१६५ अभ्युद् (अभि+उद्)

  • {अभ्युदि}
  • इ (इण् गतौ)।
  • ‘उदिह्युदिहि सूर्य वर्चसा मामभ्युदिहि’ (अथर्व० १७।१।६)। माम् अभ्युदिहि ममाभिमुख्येनोदिहि उदयस्व।
  • ‘यदद्य कच्च वृत्रहन्नुदगा अभि सूर्य’ (ऋ० ८।९३।४)। अभ्युदगा अभिमुखमुदयमगाः। यत् कच्च यत्किञ्चित्।
  • ‘पथ्यां स्वस्तिमभ्युद्यन्ति’ (ऐ० ब्रा० २।११)। अभिलक्ष्य समाप्तिं गमयन्तीत्यर्थः।
  • ‘अभ्युदिण उपर्युदयेऽर्थे प्रतीता काश्चन दिश उदाह्रियन्ते–नैनं ग्रामेऽभिनिम्लोचेत् सूर्यो नाभ्युदियात् क्वचित्’ (मनु० २।२१९)।
  • ‘तं चेदभ्युदियात्सूर्यः शयानं कामचारतः’ (मनु० २।२२०)।
  • ‘तं चेज्जीवन्तमादित्यः प्रातरभ्युदयिष्यति’ (भा० वि० २१।४७)। आत्मनेपदव्यत्यय इति चेदभ्युत्पूर्वस्यायतेरपि रूपं शक्यं प्रतिपत्तुम्।
  • ‘न स्वपन्तमभ्युदियात्’ (श० ब्रा० ३।२।२।२७)। इति।
  • ‘लोकवीरान्को जीवितार्थी समरेऽभ्युदीयात्’ (भा० वन० ५१।४४)। अभिमुखं यायात्, साम्मुख्यमादधीत, समासादयेत्।
  • ‘राहोर्विमुक्तं विमलं समग्रं चन्द्रं यथैवाभ्युदितं तथैव’ (भा० कर्ण० ८९।७२)। अभ्युदितमभित उदितं नवोदितम्।
  • ‘सूर्येण ह्यभिनिम्लुक्तः शयानोभ्युदितश्च यः’ (मनु० २।२२१)। शयानोऽभ्युदितः=शयानस्य यस्योपरि सूर्य उदितः सः।
  • ‘एतांस्त्वभ्युदितान्विद्यात्’ (मनु० ४।१०४)। अभ्युदितान् युगपदुत्पन्नान् (विद्युदादीन् पूर्वश्लोकोक्तान्)।
  • ‘सुप्ते यस्मिन्नस्तमेति सुप्ते यस्मिन्नुदेति च। अंशुमानमभिनिम्लुक्ताभ्युदितौ च यथाक्रमम्॥’ इत्यमरः। निगदव्याख्यातम्।
  • ‘सूर्येणाभ्युदितो यश्च ब्रह्मचारी भवत्युत।’ (भा० शां० ३४।३)। उक्तोऽर्थः।
  • ‘अन्ये वा पुरुषव्याघ्र राजानोऽभ्युदितोदिताः’ (भा० वन० २५४।३७)। अभ्युदितेभ्य उदिताः श्रेष्ठतमा इत्यर्थः।
  • ‘सम्पन्नम् इत्यभ्युदये वाच्यम्’ (मनु० ३।२५४)। अभ्युदयः समृद्धिः।

ऊह्

  • {अभ्युदूह्}
  • ऊह् (ऊह वितर्के)।
  • ‘पुरस्तात्प्रत्यञ्चमभ्युदूहति’ (तै० ब्रा० ३।८।४।३)। अभ्युदूहति तीरमभिलक्ष्योर्ध्वं प्रेरयतीत्यर्थः।

क्रम्

  • {अभ्युत्क्रम्}
  • क्रम् (क्रमु पादविक्षेपे)।
  • ‘अथैनामपराजितायां दिशि सप्त पदान्यभ्युत्क्रामयति’ (आश्व० गृ० १।७)। अभ्युत्क्रामयति उच्चैर्बहिर्वा न्यासयति।

क्रुश्

  • {अभ्युत्क्रुश्}
  • क्रुश् (क्रुश आह्वाने रोदने च)।
  • ‘न वा अनभ्युत्क्रुष्ट इन्द्रो वीर्यं कर्तुमर्हत्यभ्येनमुत्क्रोशामेति’ (ऐ० ब्रा० ८।१२)। अभ्युत्क्रोशाम उच्चैः प्रशस्त्योद्धर्षयामेत्यर्थः।

गम्

  • {अभ्युद्गम्}
  • गम् (गम्लृ गतौ)।
  • ‘महच्चाभ्युद्गतं यशः’ (रा० ४।२१।७)। अभ्युद्गतं प्रवृद्धं प्रसृप्तम्।
  • ‘अभ्युद्गतास्त्वां वयमद्य सर्वे’ (भा० आदि० ८८।९)। अभ्युगताः प्रत्युद्गतवन्तः। उपचार इति प्रत्येष्टुमभिमुखमग्रतः प्रवृत्ताः।
  • ‘तेनाभ्युद्गमानन्दस्वागतैरभ्यनन्द्यत’ (कथा० २४।१२२)।
  • ‘कृतो दूरादेव स्मितमधुरमभ्युद्गमविधिः’ (अमरु० १४)। अभ्युद्गमोऽभ्युत्थानम्।

चर्

  • {अभ्युच्चर्}
  • चर् (चर गतिभक्षणयोः)।
  • ‘भोजेष्वस्माँ अभ्युच्चरा सदा’ (ऋ० ८।२५।२१)। सूर्यः प्रार्थ्यतेऽस्मानभ्युच्चर अभ्युदिहीति।

