अज्
- {आज्}
- अज् (अज गतिक्षेपणयोः)।
- ‘आजा नष्टं यथा पशुम्’ (ऋ० १।२३।१३)। आजा=आज (छान्दसः साहितिको दीर्घः)। आगमय, आनय, आहरेत्यर्थः।
- ‘पुनर्नो नष्टमाजतु’ (ऋ० ६।५४।१०, अथर्व० ७।१०।४)। आजतु आयातु, न उपैतु।
- ‘आहमजानि गर्भधमा त्वमजासि गर्भधम्’ (वा० सं० २३।१९)। आजानि आकृष्य क्षिपामि।
अञ्च्
- {आञ्च्}
- अञ्च (अञ्चु गतिपूजनयोः)।
- ‘आच्या जानु दक्षिणतो निषद्य’ (ऋ० १०।१५।६)। आच्या=आच्य। सांहितिको दीर्घः। आच्य आभुज्य, नमयित्वा।
- ‘वायुरमित्राणामिष्वग्राण्याञ्चतु’ (अथर्व० ११।१२।१६)। आञ्चतु भुजतु भुग्नानि करोतु।
अञ्ज्
- {आञ्ज्}
- अञ्ज् (अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु)।
- ‘आ नो दधिकाः पथ्यामनक्तु’ (ऋ० ७।४४।५)। आनक्तु म्रक्षयतु शोधयतु मार्ष्टु समी करोतु।
- ‘आ वां नक्षन्तो अद्रय आञ्जन्’ (ऋ० ६।६३।३)। सत्कारेण प्रतीच्छन्ति, सबहुमानं प्रतिगृह्णन्ति।
- ‘अक्षिणी आञ्ज्य’ (आश्व० गृ० ४।६)। अक्ते कृत्वेत्याह।
अद्
- {आद्}
- अद् (अद भक्षणे)।
- ‘आत्तमद्य मध्यतो मेद उद्धृतम्’ (वा० सं० २१।४३)। आत्तं जग्धम् भक्षितम्।
अय्
- {आय्}
- अय् (अय गतौ)।
- ‘यो अद्य स्तेन आयति सं सम्पिष्टो अपायति’ (अथर्व० ४।३।५)। आयति=आयते=आयाति।
अस्
- {आस्}
- अस् (असु क्षेपे)।
- ‘घृतवतीमध्वर्यो स्रुचमास्यस्व’ (श० ब्रा० १।५।२।१)। आस्यस्व परिगृहाण। अस्यत्यूह्योर्वा वचनमिति तङ्।
इ
- {आइ}
- इ (इण् गतौ)।
- ‘किन्निमित्तं त्वमागाः’ (भा० आदि० ८८।१०)।
- ‘आयने ते परायणे दूर्वा रोहतु पुष्पिणीः’ (अथर्व० ६।१०६।१)। आयने आगमे।
- ‘परा च यन्ति पुनरा च यन्ति’ (ऋ० १।१२३।१२)। पुनरायन्ति प्रत्यावर्तन्ते।
- ‘आ त एतु मनः पुनः’ (ऋ० १०।५७।४)। उक्तोऽर्थः।
- ‘अथान्नस्याये द्रष्टा भवति’ (छां० उ० ७।९।१)। आयो लाभः।
ईर्
- {एर्}
- ईर् (ईर गतौ)।
- ‘द्युम्नवद् ब्रह्म कुशिकास एरिर एक एको दमे अग्निं समीधिरे’ (ऋ० ३।२९।१५)। एरिरे=आ ईरिरे। उदीरयामासुरित्यर्थः।
- ‘आमासु पक्वमैरयः’ (ऋ० ८।७८।७)। ऐरयः=इतः प्रैरयः=प्रापयः।
- ‘सौधन्वनासो अमृतत्वमेरिरे’ (ऋ० ३।६।३)। एरिरे आनशिरे विविदिरे।
उक्ष्
- {ओक्ष्}
- उक्ष् (उक्ष सेचने)।
- ‘आ नो गव्यूतिमुक्षतं घृतेन’ (ऋ० ७।६२।५)। ओक्षतम् अभिषिञ्चतम्।
ॠ
