिपतीत्यर्थः।
- ‘यो अस्मान् प्रतिदीव्यति’ (अथर्व० ७।१०९।४)। प्रतिकूलं द्यूतं करोतीत्यर्थः।
- ‘एतद्राजन्मम धनं प्रतिपाणोस्ति कस्तव। येन मां त्वं महाराज धनेन प्रतिदीव्यसे’ (भा० सभा० ६०।७)॥ प्रतिदीव्यसे प्रतिदीव्यसि विजिगीषसे, द्यूतं करोषि (मया समम्)।
दिश्
- {प्रतिदिश्}
- दिश् (दिश अतिसर्जने)।
- ‘भुजगपतिप्रतिदेशितात्मकृत्यः’ (भा० शां० ३६५।९)। प्रतिदेशितं ज्ञापितम्।
दुष्
- {प्रतिदुष्}
- दुष् (दुष वैकृत्ये)।
- ‘न भिन्नभाण्डे भुञ्जीत न भावप्रतिदूषिते’ (मनु० ४।६५)। भावप्रतिदूषितं=यत्र मनो विचिकित्सति, निर्णिक्ततामस्य भाण्डस्य शङ्कते।
- ‘अनेन प्रतिदुष्टकर्मणा हता भवेदार्यपथे परे स्थिता’ (रा० ५।१२।३)। अत्र पाठशुद्धिरतिशङ्क्यते। नेह प्रतिरुपसर्गः। लोके व्यवहितस्योपसर्गस्य प्रयोगाभावात्। निपातस्य सतोप्यर्थोऽस्फुटः। एतेषु चार्थेषु प्रतिशब्दं पठत्यमरः–प्रतिः प्रतिनिधौ वीप्सालक्षणादौ प्रयोगतः।
दुह्
- {प्रतिदुह्}
- दुह् (दुह प्रपूरणे)।
- ‘गौर्वै प्रतिधुक्, तस्य शृतं तस्यै शरस्तस्यै दधि तस्यै मस्तु तस्या आतञ्चनं तस्यै नवनीतं तस्यै घृतं तस्या आमिक्षा तस्यै वाजिनम्’ (श० ब्रा० ३।३।३।२)। प्रतिधुक् तत्कालदुग्धम्।
- ‘तस्य प्रातःसवनीयान् सोमान् प्रतिदुहा श्रीणाति’ (पञ्च० ब्रा० १८।४।२)। सद्यो दुग्धं पयः प्रतिधुक्। तेन प्रतिदुहा।
दृश्
- {प्रतिदृश्}
- दृश् (दृशिर् प्रेक्षणे)।
- ‘उद्यन्तं त्वा मित्रमहो दिवेदिवे ज्योग्जीवाः प्रति पश्येम सूर्य’ (ऋ० १०।३७।७)। उद्यति मित्रहरहर्दृशं पातयेमेत्याह।
- ‘दक्षिणस्यां दिशि यमं प्रत्यपश्यं व्यवस्थितम्’ (भा० वन० ६८।१४)। यमो मे दशोर्गोचरोऽभूदित्यर्थः।
- ‘दृशीक्ष्योः सदृशेप्यर्थे नाभेदः प्रतिपूर्वयोः’ (वा० प० ३।१२।१३)। प्रतिपश्यतीति तु प्रतीपदर्शनमर्थ इति हेलाराजः।
- ‘यावन्तो मा सपत्नानामायन्तं प्रतिपश्यथ’ (अथर्व० ७।१४।२)। प्रतिपश्यथ प्रतिकूलं निरीक्षध्वे।
- ‘आ पश्यति प्रति पश्यति परा पश्यति’ (अथर्व० ४।२०।१)। प्रतिपश्यति प्रतिमुखं स्थितं वर्तमानमपि भयकारणं निरसितुं जानातीति सायणः।
- ‘प्रति भद्रा अदृक्षत गवां सर्गा न रश्मयः’ (ऋ० ४।५२।५)। प्रत्यदृक्षत प्रत्यदर्शिषत प्रत्यदृश्यन्त।
- ‘प्रति केतवः प्रथमा अदृश्रन्’ (ऋ० ७।७८।१)। प्रत्यदृश्रन् आभिमुख्येनादृश्यन्त।
- ‘प्रति यदापो अदृश्रमायतीर्घृतं पयांसि बिभ्रतीर्मधूनि’ (ऋ० १०।३०।१३)।
- ‘संयोगो वै प्रीतिकरो महत्सु प्रतिदृश्यते’ (भा० आदि० १७०।५६)। प्रतिदृश्यते प्रत्यक्षं दृश्यते।
- ‘राशयः प्रत्यदृश्यन्त वाससां नेजनेष्विव’ (भा० द्रोण० १८७।१३)। नेजनानि प्रक्षालप्रदेशाः।
- ‘नाद्य त्वां प्रतिपश्यामि गिरावस्मिन्नरोत्तम’ (भा० वन० ६४।२६)। एकाकिन्या दमयन्त्या उक्तिः।
- ‘यत्र नैवाद्य न प्रातर्भोजनं प्रतिदृश्यते’ (भा० उ० १३४।१२)। विदुलाया उक्तिरेषा।
- ‘एतस्मिन्नन्तरे रक्षो रावणः प्रत्यदृश्यत’ (भा० वन० २७८।११)। झटिति दृष्टिविषयतामगात्।
- ‘न ध्वजो नार्जुनस्तव न रथो न च केशवः। प्रत्यदृश्यत धारेण शरवर्षेण संवृतः’ (भा० द्रोण० १९।१८)॥ प्रत्यदृश्यत तत्कालमदृश्यत।
- ‘तपस्वी तत्र भगवानगस्त्यः प्रत्यदृश्यत’ (भा० उ० १७।२)। सद्योऽदृश्यतेत्यर्थः।
- ‘ब्राह्मणो गुणवान् कश्चित् पुरोधाः प्रतिदृश्यताम्’ (भा० आदि० १७४।१३)। प्रतिदृश्यताम् अनुसन्धीयताम्, अन्विष्यताम्।
- ‘ते देवा असुरान् प्रतिदृश्य यज्ञमन्यदेव कर्तुं दध्रिरे’ (श० ब्रा० ९।५।१।२१)। प्रतिदृश्य संमुखमायतो दृष्ट्वा।
- ‘गृहान्प्रतिदृश्य जपति’ (लौ० गृ० २७।३)। प्रतिदृश्य आभिमुख्येन दृष्ट्वा।
- ‘एतादृङ् च प्रतिदृङ् च’ (तै० सं० १।८।१३)। प्रतिदृङ् यः प्रतिकूलं पश्यति सः।
- ‘राक्षसानां सहस्रेषु न कश्चित् प्रत्यदृश्यत’ (रा० ६।९०।८०)। प्रत्यदृश्यत=अभिमुखो ऽ वालोक्यत।
धा
- {प्रतिधा}
- धा (डुधाञ् धारणपोषणयोः)।
- ‘सरड्ढ वा अश्वस्य सक्थ्यावृहत्, तद् देवाश्चतुष्टोमेनैव प्रत्यदधुः’ (तै० सं० ५।३।१२।५)। प्रत्यदधुः पूर्ववत् स्थापितवन्तः।
- ‘तद् ग्रीवाः प्रतिदधाति’ (श० ब्रा० ३।४।४।१)।
- ‘ते देवा अश्विनावब्रुवन्। भिषजौ वै स्थः, इदं यज्ञस्य शिरः प्रतिधत्तम्’ ( )।
- ‘अथास्य शिरश्छित्त्वाऽन्यत्रापनिदधतुरथाश्वस्य शिर आहृत्य तद्धास्य प्रतिदधतुः’ (श० ब्रा० १४।१।१।२४)।
- ‘सद्यो जङ्घामायसीं विश्पलायै धने हिते सर्तवे प्रत्यधत्तम्’ (ऋ० १।११६।१५)।
- ‘प्रति जङ्घां विश्पलाया अधत्तम्’ (ऋ० १।११८।८)। अत्र सर्वत्र पूर्वोक्त एवार्थः।
- ‘तेषां छिन्नं प्रत्येतद् दधामि’ (तै० सं० १।५।१०।४)। सन्दधामीत्यर्थः। समोऽर्थे प्रतिः।
- ‘प्रत्येव प्रथमेन धत्ते विसृजति द्वितीयेन’ (तै० सं० ६।५।५)। उक्तोऽर्थः।
- ‘…मघ्वो अग्रमिन्द्रो मदाय प्रति धत् पिबध्यै’ (ऋ० ४।२७।५)। प्रतिधत् प्रतिधत्ते मुखेन सन्धत्ते मुखे दधाति।
- ‘तदस्मै जातायान्नाद्यं प्रति दधाति यथा कुमाराय स्तनम्’ (ऐ० ब्रा० ६।२९)। उक्तोऽर्थः।
- ‘तदग्ने चक्षुः प्रति धेहि रेभे शफारुजं येन पश्यसि यातुधानम्’ (ऋ० १०।८७।१२)। प्रतिधेहि प्रतिदेहि। तेन युक्तं कुर्वित्यर्थः।
- ‘उप मेतं प्रति म एतद् धत्तम्’ (श० ब्रा० ८।२।१।१२)। उक्तोऽर्थः।
- ‘स इदस्तेव प्रति धादसिष्यन्’ (ऋ० ६।३।५)। प्रतिधात् धनुषि सन्धत्ते।
- ‘इषु र्न धन्वन्प्रतिधीयते’ (ऋ० ९।६९।१)।
- ‘अहानि शं भवन्तु नः शं रात्री प्रति धीयताम्’ (अथर्व० ७।७२।१)। प्रतिधीयताम् सन्दधातु। व्यत्ययेन कर्तरि कर्मप्रत्यय इति सायणः। प्रतिधीयताम्=व्युच्छतु इति संस्कृतशार्मण्यकोषः। यदि व्यत्ययो नाभिमतस्तर्हि धीङ् आधारे दिवादिरभ्युपेयताम्।
- ‘ऊर्ध्वा धीतिः प्रत्यस्य प्रयामन्यधायि’ (ऋ० १।११९।२)। प्रत्यधायि व्यधायि प्रारम्भि।
- ‘प्रति स्तोमं दधीमहि तुराणाम्’ (ऋ० ७।४०।१)। उक्तोऽर्थः।
- ‘सुग्रीष्मः प्रतिधीयतां नः’ (पा० गृ० ३।२)। सम्पद्यतामित्यर्थः।
- ‘सोऽस्यायमात्मा पुण्येभ्यः कर्मभ्यः प्रतिधीयते’ (ऐ० उ० २।४)। विहितानि कर्माणि कर्तुं पितुः स्थाने प्रतिनिधीयते प्रतिनिधी क्रियते।
- ‘प्रतिदधानेभ्यश्च वो नमः’ (वा० सं० १६।२२) शरसन्धानं कुर्वद्भ्य इत्यर्थः।
- ‘तस्मात्सर्वाश्चतुरः पदः प्रतिदधत् पलायते’ (अश्वः) (तै० सं० ५।४।१२।५६)। प्रतिदधत् प्रतिक्षिपन् विहरन्, न्यस्यन्।
- ‘सर्वैः पद्भिः प्रतिदधत् पलायते’ (श ब्रा० १२।३।३।१)। उक्तोऽर्थः।
- ‘सप्त ऋषयः प्रतिहिताः शरीरे’ (वा० सं० ३४।५५)। प्रतिहिताः प्रतिनिहिताः, ध्यवस्थिताः।
- ‘प्रतिहितामायतां (इषुम्) मा विस्राष्टम्’ (अथर्व० ११।२।१) प्रतिहितां संहिताम् (इषुम्)। धनुष्यारोपिताम् इत्यर्थः।
- ‘नमस्ते रुद्रास्यते नमः प्रतिहितायै’ (अथर्व० ६।९०।३)। उक्तोऽर्थः। इषुः स्त्री छन्दसि प्रायेण। इषुः पुमाँल्लोके प्रायेण।
- ‘प्रतिहिते च महिष्यां च जुहोति’ (बौ० श्रौ० १२।११)। प्रतिहितोऽत्यन्तप्रियः पुत्र इति सायणः।
- ‘मा शकन् प्रतिधामिषुम्’ (अथर्व० ८।८।२०)। प्रतिधाम् प्रतिधातुं सन्धातुम्।
- ‘शकि रणमुल्कमुलौ’ (पा० ३।४।१२) इति तुमुन्नर्थे णमुल्।
- ‘अपदे पादा प्रतिधातवेऽकः’ (ऋ० १।२४।८)। प्रतिधातवे प्रतिधातुम्। तुमर्थे तवेन्।
- ‘प्रतिधिरिति पृथिवीम्’ (तै० सं० ५।३।६।२८)। प्रत्येकं धारयति मातृवत् प्रजा इति धिः पृथिवीति भट्टभास्करः।
- ‘प्रतिधिना पृथिव्या पृथिवीं जिन्व’ (वा० सं० १५।६)। ‘अनितिरसि सन्धिरसि प्रतिधिरसि’ (गो० ब्रा० उ० २।१३)।
- ‘एकया प्रतिधाऽपिबत् साकं सरांसि त्रिशतम्’ (ऋ० ८।७७।४, नि० ५।२।६)। एकया प्रतिधा=एकेन प्रतिधानेन। सकृत्सन्धाय मुखेन पानपात्रम्। एकेनोच्छ्वासेनेत्यर्थः।
- ‘काङ्क्षत नाभिकृन्तनेन स्तनप्रतिधानेन च’ (गो० गृ० २।७।१७)। उक्तोऽर्थः।
- ‘केचिदत्र धेट् पाने इत्यस्य प्रयोगं मन्यते। तदसत्। उत्तरत्र’ (२।७।२२) स्तनं च प्रतिधत्तेति श्रवणात्।
- ‘एतं वो युवानं प्रतिदध्मः’ (अथर्व० ९।४।२४)। प्रतिदध्मोऽर्पयामः, उपहरामः।
- ‘प्रजापते र्वा अक्ष्यश्वयत् तत्परापतत्… तद् देवा अश्वमेधेत प्रत्यदधुः’ (पञ्च० ब्रा० २१।४।२)। प्रत्यदधुः पुनः संहितमकुर्वन्।
धाव्
- {प्रतिधाव्}
- धाव् (धावु गतिशुद्ध्योः)।
- ‘उत्कूलमुद्वहो भवोदुह्य प्रति धावतात्’ (अथर्व० १९।२५।१)। प्रतिधावतात् प्रत्यग् धाव। वेगितया गत्या निवर्तस्व।
धी
- {प्रतिधी}
- धी (धीङ् आधारे)।
- ‘शं रात्री प्रति धीयताम्’ (अथर्व० ७।७२।१)। प्रतिधीयतां प्रतितिष्ठतु।
धृ
- {प्रतिधृ}
- धृ (धृञ् धारणे)।
- ‘तस्मादेनाः स्यन्दमाना न किञ्चन प्रतिधारयति’ (श० ब्रा० ३।९।४।४)। प्रतिधारयति वारयति उपरमयति, रुणद्धि।
- ‘प्रतिधारयति वै ग्रीवा अथो शिरः’ (ऐ० ब्रा० ३।२)। उत्थातुमादौ गलमुन्नमयतीत्यर्थ इति सायणः। उद्ग्रीवो भवतीति यावत्।
धृष्
- {प्रतिधृष्}
- धृष् (धृष प्रसहने)।
- ‘कस्त इन्द्र प्रति वज्रं दधर्ष’ (ऋ० ८।९६।९)। प्रतिदधर्ष प्रसहते प्रतिगृह्णाति प्रतिरुणद्धि।
- ‘तिग्मा अस्य हनवो न प्रतिधृषे’ (ऋ० ८।६०।१३)। उक्तोऽर्थः।
ध्यै
- {प्रतिध्यै}
- ध्यै (ध्यै चिन्तायाम्)।
- ‘सुपर्णोऽथाब्रवीद् विप्रं प्रतिध्यातं मया द्विज’ (भा० उ० ११३।८)। प्रध्यातं वै मया द्विजेति पाठान्तरम्। प्रतिध्यातं ध्यातं चिन्तितम्।
ध्वंस्
- {प्रतिध्वंस्}
- ध्वंस् (ध्वंसु अवस्रंसने, गतावपि)।
- ‘प्रतिध्वस्तोष्ठदन्तस्य न्यस्तसर्वायुधस्य च’ (भा० शां० १००।३६) प्रतिध्वस्तमवस्रस्तं प्रपतितम्।
नद्
- {प्रतिनद्}
- नद् (णद अव्यक्ते शब्दे)।
- ‘निशम्य तं (निनादं) प्रत्यनदंस्तु कौरवाः’ (भा० द्रोण० १०९।३७)। प्रत्यनदन् प्रतिघोषमकुर्वन्।
- ‘सिंहव्याघ्रवराहाणां नादेन प्रतिनादितम्’ (वनम्) (हरि० २।२२।५६)। प्रतिनादितं प्रतिशब्दितम्।
- ‘गम्भीरं प्रतिनद्येव निनादं नदतो गिरिः’ (राज० ४।२८५)। गम्भीरं प्रतिनद्य कृतं नादमुद्दिश्य गभीरं नदित्वा।
नन्द्
- {प्रतिनन्द्}
- नन्द् (टुनदि समृद्धौ)।
- ‘प्रतिनन्दन्तु पितरः संविदानाः’ (हिरण्य० गृ० २।१४।४)। अस्मासु प्रीताः प्रसन्ना भवन्त्वित्याह।
- ‘नदन्ति परुषं श्येनाः शिवाः क्रोशन्ति दारुणम्। मृगेन्द्राः प्रतिनन्दन्ति’ (भा० शां० १५३।९८)। प्रसीदन्तीत्यर्थः। तस्मात् पुरस्ताद्वान्तम्।
- ‘सर्वाः प्रजाः प्रतिनन्दन्ति’ (तै० ब्रा० २।३।९।५)। सञ्चरन्तं वायुं प्रति हृष्यन्तीत्याह।