चि

  • {अभ्युच्चि}
  • चि (चिञ् चयने)।
  • ‘उक्तार्थदार्ढ्यायानुमानान्तरमभ्युच्चिनोति।’ अभ्युचिचनोति आवपति, अधिकं योजयति।

जीव्

  • {अभ्युज्जीव्}
  • जीव् (जीव प्राणधारणे)।
  • ‘येन येन विशेषेण कर्मणा येन केन चित्। अभ्युज्जीवेत्साद्यमानः’ (भा० शां० १४१।६३)। उत्कृष्टम्, ऊर्जस्वलं जीवेदित्यर्थः।
  • ‘स्वबाहुबलमाश्रित्य योऽभ्युज्जीवति मानवः’ (भा० उ० १३३।४५)। उक्तोऽर्थः।

नम्

  • {अभ्युन्नम्}
  • नम् (णम प्रह्वत्वे शब्दे च)।
  • ‘अभ्युन्नता पुरस्तादवगाढा जघनगौरवात् पश्चात्’ (पदपङ्क्तिः ) (शा० ३।५)। अभ्युन्नता उन्नता उद्गता उद्रिक्ता।

नी

  • {अभ्युन्नी}
  • नी (णीञ् प्रापणे)।
  • ‘अभ्यभि सोमानुन्नयन्ति’ (पञ्च० ब्रा० १८।३।१४)। अभ्युन्नयन्ति उद्धरन्ति।

यम्

  • {अभ्युद्यम्}
  • यम् (यम उपरमे)।
  • ‘प्रसादार्थं मया तेऽयं शिरस्यभ्युद्यतोऽञ्जलिः’ (भा० आदि० १२२।३०)। अभिमुखमुत्थापित उन्नीतः करसम्पुट इत्यर्थः।
  • ‘आहृताभ्युद्यतां भिक्षां पुरस्तादप्रचोदिताम्’ (मनु० ४।२४८)। अभ्युद्यताम् अभिमुखं स्थापिताम्।

श्रि

  • {अभ्युच्छ्रि}
  • श्रि (श्रिञ् सेवायाम्)।
  • ‘अभ्युच्छ्रयं च रोम्णां वै’ (भा० स्त्री० ५।६)। अभ्युच्छ्रय उद्गम उदञ्चनम्।

सिच्

  • {अभ्युत्सिच्}
  • सिच् (षिच क्षरणे)।
  • ‘अद्भिरभ्युत्षिञ्चस्त्रिः प्राश्नाति’ (शां० गृ० ३।८।३)। अभ्युत्सिञ्चन् उपरि जलमासिञ्चन्नित्यर्थः।
  • ‘गृहपतय एव व्रतमभ्युत्सिच्य प्रयच्छेयुः’ (श० ब्रा० ३।४।२।१५)। तानूनप्त्रमाज्यं पयसा संनीय दद्युरित्याह।

स्था

  • {अभ्युत्था}
  • स्था (ष्ठा गतिनिवृत्तौ)।
  • ‘यदा यदा हि धर्मस्य ग्लानिर्भवति भारत। अभ्युत्थानमधर्मस्य…’ (गीता ४।७)॥ अभ्युत्थानं वृद्धिरुपचयः।
  • ‘नाभ्युत्तिष्ठन्ति गुरून्’ (काद०)। ज्यायस आचार्यादीन्वाऽभ्यागच्छतो विलोक्य स्वासनान्नोत्तिष्ठन्ति। ये गुरून्नाभ्युत्तिष्ठन्ति ते नाभ्युदयन्त इति वयम्।
  • ‘स विशः सबन्धूनन्नमन्नाद्यमभ्युदतिष्ठत्’ (अथर्व० १५।८।२)। अभ्युत्थानं च युद्धार्थे कृष्णपक्षचतुर्दशीम्।
  • ‘कृत्वा निर्याह्यमावास्यां विजयाय बलैर्वृतः’ (रा० ६।७२।६५-६६)। अभ्युत्थानं शिबिरस्य स्कन्धावारस्योच्चलनम्।

स्मि

  • {अभ्युद्स्मि}
  • स्मि (ष्मिङ् ईषद्धसने )।
  • ‘कुमुदोत्फुल्लमुदकं ताराभिश्चित्रमम्बरम्। सममभ्युत्स्मयन्तीव शर्वरीष्वितरेतरम्’ (हरि० ३।१६।२०)॥ अभ्युत्स्मयन्ति गर्वमाविष्कुर्वन्तीत्यर्थः।

हा

  • {अभ्युद्धा}
  • हा (ओहाङ् गतौ)।
  • ‘प्राणमभ्युज्जिहते’ (छां० उ० १।११।५)। प्राणत (एव) उत्पद्यन्त इत्यर्थः।

हृ

  • {अभ्युद्धृ}
  • हृ (हृञ् हरणे)।
  • ‘यस्याग्नावग्निमभ्युद्धरेयुः’ (तै० सं० २।२।४।१५)। उपरि प्रणयनमुद्धरणम्। तस्योपरि पुनः प्रणयनमभ्युद्धरणमिति भट्टभास्करः।
  • ‘समर्थान्नावमन्यन्ते दीनानभ्युद्धरन्ति च’ (भा० द्रोण० १४४।२७)। अभ्युद्धरन्ति रक्षन्ति परीप्सन्ति, परित्रायन्ते, गोपायन्ति।
  • ‘गाढश्चाभ्युद्धार्यश्च पेटकः’ (कौ० अ० २।१४।२६)। अभ्युद्धार्य उदहनीयः, उद्वोढुं शक्यः।