- {आर्}
- ॠ (ॠ गतौ)।
- ‘आर्च्छति वा एषोखा यद्भिद्यते’ (श० ब्रा० ६।६।४।८)। आर्च्छति आर्तिमाप्नोति।
- ‘मुख्यामार्तिमरिष्यति’ (श० ब्रा० १।६।१।१६)। मुखरोगं प्राप्स्यतीत्यर्थः।
- ‘राजा राजानमार्च्छति’ (भा० भीष्म० ६५।१२)। आसादयतीत्यर्थः।
- ‘स भीमं पञ्चभिर्विद्ध्वा…। विशोकं त्रिभिरानर्च्छत्’ (भा० द्रोण० १५५।२२)।
- ‘अङ्गे अङ्ग आर्पिता उत्सिताश्च’ (अथर्व० ६।११२।३)। आर्पिता आर्ति प्रापिताः।
कच्
- {आकच्}
- कच् (कच बन्धने)।
- ‘त्वक्त्रं चाचकचे’ (भट्टि० १४।९४)। आचकचे आबबन्ध। परिवेष्टयामास।
कम्प्
- {आकम्प्}
- कम्प् (कपि चलने)।
- ‘अनोकहाकम्पितपुष्पगधी’ (पवनः) (रघु० २।१३)। आकम्पितानि ईषत्कम्पितानि।
कल्
- {आकल्}
- कल् (कल गतौ संख्याने च)।
- ‘स्पर्शमपि पावनमाकलयन्ति’ (काद०)। गणयन्ति, चिन्तयन्ति, मन्यन्त इत्यर्थः।
- ‘स्वच्छदुकूलपल्लवाकलितमौलेः’ (काद०)। आकलित उन्नद्धः।
- ‘संभ्रमाकलितांशुका’ (कथा० २०।५२)। आकलितो गृहीतः।
- ‘सुवर्णसूत्राकलिताधराम्बराम्’ (शिशु० १।६।, ९।४५)। आकलितं बद्धम्।
- ‘कुतूहलाकलितहृदया’ (काद०)। आकलितं गृहीतम्।
- ‘मारुताकलितास्तत्र द्रुमाः’ (भा० आदि० ७०।९)। आकलिता आकम्पिताः।
- ‘ईषदाकलितं चापि क्रोधाद् द्रुतपदं स्थितम्’ (भा० वि० २३।६५)। आकलितं वेपमानम्।
- ‘ततः पश्चादायान्तं भयहेतुमाकलय्य मन्थरो जलं प्रविष्टः’ (हितोप०)। आकलय्य दृष्ट्वा अवबुध्य।
- ‘यथा परशुराममाकलयतु भवती तावत्’ (प्र० च ० ५।५)। चिन्तयत्वित्यर्थः।
- ‘स्वं द्वीपं सप्तवर्षाणि विभज्य सप्तवर्षनामभ्य आत्मजेभ्य आकलय्य’ (भा० पु० ५।२०।२)। आकलय्य संक्रमय्य समर्प्य।
- ‘प्राचेतसाद्याः कवयोऽनवद्या यदेकदेशाकलनेऽपि नेशाः’ (विश्व० च० ५।४९)। आकलने कार्त्स्न्येन सङ्ख्याने उपवर्णने।
काङ्क्ष्
- {आकाङ्क्ष्}
- काङ्क्ष् (काक्षि काङ्क्षायाम्)।
- ‘यो मे कृतस्त्वया कालस्तमाकाङ्क्षे जगत्पते’ (भा० उ० १५।९)। प्रतीक्ष इत्यर्थः।
- ’ अङ्ग पच। अङ्गयुक्ते तिङाकाङ्क्षम्’ (पा० ८।२।९६) इत्यत्र प्रत्युदाहरणं वृत्तिकारधृतम्। प्रत्युदाहरणं स्पष्टयन्नाह नैतदपरमाकाङ्क्षति (तिङन्तम्) इति। आकाङ्क्षति अपेक्षतेऽर्थकार्त्स्न्याय।
- ‘प्रत्याश्वसन्तं रिपुमाचकाङ्क्ष’ (रघु० ७।४७)। आचकाङ्क्ष प्रतीक्षाञ्चके।