- ‘यां देवाः प्रतिनन्दन्ति रात्रिं धेनुमुपायतीम्’ (अथर्व० ३।१०।२)। प्रतिनन्दन्ति स्तुवन्ति प्रशंसन्ति।
- ‘यथा वयः कुरून्सर्वान् प्रतिनन्दन्ति पाण्डवाः’ (भा० उ० ४७।१५)। सहर्षं सत्कुर्वन्तीत्याह।
- ‘तत्र स्थितः प्रजाः सर्वाः प्रतिनन्द्य विसर्जयेत्’ (मनु० ७।१४६)। संभाषणदर्शनादिभिः परितोष्येत्यर्थः।
- ‘वधूर्विधात्रा प्रतिनन्द्यते स्म कल्याणी वीरप्रसवा भवेति’ (कु० ७।८७)। प्रतिनन्द्यते स्म आशिषा वर्ध्यते स्म।
- ‘पूजयेवशनं नित्यमद्याच्चैतदकुत्सयन्। दृष्ट्वा हृष्येत् प्रसीदेच्च प्रतिनन्देच्च सर्वशः’ (मनु० २।५४)॥ अस्माकं नित्यमस्त्वेतदित्यभिधाय वन्दनं प्रतिनन्दनमिति कुल्लूकः।
- ‘प्रतिनन्दाम ते वाक्यं सर्वं चैव विशाम्पते’ (भा० वि० ३४।८)। सहर्षं स्वीकुर्म इत्यर्थः।
- ‘उपधानेन दत्तेन प्रत्यनन्दद् धनञ्जयम्’ (भा० भीष्म० १२०।४६)। धनञ्जयमाशिषाऽवर्धयद् भीष्मः।
नम्
- {प्रतिनम्}
- नम् (णम प्रह्वत्वे शब्दे च)।
- ‘कुमारश्चित्पितरं वन्दमानं प्रति नानाम रुद्रोपयन्तम्’ (ऋ० २।३३।१२)। प्रतिनानाम प्रतिननाम प्रणतोऽभूत्, प्रह्वोऽभवत्।
नर्द्
- {प्रतिनर्द्}
- नर्द् (नर्द अव्यक्ते शब्दे)।
- ‘महामेघं महाघोरं दर्दुरः प्रति नर्दति’ (भा० कर्ण० ३९।२६)। प्रतिनर्दति प्रातिभट्येन नर्दति रौति।
नह्
- {प्रतिनह्}
- नह् (णह बन्धने)।
- प्रतिनाहः प्रतीनाह इति ध्वजनामधेयमित्याभिधानिकाः।
नी
- {प्रतिनी}
- नी (णीञ् प्रापणे)
- ‘मृत्यो र्ये अघला दूतास्तेभ्य एतान् प्रति नयामि बद्ध्वा’ (अथर्व० ८।८।१०)। प्रतिनयामि प्रापयामि समर्पयामि।
- ‘…नौ गृहाय प्रतिनेष्यति’ (रा० २।९८।२२)। प्रतिनेष्यति प्रतिनिवर्त्य नेष्यति।
- ‘स्थालीपाके धृतपिण्डान् प्रतिनीयाश्नाति’ (कौ० सू० ५२)। प्रतिनीय सन्नीय, सङ्गतान् कृत्वा।
- ‘तं प्रतिनेतुमयोध्याम्’ (रा० २।९०।१७)। प्रत्यावर्त्य नेतुम् इत्यर्थः।
नुद्
- {प्रतिनुद्}
- नुद् (णुद प्रेरणे)।
- ‘प्रत्यजातान् जातवेदो नुदस्व’ (अथर्व० ७।३५।१)। प्रतिनुदस्व पृष्ठतः प्रेरयाऽपसारय।
- ‘आदित्या वा एतं भूत्यै प्रतिनुदन्ते’ (तै० सं० २।३।१।१)।
- ‘अग्ने मन्युं प्रतिनुदन्परेषाम् …परि पाहि नस्त्वम्’ (ऋ० १०।१२८।६)। उक्तोऽर्थः।
- ‘दक्षिणाः प्रतिनुत्ता न प्रतिग्राह्याः’ (काठक० २८।४)। प्रतिनुत्ताः प्रतिग्रहीष्यन्तं प्रति प्रक्षिप्ताः।
नृत्
- {प्रतिनृत्}
- नृत् (नृती गात्रविक्षेपे)।
- ‘येऽस्मान्पुरोपनृत्यन्त मूढा गौरिति गोरिति। तान् वयं प्रतिनृत्यामः पुनर्गौरिति गौरिति’ (भा० शल्य० ५९।७)॥
पण्
- {प्रतिपण्}
- पण् (पण व्यवहारे स्तुतौ च)।
- ‘शुनं नो अस्तु प्रपणो विक्रयश्च प्रतिपणः फलिनं मा कृणोतु’ (अथर्व० ३।१५।४)। प्रत्यानेतुं परद्रव्यस्य परिमाणकल्पनं प्रतिपण इति सायणः।
पत्
- {प्रतिपत्}
- पत् (पत्लृ गतौ)।
- ‘तान्यनीकानि हंसो यथा मेघमिवापतन्तं धनञ्जयः प्रत्यपतत् तरस्वी’ (भा० वि० ६२।६)। प्रत्यपतत्=वेगेनोपाद्रवत्।
पद्
- {प्रतिपद्}
- पद् (पद गतौ)।
- ‘यस्य गार्हपत्याहवनीयावन्तरेणऽनो वा रथो वा श्वा वा प्रतिपद्येत’ (ऐ० ब्रा० ७।१२)। प्रतिपद्येत आगच्छेत्।
- ‘पूर्वः कूर्चेन प्रतिपद्यते’ (वरम्) (भा० गृ० २।२३)। प्रतिगच्छतीत्यर्थः।
- ‘अनीकं यातुधानानां समन्तात् प्रत्यपद्यत’ (रा० ३।२४।२८)। प्राप्नोद् इत्य् अर्थः।
- ‘अगस्त्याद् भारताचार्यः प्रत्यपद्यत मे पिता’ (भा० सौ० १२।१३)। उक्तोऽर्थः।
- ‘तद्यूयं पुनः सर्वाः स्वरूपं प्रतिपत्स्यथ’ (भा० आदि० २१७।१०)। प्रतिपत्स्यथ=प्रतिपत्स्यध्वे=प्रतिलप्स्यध्वे।
- ‘प्रायः स्वं महिमानं क्षोभात्प्रतिपद्यते हि जनः’ (शा० ६।३१)।
- ‘ततः पूरोः सकाशाद्वै स्वां जरां प्रत्यपद्यत’ (हरि० १।३०।३६)। उक्तोऽर्थः।
- ‘वेत्थ यथेमाः प्रजाः। प्रयत्योपि प्रतिपद्यन्ता इति’ (श० ब्रा० १४।९।१।२)। प्रतिपद्यन्ते आवर्तन्ते, पुनराभवन्ति। इह प्रतिपदिः प्रत्यागमनेर्थे।
- ‘तेषामाजिं यतामभिसृष्टानां वायुर्मुखं प्रथमः प्रत्यपद्यत’ (ऐ० ब्रा० २।२५)। प्रत्यपद्यत प्राप्नोत् आसादयत्।
- ‘गत्वा चैवाश्रमं सा तु तापसं प्रत्यपद्यत’ (भा० अनु० १२।२३)। तापसं प्रत्यपद्यत तापसेन संगतवती, समभवत्, सहाशेत। भर्तृत्वेन स्वीकृतवतीति त्वन्ये।
- ‘जघने सर्वसैन्यानां ममाश्वान् प्रतिपादय’ (भा० शल्य० १९।३३)। प्रतिपादय गमय।
- ‘एतेन तूर्णं प्रतिपादयेमान् श्वेतान् हयान्’ (भा० वि० ५४।४)। उक्तोऽर्थः।
- ‘तन्महात्मा महाभागः केतुः सर्वधनुष्मताम्। प्रत्यपादयदाचार्यः प्रीयमाणो धनञ्जयम्’ (भा० सौ० १२।५)। तदस्त्रं ब्रह्मशिरो नाम। प्रत्यपादयत् प्रापयामास।
- ‘ऋतुपर्णं जना राज्ञे भीमाय प्रत्यपादयन्’ (भा० वन० ७३।१)। प्रत्यपादयन् अगमयन्, अनयन्, प्रापयन्।
- ‘स्यन्दनं च बलं चैव समीपं प्रत्यपादयत्’ (रा० ६।७॥७)।
- ‘अधर्मात्पाहि मां राजन्धर्मं च प्रतिपादय’ (भा० आदि० ८२।२१)। उक्तोऽर्थः।
- ‘सुग्रीवमेव तद्राज्ये राघवः प्रत्यपादयत्’ (रा० १।१।७०)। प्रत्यपादयत् प्रत्यष्ठापयत्।
- ‘यदद्य राजा सुतम् …यौवराज्ये प्रतिपादयिष्यति’ (रा० गोरे० २।६।३३)। उक्तोऽर्थः।
- ‘तद्धनुर्ग्रहणमेव राघवः प्रत्यपद्यत समर्थमुत्तरम्’ (रघु० ११।७९)। अजानादित्यर्थः।
- ‘न किञ्चित्प्रत्यपद्यन्त पुत्रास्ते भरतर्षभ’ (भा० भीष्म० ११९।१११)। नाबुध्यन्त किं कर्तव्यमिति।
- ‘तिमिरे हि कौशिकानां रूपं प्रतिपद्यते दृष्टिः’ ( )। प्रतिपद्यतेऽनुभवति।
- ‘प्रतिपेदे चतुष्पादं धनुर्वेदं नृपात्मजः’ (भा० उ० १९२।६१)। प्रतिपेदे शिशिक्षे, उपयुयुजे।
- ‘यत् पशुं सारमेयं प्रतिपादयसि’ (पञ्चत०)। प्रतिपादयसि मन्यसे।
- ‘अतिप्रियत्वान्नहि मे कातरं प्रतिपद्यते चैतो वालिवधं राम…’ (भट्टि० ६।१११)॥ प्रतिपद्यते प्रत्येति श्रद्धत्ते।
- ‘प्रतिपन्नं पुमांसमपहायाप्रतिपन्नसन्दिग्धाः प्रेक्षावद्भिः प्रतिपाद्यन्ते’ (भामत्याम्)। प्रतिपाद्यन्ते बोध्यन्ते। उक्तमेवार्थमुदाहरणैः प्रतिपादयति। बोधयति स्थापयति, उपपादयति।
- ‘ततः पुत्रवतीमेनां प्रतिपत्स्ये त्वदाज्ञया’ (रघु० १५।७३)। अभ्युपैष्यामि, अङ्गीकरिष्यामीत्याह।
- ‘न साम्ना प्रतिपद्येत यदि गन्धर्वराडसौ’ (भा० वन० २४३।१७)।
- ‘तं चापि भगवानत्रिः पुत्रवत् प्रत्यपद्यत’ (रा० २।११७।५)। आलिङ्गनमूर्धाघ्रारणादिभिः पुत्रवदङ्गीचकारेत्यर्थः।
- ‘न मासे प्रतिपत्तासे मां चेन्मर्तासि मैथिलि’ (भट्टि० ८।९५)। न प्रतिपत्तासे नाङ्गी कर्तासि।
- ‘मां सुखं प्रतिपद्यस्व दासो भीरु भवामि ते’ (भा० वि० २२।१०)।
- ‘मन्ये ध्रुवं मयोक्ता सा वचनं प्रतिपत्स्यते’ (भा० आदि० १२४।८)।
- ‘धारयन्निव चैतस्यै वसूनि प्रत्यपद्यत’ (भट्टि० ८।७४)। प्रत्यपद्यत प्रत्यशृणोत्।
- ‘सर्वे सर्वेषु भूतेषु यथावत् प्रतिपेदिरे’ (भा० शां० २२७।६२)। प्रतिपेदिरे व्यवजह्रुः, व्यवहृतवन्तः, आचेरुः।
- ‘(अतिथीन्) महाभागान् अमितधीर् ब्रह्मा लोकपितामहः। दयावान् सर्वेषु भूतेषु यथार्हं प्रतिपद्यते’ (भा० सभा० ११।५७)॥ व्यवहरति आचरति।
- ‘कामाभिभूतः क्रोधाद् वा यो मिथ्या प्रतिपद्यते। स्वेषु चान्येषु वा…’ (भा० उ० १२९।३५)॥
- ‘स भवान्मातृपितृवद् अस्मासु प्रतिपद्यताम्’ (भा० उ० ९५।??५)।
- ‘शिष्यवृत्ति समापन्नान् गुरुवत् प्रत्यपद्यत’ (भा० आश्रम० २।१२)। आचरदित्यर्थः। इह प्रतिपदिः सकर्मकः। सत्करणं त्वार्थिकोऽर्थः।
- ‘कथं नु पाण्डवा राजन्प्रतिपत्स्यन्ति कौरवम्’ (भा० शल्य० ३०।६७)। कौरवे व्यवहरिष्यन्ति, तत्र वर्तिष्यन्त इत्यर्थः।
- ‘अभ्युपेत्य च शुश्रूषां यस्तां न प्रतिपद्यते’ (नारद०)। न प्रतिपद्यते न करोति, नानुतिष्ठति, न विधत्ते।
- ‘तात इदानीमिमं वृत्तान्तं श्रुत्वा न जाने किं प्रतिपत्स्यते’ (शा० ४)। किं प्रतिपत्स्यते किमावरिष्यति।
- ‘प्रेषितस्तदेव प्रतिपद्यते’ (आप० ध० १।२।७।२५)। नियुक्तः सन्नियोगमेव कुर्यादित्युक्तं भवति।
- ‘किं पापं प्रतिपत्स्यसे’ (रा० २।१२।९०)
- ‘स्वधर्मं प्रतिपद्यस्व नाधर्मं वोढुमर्हसि’ (रा० १।२३।७)।
- ‘परेतकाले पुरुषो यत्कर्म प्रतिपद्यते’ (रा० ३।५१।३१)।
- ‘प्रतिपत्स्यति बीभत्सुर्भवतश्चौर्ध्वदेहिकम्’ (भा० मौ० ६।२३)।
- ‘अवहननादि कर्म प्रतिपद्यते’ (आप० श्रौ० ७।७।२२।१०)।
- ‘सौभद्रे प्रतिपत्तिं कां प्रत्यपद्यन्त मामकाः’ (भा० द्रोण० ४६।३)। किं प्रतिविधानमाचरन्नित्याह।
- ‘तथाहं प्रतिपत्स्यामि ज्ञात्वा तेषां बलाबलम्’ (रा० ६।३०।१८)। आचरिष्यामीत्यर्थः।
- ‘न चायं किञ्चिदस्मासु शत्रुवत् प्रत्यपद्यत’ (अवदा० जा० २२।७४)।
- ‘स कालयवनश्चापि किं कृष्णे प्रत्यपद्यत’ (हरि० २।५७।४)। कथमाचरन् इत्यर्थः।
- ‘प्रतिपत्स्यति राजा स पिता ते यदनन्तरम्’ (भा० उ० १७६।६)।
- ‘स्वभाग्यनिन्दां प्रतिपत्स्यते वा’ (अवदा० सुत जा०, १२)।
- ‘आचक्षध्वं च भीष्माय रूपेण च गुणैश्च माम्। स एव सुमहातेजाः साम्प्रतं प्रतिपत्स्यते’ (भा० आदि० १३१।३५-३६)॥ युक्तमादरिष्यत इत्याह।
- ‘यस्त्वधर्मेण द्रव्याणि प्रतिपादयति ज्येष्ठोपि तमभागं कुर्वीत’ (आप० ध० २।१४।१५) प्रतिपादयति व्यवहरति विनियुङ्क्ते।
- ‘समीक्ष्य कुलधर्मांश्च स्वधर्मं प्रतिपादयेत्’ (मनु० ८।४१)। प्रतिपादयेत् व्यवस्थापयेदिति कुल्लूकः।
- ‘यद्विधम् (अन्नमुच्चावचं) प्रतिपेदे च रामे प्रियहितेऽतिथौ’ (रा० २।८७।१४-१५)। प्रतिपेदे ददौ, उपजहार।
- ‘प्रत्यपादि हरयेऽद्भुता द्युतिः’ (पारिजात० १७।२५)। प्रत्यपादि अदायि, उपहृता।
- ‘ऋणिकस्तं प्रतिभुवे द्विगुणं प्रतिपादयेत्’ (याज्ञ० २।५६ मिताक्षरायां नारदवचनम्)। दद्यादित्यर्थः।
- ‘कर्म वै सफलं कृत्वा गुरूणां प्रतिपादयेत्’ (भा० अनु० १६२।४४)। कर्म=अध्ययनम्। प्रतिपादयेत् दद्यात्। दक्षिणामिति शेषः।
- ‘तत्र यद् रिक्थजातं स्यात्तत् तस्मिन् प्रतिपादयेत्’ (मनु० ९।१९०)। प्रतिपादयेत् समर्पयेत्।
- ‘तदाज्यभागावन्तरेणाहुती प्रतिपादयेत्’ (मुण्डकोप० १।२।२)। उक्तोऽर्थः।
- ‘उच्यमानोपि परुषं नोत्तरं प्रतिपद्यते’ (रा० २।१।१०)। प्रतिपद्यते प्रयच्छति।
- ‘स यदि प्रतिपद्येत यथान्यस्त यथाकृतम्’ (मनु० ८।१८३)। स्वीकृत्य दद्यात्। सत्यमस्ति गृह्यतामिति वदन् कुल्लूकस्तु तात्पर्यमाचष्टे। केवलः प्रतिपदिः प्रतिवचतेऽपि वर्तते। तत्र काश्चिद् दिशो निर्दिश्यन्ते– तं ह पप्रच्छ स ह न प्रतिपेदे (गो० ब्रा० पूर्व० १।३२)। प्रतिपेदे प्रत्युवाच, प्रतिवचनं ददौ।
- ‘तेभ्यो ह न सर्वमिव प्रतिपत्स्ये’ (छां० उ० ५।११।३)। प्रतिवक्तुं नेशिष्य इत्यर्थः।
- ‘उपोत्तमेन सुहृदो ब्राह्मणस्य शकृत्पिण्डान् पर्वस्वाधाय शकधूमं किमद्याहरिति पृच्छति। भद्रं सुमङ्गलमिति प्रतिपद्यते’ (कौ० सू० ५०।१५, १६)। प्रतिपद्यते प्रतिवक्ति।
- ‘कौन्तेय यदि प्रश्नांस्तान्मयोक्तान्प्रतिपत्स्यसे’ (भा० वन० ३१२।२७)। उक्तोऽर्थः।
- ‘कि प्रतिपद्यते वैदर्भः’ (माल० १)। किमुत्तरमाहेत्याह।
- ‘अथ यत्र प्रतिपद्यते। तच्चतुर्धा पुरोडाशं कृत्वा बर्हिषदं करोति’ (श० ब्रा० १।८।१।४०)। अत्र प्रतिपदिरुच्चैर्व्याहृतौ वर्तते।
- ‘तामनुकृतिं होताऽऽग्निमारुते शस्त्रे वैश्वानरीयेण सूक्तेन प्रतिपद्यते’ (नि० ७।२३।२)। प्रतिपद्यते प्रारभते।
- ‘ओङ्कारः स्वर्गद्वारं तस्माद् ब्रह्माध्येष्यमाण एतदादि प्रतिपद्येत’ (आप० ध० १।१३।६)। प्रतिपद्येत उपक्रमेत। अध्येतुमारभेतेत्यर्थः।
- ‘अत्र बर्हिरादि कर्म प्रतिपद्यते’ (भा० श्रौ० ७।६।१)।
- ‘साध्वस्मा अस्तु वितथ एष एनस इत्युक्त्वा शास्तुं प्रतिपद्येत’ (आप० ध० २।६।२)। शास्तुं शासितुम्।
- ‘सविचितं विचित्यं दैवप्रश्नेभ्यो राजा दण्डाय प्रतिपद्येत’ (आप० ध० २।५।१।२)। प्रतिपद्येत प्रक्रमेत। दण्डं प्रणेतुं व्यवस्येदित्यर्थः।
- ‘यस्मात्तु लोके दृश्यन्ते क्षमिणः पृथिवीसमाः। तस्माज्जन्म च भूतानां भवश्च प्रतिपद्यते’ (भा० वन० २९।३१)॥ प्रतिपद्यते सम्पद्यते वर्तते जायते।
- ‘भूयिष्ठेन तु राजानः श्रियं भुक्त्वाऽऽयुषः क्षये। तरुणाः प्रतिपद्यन्ते भोक्तुं सुकृतदुष्कृते’ (भा० उ० ९७।७)॥ उक्तोऽर्थः।
- ‘एवमु हास्याग्नेयीभिरेव प्रतिपद्यमानस्य पावमान्योऽनुशस्ता भवन्ति’ (ऐ० ब्रा० २।३७)। प्रतिपद्यमानस्य प्रारभमाणस्येति सायणः। प्रतिपदिः शंसनार्थ इति षड्गुरुशिष्याः।
- ‘अर्थिभ्य प्रतिपाद्यानमनिशं प्राप्नोति वृद्धिं पराम्’ (भर्तृ० २।१६)। प्रतिपाद्यमानं दीयमानम्।
- ‘प्रतिपन्नायां शर्वर्यां संमानितसर्वराजलोकः सुष्वाप’ (हर्ष० ७)। प्रतिपन्नायां प्राप्तायामागतायामवतीर्णायाम्।
- ‘अस्त्रं ततोऽन्यत् प्रतिपन्नमद्य’ (भा० कर्ण० ४२।१२)। प्रतिपन्नं प्राप्तम्।
- ‘अन्यथा प्रतिपन्नास्तु’ (भा० आश्व० ३६।२७)। तिर्यस्थावरादियोनिं प्राप्ता इत्यर्थः।
- ‘अयशो जीवलोके च त्वयाहं प्रतिपादितः’ (रा० २।७४।६)। प्रतिपादितः प्रापितो लम्भितः।
- ‘कच्चिद् द्विषामविदितः प्रतिपन्नश्च सर्वदा’ (भा० सभा० ५।३९)। प्रतिपन्नो विदितवान्, अवेक्षावान्, सावधानः। प्रतियत्त इति पाठे प्रतीकारे यत्नवान् इत्यर्थः।
- ‘लीलयापि यत्सन्तः प्रतिपन्नाः सकृत्क्वचित्’ (तन्त्रा० १।६।६९)। प्रतिपन्नाः स्वीकृतवन्तः, प्रतिज्ञातवन्तः।
- ‘सूत्रार्थद्वयमप्याचार्येण शिष्याः प्रतिपादिताः’ (५।१।५० सू० वृत्तौ)। बोधिताः पाठिताः।
- ‘तच्च श्रुत्वा प्रतिपादितवन्तः प्राड्विवाकाः परस्परस्य तत् तुलादारकदानमिति’ (तन्त्रा० १।१७)। प्रतिपादितवन्तो निर्णीतवन्तः।
- ‘त्वयि सम्यङ् महाबाहो प्रतिपन्ना यशस्विनः’ (भा० उ० १२४।३२)। प्रतिपन्ना व्यवहृतवन्तः।
- ‘वैरे तस्मिन्प्रतिपादिते’ (रा० ४।२२।२०)। प्रतिपादिते कारिते जनिते।
- ‘कृष्ण दिष्ट्या मम प्रीति र्महती प्रतिपादिता’ (भा० द्रोण० १४९।८)। उक्तोऽर्थः। प्रीतिः प्रहर्षः।
- ‘किं करिष्यति पाण्डित्यं वस्तुष्वप्रतिपादितम्’ (तन्त्रा० १।१४।१६१)। अप्रतिपादितमविनियुक्तमनुपयुक्तमव्यापृतम्।
- ‘तथा धर्माहृतेन द्रव्येण तीर्थे प्रतिपन्नेन’ (आप० ध० २।६।१६।२४)। प्रतिपन्नेन प्रतिपादितेन दत्तेन।
- ‘कृतगोपवधूरतेर्नतो वृषमुग्रे नरकेपि सम्प्रति। प्रतिपत्तिरधः कृतैनसः…’ (शिशु० १६।८)॥ अधः प्रतिपत्तिरधः प्राप्तिः। पक्षे प्रतिपत्तिः प्रवृत्तिः पुरुषकारः।
- ‘प्राग्वाससः प्रतिपत्तेरित्येके’ (गौ० ध० ९।२३)। प्रतिपत्तिर्बोधः।
- ‘वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये’ (रघु० १।१)।
- ‘विद्या शस्त्रस्य शास्त्रस्य द्वे विद्ये प्रतिपत्तये’ (हितोप० प्र० ७)।
- ‘प्रतिपत्तिविमोहाच्च धर्मस्तेषामनीनशत्’ (भां० शां० ५९।१६)। प्रतिपत्तिविमोहो ज्ञानविलोपः।
- ‘तथापि ते व्यवसायः प्रतिपत्तिनिष्ठुरः’ (रघु० ८।६५)। प्रतिपत्तिर्निश्चयः, निश्चयेन क्रूरः, कर्कशः।
- ‘कैकेय्याः प्रतिपत्तिर्हि कथं स्यान्मम वेदने’ (रा० २।२२।१६)। प्रतिपत्तिरध्यवसायः, बुद्धिः। वेदन इत्यस्य स्थाने गोविन्दराजः पीडन इति पठति।
- ‘पश्यद्भिर्दूरतोऽपायान्सूपायप्रतिपत्तिभिः’ (का० नी० सा० १२।९)। प्रतिपत्तिर्ज्ञानपूर्विका फलप्राप्तिरिति टीका।
- ‘तस्मान्न प्रतिपत्तिस्तु कार्या युक्ता मता मम’ (भा० सभा० १६।४)। प्रतिपत्तिर्बुद्धी राजसूयविषया।
- ‘एवं बुद्धिश्च तेजश्च प्रतिपत्तिश्च भारत। भवन्ति भवकालेषु विपद्यन्ते विपर्यये’ (भा० मौ० ८।३२-३३)॥ प्रतिपत्तिरनागतावेक्षणम्। भवकालो भूतिकालः।
- ‘चिरेणानुगुणं प्रोक्ता प्रतिपत्तिपराङ्मुखी’ (भट्टि० ८।९५)। प्रतिपत्तिरभ्युपगमः स्वीकारः।
- ‘प्रतिपत्तिभेदः’ (ऋ० प्रा० )। मतद्वैधम्, दर्शनविसंवादः।
- ‘कर्मसिद्धावाशु प्रतिपत्तिमानय’ (मुद्रा० ४)। प्रतिपत्तिः प्रवृत्तिर्वार्ता वृत्तान्त उदन्तः।
- ‘धैर्यात्तु कार्यप्रतिपत्तिदक्षाः कृच्छ्राण्यकृच्छ्रेण समुत्तरन्ति’ (अवदा० जा० १४।१०)। कार्यप्रतिपत्तिः कार्यानुष्ठानं कृत्यनिर्वृत्तिः।
- ‘वयस्य का प्रतिपत्तिरत्र’ (माल० ४)। प्रतिपत्तिर्विधेयम् प्रतिविधेयं वा।
- ‘चन्द्रगुप्तस्य जनपदे नृशंसा प्रतिपत्तिः’ (मुद्रा० ६)। प्रतिपत्तिर्व्यवहारः, परत्र वृत्तिः।
- ‘विषादलुप्तप्रतिपत्तिविस्मितं सैन्यम्’ (रघु० ३।४०)। प्रतिपत्तिरितिकर्तव्यता।
- ‘सौभद्रे प्रतिपत्तिं कां प्रत्यपद्यन्त मामकाः’ (भा० द्रोण० ४६।३)। कां प्रतिपत्तिं कां प्रतिक्रियाम्।
- ‘नाराचैः प्रतिचिच्छेद प्रतिपत्तिविशारदः’ (भा० द्रोण० १२१।४३)। उक्तोऽर्थः।
- ‘इह सात्यकिरित्थम्भूत उक्तः। प्रतिपत्तिविशारदः’ (अर्जुनः) (भा० आदि० २२७।१६)।
- ‘प्रतिपत्तिविशारदः’ (भा० शां० ८०।२८)। उभयत्र कर्तव्याकर्तव्यविवेककुशल इत्यर्थः।
- ‘तदमुष्म गणित्वस्य तीव्रसेवाश्रमस्य च। प्रतिपत्त्या कतमया तावदानृण्यमाप्नुयाम्’ (राज० ३।१६६)॥ प्रतिपत्तिः प्रतिक्रिया, प्रत्युपकारः, निष्कृतिः।
- ‘तपः प्रभावसिद्धाभिर्विशेषप्रतिपत्तिभिः’ (रघु० १५।१२)। प्रतिपत्तयः संविधाः।
- ‘दुष्टानां प्रतिपत्तिं च कृत्स्नं चैव चिकित्सितम्’ (भा० वि० १२।७)। प्रतिपत्तिर्दोषनिराकरणप्रकार इति नीलकण्ठः। प्रतिविधानमिति शब्दार्थः। वेद्मीति शेषः। नकुलस्योक्तिरियम्।
- ‘छेदो दंशस्य दाहो वा…आयुष्याः प्रतिपत्तयः’ (माल० ४।४)। प्रतिपत्तयः प्रतिपादनोपायाः।
- ‘सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या त्वया’ (शा० ४।१७)। प्रतिपत्तिरादरः।
- ‘आपातमात्रसौन्दर्यं कुत्र नाम न विद्यते। अत्यन्तप्रतिपत्त्या तु दुर्लभोऽलङ्कृतो जनः’ (तन्त्रा० १।१४।१६५)॥ इह प्रतिपत्तिर्गौरवमाहेति मम भाति।
- ‘भिन्नानि मृन्मयानि प्रतिपाद्यानि’ (बौ० १।४।१३।८) इत्यत्र प्रतिपत्तिर्नाम संस्कारः। कार्योपयुक्तस्योपयुक्तशेषस्य वा वस्तुनो विहितदेशे प्रक्षेपणं प्रतिपत्तिरिति गोविन्दस्वामिवचनम्। स्थावरोदकं तडागादि।
- ‘तत्र तस्याः शाखाया उत्सर्गः प्रतिपत्तिकर्मेति’ (लौ० गृ० १८।२) सूत्रे देवपालः।
- ‘क्लेशायाससहो दक्षश्चारः स्यात् प्रतिपत्तिमान्’ (का० नी० सा० १३।२६)। प्रतिपत्तिमान्=भयस्खलितेष्वाशु प्रतिविधाता।
- ‘द्वापरस्यांशशेषे तु प्रतिपत्तिः कलेरथ’ (मात्स्यपु० १४४।२९)। प्रतिपत्तिः प्रवृत्तिः प्रारम्भ उपक्रमः।
- ‘अपात्रे प्रतिपत्तिश्च पात्रे चाप्रतिपादनम्’ (भा० उ० ३३।५९)। प्रतिपत्तिर्दानम्।
- ‘सत्पात्रे प्रतिपत्तिश्च राजवृत्तं चतुर्विधम्’ (का० नी० सा० १।२०)। उक्तोऽर्थः।
- ‘तया प्रतिपत्तिकुशलयाऽभिहितः (विटः)। प्रष्टव्यं पृच्छसि’ (तन्त्रा० ३।८)। प्रतिपत्तिः प्रतिवचनदानम्।
- ‘त्वमद्य कृत्यं प्रतिपत्तुमर्हसि’ (रा० ३।३४।२५)। प्रतिपत्तुमनुष्ठातुम्।
- ‘न युक्तं भवताऽस्मासु प्रतिपत्तुमसाम्प्रतम्’ (भा० उ० ९१।१९)। प्रतिपत्तुं व्यवहर्तुमाचरितुम्।
- ‘प्रतिपत्तुमङ्गघटते च न तव नृपयोग्यमर्हणम्’ (शिशु० १५।२२)। प्रतिपत्तुं न घटते स्वीकर्तुं न युज्यत इत्यर्थः।
- ‘न्याय्यः श्रेयोऽभिकामेन प्रतिपत्तुं जनार्दनः’ (भा० अनु० १४८।४७)। प्रतिपत्तुं प्रपत्तुं शरणीकर्तुम्। प्रशब्दस्यार्थे प्रतिः। प्रपत्तिः शरणागतिर्भवति।
- ‘गोष्ठमुपतिष्ठते ऊर्जा वः पश्याम्यूर्जा मा पश्यत इति प्रतिपद्य मयि वो रायः श्रयन्ताम् इत्यन्तेन’ (भा० श्रौ० ६।३।१)। प्रतिपद्य=प्रारभ्य।
- ‘प्रतिपादयिता च तीर्थे’ (आप० ध० २।२०।१९)। तीर्थं गुणवत् पात्रं तत्र प्रतिपादयिता विश्राणयिता दाता।
- ‘अत्र यत् प्रतिपत्तव्यं तन्मे ब्रूहि पितामह’ (भा० सभा० ४०।३)। प्रतिपत्तव्यमाचरितव्यं विधातव्यम्।
- ‘त्वयि सम्यङ् महाबाहो प्रतिपन्ना यशस्विनः। त्वयापि प्रतिपत्तव्यं तथैव भरतर्षभ’ (भा० उ० १२४।३२-३३)॥ प्रतिपत्तव्यं व्यवहर्तव्यम्।
- ‘गुणवते कन्या प्रतिपादनीया’ (शा० ४)।
- ‘वाच्यार्थपूर्विका तद्वत् प्रतिपत्तस्य वस्तुनः’ (ध्वन्या० १।१०)। प्रतिपत् प्रतिपत्तिर्बोधः।
- ‘पुण्यां प्रतिपदमुद्भावयन्’ (अवदा० कुम्भजा०)। प्रतिपदं बुद्धिम्।
- ‘ब्रह्मैव प्रतिपदं करोति’ (तै० सं० १।६।१०।४)। प्रतिपद् आरम्भः।
- ‘त्रिष्टुभो म इमाः सूक्तप्रतिपद इत्येव विद्यात्’ (ऐ० ब्रा० ६।२१)। मे=शंसितुः। प्रतिपद आदिभूताः।
- ‘वैश्वानराय धिषणामृतावृध इत्याग्निमारुतस्य प्रतिपत्’ (ऐ० ब्रा० ५।२)।
- ‘पवस्व वाचो अग्रिय इति श्रैष्ठ्यकामः प्रतिपदं कुर्वीत’ (जै० ब्रा० १।९१)। इत्यनुवाकं शंसेदित्यर्थः।
- ‘आज्यस्य प्रतिपदं करोति’ (तै० ब्रा० ३।८।१५।२)। प्रतिपदं प्राथम्यम्।
- ‘निदर्शयित्वा रामाय सीतायाः प्रतिपादने’ (रा० ३।७३।१)। प्रतिपादने प्रापणे (उपायमिति शेषः)।
- ‘त्रेताविमोक्षसमये द्वापरप्रतिपादने’ (भा० शां० १४१।१४)। अनावृष्टिरभूद् घोरेति पूर्वेणान्वयः। द्वापरप्रतिपादने द्वापरप्रारम्भे।
- ‘असंमूढेन चास्त्राणां कर्तव्यं प्रतिपादनम्’ (भा० वन० १७३।७४)। प्रतिपादनं दानम्। अर्जुनं प्रतीन्द्रवचनमिदम्।
- ‘द्रविणोपार्जनं भूरि पात्रे च प्रतिपादनम्’ (भा० शां० २३।११)।