- ‘यात्रार्थी कालमाकाङ्क्षंश्चरेद् भैक्षं समाहितः’ (भा० आश्व० ४६।२१)। आकाङ्क्षन् प्रतीक्षमाणः।
- ‘दक्षिणां दिशमाकाङ्क्षन् याचेतेमान् वरान् पितॄन्’ (मनु० ३।२५८)। दक्षिणदिशमभिमुखीभूतः, तां वीक्षमाण इति तात्पर्यम्।
- ‘असत्यामाकाङ्क्षायां सन्निधानमकारणम्’ (६।४।२३ मी० शा० भा०)। आकाङ्क्षाऽपेक्षा।
- ‘धर्मविवाहात्कुमारी परिग्रहीतारमनाख्याय प्रोषितमश्रूयमाणं सप्त तीर्थान्याकाङ्क्षेत्’ (कौ० अ० ३।४।३१)। आकाङ्क्षेत् प्रतीक्षेत। तीर्थमार्तवकालः।
- ‘तूष्णीं वै श्रेयस आकाङ्क्षन्ते’ (ऐ० ब्रा० ७।१२)। श्रेष्ठान्राजगुर्वादीन् आगत्य स्वाभीष्टं प्रार्थयन्ते।
काश्
- {आकाश्}
- काश् (काशृ दीप्तौ)।
- ‘स यत्स आकाश आदित्य एव सः। एतस्मिन् ह्युदिते सर्वमिदमाकाशते’ (जै० उ० १।२।५।२)। आकाशते प्रकाशते भाति भासते।
- ‘अति नोऽर्जस्याकाशं नः कुर्विति’ (ऐ० ब्रा० ३।४२)। आकाशमवकाशम्।
- ‘आकाशं तदनाकाशं चक्रुर्भीमाम्बुवाहकाः’ (रा० ३।२३।७)। अनाकाशमप्रकाशं तमिस्रावगुण्ठितम्।
- ‘स सम्प्रत्युरः पुरुषमाकाश्य’ (श० ब्रा० ७।४।१।४३)। आकाश्य सम्प्रेक्ष्य।
- ‘आकाशवतो वै स लोकानभि सिध्यति’ (छां० उ० ७।१२।२)। आकाशवतो ऽवकाशवतो विशङ्कटान्।
कुच्
- {आकुच्}
- कुच् (कुच सम्पर्चन कौटिल्य प्रतिष्टम्भविलेखनेषु)।
- ‘अस्तेयमिन्द्रियाकोचः’ (स्कन्द पु० का० ४।४०।८६)। आकोच आकुञ्चनं परकीयार्थादनतिसृष्टात्प्रतिसंहरणमिन्द्रियाणाम्।
कुञ्च्
- {आकुञ्च्}
- कुञ्च् (कुञ्च कौटिल्याल्पीभावयोः)।
- ‘क्वचिद्बाण-निकृत्तानि शिरांसि द्विषतां रणे स्फुरन्त्याकुञ्चितोष्ठानि’ (रा० ३।३१।२१)। आकुञ्चितावोष्ठौ भुग्नावोष्ठौ। अन्तर्वक्रीकृतावित्यर्थः।
कू
- {आकू}
- कू (कूङ् शब्दे)।
- ‘दुर्योधनस्य चाकूतं तृषितस्येव विप्रुषः’ (भा० कर्ण० ९।२०)। आकूतं चेष्टितमिति नीलकण्ठः।
- ‘चूडामण्डलबन्धनं तरलयत्याकूतजो वेपथुः’ (उत्तर० ५।३५)। आकूतं भावः क्रोधावेशः।
- ‘आकूतिः सत्या मनसो मे अस्तु’ (ऋ० १०।१२८।४)। आकूतिः सङ्कल्पः, अभिप्रायः, कामः।
कृ
- {आकृ}
- कृ (डुकृञ् करणे)।
- ‘मयं न योषा कृणुते सधस्थ आ’ (ऋ० १०।४०।२)। आकृणुते आकरोति अभिमुखी करोति।
- ‘यो नूनं मित्रावरुणावभीष्टय आचक्रे हव्यदातये’ (वा० सं० ३३।८५)। उक्तोऽर्थः।