- ‘धनानामेष वै पन्थास्तीर्थेषु प्रतिपादनम्’ (भा० शां० २७०।५)। उक्तोऽर्थः।
- ‘अग्निमग्निम् इति प्रत्यपादि होत्रा’ (ऐ० ब्रा० ४।७)। प्रत्यपादि प्रारब्धम्।
- ‘कियच्चिरेणार्यपुत्रः प्रतिपत्तिं दास्यतीति’ (शा० ३)। प्रतिपत्तिर्वार्ता।
- ‘भवत्यनिष्टादपि नाम दुःसहान्मनस्विनीनां प्रतिपत्तिरीदृशी’ (कु० ५।४२)। प्रतिपत्तिः प्रवृत्तिराचरणम्।
- ‘न मुष्टिप्रतिसन्धानं न लक्ष्यप्रतिपादनम्’ (रा० ६।८९।३०)। लक्ष्यप्रतिपादनं लक्ष्यभेदनम्।
- ‘यस्मिन्कृष्णो दिवं यातस्तस्मिन्नेव तदाहनि। प्रतिपन्नं कृतयुगमिति प्राहुः पुराविदः’ (भा० पु० १२।२।३३)। प्रतिपन्नं प्रारब्धम्। प्रतिपद् हि चान्द्रमासस्य प्रथमा तिथिर्भवति।
- ‘को धिष्ण्यां प्रति वाचं पपाद’ (ऋ० १०।११४।९)। प्रतिपपाद प्रतिपादति करोति।
पा
- {प्रतिपा}
- पा (पा पाने)।
- ‘प्रतिपानह्रदान्पूर्णान्’ (रा० २।९१।७८)। भुक्तजरणार्थं यत्पीयते तत् प्रतिपानम्।
- ‘यवागूं प्रतिपीतस्य शोणितं मोक्षयेद् भिषक्’ (सुश्रुत० सूत्र० १४।२५)। प्रतिरानन्तर्य इति डल्लनः। मात्रार्थ इत्यन्ये। यवागूपानानन्तरम् इत्यर्थः। अल्पाया यवाग्वाः पाने सतीति वार्थः।
पाल्
- {प्रतिपाल्}
- पाल् (पा रक्षणे णिचि लुगागमः)।
- ‘हित्वा त्वदर्शनं किञ्चिद् विघ्नं न प्रतिपालयेत्’ (भा० शां० ३६०।७)। प्रतिपालयेत् प्राप्नुयात्। त्वद्दर्शनं हित्वा तव दर्शनं विना।
- ‘अरिष्टं गच्छ पन्थानं पुत्रान्मे प्रतिपालय’ (भा० उ० १३७।२४)। प्रतिपालय पाहि रक्ष अवेक्षस्व।
पिष्
- {प्रतिपिष्}
- पिष् (पिष्लृ संचूर्णने)।
- ‘वरुणो ह वै सोमस्य राज्ञोऽमीवाक्षि प्रतिपिपेष तदश्वयत्’ (श० ब्रा० ४।२।१।११)। प्रतिपिपेष ताडयामास प्रजहार।
- ‘पिनाकं प्रतिपिनष्ट्येनेन’ (नि० ३।२१)। प्रतिपिनष्टि चूर्णयति प्रणिहन्ति।
- ‘स त्वा प्रतिपेक्ष्यति’ (छां० उ० २।२२।४)। उक्तोऽर्थः।
- ‘स्फुरतां प्रतिपिष्टानामश्वानां शीघ्रगामिनाम्।…शब्दश्च तुमुलः समपद्यत’ (भा० शल्य० २३।७४)। प्रतिपिष्टानां संघृष्टानाम्। प्रतिविष्टानामिति पाठान्तरम्।
पीड्
- {प्रतिपीड्}
- पीड् (पीड अवगाहने)।
- ‘सुग्रीवस्य शुभौ मूर्ध्ना चरणौ प्रत्यपीडयत्’ (रा० ५।६२।११)। समधर्षत्, अस्पृशत्।
- ‘विविधानि (गोसहस्राणि) हरिष्यामः प्रतिपीड्य पुरं बलात्’ (भा० वि० ३०।१०)। प्रतिपीड्य बाधित्वा कदर्थयित्वा।
पूज्
- {प्रतिपूज्}
- पूज् (पूज पूजायाम्)।
- ‘नारदोपि ययौ स्वर्गे दानवैः प्रतिपूजितः’ (स्कन्दपु० केदार० ८६।३०)। **दानवैः प्रतिपूजितः=दानवैः प्रत्येकं पूजितः।
- ‘प्रतिपूज्य यथान्यायमिदं वचनमब्रुवन्’ (मनु० १।१)। मनुना पूर्वं स्वागतवचनेनासनदानादिना च पूजिताः सन्तस्तस्य पूजां कृत्वेत्यर्थः।
पूर्
- {प्रतिपूर्}
- पूर् (पूरी आप्यायने)।
- ‘रत्नैर्धनैश्च पशुभिः सस्यैश्चापि पृथग्विधैः। नगरं विषयश्चास्य प्रतिपूर्णस्तदाऽभवत्’ (भा० अनु० २।१५)॥ प्रतिरनर्थकः पूर्ण इत्येवार्थः।
- ‘न तल्लोके द्रव्यमस्ति यल्लोकं प्रतिपूरयेत्। समुद्रकल्पः पुरुषो न कदाचन पूर्यते’ (भा० अनु० ९३।४६)॥ पूर्ववाक्ये प्रतिशब्दः श्रूयते, उत्तरस्मिंश्च तदभावः। समानश्चार्थः। तेन प्रतिशब्दोऽनर्थकः।
प्रच्छ्
- {प्रतिप्रच्छ्}
- प्रच्छ् (प्रच्छ ज्ञीप्सायाम्)।
- ‘सुभाषितप्रश्नप्रतिप्रश्नैः कालोऽतिवर्तते’ (तन्त्रा० ३।४)। प्रतिप्रश्नः प्रश्ने सति प्रश्नः।
पॄ
- {प्रतिपॄ}
- पॄ (पॄ पालनपूरणयोः)।
- ‘प्रति वामत्र वरमा जनाय पृणीतमुद्नो दिव्यस्य चारोः’ (ऋ० ७।६५।४)। प्रतिपृणीतं प्रतिदत्तम्।
प्लु
- {प्रतिप्लु}
- प्लु (प्लुङ् प्लुवनतरणयोः)।
- ‘प्रतिप्लवनमेवाथ…’ (रा० १।३।३३)। प्रतिप्लवनं (सागरस्य) पुनस्तरणम्।
फल्
- {प्रतिफल्}
- फल् (फल निष्पत्तौ)।
बन्ध्
- {प्रतिबन्ध्}
- बन्ध् (बन्ध बन्धने)।
- ‘वृक्षे नावं प्रतिबध्नीष्व’ (श० ब्रा० १।८।१।६)। बधानेत्यर्थः। प्रतिशब्दोर्थे विशेषं न करोति धात्वर्थानुवादी।
- ‘प्रतिबध्नाति हि श्रेयः पूज्यपूजाव्यतिक्रमः’ (रघु० १।७९)। प्रतिबध्नाति रुणद्धि व्यवधत्ते।
- ‘स हि बहुश्रुतो बहुदृष्टत्वादनेकविषये मन्त्रार्थे न क्वचित् प्रतिबध्यते’ (नि० १।१६।१० इत्यत्र दुर्गः)। न रुद्धप्रसरो भवतीत्यर्थः।
- ‘वनाय पीतप्रतिबद्धवत्सां यशोधनो धेनुमृषेर्मुमोच’ (रघु० २।५)। प्रतिबद्धः पुनर्बद्धः, पूर्वं विसृष्टः पश्चाद् बद्धः।
- ‘बहलानुरागकुरुविन्ददलप्रतिबद्धमध्यमिव दिग्वलयम्’ (शिशु० ९।८)। प्रतिबद्धमध्यम् प्रत्युप्तमध्यम्।
- ‘प्रायः सर्वाः क्रियास्तस्मिन्प्रतिबद्धाः शरीरिणाम्’ (अष्टाङ्ग० सूत्र० १२।७)। तस्मिन्प्रतिबद्धास्तदायत्ताः, तन्निबन्धनाः, तन्मूलाः।
- ‘नैतेषामित्संज्ञा प्रतिषिध्यतेऽपि तु तत्प्रतिबद्धं कार्यम्’ (पा० १।३।९ सूत्रे कैयटः)। उक्तोऽर्थः।
- ‘स्वरितत्वप्रतिबद्धा हि शब्दानामनुवृत्तिः’ (पा० ७।१।३ सूत्रे न्यासः)।
- ‘तदन्तरज्ञानमात्रप्रतिबद्धा हि सम्पदः’ (तन्त्रा० १।१।३३)। प्रतिबद्धा निबद्धा आधृताः।
- ‘न प्रतिबद्धं गमयति वक्ति न वा प्रश्नमेकमपि पृष्टः। निगदति न च शिष्येभ्यः कथं स शास्त्रविज्ज्ञेयः’ (व० बृ० सं० २।१)॥ प्रतिबद्धं पिहितं संवृतं गूढं जटिलम्।
- ‘येन च प्रतिबद्धं तद् व्यापकम्’ (सां० कौ०)। प्रतिबद्धविनाभूतम्। मनोहतः प्रतिहतः प्रतिबद्धो हतश्च स इत्यमरः। प्रतिबद्धो मनोहतो भग्नाश इत्यनर्थान्तरम्। प्रयोगस्तु मृग्यः।
- ‘स तपः प्रतिबन्धमन्युना’ (रघु० ८।८०)। प्रतिबन्धो विघ्नः प्रत्यूहोऽन्तरायः।
- ‘सखे दृढप्रतिबन्धो भव’ (शा० २)। प्रतिबन्धो विरोधः।
- ‘न ननाम प्रतिबन्धेन न चावस्कन्दकर्मणा’ (हरि० २।४२।४५)। प्रतिबन्धो रोधः परिवेष्टनम् परिक्षेपः।
- ‘धनुः प्रतिबन्धं भक्षयितुमारब्धः’ (तन्त्र० २।३)। प्रतिबन्धो मौर्वी।
बाध्
- {प्रतिबाध्}
- बाध् (बाधृ लोडने, लोडनं प्रतिघातः)।
- ‘ततः स्म मागधं संख्ये प्रति बाधेम यद्वयम्’ (भा० सभा० १५।२४)। प्रतिबाधेम प्रतिबाधेमहि प्रतिहन्याम प्रतिप्रहरेम, हिंस्याम।
- ‘तस्थौ च तत्रैव महाधनुष्मान्। शरैस्तदस्त्रं प्रतिबाधमानः’ (भा० भीष्म० ८५।२९)॥ प्रतिबाधमानः प्रतिघ्नन्, वारयन्।
- ‘भविष्यन्ति वने यानि तपोविघ्नकराणि ते। रथेन प्रतिबाधिष्ये तानि सर्वाणि राघव’ (रा० २।५२।५०)॥ उक्तोऽर्थः। सुमन्त्रस्य रामं प्रत्युवितरियम्।
बुध्
- {प्रतिबुध्}
- बुध् (बुध अवगमने)।
- ‘प्रसुप्तः प्रतिबुध्यते’ (मनु० १।७४)। प्रतिबुध्यते जागर्ति निद्रां जहाति।
- ‘प्रति त्वा दुहितर्दिव उषो जीरा अभुत्स्महि’ (ऋ० ७।८१।३)। प्रत्यभुत्स्महि पश्यामः, त्वयि दृशं प्रेरयामः, उपेता त्वमिति जानीमः।
- ‘प्रति स्तोमैरभुत्स्महि’ (ऋ० ४।५२।४)। स्तोमैस्त्वा त्वां हे उषः प्रत्यभुत्स्महि।
- ‘तदपोहितुमर्हसि प्रिये प्रतिबोधेन विषादमाशु मे’ (रघु० ८।५४)।
- ‘स्त्रीणामशिक्षितपटुत्वममानुषीषु संदृश्यते किमुत याः प्रतिबोधवत्यः’ (शा ५।२२)। प्रतिबोधो बुद्धिरभ्यूहः।
- ‘संमोहः खलु विस्मयनीयो न प्रतिबोधः’ (शा० ६)। प्रतिबोधः स्मृतिः।
- ‘प्रतिबुद्धापि किं करिष्यामि’ (शा० ४)। प्रतिबुद्धा जागरिता।
- ‘अप्रतिबुद्धोपि चूतप्रसवोऽत्र बन्धनभङ्गसुरभिर्भवति’ (शा० ६)। अविकसितः, अविजृम्भितः, अनुन्मीलितः अविनिद्रितः।
ब्रू
- {प्रतिब्रू}
- ब्रू (ब्रूञ् व्यक्तायां वाचि)।
- ‘मनश्चिन्मे हृद आ प्रत्यवोचत्’ (ऋ० ८।१००।५)।
- ‘स एकया पृष्टो दशभिः प्रत्युवाच’ (ऐ० ब्रा० ७।१३)।
- ‘प्रातर्वः प्रतिवक्तास्मि’ (ऐ० ब्रा० ३।२२)। प्रतिवक्तास्मि पृष्टमाख्यास्यामि, प्रश्नं वक्ष्यामि, प्रतिवचनमुत्तरं दास्यामि।
- ‘स यदि त्वा पृच्छेत् तिस्र इति प्रतिब्रूयात्’ (तै० ब्रा० ३।११।८।२)। उक्तोऽर्थः।
- ‘प्रत्याह यश्चापि नियुज्यमानः’ (भा० उ० ३७।२६)। प्रत्याह प्रत्याचष्टे, निषेधवचनमाह।
- ‘स यदि पितरं वा मातरं वा… किञ्चिद् भृशमिव प्रत्याह’ (छां० उ० ७।१५।२)। प्रतीपं वच आहेत्यर्थः।
- ‘त्वयेदिन्द्र युजा वयं प्रति ब्रुवीमहि स्पृधः’ (ऋ० ८।९२।३२)। प्रतिब्रुवीमहि स्पृधः-अवस्कन्तॄनरातीन् पराणुदेमहीत्याह।
- ‘त्वया युजात्वया सख्या समम्। त्वया प्रतिब्रुवे युजा’ (ऋ० ७।३१।६)।
- ‘त्वया ह स्विद्युजा वयं प्रति श्वसन्तं वृषभं ब्रुवीमहि’ (ऋ० ८।२१।११)। उक्तोऽर्थः।
- ‘सजातैरिद्धोऽप्रतिब्रुवद्भिः’ (अथर्व० ३।८।३)। इद्धोऽग्निः। अप्रतिब्रुवद्भिरप्रतिकूलवादिभिः।
- ‘एतेन योगः प्रत्युक्तः’ (ब्र० सू० २।१।३)। प्रत्युक्तः प्रत्याख्यातः प्रत्यादिष्टो निरस्तः।
भज्
- {प्रतिभज्}
- भज् (भज सेवायाम्)।
- ‘इदं रत्नं चोरितचरं राजानं प्रतिभजते पुरा।’ पुरा प्रतिभजते=अचिरेण प्रतिनिवर्त्स्यति प्रतियास्यति। यावत्पुरानिपातयोर्लट्।
भा
- {प्रतिभा}
- भा (भा दीप्तौ)।
- ‘प्रतिभान्त्यद्य वनानि केतकीनाम्’ (घट० १५)। प्रतिभान्ति भान्ति शोभन्ते। अस्थाने प्रतिः।
- ‘स्त्रीरत्नसृष्टिरपरा प्रतिभाति सा मे’ (शा० २।१०)। प्रतिभाति प्रतीयते, आभासते।
- ‘त्रितं कूपेऽवहितमेतत् सूक्तं प्रतिबभौ’ (नि० ४।६।१)। उक्तोऽर्थः।
- ‘नोत्तरं प्रतिभाति मे।’ न स्फुरति, बुद्धिं नोपैति।
- ‘सा भार्या प्रतिभाति मे’ (कथा)। प्रतिभाति ओपयिकी भाति।
- ‘तमृते पाण्डवश्रेष्ठ वनं न प्रतिभाति मे’ (भा० वन० ८०।१२)। न प्रतिभाति न रोचते।
- ‘कैकेयीसंश्रितं जल्पं नेदानीं प्रतिभाति माम्’ (रा० २।६०।१४)। न माम् प्रतिभाति न मे स्मृतिमुपारोहति, नाहं तं स्मरामि।
- ‘अप्सराः प्रत्यभात्तस्य सा हि चित्ते न देवता’ (राज० ३।४१८)। प्रत्याभात्=आविरभूत्।
- ‘अहो स्वामिनो धर्मशास्त्रं प्रति प्रतिभा’ (तन्त्रा० १।९)। प्रतिभा बोधः। नवनवोन्मेषशालिनी बुद्धिः प्रतिभा।
- ‘प्रतिभामुपसर्गांश्चाप्युपसंगृह्य योगतः’ (भा० शां० २४०।२४)। प्रतिभा सकलशास्त्रार्थभानम्।
- ‘संवत्सरं प्रतीक्षेताऽप्रतिभायाम्’ (गौ० ध० २।४।२८)। वक्तव्यं न प्रतिभातीति तदा।
- ‘देव मम सन्धिविग्रहयानानि त्रीण्यपि न प्रति भान्ति’ (पञ्चत० ३।४३ इत्यतोऽनन्तरम्)। प्रतिभान्ति रोचन्ते।
भिद्
- {प्रतिभिद्}
- भिद् (भिदिर् विदारणे)।
- ‘स्वप्नकीर्तितविपक्षमङ्गनाः प्रत्यभैत्सुरवदन्त्य एव तम्’ (रघु० १९।२२)। प्रत्यभैत्सुः प्रतिचक्रुः, तिरश्चक्रुः।
- ‘प्रतिभिद्य कान्तमपराधकृतम्’ (शिशु० ९।५८)। प्रतिभिद्य=अधिक्षिप्य=अपोद्य=गर्हित्वा=निन्दित्वा। निराकृत्येति वा।
- ‘दूर्वाप्रवालैः प्रतिभिन्नशोभम्’ (कु० ७।७)। विशेषितशोभम्, उपचितशोभम् इत्यर्थः।
- ‘चन्द्रेण प्रतिभिन्नमौलेः’ (कु० ७।३५)। सङ्गतमुकुटस्य। समर्थे प्रतिः।
भू
- {प्रतिभू}
- भू (भू सत्तायाम्)।
- ‘प्रति द्युमन्तं सुविताय भूषति’ (ऋ० १०।४०।१)। प्रतिभूषति लेटि सिपि रूपम्। (यान्तं) द्युमन्तं (रथं) प्रतिभूषति=समर्थयति।
- ‘एषा विद्येतरे विद्ये प्रतिभविष्यति’ (श० ब्रा० ४।६।७।१६)। प्रतिभविष्यति तुल्या भविष्यति। प्रतिभवति तस्य ग्रहीतुः स्थाने भवतीति प्रतिभूरिति नारदस्मृतौ भवस्वामी।
- ‘ग्रामेयान्ग्रामदोषांश्च ग्रामिकः प्रतिभावयेत्। तान्ब्रूयाद् दशपायासौ स तु विंशतिपाय वै’ (भा० शां० ८७।४)॥ प्रतिभावयेत् विभावयेत्, उपलभेत, जानीयात्।
- ‘कुलिशं सर्वलोहानामम्भसां शैलसेतवः। अभेद्या प्रतिभाव्यन्ते…’ (राज० ६।२७३)। उक्तोऽर्थः।
- ‘य उ हैवंविदं। स्वेषु प्रतिबुभूषति’ (श० ब्रा० १०।३।५।९)। प्रतिद्वन्द्वीभवितुमिच्छतीत्याह।
- ‘न दुर्बलः प्रातिभाव्यं करोति’ (भा० उ० ३३।११०)। प्रतिभावः प्रतिकूलश्चित्ताभिप्रायः। स एव प्रातिभाव्यम्, विरोध इति क्लिष्टा कल्पना नीलकण्ठस्य। प्रतिभुवो भावः कर्म वा प्रातिभाव्यमिति व्युत्पत्तिस्तु प्रसिद्धेरादर्तव्या। न चार्थासङ्गतिश्शङ्कनीया। दुर्बलस्यासमर्थस्य कृशधनस्य प्रातिभाव्येऽयोगात्।
भृ
- {प्रतिभृ}
- भृ (भृञ् भरणे)।
- ‘प्रति धाना भरत तूयमस्मै’ (ऋ० ३।५२।८)। शीघ्रमस्मा इन्द्राय धानाः प्रतिभरत उपहरतेत्याह।
मन्
- {प्रतिमन्}
- मन् (मनु अवबोधने)।
- ‘तदु ह शौनकः कापेयः प्रतिमन्वानः प्रत्येयाय’ (छां० उ० ४।३।७)। तद् (ब्रह्मचारिणो वचः) प्रतिमन्वानो मनसा विमृशन्, प्रतिवक्तुं चिन्तयन्नित्यर्थः।
मा
- {प्रतिमा}
- मा (माङ् माने)।
- ‘गायत्रेण प्रति मिमीतेऽर्कम्’ (ऋ० १।१६४।२४)। प्रतिमिमीतेऽनुकरोति।
- ‘नराशंसः प्रति शूरो मिमानः’ (तै० ब्रा० २।६।८।१)। प्रतिमिमानः परिच्छिन्दन्।
- ‘असौ वै लोकः प्रतिमैष ह्यन्तरिक्षलोके प्रतिमित इव’ (श० ब्रा० ८।३।३।५)। प्रतिमितः प्रतिबिम्बितः प्रतिफलितः।
- ‘प्रतिमितरविदीपोद्भासिशुभ्रातपत्र०’ (राज० ५।४८३)। उक्तोऽर्थः।
- ‘कासीत् प्रमा प्रतिमा किं निदानम्’ (ऋ० १०।१३०।३)। प्रतिमा प्रतिकृतिः।
- ‘सहस्रस्य प्रतिमासि’ (वा० सं० १५।६५)।
- ‘यज्ञस्य (सोमः) प्रमाभिमोन्मा प्रतिमा वेद्यां क्रियमाणायाम्’ (काठक० ३४।१४)।
- ‘अतीव सर्वलोकेषु यशसाऽप्रतिमः सदा’ (हरि० १।२६।३)। अप्रतिमोऽनुपमः। चन्द्रप्रतिमः। चन्द्रोपमः। प्रतिमशब्द उत्तरपदस्थः स्वसदृशे वर्तते।
- ‘वृष्णो वध्रिः प्रतिमानं बुभूषन्’ (ऋ० १।३२।७)। प्रतिमानं तुल्यबलः सपत्नः, अभ्यमित्रीयः।
- ‘आससाद रणे भोजं प्रतिमानं धनुष्मताम्’ (भा० द्रोण० ११६।३१)।
- ‘सोऽर्जुनेन हतः कर्णः प्रतिमानं धनुष्मताम्’ (भा० कर्ण० ८।१८)। प्रतिमानं ध्वजभूतः।
- ‘प्रतिमानेषु कुम्भेषु दन्तवेष्टेषु चापरे’ (भा० कर्ण० २८।३१)। प्रतिमानं गजकुम्भान्तरालम्। अधः कुम्भस्य वाहित्थं प्रतिमानमधोऽस्य यदित्यमरः।
मान्
- {प्रतिमान्}
- मान् (मान पूजायाम्)।
- ‘स्विष्ट्याऽभितुष्टानि हि दैवतानि भूतानि वृष्ट्या प्रतिमानयन्ति’ (अवदा० यज्ञजा० ८)। प्रतिमानयन्ति प्रतिपूजयन्ति।
मीव्
- {प्रतिमीव्}
- मीव् (मीव स्थौल्ये)।
- ‘पश्चाद्वातं प्रति मीवति’ (तै० सं० २।४।९।१)। प्रतिमीवति क्षीणं करोति, क्रशयति। उपसर्गकृतो धात्वर्थबाधः।
मुच्
- {प्रतिमुच्}
- मुच् (मुच्लृ मोक्षणे)।
- ‘अप्रजस्तामस्वगतामवर्तिम्। उग्र ईशानः प्रति मुञ्च तस्मिन्’ (अथर्व० ९।२।३)॥ प्रतिमुञ्च=मुञ्च। प्रतिशब्दो धात्वर्थानुवादी।
- ‘प्रतिमुञ्चन्ति वत्सान्’ (श० ब्रा० ११।१।४।१)। मुञ्चन्ति विसृजन्तीत्यर्थः। प्रतिरपार्थकः।
- ‘ये त्वां प्रोत्साहयन्त्येते नैते कृत्याय कर्हिचित्। वैरं परेषां ग्रीवायां प्रतिमोक्ष्यन्ति संयुगे’ (भा० उ० १२५।१३)॥ उक्तोऽर्थः।
- ‘परेषामस्मदादीनाम्। तत्स्वीकृत्यानुगृह्णातु देवस्तां प्रतिमुच्य वा’ (कथा० ९१।१२)।
- ‘अद्य ते पुरुषव्याघ्र प्रतिमोक्ष्ये ऋणं तव’ (भा० भीष्म० १०९।२९)। प्रतिमोक्ष्ये मोक्ष्ये विगणयिष्यामि विनेष्ये शोधयिष्यामि।
- ‘प्रजा रक्षन् परं शक्त्या किल्बिषात्प्रतिमुच्यते’ (मनु० १०।११८)। पापाद्धीयत इत्यर्थः।
- ‘विश्वा रूपाणि प्रति मुञ्चते कविः’ (ऋ० ५।८१।२, वा० सं० १२।२)। प्रतिमुञ्चते बध्नाति आत्मनि धारयतीति सायणः। प्रतिमुञ्चते प्रतिबध्नाति द्रव्येष्वपहत्य शार्वरं तमः प्रकाशयतीति तूवटः। अस्थाने प्रतिशब्दस्य प्रयोग उवटेन। प्रतिमुञ्चतेर्बन्धनमर्थमुदीर्य प्रकाशनेऽर्थे तात्पर्यवचनं दुर्वचम्।
- ‘पिशङ्गं द्रापिं प्रति मुञ्चते कविः’ (ऋ० ४।५३।२)। पिङ्गं वासः परिधत्त इत्यर्थः।
- ‘ब्रह्मज्यस्य प्रति मुञ्च पाशान्’ (अथर्व० १३।३।१)। प्रतिमुञ्च बधान, सिनीहि।
- ‘वरुणो वरुणपाशैः प्रत्यमुञ्चत्’ (शां० ब्रा० ५।६)। उक्तोऽर्थः।
- ‘ये रूपाणि प्रतिमुञ्चमाना असुराः सन्तः स्वधया चरन्ति’ (वा० सं० २।३०)। पितृरूपाणि बध्नन्त आत्मनि दधत आतिष्ठन्तीत्यर्थः।
- ‘त्रिंशत् स्वसार उपयन्ति निष्कृतं समानं केतुं प्रतिमुञ्चमानाः’ (तै० सं० ४।३।११।३)। उक्तोऽर्थः।
- ‘ज्योतिष्मती प्रति मुञ्चते नभो रात्री देवी’ (तै० सं० ४।३।११।३)।
- ‘छायासु प्रतिमुक्तशष्पकवलं निद्रायते गोकूलम्’ (मृच्छ० ८।११)। प्रतिमुक्तो मुक्तस्त्यक्तः।
- ‘गृहीतप्रतिमुक्तस्य… महेन्द्रनाथस्य’ (रघु० ४।४३)। प्रतिमुक्तोऽपरतन्त्रीकृतः। आमुक्तः प्रतिमुक्तश्च पिनद्धश्चापिनद्धवदित्यमरः।
- ‘भ्रूणहत्याया एवैषा रूपं प्रतिमुच्यास्ते’ (व० ध० सू० ५।८)। प्रतिमुच्य परिगृह्य, आस्थाय।
- ‘तमेकदा मणिं कण्ठे प्रतिमुच्य महाप्रभम्’ (भा० पु० १०।५६।१३)। प्रतिमुच्य बद्ध्वा, आसज्य।
- ‘अमुं तुरङ्गं प्रतिमोक्तुमर्हसि’ (रघु० ३।४६)। प्रतिमोक्तुं मोक्तुं विस्रष्टुम्।
- ‘रक्षोबधान्तो न च मे प्रयासो व्यर्थः स वैरप्रतिमोचनाय’ (रघु० १४।४१)। वैरप्रतिमोचनं वैरनियतिनम्।
मुद्
- {प्रतिमुद्}
- मुद् (मुद हर्षे)।
- ‘ओषधयः प्रतिमोदध्वमग्निमेतम्’ (वा० सं० ११।४७)। प्रत्युत्थानादिभिः प्रतिहर्षयताग्निम् इत्याह।
मुह्
- {प्रतिमुह्}
- मुह् (मुह वैचित्ये)।
- ‘परनेयोऽग्रणीर्यस्य स मार्गान्प्रतिमुह्यति’ (भा० सभा० ५५।४)। मार्गेष्वाश्रयणीयेषु विमुह्यतीत्यर्थः। प्रतिः कर्मप्रवचनीयो वा स्यात्।
मृज्
- {प्रतिमृज्}
- मृज् (मृजू शुद्धौ)।
- ‘विष्णोः स्तूपोऽसीति कर्षन्निवाहवनीयं प्रति प्रस्तरमपादत्ते…न प्रतिमार्ष्टि’ (आप० श्रौ० २।३।८।५)। प्रतिमार्ष्टि अग्रादारभ्य स्पृशति।
मृश्
- {प्रतिमृश्}
- मृश् (मृश आमर्शने, आमर्शनं स्पर्शः)।
- ‘यस्ते गर्भं प्रतिमृशात्’ (अथर्व० ८।६।१८)। प्रतिमृशात् पीडयेत् (यथा जीवो न जायेत)।
मोक्ष्
- {प्रतिमोक्ष्}
- मोक्ष् (मोक्ष उत्सर्गे मुच्लृ मोक्षणे, जसि मोक्षणे इत्यत्र ज्ञापितः)।
- ‘न्यायतश्च करादानं स्वयं च प्रतिमोक्षणम्’ (का० नी० सा० १४।५४)।
यज्
- {प्रतियज्}
- यज् (यज देवपूजासंगतिकरणदानेषु)।
- ‘आज्येनेतरे प्रतियजन्त आसते’ (श० ब्रा० ४।६।८।१९)। प्रतियजन्तः केनाप्युद्देशेन यजन्तः।
- ‘अत्र वा दिशः प्रतियजेत्’ (आप० श्रौ० ७।८।२५।१४)। प्रतिदिशं यागं कुर्यादित्यर्थः।
यत्
- {प्रतियत्}
- यत् (यती प्रयत्ने, यत निकारोपस्कारयोः)।
- ‘त्वमिमानि रक्षांसि प्रतियतस्व’ (श० ब्रा० ९।२।३।३) प्रतियतस्व रुन्द्धि, प्रतिकुरु, प्रतिविधेहि।
- ‘कृञः प्रतियत्ने’ (पा० २।३।५३)।
- ‘उपात् प्रतियत्नवैकृतवाक्याध्याहारेषु च’ (पा० ६।१।१३६)। सतो गुणान्तराधानमाधिक्याय, वृद्धस्य वा तादवस्थ्याय समीहा प्रतियत्नः।
- ‘सुगन्धितामप्रतियत्नपूर्वां बिभ्रन्ति यत्र प्रमदाय पुंसाम्’ (शिशु० ३।५४)। प्रतियत्नस्तु संस्कार इति वैजयन्तीति मल्लिः।
- ‘कृत्वा हि सुमहत्कर्म हत्वा भीष्ममुखान्कुरून्। जयः प्राप्तो यशः प्राग्र्यं वैरं च प्रतियातितम्’ (भा० शल्य० ५८।११)॥ प्रतियातितं निर्यातितं शोधितम्।
- ‘भ्रातॄंस्तान् विपिने त्यक्त्वा वैरमप्रतियात्य च’ (भा० वन० ३७।५५)। अप्रतियात्य अनिर्यात्य।
- ‘अनिर्विदा या विदधे विधात्रा पृथ्वी पृथिव्याः प्रतियातनेव’ (शिशु० ३।३४)। प्रतियातना प्रतिकृतिः। तथा चामरः पठति–प्रतियातना प्रतिच्छाया प्रतिकृतिरिति।
यम्
- {प्रतियम्}
- यम् (यम उपरमे)।
- ‘यया शूर प्रत्यस्मभ्यं यंसि त्मनमूर्जं न विश्वध क्षरध्यै’ (ऋ० १।६३।८)। प्रतियंसि प्रतियच्छसि, प्रयच्छसि।
या
- {प्रतिया}
- या (या प्रापणे, प्रापणमिह गतिः)।
- ‘उभा यातं प्रति हव्यानि वीतये।’ (ऋ० ८।९०।७)। प्रतियातम् इतोऽभिमुखमेतम्।
- ‘भानावस्तं प्रतियाते महीध्रम्’ (भा० ५।७२१६)। अस्ताचलमुपेते सति।
- ‘वेगेनापततस्तांस्तु प्रभिन्नानिव वारणान्। पाण्डुपुत्रौ महेष्वासौ प्रतियातावरिन्दमौ’ (भा० आदि० १८९।१४)॥ प्रतियानमिह युयुत्सयाऽभिमुखं गमनम्।
- ‘गयं नृपः कः प्रतियाति कर्मभिः’ (भा० पु० ५।१५।९)। को नृपो गयेन राज्ञा साम्यमुपैतुमर्हतीत्याह भागवतकारः।
- ‘प्रतियानं साम्यप्राप्तिरिति तस्यैककस्योत्प्रेक्षा। या माऽभजन् दुर्जरगेहशृङ्खलाः संवृश्च्य तद्वः प्रतियातु साधुना’ (भा० पु० १०।३२।२२)। तच्छब्दस्तृतीये चरणे पठितं स्वसाधुकृत्यमित्येतत् प्रत्यवमृशति। ततः साधु कर्म युष्माकं साधुत्वेनैव शक्यं निर्यातयितुं न मत्कृतेन यत्नेनेति कवेराशयः कथंचिदुन्नेयो भवति।
याच्
- {प्रतियाच्}
- याच् (टुयाचृ याच्ञायाम्)।
- ‘गोभिस्तु भक्षितं सस्यं यो नरः प्रतियाचते’ (याज्ञ० २।१६१ मिताक्षरायामुद्धृतं नारदवचनम्)। यावन्मे सस्यं तव गोभिर्भक्षितं तावन्मे प्रतिदीयतामित्यभियुक्त इत्यर्थः।
यु
- {प्रतियु}
- यु (यु मिश्रणामिश्रणयोः)।
- ‘प्राणानेवास्य प्रतीचः प्रति यौति’ (तै० सं० ३।४।८।५)। प्रतियौति नियच्छति प्रतिरुणद्धि। प्रातिकूल्येन प्रवर्तयतीति तु भट्टभास्करः।
- ‘विष्णोः स्तूपोऽसीति कर्षन्निवाहवनीयं प्रति प्रस्तरमपादत्ते नोद्यौति न प्रयौति न प्रतियौति’ (आप० श्रौ० २।३।८।५)। न प्रतियौति न पश्चात्सारयतीति धर्तस्वामिभाष्यम्। न प्रतिचीनं हरतीति रुद्रदत्तः। सोऽयं शब्दभेदो नार्थभेदः।
- ‘प्रतियुतो वरुणस्य पाशः’ (तै० सं० १।४।४५।३)। प्रतियुतः प्रत्येकं पृथक् कृत इति भट्टभास्करः। तै० ब्रा० २।६।६।४ इत्यत्रापौदं श्रूयते। तत्र प्रतियुतस्त्यत इति सायणः।