- ‘आ पुरन्दरं चकृम विप्रवचस इन्द्रं गायन्तोऽवसे’ (ऋ० ८।६१।८)। उक्तचर एवार्थः।
- ‘आ त्वामृजिश्वा सख्याय चक्रे’ (ऋ० ५।२९।११)। आचक्रे अभिमुखी करोति।
- ‘त्वं तानिन्द्र वृत्रहन् प्रतीचः पुनराकृधि’ (अथर्व० ५।८।७)। इतः पुनरावर्तयेत्याह।
- ‘पतिव्रतात्वात् सत्येन सोपश्रुतिमथाकरोत्’ (भा० उ० १३।२६)। आकरोत् आकारयत्।
- ‘मृगप्रयुक्तान्रथकांश्च हैमानाचक्रिरेऽस्मै सुहृदालयेभ्यः’ (बुद्ध० २।२१)। आचक्रुः=आजह्नुः।
- ‘दीर्घो न सिध्रमा कृणोत्यध्वा’ (ऋ० १।१७३।११)। आकृणोति निर्वर्तयति साधयति।
- ‘आक्रियते व्यज्यतेऽनयेत्याकृतिः संस्थानमुच्यते।’ (पा० ४।१।६३ सूत्रे न्यासः)।
- ‘यथैकबुद्धिविषया मूर्तिराक्रियते पटे’ (वा० प० १।५३)। आक्रियते व्यक्तिमापाद्यते।
- ‘आकारय मुनीन् शीघ्रं भोजनाय’ (भा० ३)। आकारय आह्वय शब्दय।
- ‘रदनिकामाकारय’ (मृच्छ० ३)। उक्तोऽर्थः।
- ‘मध्यस्थदृष्टिमाकारयति’ (मृच्छ० ४)। आकारयति आकर्षति बध्नाति।
- ‘(महाराजं) पुनराकारयामास तमेव वरमङ्गना’ (रा० २।१३।२)। तमेव वरमुद्दिश्य राजानं सम्बोधयामास। ययाच इति तात्पर्यार्थः।
- ‘यदविद्यया वस्त्वाकार्यते’ (यो० सू० २।४ भाष्ये)। आकार्यते साकारं मूर्तिमत् क्रियते।
- ‘यावदरिः पारग्रामिकं विधिमाचिकीर्षति’ (दशकु०)। आचिकीर्षति निर्वोढुमिच्छति चिन्तयति।
- ‘लोकान्त्संगृभ्य मुहुराचरिक्रत्’ (अथर्व० ११।५।६)। आचरिक्रत्=पुनः पुनः करोतीत्यर्थः।
- ‘गोनामाचक्राणस्त्रीणि शीर्षा परा वर्क्’ (ऋ० १०।८।९)। आचक्राण आकुर्वन् आजन् समाजन्निति वा।
- ‘जङ्गलं वनविच्छेदविभक्तं स्वामिना कृतम्’ (यो० वा० ६ (२) १८१।८)। आकृतं समन्तात् कृतम्।
- ‘मुक्तश्चलितुमाकर्तुं शक्नोति न मनागपि’ (यो० वा० ५।८५।९)। आकर्तुमीषत् कर्तुम्।
- ‘ममापि कौतूहलेनाकारित एषः’ (शा० ६)। आकारितः प्रेरितः। किङ्कृतेयकाकारणाऽऽहूतिरित्यर्थः।
- ‘पुनर्नो रयिमा कृधि’ (वा० सं० १२।८)। आकृधि आकुरु। इत आहर।
- ‘विद्मा ह्यस्य भोजनमिनस्य यदा पशुं न गोपाः करामहे’ (ऋ० १०।२३।६)। भोजनं धनमाकरामहे स्वाभिमुखं कुर्म इत्यर्थः।
- ‘तन्नो महान्करति शुष्म्या चित्’ (ऋ० ४।२२।१)। आकरति स्वीकरोतु।
कृष्
- {आकृष्}
- कृष् (कृष विलेखने)।
- ‘स तैः प्रकृष्यताकृष्यत च’ (रा० ५।६१।१९)। प्रकर्षणाकर्षणयोरभ्याकर्षविकर्षणैः।