युज्
- {प्रतियुज्}
- युज् (युजिर् योगे)।
- ‘परि ष्वजध्वं दश कक्ष्याभिरुभे धुरौ प्रति वह्निं युनक्त (ऋ० १०।१०१।१०)। प्रतियुनक्त=प्रतियुङ्क्त बध्नीत।
- ‘ये मदर्थे हताः शूरास्तेषां कृतमनुस्मरन्। ऋणं तत्प्रतियुञ्जानो न राज्ये मन आदधे’ (भा० शल्य० ५।४४)॥ ऋणनिर्यातनं चिन्तयन्नित्यर्थः। ऋणस्य दाता प्रयोक्तोच्यते। ऋणदानं च प्रयोगः। तस्य प्रत्यर्पणं प्रतियोगः।
- ‘दहत्यशेषं प्रतियोगिगर्वम्’ (विक्रम० १।११७)। प्रतियोगी परिपन्थी, शत्रुः। रागप्रतियोगी विरागः। विरोधीत्यर्थः। प्रतियोगिन दृष्ट्वा प्रतियोगी निवर्तते। प्रतियोगिनं सत्प्रतिपक्षम्। तन्मात्रप्रतियोगिकम्। विद्यमानवस्तुमात्रनिरूपितम् इत्यर्थः। यस्याभावः स प्रतियोगी।
युध्
- {प्रतियुध्}
- युध् (युध सम्प्रहारे)।
- ‘तांश्च स प्रतियुध्यन्वै युद्धे राजा प्रवासितः’ (रा० १।७०।२९)। प्रतियुध्यन् प्रतिपक्षतया युध्यन् (युध्यमानः) इति तिलकः। प्रतिशब्दस्य सार्थकतामन्विष्यन्नेवमाह तिलककारः। अहं तु मन्ये प्रतिरुपसर्गः केवलं सकर्मकतामापादयति धातोरर्थे तु नान्तरं करोति। तथा चोदाहृतिभिर्वक्ष्यमाणाभिर्व्यक्तं भविष्यति।
- ‘विप्ररूपं विधायेदं मन्ये मां प्रतियुध्यसे’ (भा० आदि० १९०।२८)।
- ‘प्रतियोद्धुं न शक्यो हि मानुषैरिह संयुगे’ (भा० अनु० १४८।३१)।
- ‘कथं भीष्ममहं संख्ये द्रोणं च मधुसूदन। इषुभिः प्रतियोत्स्यामि’ (गीता २।४)। केवलो युधिरकर्मकः। आह च वृत्तिकारः– युधिरकर्मकः, अन्तर्भावितण्यर्थः सकर्मको भवति। (पा० ३।२।९५ सूत्रे)। प्रतिपक्षभावस्त्वन्तरेणापि प्रतिशब्दं गम्यत एव।
- ‘…धृष्टकेतुं च चेदिपम्। मांसशोणितभृन्मर्त्यः प्रतियुध्येत को युधि’ (भा० उ० ८०।१३)॥ प्रतियुध्येत (तेन) सङ्ग्रामयेत। सोपसर्गको युधिः सकर्मकः।
रक्ष्
- {प्रतिरक्ष्}
- रक्ष् (रक्ष पालने)।
- ‘विश्वा आशाः प्रति रक्षन्त्वेते’ (अथर्व० १०।८।३६)।
- ‘अग्नेरनीकमप आविवेशापांनपात् प्रतिरक्षन्नसुर्यम्’ (वा० सं० ८।२४)। असूर्यमसुरस्य मायादिकं प्रतिरक्षन् निवर्तयन्। आत्मानं रक्षन्निति तु शब्दार्थः।
रञ्ज्
- {प्रतिरञ्ज्}
- रञ्ज् (रञ्ज रागे)।
- ‘व्यवहारेष्वसाध्यानां लोके वा प्रतिरज्यताम्’ (प्रतिज्ञा० ३।३)।
रभ्
- {प्रतिरभ्}
- रभ् (रभ राभस्ये)।
- ‘सर्वेणापररात्रेण विरम्य प्रत्यारम्भो न विद्यते’ (कौ० सू० १४१।४१)। प्रत्यारम्भः पुनरारम्भः।
- ‘नह प्रत्यारम्भे’ (पा० ८।१।३१)। चोदितस्यावधीरणे उपालिप्सया प्रतिषेधयुक्तः प्रत्यारम्भः क्रियते–नह भोक्ष्यसे इति वृत्तिः। निषेधयुक्त आरम्भः प्रत्यारम्भ इति सिद्धान्तकौमुद्यां दीक्षितः।
रम्
- {प्रतिरम्}
- रम् (रमु क्रीडायाम्)।
- ‘रामो हि सर्वलोकस्य हिते प्रतिरतः सदा’ (रा० ६।१०४।३७)। प्रतिरतो निरतः, सहर्षं प्रवृत्तः।
रस्
- {प्रतिरस्}
- रस् (रस शब्दे)।
- ‘केनास्मत्सिंहनादप्रतिरसितसखो दुन्दुभिर्वादितोऽयम्’ (वेणी० १।२२)। प्रतिरसितं प्रतिश्रुत् प्रतिशब्दः प्रतिध्वनिः।
राज्
- {प्रतिराज्}
- राज् (राजृ दीप्तौ)।
- ‘अनूपोपवनैः कान्तैः कान्ता (कान्त्या) जनमनोहरा। सतारका द्यौरिव सा द्वारका प्रत्यराजत’ (हरि० २।५८।५२)॥ प्रत्यराजत अशोभताऽऽत्मना।
राध्
- {प्रतिराध्}
- राध् (राध साध संसिद्धौ)।
- ‘प्रतिरित्सामि जिहिंसिषामि।’ (पा० ७।४।५४) इत्यत्र सनि राधो हिंसायामच इस् वक्तव्य इति वार्तिकम्। प्रतिशब्दो हिंसार्थस्य द्योतकः।
- ‘तस्य ह प्रतिराद्धस्य त्रेधा साधुकृत्या विनश्यति’ (जै० ब्रा० १।४६)। प्रतिराद्धो हिंसितः क्षतः।
- ‘राधो हिंसायाम्’ (६।४।१२३) इत्यत्र राधेर्हिंसार्थः स्वीकृतः।
- ‘द्रव्यापचये त्र्यवरं प्रतिराद्धः’ (गौ० ध० ३।४।८)। प्रतिराद्वोऽभियुक्तः।
- ‘प्रतिराधेन वै देवा असुरान् प्रतिराध्य’ (ऐ० ब्रा० ६।३३) प्रतिराध्य प्रतिकूलमाचर्य, अभिभूय।
रु
- {प्रतिरु}
- रु (रु शब्दे)।
- ‘एकरुते न शुभं यदि वा स्यादेकरुते प्रतिरौति चिरेण’ (व० बृ० सं० ८८।३७)। प्रतिरौति प्रतिरवं करोति।
- ‘अन्यप्रतिरुता याम्या सोद्बन्धमृतशंसिनी’ (व० बृ० सं० ९०।७)। अन्यया शिवया कृतं रवमनुकृत्य कृतरवा।
रुध्
- {प्रतिरुध्}
- रुध् (रुधिर् आवरणे)।
- ‘यज्ञश्चेत्प्रतिरुद्ध… स्यादेकेनाङ्गेन यज्वनः’ (मनु० ११।११)। प्रतिरुद्धोऽसम्पन्नोऽसम्पूर्णः।
- ‘…भ्रातरं पूर्वजं हि यः। अश्मभिः प्रत्यरौत्सीत्…बिले’ (रा० ४।५५।३)॥ प्रत्यरौत्सीत्=अप्यघात्।
रुह्
- {प्रतिरुह्}
- रुह् (रुह बीजजन्मनि)।
- ‘छिन्नस्य यदि वृक्षस्य न मूलं प्रतिरोहति’ (भा० शां० ६८९६)।
- ‘उत्खातप्रतिरोपिताः’ (कलमाः) (रघु० ४।३७)। प्रतिरोपिताः पुना रोपिता रोहिताः।
लभ्
- {प्रतिलभ्}
- लभ् (डुलभष् प्राप्तौ)।
- ‘इन्द्रात् प्रवृत्तिम्’ (रा० ३।६३।२९)। प्रतिलभ्य=उपलभ्य, ज्ञात्वा।
- ‘प्रतिलभ्य च धर्मात्मा शिष्यं धर्मपरायणम्। वरेण छन्दयामास’ (भा० अनु० ४१।३४)। प्रतिलभ्य अनुभूय, अवेत्य, विज्ञाय।
- ‘पितरि च सुरपुरमुपगते स्वं राज्यं प्रतिलेभे’ (अवदा० सुत० जा०)। प्रतिलेभे=पुनर्लेभे।
लिख्
- {प्रतिलिख्}
- लिख् (लिख अक्षरविन्यासे)।
- ‘इदमिदानीमनेन प्रतिलिखितम्’ (माल० १)। प्रत्युत्तरं लिखितम्।
ली
- {प्रतिली}
- ली (लीङ् श्लेषणे)।
- ‘प्रतिलीनस्तदहरासीत्’ (शां० गृ० ३।१।१२)।
वच्
- {प्रतिवच्}
- वच् (वच व्यक्तायां वाचि)।
- ‘स तथेत्युक्त्वा प्रत्युक्तः पुनराजगाम’ (ऐ० ब्रा० ६।३४)। प्रत्युक्त आगच्छेतीरित इति षड्गुरुशिष्यः। उक्त प्रतिवचनं प्राप्त इति सायणः।
- ‘न चास्मि प्रतिवक्तव्यः सीतां प्रति कथं चन’ (रा० ७।४५।१९)। प्रतिवक्तव्यो निषेद्धव्यः।
वद्
- {प्रतिवद्}
- वद् (वद व्यक्तायां वाचि)।
- ‘राज्ञा च प्रत्यवादि सः’ (कुम्भकर्णः) (भट्टि० १५।९)। प्रत्यवादि प्रतिवचनमुक्तः।
- ‘स चापि तत् प्रत्यवदद्यथोक्तम्’ (कठोप० १।१५)। कथितमनुकथितवान्, अन्ववदत्, प्रत्युवचारयत्।
- ‘किंचित् किंचित्प्रतिवदंस्तूष्णीमासं मुहुर्मुहुः’ (भा० उ० १३६।१४)। विरोधिवचनं ब्रुवन् इत्यर्थः।
- ‘इति प्रत्युदिता याम्या दूताः’ (भा० पु० ६।२।२१)। प्रत्युदिताः प्रतिसन्दिष्टाः।
- ‘अप्रतिवादिनी हास्य गृहेषु पत्नी भवति’ (ऐ० ब्रा० ३।२४)। अप्रतिवादिनी=अप्रतिकूलवादिनी।
वप्
- {प्रतिवप्}
- वप् (डुवप बीजसन्ताने)।
- ‘तान्येव तेन प्रत्युप्यन्ते’ (तै० ब्रा० १।२।६।५)। स्थाप्यन्त इत्यर्थः।
- ‘…मौलिमन्तर्गतस्रजम्। प्रत्यूपुः पद्मरागेण प्रभामण्डलशोभिना’ (रघु० १७।२३)। प्रत्यूपुः कृतप्रतिवापं चक्रुः। पद्मरागखचितं व्यदधुः।
- ‘भस्मना शुनः पदं प्रतिवपेत्’ (आश्व० श्रौ० ३।१०।१४)। प्रतिवपेत् अवकिरेत् आकिरेत्, आच्छादयेत्।
- ‘मुकुटप्रत्युप्तमुक्ताकण…बृहद्बाहुः’ (राज० ३।५२९)। मुकुटे प्रत्युप्ता लग्ना मुक्ताकणाः।
- ‘दुर्जारभर्तुरङ्गेषु प्रत्युप्तामिव वल्लभाम्’ (अपश्यत्) (राज० ३।५०७)। प्रत्युप्ताम् दृढमासक्तां सुष्ठु श्लिष्टाम्।
- ‘प्रत्युप्तस्येव दयिते तृष्णादीर्घस्य चक्षुषः’ (उत्तर० ३।४६)। प्रत्युप्तं खचितं बलवद् बद्धम्।
- ‘यथा तिरश्चीनमलातशल्यं प्रत्युप्तमन्तः’ (उत्तर० ३।३५)। अन्तः प्रत्युप्तमन्तर्निखातम्। प्रतीवापः क्वथिते क्षीरादौ तक्रादेर्विक्षेपः, आतञ्चनम्।
वस्
- {प्रतिवस्}
- वस् (वस निवासे)।
- ‘समुद्रकुक्षिमाश्रित्य प्रतिवसन्त्युत’ (भा० वन० १२०।६३)। आवसथं कृत्वा तिष्ठन्ति।
- ‘देवानामुपरिष्टाच्च गावः प्रतिवसन्ति वै’ (भा० अनु० ८१।४)।
वस्
- {प्रतिवस्}
- वस् (वस आच्छादने)।
- ‘यस्त्वां राजन्मया सार्धमजिनैः प्रतिवासितम्’ (भा० वन० २७।४)। प्रतिवासितं संवीतम्।
- ‘यन्नः प्रव्राजयेः सौम्य अजिनैः प्रतिवासितान्’ (भा० उ० ३१।१५)। प्रतिशब्दो धात्वर्थानुवादी।
वह्
- {प्रतिवह्}
- वह् (वह प्रापणे)।
- ‘इमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि प्रत्यूढाः’ (छां० उ० ८।३।२)। प्रत्यूढा विपरीतं नीताः।
- ‘प्रत्यूढं जन्यंभयम्’ (भा० श्रौ० ६।१०।१२)। प्रत्यूढमपनीतम्।
- ‘तं यजमानस्य दक्षिण ऊरौ प्रत्युह्य’ (श० ब्रा० ३।३।३।१०)।
विद्
- {प्रतिविद्}
- विद् (विद ज्ञाने)।
- ‘प्रति त्वा पर्वतिर्वेत्तु’ (तै० सं० १।१।६।१)। प्रतिवेत्तु अनुजानातु मातेव दुहितरमुत्सङ्गस्थाम् इति भट्टभास्करः।
- ‘प्रति त्वादितिर्वेत्तु’ (वा० सं० १।१४)। प्रतिवेत्तु प्रतिगृह्य मदीयेयं त्वगिति जानातु इति महीधरः। जानातु अभिजानातु प्रत्यभिजानातु परिचिनोत्वित्यनर्थान्तरम्।
- ‘ततोऽहं ज्वलमानं (=ज्वलत्) पायसं प्रत्यवेदयम्’ (भा० अनु० १५९।२४) प्रत्यवेदयं न्यवेदयम्।
- ‘सुखं पृष्ट्वा प्रतिवेद्यात्मसंस्थाम्’ (भा० उ० ३८।२)। प्रतिवेद्य निवेद्य उपवर्ण्य।
- ‘गन्धप्रतिवेदी च रूपरसाद्यनुमिनोति’ (३।१।३ न्यायभाष्ये)। प्रतिवेदनमुपलम्भो ज्ञानम्।
विद्
- {प्रतिविद्}
- विद् (विद्लृ लाभे)।
- ‘स देवेषु न प्रत्यविन्दत्’ (ऐ० ब्रा० ४।५)। स इन्द्रोऽपरं स्वातिरिक्तं शूरं नाप्नोदित्याह।
- ‘पञ्चालराजस्तु विषण्णरूपस्तान् पाण्डवानप्रतिविन्दमानः’ (भा० आदि० १९२।१४) अप्रतिविन्दमानोऽप्रतिलभमानः। अजानान इति तात्पर्यार्थः।
विध्
- {प्रतिविध्}
- विध् (विध परिचर्यायां छान्दसः)।
- ‘प्रति वां सूर उदित विधेम नमोभिर्मित्रावरुणोत हव्यैः’ (ऋ० ७।६३।५)। प्रतिविधेम सपर्येम वरिवस्येम।
विश्
- {प्रतिविश्}
- विश् (विश प्रवेशने)।
- ‘स्फुरतां प्रतिविष्टानामश्वानां शीघ्रगामिनाम्’ (भा० शल्य० २३।७४)। प्रतिविष्टानां प्रतिनिविष्टानाम्।
- ‘तद् दक्षिणतः प्रतिवेशतः केशवात् पुरुषात्सीसेन परिस्रुतं क्रीणाति’ (श० ब्रा० ५।१।२।१४)। प्रतिवेशः संनिहितं गृहमुच्यते। तद्वासी च लोके प्रतिवेशीति भण्यते।
- ‘प्रतिवेशोऽसि प्र मा भाहि प्र मा पद्यस्व’ (तै० उ० १।४।३)। प्रतिवेशः श्रमापनयनस्थानमासन्नगृहम्।
- ‘क्षेत्रस्य पतिं प्रतिवेशमीमहे’ (ऋ० १०।६६।१३)। प्रतिवेशः सदेशवर्ती, निकटे वसन्।
- ‘मा ते अग्ने प्रतिवेशा रिषाम’ (अथर्व० ३।१५।८, १९।५।५)। प्रतिशब्दः सान्निध्यवाची। प्रतिवेशाः परिचरणादिना त्वत्प्रत्यासन्नाः।
- ‘हतासो अस्य वेशसो हतासः प्रतिवेशसः’ (अथर्व० ४।२३।१२)। प्रतिवेशसः प्रतिवेशाः। प्रतिवेशिनः।
- ‘प्रतिवेशात् पत्न्यश्नाति’ (भा० श्रौ० १३।१६)।
- ‘दक्षिणाग्नौ पत्न्याः प्रतिवेशमोदनं पचति’ (आप० श्रौ० ८।१०।१०)। प्रतिवेशं प्रातिस्विकम्।
वृत्
- {प्रतिवृत्}
- वृत् (वृतु वर्तने)।
- ‘अयं स्राक्त्यो मणिः प्रतीवर्तः’ (अथर्व० ८।५।४)। प्रतीवर्तः प्रतिकूलं प्रतिमुखं वर्तयत्यनेन।
वृष्
- {प्रतिवृष्}
- वृष् (वृषु सेचने)।
- ‘शरौघेण प्रत्यवर्षं गुरुं तम्’ (भा० उ० ७२१५)। प्रत्यवर्षमभ्यवर्षमभ्यषिञ्चम्।
व्यध्
- {प्रतिव्यध्}
- व्यध् (व्यध ताडने)।
- ‘प्रत्यविध्यदमेयात्मा किरीटी भरतर्षभ’ (भा० भीष्म० ५२।२९)।
- ‘स तु बाणैः शितैस्तूर्णं प्रत्यविध्यत मारिष’ (भा० द्रोण० ४७।१४)। प्रत्यविध्यत् परैर्विद्धः सन्नविध्यदित्यर्थः।
- ‘अप्रतिविद्धस्यात्ययः सपादः सप्तविंशतिपणः’ (कौ० अ० २।१९।४१)। अप्रतिविद्धोऽमुद्रितः। अत्ययो दण्डः।
शंस्
- {प्रतिशंस्}
- शंस् (शंसु स्तुतौ)।
- ‘कथं नु भगवः शस्तं कथमप्रतिशस्तमिति’ (श० ११।५।५।१०)। अप्रतिशस्तम् अप्रतिषिद्धम्।
शक्
- {प्रतिशक्}
- शक् (शक्लृ शक्तौ)।
- ‘पाण्डवाश्चान्वपद्यन्त प्रतिशेकुर्न सैन्धवम्’ (भा० द्रोण० ४३।१८)। न प्रतिशेकुः प्रतिरोद्धुं नाशक्नुवन्नित्यर्थः।
शास्
- {प्रतिशास्}
- शास् (शासु अनुशिष्टौ)।
- ‘कृतवानप्रतिशासनं जगत्’ (रघु० ८।२७)। (सोऽजः) जगदनन्यशासनमकरोत्, एकातपत्रं जगतः प्रभुत्वमध्यगमदित्यर्थः।
शी
- {प्रतिशी}
- शी (शीङ् स्वप्ने)।
- ‘प्रतिशिष्ये जलनिधिं विधिवत्कुशसंस्तरे’ (भा० वन० २८३।३२)। अरिरात्सयोपोषितः सन्वारांनिधेरभिमुखे शयिष्ये यावत्प्रसादमित्याह।
- ‘अनया किलास्मै प्रतिशयिताय स्वप्ने समादिष्टम्’ (दशकु०)। उक्तोऽर्थः।
- ‘सर्वस्य प्रतिशीवरी भूमिस्त्वोपस्थ आधित’ (तै० सं० १।४।४०)। प्रतिशीवरी अभिमुखशायिनीति सायणः। प्रतिशीवरी प्रत्येकं सुखेन शयनाधिकरणभूता। शेतेरौणादिकः क्वरच् इति भट्टभास्करः।
- ‘मा हिंसीस्तत्र नो भूमे सर्वस्य प्रतिशीवरि’ (अथर्व० १२।१।३४)।
शृ
- {प्रतिशृ}
- शृ (शृञ् हिंसायाम्)।
- ‘अप्रतिशराय’ (ऐ० ब्रा० १।२६)। अप्रतिघातायेत्यर्थः।
श्यै
- {प्रतिश्यै}
- श्यै (श्यैङ् गतौ)।
- ‘सन्धारणं मूत्रपुरीषयोश्च सद्यः प्रतिश्यायनिदानमुक्तम्’ (सुश्रुत० उत्तर० २४।२)। वातं प्रति अभिमुखं श्यायो गमनं कफादीनां यत्र स प्रतिश्याय इति जह्लणः। प्रतिशीनः साभिष्यन्दः, सप्रवाहः।
श्रि
- {प्रतिश्रि}
- श्रि (श्रिञ् सेवायाम्)।
- ‘ब्राह्मण्या जीवपत्न्या जीवप्रजाया अगार एतां रात्रिं प्रतिश्रयेत्’ (आश्व० गृ० १।५।२१)। प्रतिश्रयो नाम परकीयगृहे वास इति हरदत्तः। जीवः पतिर्यस्याः सा जीवपत्नी। तं च सर्वासु वेलासु भक्ष्यभोज्यप्रतिश्रयैः।
- ‘पूजयामास सा कन्या…’ (भा० वन० ३०५।३)। प्रतिश्रयैराश्रयैः शय्यासनाद्यैः।
- ‘प्रतिश्रयं च वासार्थम्’ (भा० शां० १६८।३२)। प्रतिश्रयो गृहं शरणम्।
- ‘चण्डालश्वपचानां तु बहिर्ग्रामात्प्रतिश्रयः’ (मनु १०।५१)। प्रतिश्रयो वसतिः।
- ‘येषां चान्नानि भुञ्जीत यत्र च स्यात्प्रतिश्रयः’ (भा० वन० ३।११४७२)। प्रतिश्रय आश्रयो वासः।
- ‘यत्रसायंप्रतिश्रयाः’ (तै० १३।३०)।
- ‘नष्टदारधनः सोयं नाट्याचार्येप्रतिश्रयः’ (कथा० ५२।२९५)। अप्रतिश्रयोऽनिकेतः।
- ‘सार्थिकानामेकप्रतिश्रय उषितानां प्रातरुत्थाय प्रतिष्ठमानानां न कश्चित् परस्परं सम्बन्धः’ (भाष्ये)। प्रतिश्रय आवसथः, आवासः। प्रवासिनामाश्रयः।
- ‘भूदीपाश्चान्नवस्त्राम्भस्तिलसर्पिः प्रतिश्रयान्’ (याज्ञ० १।२१०)। उक्तोऽर्थः।
- ‘प्रतिश्रयं प्राप्य समीक्ष्य शून्यम्’ (रा० ३।५८।१९)। प्रतिश्रयमाश्रमपदम्। स्वाश्रमसमीपदेशमिति तु कतकः।
- ‘प्रतिश्रयार्थी तद्वेश्म ब्राह्मणस्य जगाम ह’ (भा० आदि० १६५।३)। प्रतिश्रयार्थी वासार्थी।
- ‘मा त्वविज्ञातशीलाय कश्चिद् दद्यात् प्रतिश्रयम्’ (तन्त्रा० १।६।८५)। प्रतिश्रय आश्रयः। स्यात्सभायां प्रतिश्रय इत्यमरः। आस्पदेपीति स्वामी।
- ‘कथं समुद्रः पूर्णश्च भगीरथप्रतिश्रयात्’ (भा० ३।८८२८)। प्रतिश्रयः साहायकम्। प्रतिश्रितं प्रविष्टम् इति क्षीरस्वामी।
- ‘प्रतिश्रयप्रदानाच्च’ (भा० अनु० ६६।२९)। प्रतिश्रयो गृहनिर्माणार्था भूमिः, वास्तुरित्यर्थः।
- ‘भवांश्चाप्यार्जवपरः पूर्वं कृत्वा प्रतिश्रयम्। राजवृत्तं न लभते…’ (भा० अनु० १४८।३७)॥ प्रतिश्रयं साहाय्यम्।
श्रु
- {प्रतिश्रु}
- श्रु (श्रु श्रवणे)।
- ‘स यामनि प्रति श्रुधि’ (ऋ० १।२५।२०)।
- ‘प्रति घोराणां… मरुतां शृण्व आयतामुपब्दिः’ (ऋ० १।१६९।७)। श्रवणमेवार्थः। प्रतिशब्दो धात्वर्थानुवादी।
- ‘चतुष्कृत्वोऽह्वयत। अग्निर्वायुरादित्यश्चन्द्रमाः। ते प्रत्यशृण्वन्’ (तै० ब्रा० २।३।६।१-२)। अशृण्वन्नित्येवार्थः।
- ‘तस्मै ह स्मामन्त्र्यमाणो न प्रतिशृणोति’ (श० ब्रा० १।४।१।१०)। न प्रतिशृणोति न प्रतिवक्ति।
- ‘अथ हैनमृषभोऽभ्युवाद सत्यकाम३ इति भगव इति ह प्रतिशुश्राव’ (छां० उ० ४।५।१)। प्रतिशुश्राव प्रत्युवाच।
- ‘तस्मै दशमं हूतः प्रत्यशृणोत्’ (तै० ब्र० २।३।११।१)। भोः इत्युत्तरं दत्तवान्। दशमं दशमे पर्याये।
- ‘न मे स्वर्गो बहुमतः संमानश्च सुरर्षभैः। त्वया राम विहीनस्य सत्यं प्रतिशृणोमि ते’ (रा० ६।११९।१३)॥ सत्यं ते ब्रवीमीत्याह।
- ‘प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता’ (पा० १।४।४०)। विप्राय गां प्रतिशृणोति दास्यामीति प्रतिजानीते इति वृत्तिः। स तत् कर्म प्रतिशुश्राव दुष्करम्। प्रतिज्ञातवानित्यर्थः।
- ‘ते छात्राः परमम् इति तत्तस्य वचनमयुक्तमपि युक्तमिव प्रत्यश्रौषुः’ (अवदा० जा० १२)। ** प्रत्यश्रौषुः स्वीचक्रुः प्रतिपेदिरे।**
- ‘अनिर्दिश्य मया भिक्षा ब्राह्मणस्य प्रतिश्रुता’ (हरि० १।३०।२४)। उक्तोऽर्थः।
- ‘स तद्वचः प्रतिश्रुत्य वाक्यमाह विहङ्गमः’ (भा० शां० १४६।१५)। प्रतिश्रुत्य श्रुत्वा।
- ‘तथा स्त्रीषु प्रतिश्रुत्य पौरुषं पुरुषेषु च। कत्थमानोऽभिनिर्याय किमर्थं न युयुत्ससे’ (भा० वि० ३९।२२)॥ प्रतिश्रुत्य प्रतिज्ञाय सशपथं प्रज्ञाप्य।
- ‘अपसृत्याप्रतिश्रुत्य प्रजासंहरणं तदा’ (भा० शां० २५८।१५)।
- ‘अप्रतिश्रुत्यानङ्गीकृत्याऽनभ्युपेत्याऽननुमत्य। तस्यै प्रतिश्रुत्य रघुप्रवीरस्तदीप्सितम्…’ (रघु० १४।२९)। उक्तोऽर्थः।
- ‘प्रतिश्रवणे च’ (पा० ८।२।९९)। प्रतिश्रवणमभ्युपगमः प्रतिज्ञानम्, श्रवणाभिमुख्यं चेति वृत्तिः। नित्यः शब्दो भवितुमर्हति। देवदत्त भोः किमात्थ इति च तत्र प्रतिश्रवण उदाहरणम्।
- ‘प्रतिश्रवणसंभाषे शयानो न समाचरेत्’ (मनु० २।१९६)। प्रतिश्रवणमाज्ञाङ्गीकरणम्।
- ‘प्रतिश्रवणपूर्वाणि नक्षत्राणि चकार सः’ (विश्वामित्रः) (भा० आदि० ७१।३४)
- ‘श्रोत्रे द्वे प्रतिश्रवणे द्वे। तस्मात्पुरुषः सर्वा दिशः शृणोति’ (षड्विंश० ७।१।२)। प्रतिश्रवणं श्रोत्रैकदेशविशेषः स्यात्।
- ‘स्त्री चाप्रतिश्राविणी पतिकृतमृणम्’ (अग्राह्या) (कौ० अ० ३।११।२३)। अप्रतिश्राविणी अनङ्गीकारिणी।
- ‘प्रतिश्रुत्याऽभिनादिता’ (वाचः) (हरि० ४५८२)। प्रतिश्रुतिः प्रतिश्रुत् प्रतिध्वानः। स्त्री प्रतिश्रुत् प्रतिध्वान इत्यमरश्च। प्रति प्रथमं शब्दं लक्ष्यीकृत्य श्रूयत इति प्रतिश्रुत्। क्विप्। स्वामी त्वाह–प्रतीपं श्रूयत इति प्रतिश्रुत्।
- ‘मनुष्यसम्भवा वाचो विधर्मिण्यः प्रतिश्रुताः’ (भा० वन० ३।३।६)। प्रतिश्रुता अभ्युपेताः प्रतिपन्नाः। तत्र विवादो नेत्यर्थः। विधर्मिण्यो विरुद्धस्वभावाः, विप्लुतार्थाः। अनृता इत्यर्थः।
ष्ठिव्
- {प्रतिष्ठिव्}
- ष्ठिव् (ष्ठिवु निरसने)।
- ‘यो ब्राह्मणं प्रत्यष्ठीवन्’ (अथर्व० ५।१९।३)। उपरि निष्ठीवन्नित्यर्थः।
सच्
- {प्रतिसच्}
- सच् (षच सेचने सेवने च)।
- ‘इत्थं वा इमे ऽस्मानमुष्मिँल्लोकेऽसचन्त तान्वयमिहो इति प्रतिसचामहा इति’ (श० ब्रा० ११।६।१।५)। प्रतिसचामहै विनिमयेन व्यवहरामहै।
सद्
- {प्रतिसद्}
- सद् (षद्लृ विशरणगत्यवसादनेषु)।
- ‘उद्वेपते ते हृदयं मनस्तु प्रतिसीदति’ (भा० उ० ७५।१८)। प्रतिसीदति सीदतीत्येकोऽर्थः प्रतिभाति। भारतभावदीपकारस्त्वत्र जोषमास्ते।
सिच्
- {प्रतिषिच्}
- सिच् (षिच क्षरणे)।
- ‘प्रतिषिक्ता अरातयः’ (आप० श्रौ० ७।२०।२)।
- ‘अप्रतिषेक्यं स्यात् तेजस्कामस्य’ (आप० श्रौ० ६।२।६।४)। उपरिष्टादब्बिन्दुप्रक्षेपः प्रतिषेक इति रुद्रदत्तः।
सिध्
- {प्रतिषिध्}
- सिध् (षिध गत्याम्, षिधू शास्त्रे माङ्गल्ये च)।
- ‘प्रतिषेधन्ति राजानो लुब्धा मृगमिवेषुभिः’ (भा० शां० २८।९)। प्रतिषेधन्ति निरुन्धन्ति। निघ्नन्तीत्यर्थः।
- ‘इति शत्रुषु चेन्द्रियेषु च प्रतिषिद्धप्रसरेषु जाग्रतौ’ (रघु० ८।२३)। वारितप्रगतिष्वित्यर्थः।
- ‘प्रतिषेधत्सु चाधर्मान् हितं चोपदिशत्स्वपि’ (मनु० २।२०६)। अधर्मान्प्रतिषेधत्सु मा स्मा करोरित्येवं शासत्सु।
- ‘विश्वेदग्निः प्रति रक्षांसि सेधति’ (ऋ० ८।२३।१३)। दूरमुत्सारयतीत्यर्थः।
सृ
- {प्रतिसृ}
- सृ (सृ गतौ)।
- ‘दैत्यः प्रत्यसरद् देवं मत्तो मत्तमिव द्विपम्’ (हरि०)। प्रत्यसरद् उपाद्रवत्, अवास्कन्दत्।
- ‘कनकवलयं स्रस्तं स्रस्तं मया प्रतिसार्यते’ (शा० ३।१२)। प्रतिसार्यते प्रतीपं नीयते। ऊर्ध्वं ह्रियत इत्यर्थः।
- ‘शिलैलानतसिन्धूत्थैः सक्षौद्रैः प्रतिसारयेत्’ (सुश्रुत० उत्तर० १४।४)।
- ‘ततोऽग्निना वा प्रतिसारयेत्’ (तां दोषोपहतां बलिम्) (सुश्रुत० उत्तर० १६।७)। प्रतिसारयेत्=अवघर्षयेत्। दीपयेत्।
- ‘पथ्याफलेन प्रतिसारयेत्तु’ (सुश्रुत० उत्तर० १६।४)। उक्तोऽर्थः।
- ‘क्षौद्रायुतैश्च कटुभिः प्रतिसारयेत्तु’ (सुश्रुत० उत्तर० १९।९)। उक्तोऽर्थः।
- ‘तयोरपाङ्गप्रतिसारितानि… विलोचनानि’ (रघु० ७।२३)। प्रतिसारितानि आततानि।
- ‘श्लक्ष्णपिष्टैः समाक्षीकैः प्रतिसार्योष्णवारिणा। प्रक्षाल्य…।’ (सुश्रुत० उत्तर० १३।२)। प्रतिसार्य=श्रवघृष्य।
- ‘अयं प्रतिसरो मणिर्वीरो वीराय बध्यते’ (अथर्व० ८।५।१)। प्रतिसरति पराङ्मुखं निवर्तत आभिचारिकं कर्मानेनेति प्रतिसरो रक्षासूत्रम्।
- ‘प्रत्यगेनान् प्रतिसरेण हन्मि’ (अथर्व० ४।४०।१)। इह प्रतिसरो रक्षाकर्माह।
- ‘प्रतीचीः कृत्याः प्रतिसरैरजन्तु’ (अथर्व० ८।५।५)।
- ‘प्रीत्या प्रतिसरा विधेयाऽस्मि ते’ (हर्ष० १)। प्रतिसराऽनुकूला।
- ‘दन्तमांसौष्ठजिह्वानां प्रधानं प्रतिसारणम्’ (का० सं० खिल सूति० श्लो० १६०)। प्रतिसारणमवघर्षणम्।
- ‘सा ते समृद्धिर्यैरात्ता चपला प्रतिसारिणी’ (भा० वन० ५१।२७)। प्रतिसारिणी प्रतीपसारिणी, नीचानुगामिनी।
स्कु
- {प्रतिस्कु}
- स्कु (स्कुञ् आप्रवणे)।
- ‘स नो वृषन्नमुं चरुं सत्रादावन्नपा वृधि। अस्मभ्यमप्रतिष्कुतः’ (ऋ० १।७।६)।