- ‘आचकर्षतुरन्योन्यम्’ (भा० आदि० १९०।२५-२६)।
- ‘आकर्षणमर्वाक् कर्षणम्’। (६९।३२)। इष्टान्मृगानाभिमुख्येन कर्षन्तनिष्टांश्च मुञ्वन्तमित्याह।
- ‘दूरममुना सारङ्गेण वयमाकृष्टाः’ (शा०)। दूरं नीता इत्यर्थः।
- ‘उमारूपेण यूयं ते संयमस्तिमितं मनः। शम्भोर्यतध्वमाक्रष्टुम् अयस्कान्तेन लोहवत्’ (कु० २।५९)। आक्रष्टुमाहर्तुमावर्जयितुं वशे कर्तुम्।
- ‘शाखां पुष्कराग्रेणाकृष्य’ (पञ्चत०)। आकृष्य स्वेन समं कृष्ट्वा
- ‘चापमाकृष्य’ (शिशु० ९।४०)। सज्यं कृत्वा। खड्गमाकृष्य=कोषान्निष्कृष्य उत्खाय।
- ‘हस्तात् कटकमाकृष्य’ (मृच्छ०)। आच्छिद्येत्यर्थः।
- ‘पञ्चतन्त्रात्तथान्यस्माद् ग्रन्थादाकृष्य’ (हितोप० प्रस्तावनायाम्)। आकृष्य उद्धृत्य।
- ‘तस्मादाकृष्य तद्राज्यं मम शीघ्रं प्रदीयताम्’ (भा० आदि० १६६।२१)। आकृष्य आच्छिद्य अपहृत्य।
- ‘आकर्षादिभ्यः कन्’ (पा० ५।२।६४)। आकर्षात् ष्ठल् (पा० ४।४।९)। आकर्ष इति सुवर्णपरीक्षार्थो निकषोपल उच्यत इति काशिका।
- ‘आकर्षस्तेऽवावफलः सुप्रणीतः’ (भा० सभा० ६३।६)। आकर्षो द्यूतम्। आकर्षः शारिफलके पाशके द्यूत इन्द्रिय इति विश्वः।
- ‘यथा भ्राम्यत्ययो ब्रह्मन् स्वयमाकर्षसन्निधौ’ (भा० पु० ७।५।१४)। आकर्षः=अयस्कान्तः। आकर्षेण चरतीत्याकर्षिकः।
- ‘आकर्षात्ष्ठल्’ (पा० ४।४।९)। आकर्ष इति सुवर्णपरीक्षार्थो निकषोपल इत्युक्तचरोर्थः।
- ‘दण्डमस्याकर्षतेति गर्हायाम्’ (नि० २।११।२)।
- ‘वसन्तसेनाभवनद्वारस्य सश्रीकता यत्सत्यं मध्यस्थस्यापि जनस्य दृष्टिमाकारयति’ (मृच्छ० ४)। आकारयति आकर्षति आवर्जयति।
- ‘शिलामाकुर्वतीं तीर्त्वा’ (रा० २।७१।३) शिलामा समन्तात् कुर्वतीं शिलाकर्षणस्वभावाम् (शिलावहामितिनाम्नीं नदीम्)।
कॄ
- {आकॄ}
- कॄ (कॄ विक्षेपे)।
- ‘आ नः सोम पवमान किरा वसु’ (ऋ० ९।८।१।३)। आकिरा=आकिर। सांहितिको दीर्घः। आ समन्तात् किर। भूरि नो द्रविणं देहीत्यर्थः।
- ‘विचिन्वतीमाकिरन्तीमप्सरां साधुदेविनीम्’ (अथर्व० ४।३८।२)। उक्तोऽर्थः।
- ‘न तापसै र्ब्राह्मणै र्वा वयोभिरपि वा श्वभिः। आकीर्णं भिक्षुकैर्वान्यैरगारमुपसंव्रजेत्’ (मनु० ६।५१)॥ आकीर्णं व्याप्तम्। ब्रह्मचारी सन् यो रेतःपातेन व्रतं विलुम्पति स आकीर्णीत्युच्यते। विलुप्तब्रह्मचर्यः।