- ‘अप्रतिष्कुतः=अप्रतिस्खलितः’ (नि० ६।१६।७)।
- ‘ईशानो अप्रतिष्कुतः’ (अथर्व० २०।७०।१४)। उक्तोऽर्थः।
स्तम्भ्
- {प्रतिष्टम्भ्}
- स्तम्भ् (स्तम्भु रोधने धारणे वा, सौत्रः)।
- ‘कायस्य रूपे संयमाद् रूपस्य या ग्राह्या शक्तिस्तां प्रतिष्टभ्नाति’ (३।२१ योग-भा०)। प्रतिष्टभ्नाति धारयति।
- ‘बाहुप्रतिष्टम्भविवृद्धमन्युः’ (रघु० २।३२)॥ प्रतिष्टम्भः प्रतिघातो निश्चेष्टता।
- ‘प्रतिस्तब्धनिस्तब्धौ’ (पा० ८।३।११४)। प्रतिस्तब्धः स्तब्धः। सर्वत्रोदाहृतिषु प्रतिशब्दो नान्तरमर्थे करोति।
- ‘अप्रतिष्टब्धः पाणिना’ (आसीत) (आप० ध० १।६।१६)। पाण्यवलम्बनो नासीतेत्यर्थः। पाणिनिस्तु प्रतिस्तब्ध इत्येव रूपमिच्छति।
स्तुभ्
- {प्रतष्टुभ्}
- स्तुभ् (ष्टुभु स्तम्भे)।
- ‘स्तोमास्त्वा विचारिणि प्रतिष्टोभन्त्यक्तुभिः’ (तै० सं० २।२।१२।९)। प्रतिष्टोभन्ति प्रत्येकं स्तुवन्ति।
स्था
- {प्रतिष्ठा}
- स्था (ष्ठा गतिनिवृत्तौ)।
- ‘स्वर्गे लोके प्रतितिष्ठति’ (के० उ० ४।९)। चिरां स्थितिं लभते।
- ‘उदेति च यतः सूर्यो यत्र च प्रतितिष्ठति। तत्सर्वं यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते’ (भा० द्रोण० ६२।११)॥ प्रतितिष्ठति विश्राम्यति, निम्लोचति, अस्तमेति।
- ‘यावत्सूर्य उदेत्यस्तं यावच्च प्रतितिष्ठति। सर्वं तद्यौवनाश्वस्य मान्धातु: क्षेत्रमुच्यते’ (विष्णु पु० ४।२।६५)॥ अस्तं प्रतितिष्ठतीत्यन्वयः। अस्तं गच्छतीत्यर्थः। शब्दमर्यादया तु नैष लभ्यः। व्यक्तमत्र पाठभ्रंशः।
- ‘ऊने द्वियोजने गत्वा प्रत्यतिष्ठन्त कौरवाः’ (भा० शल्य० ५।५०)। प्रत्यतिष्ठन्त न्यविशन्त।
- ‘उक्तवानसि यद्वाक्यं धर्मार्थसहितं हितम्। न तु तन्निकृतिप्रज्ञे कौरव्ये प्रतितिष्ठति’ (भा० उ० १५४।७)॥ न प्रतितिष्ठति न पदं कुरुते, नास्पदं लभते।
- ‘राज्यं मृत्युभयं त्यक्त्वा प्रत्यतिष्ठन् परान् युधि’ (भा० द्रोण० २५।७)। प्रत्यतिष्ठन् प्रत्यवातिष्ठन्त व्यरुन्धत अयुध्यन्त।
- ‘तद् यदेषामप्सु प्रविद्धानां प्रत्यतिष्ठत्’ (श० ब्रा० ६।२।१८)। प्रत्यतिष्ठत् न्यषीदत्।
- ‘सद्योजाताः पशवः प्रतितिष्ठन्ति, संवत्सरे पुरुषाः’ (मै० सं० ४।५।७)। प्रतितिष्ठन्ति चरणबलेन दृढं तिष्ठन्तीत्याह।
- ‘मधुपर्कं प्रतिग्रहीष्यन्… इति प्रतितिष्ठन् व्रजेत्’ (खा० गृ० ४।४।६)। प्रतितिष्ठन् प्राङ्मुखः तिष्ठन्।
- ‘यो वाऽप्रतिष्ठितो वज्रमुद्यच्छति’ (श० ब्रा० १।१।१।१८)। प्रतिष्ठितः (सन्) दृढं भूमौ पादावाधायेत्यर्थः।
- ‘तपसि सर्वं प्रतिष्ठितम्’ (तै० ब्रा० १०।६३।१)। प्रतिष्ठितं प्रतिबद्धम् आधृतम्।
- ‘स्त्रीधनं दुहितॄणामप्रत्तानामप्रतिष्ठितानां च’ (गौ० ध० ३।१०।२२)। (याज्ञ० २।११७) इत्यत्र च मिताक्षरायां गौतमीयमित्युद्धृतम्। अप्रतिष्ठिता या ऊढा अनपत्या निर्धना भर्तृगृहे याभिः प्रतिष्ठा न लब्धा।
- ‘प्रतिष्ठितेऽहनि सन्ध्यामुपासीत’ (कौ० अ० १।१९।१७)। प्रतिष्ठितेऽवसिते।
- ‘सूर्येऽस्ताचले विश्रमं गते सति। स शिक्षकाणां धुरि प्रतिष्ठापयितव्य एव’ (माल० १।१६)। स्थापनेन सत्कर्तव्य इत्यर्थः।
- ‘पर्यङ्कमग्र्यास्तरणं नानारत्न-विभूषितम्। तदपीच्छति वैदेही प्रतिष्ठापयितुं त्वयि’ (रा० २।२२।९)। प्रतिष्ठापयितुं निवेदयितुं प्रदेष्टुम् अर्पयितुम्।
- ‘धर्मो बिम्बस्य जगतः प्रतिष्ठा’ (महाना० उ०)। आधार इत्यर्थः।
- ‘अपौरुषेयप्रतिष्ठम्’ (मालती० ९)। उक्तोऽर्थः।
- ‘लोकस्य नाभि र्जगतः प्रतिष्ठा’ (भा० शां० २४५।२७)।
- ‘असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्’ (गीता० १६।८)।
- ‘…द्वे प्रतिष्ठे कुलस्य नः। समुद्रवसना चोर्वी सखी च युवयोरियम्’ (शा० ३।१८)। उदितचर एवार्थः।
- ‘अप्रतिष्ठे रघुज्येष्ठे का प्रतिष्ठा कुलस्य नः’ (उत्तर० ५।२५)। प्रतिष्ठा स्थैर्यं सातत्यं नैरन्तर्यम्, अविच्छेदः।
- ‘अगाधसत्त्वो मगधप्रतिष्ठः’ (रघु० ६।२१)। प्रतिष्ठा निवासभूतो देशः।
- ‘चलाचलेति द्विविधा प्रतिष्ठा जीवमन्दिरम्’ (भा० पु० ११।२७।१३)। प्रतिष्ठा संस्कारपूर्विका स्थापना।
- ‘अहोरात्राणि प्रतिष्ठा’ (बृह० उ० १।१।१)। प्रतिष्ठा पादः। द्विप्रतिष्ठो मनुष्यः। द्विपादित्यर्थः।
- ‘औत्सुक्यमात्रमवसादयति प्रतिष्ठा’ (शा० ५।६)। प्रतिष्ठा सर्वोत्कृष्टं गौरवम्।
- ‘अप्लवेऽम्भसि मग्नानामप्रतिष्ठे निमज्जताम्’ (भा० सभा० ७१।३)। अप्रतिष्ठेऽगाधे।
- ’ वंशप्रतिष्ठानकराः सर्वभूतेषु विश्रुताः’ (पुत्राः) (रा० १।११।१८)। प्रतिष्ठानं प्रतिष्ठा स्थैर्यम् प्रबन्धोऽनुवृत्तिः सन्तानः।
- ‘तस्माद् वयः पुच्छेन प्रतिष्ठायोत्पतति पुच्छेन प्रतिष्ठाय निषीदति’ (पञ्च० ब्रा० ५।१।१७)। प्रतिष्ठाय आश्रयमवष्टभ्य।
स्ना
- {प्रतिष्णा}
- स्ना (ष्णा शौचे)।
- ‘सूत्रं प्रतिष्णातम्’ (पा० ८।३।९०)। शुद्धमित्यर्थः। सूत्रादन्यत्र प्रतिस्नातमित्येव। अपि सुस्नातो भवान्। बाढं प्रतिस्नातोस्मि।
स्मृ
- {प्रतिस्मृ}
- स्मृ (स्मृ चिन्तायाम्)।
- ‘प्रतिस्मृत्याथ जग्राह पादौ मूर्ध्नि कृताञ्जलिः’ (भा० अनु० ११८।१)। स्मृत्वेत्येवार्थः। अनर्थकः प्रतिः।
स्वन्
- {प्रतिस्वन्}
- स्वन् (स्वन शब्दे)।
- ‘स शब्दः…। प्रतिसस्वान तत्रैव कुरुपाण्डवयोर्बले’ (भा० द्रोण० १०३।४७)। प्रतिसस्वान प्रत्यश्रूयत, प्रतिश्रुद्रूपेणाऽश्रूयत।
हन्
- {प्रतिहन्}
- हन् (हन हिंसागत्योः)।
- ‘खले न पर्षान् प्रतिहन्ति भूरि’ (ऋ० १०।४८।७)।
- ‘यो वा हतो न प्रतिहन्ति धैर्यात्’ (भा० शां० २९९।१७)। प्रतिहन्ति प्रतिकुर्वाणो हन्तीत्यर्थः।
- ‘न च प्रतिजघानास्य स गतिं पर्वतोत्तमः’ (भा० शां० ३३३।१२)। प्रतिजघान रुरोध।
- ‘विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः प्रारब्धमुत्तमगुणा न परित्यजन्ति’ (भर्तृ० १।७२)। उक्तोऽर्थः।
- ‘प्रतिघ्नानाऽश्रुमुखी’ (अथर्व० ११।९।७)।
- ‘प्रतिघ्नानाः सं धावन्तूरः पटूरवाघ्नाना’ (अथर्व० ११।९।१४)। प्रतिहतममङ्गलम्। वारितमस्त्वित्यर्थः।
- ‘कुतुहलगर्भः प्रतिहतो न मे तर्कः प्रसरति’ (शा०)। प्रतिहतो रुद्धः।
- ‘इमास्ता मन्मथवतां हिताः प्रतिहता दिशः’ (रा० ४।२८।१३)। प्रतिहता उपहताः, मालिन्यमुपगताः, मेघै रुद्धा इत्यनर्थान्तरम्।
- ‘…द्युमन्तं रुक्मिणीसुतः। प्रतिहत्य प्रत्यविध्यत्’ (भा० पु० १०।७७।२)॥
- ‘प्रायश्चित्तं च वेत्थ त्वं प्रतिघातं च सर्वशः’ (भा० वन० १६८।६८)। परास्त्रेणाभिभूतस्य स्वास्त्रस्योद्दीपनं प्रतीघातः।
- ‘श्रूयतां च प्रतीघातान्यै र्न शक्नुम हिंसितुम्’ (भा० अनु० १३१।७)। प्रतीघाता रोधका अर्थाः।
- ‘सापत्नं प्रतिघं त्यक्त्वा’ (स्कन्द० का० ४।१९।३०)। सापत्नः प्रतिघः सपत्ने वैरं क्रोधो वा।
- ‘विदन्वान्वै भार्गव इन्द्रस्य प्रत्यहन्’ (पञ्च० ब्रा० १३।११।२०)। इन्द्रस्य साहाय्येन (शत्रून्) प्रत्यहन् पराणुदत्, दूरमदसारयत्।
- ‘तिग्मं न क्षोदः प्रति घ्नन्ति भूर्णयः’ (ऋ० ८।२५।१५)। प्रतिध्नन्ति प्रतिरुन्धन्ति वारयन्ति।
- ‘सृके यत्त्वा प्रत्यहन् देव एकः’ (ऋ० १।३२।१२)। सृके वज्रे। प्रत्यहन् प्रतिकूलत्वेन प्रहृतवान्।
हर्य्
- {प्रतिहर्य्}
- हर्य् (हर्य गतिकान्त्योः )।
- ‘प्रति सूक्तानि हर्यतम्’ (ऋ० १।९३।१)। प्रतिहर्यतं प्रतिकामयेथाम्।
हु
- {प्रतिहु}
- हु (हु दानादनयोः)।
- ‘अथ यदाधिगच्छेत् प्रतिजुहुयात्’ (गो० गृ० १।९।२२)। सायमादिकालं प्रतीक्ष्य जुहुयादित्यर्थः।
हृ
- {प्रतिहृ}
- हृ (हृञ् हरणे)।
- ‘आज्ञां प्रत्यहरच्चापि कृतज्ञैः पुरुषैः सदा’ (भा० आश्रम० ३।४)। प्रत्यहरत् अवागणयत्। वृकोदरः कर्ता।
- ‘अग्ने यत्ते हरस्तेन तं प्रतिहर’ (अथर्व० २।१९।२)। प्रतिहर संहर।
- ‘अथ यत्प्रतिहर्ता प्रतिहरति’ (शां० ब्रा० १७।७)। स्वेनोच्चार्यं शस्त्रं व्याहरति।
- ‘राज्ञः प्रतिहारयामास श्रेष्ठी पुनर्द्रष्टुमिच्छति देवमिति’ (अवदा० जा० २०)। प्रतिहारयामास प्रतिहारेणात्मानं राज्ञे निवेदयामास।
- ‘अमर्षवशमापन्ना वैरं प्रतिजिहीर्षवः’ (भा० स्त्री० ११।१४)। प्रतिजिहीर्षवः प्रतिचिकीर्षवः।
- ‘स हतो भीमसेनेन वैरं प्रतिजिहीर्षता’ (भा० स्त्री० १३।१०)।
- ‘इमानि भूतान्यन्नमेव प्रतिहरमाणानि जीवन्ति’ (छां० उ० १।११।९)। प्रतिहरमाणानि प्रत्याहरन्ति।
- ‘तस्मादश्वो रश्मिना प्रतिहृतो भूयिष्ठं रोचते’ (श० ब्रा० १३।२।७।९)। प्रतिहृतो बद्धः।
- ‘कः स्थितः प्रतिहारो मे कस्याज्ञां सम्प्रतीक्षते’ (रा० १।७३।१४)। प्रतिहारो द्वाःस्थो द्वारपालः। अत्र येन राजागमनं प्रतिबध्यत इति शेष इति तिलकः। तेन प्रतीयते प्रतिहरणं प्रविशज्जनवारणं भवति। स्वाम्यप्यत्रानुकूलो यदाहामरोद्घाटने–प्रतिह्नियन्ते प्रतिरुध्यन्तेऽनेनेति प्रतीहारः।
- ‘द्वारि तिष्ठ महाबाहो प्रतिहारं विसर्जय’ (रा० ७।१०३।१३)। उक्तोऽर्थः।
- ‘रेभ्यसगोत्रः काञ्चुकीयः प्राप्तः…वसुन्धरा नाम वासवदत्ताधात्री च प्रतीहारमुपस्थितौ’ (स्वप्न० ६)। प्रतीहारो द्वारम्।
- ‘प्रतिहाररक्षी’ (सुनन्दा) (रघु० ६।२०)। प्रतिहारो द्वारम्।
- ‘आर्य, अदेशकालः प्रतिहारस्य’ (स्वप्न० ५)। इह प्रतिहारस्य द्वाःस्थस्य कर्म प्रतिहार उक्तः। स चागन्तुकस्य राजानं दिदृक्षोरागमननिवेदनम्।
- ‘सम्प्राप्यैते महात्मानो राघवस्य निवेशनम्। विष्ठिताः प्रतिहारार्थं हुताशनसमप्रभाः’ (रा० ७।१।७)॥ प्रतिहारार्थमागमो नो निवेद्यतामित्येतदर्थम्।
- ‘व्यतिष्ठत तदा सुमन्त्रं पितुर्महात्मा प्रतिहारणार्थम्’ (रा० २।३३।३०)। महात्मा रामः। उक्तोऽर्थः।
- ‘प्रतिहर्तर्या देवता प्रतिहारमन्वायत्ता, तां चेदविद्वान् प्रतिहरिष्यसि’ (छां० उ० १।११।८)। प्रतिहर्ता उद्गातृनामकस्य ऋत्विजः सहायः। तेनोच्चार्यं शस्त्रं प्रतिहारः। प्रतिहारो मायाकारः। तस्य कर्म प्रातिहार्यम्।
- ‘कुर्याममुं नृपमहं प्रातिहार्यं समाचरन्’ (राज० ८।११)। मायाकारस्तु प्रातिहारिक इत्यमरः। प्रतिहरणं (प्रतिहारः) व्याजः प्रयोजनमस्येति स्वामी।
- ‘चराचरस्य स्रष्टारं प्रतिहारमेव च’ (भा० द्रोण० ८०।४६)। प्रतिहर्ता संहर्ता प्रतिसंहर्ता।
- ‘दैवीनां मानुषीणां च प्रतिहर्ता त्वमापदाम्’ (रघु० १।६०)। प्रतिहर्ता वारयिता।
- ‘एष वै तत्र वैदेह्या विहगः प्रतिहारकः’ (रा० ४।१।५६)। प्रतिहारकोऽपहारको वियोजकः।
- ‘मनसा हिङ्करोति मनसा प्रस्तौति मनसोद्गायति मनसा प्रतिहरति’ (पञ्च० ब्रा० ४।९।९)। प्रतिहरति प्रतिहारं साम गायति।