- ‘कदा नौ संगमो भावीत्याकीर्णे वक्तुमक्षमा’ (काव्यादर्शे २।२६१)। आकीर्णे जनाकुले स्थाने, जनसंमर्दे।
कै
- {आकै}
- कै (कै गै शब्दे)।
- ‘त्वामवस्युराचके’ (तै० सं० २।१।११।१८)। आचके आभिमुख्येन शब्दयामि। लिट्युत्तमैकवचने रूपम्।
क्रन्द्
- {आक्रन्द्}
- क्रन्द् (क्रदि आह्वाने रोदने च)।
- ‘किं क्रन्दसि दुराक्रन्द’ (पञ्चत० ४।२९) क्रन्दसि आक्रोशसि।
- ‘आक्रन्दे चाप्यपेहीति न दण्डं मनुरब्रवीत्’ (मनु० ८।२९२)।
- ‘आक्रन्द उच्चैरुच्चारः शब्दस्य। पुरूरवसमाक्रन्द’ (विक्रम० १)। त्राणार्थमाकारयेत्यर्थः।
- ‘आ त्वा शिशुराक्रन्दतु’ (पा० गृ० ३।४)। आक्रुश्याह्वयतु।
- ‘तृणाग्रलग्नैस्तुहिनैः पतद्भिराक्रन्दतीवोषसि शीतकालः’ (ऋतु० ४।७)। आक्रन्दति रोदिति। शोकाश्रूणि मुञ्चति।
- ‘आक्रन्दय बलमोजो न आधाः’ (ऋ० ६।४७।३०)। दुन्दुभिस्वनेन बलमाधेहीत्याह।
- ‘आक्रन्दय धनपते वरम्’ (अथर्व० २।३६।६)। आक्रन्दय सन्ततमभिधापयेत्यर्थ इति सायणः। अत्राङः क्रन्द सातत्य इति धातुमभ्यूहति भाष्यकारः।
- ‘जिघांसुद्रौणिमाक्रन्दे एक एवाभिधावति’ (भा० सौ० १२।२)। आक्रन्दो दारुणो रणः। आरावे रुदिते त्रातर्याक्रन्दो दारुणे रणे (अमरः)।
- ‘युध्यन्ते यस्यामाक्रन्दो यस्यां वदति दुन्दुभिः’ (अथर्व० १२।१।४१)। आक्रन्द आरावो रणभेरीनादः।
- ‘यात्रायां यदि विज्ञातमनाक्रन्दमनन्तरम्’ (भा० शां० ६९।१९)। आक्रन्दस्त्राता। अनाक्रन्दम् मित्रहीनम्। अनन्तरं बन्धुहीनम्।
- ‘पार्ष्णिग्राहं च सम्प्रेक्ष्य तथाऽऽक्रन्दं च मण्डले’ (मनु० ७।२०७)। आक्रन्दो नाम नृपतिर्यस्य विजिगीषो राज्यादेकान्तरं राज्यं (न त्वनन्तरम्)।
- ‘दष्टमेवमनाक्रन्दे भद्रे काममहाहिना’ (भा० आदि० १७२।९)। अनाक्रन्देऽत्रातरि (काले)।
- ‘एह्येहीति शिखण्डिनां पटुतरं केकाभिराक्रन्दितः’ (मेघः) (मृच्छ० ५।२३)। आक्रन्दित आहूतः।
- ‘आक्रन्दितं दोषवद् वेदाध्ययनमुच्यते’ (संहितोप० ७।४)।
- ‘यदा मन्येत नृपतिराक्रन्देन बलीयसा। पार्ष्णिग्राहाभिभूतोऽरिस्तदा यात्रां प्रयोजयेत्’ (मात्स्य पु० २४०।२)॥
- ‘पार्ष्णिग्राहं च सम्प्रेक्ष्य तथाक्रन्दं च मण्डले’ (मनु० ७।२०७)। इहारिं प्रति यातस्य विजिगीषोः पार्ष्णिग्राहात् त्राताऽऽक्रन्द उक्तः। पुराणवचने तु मनाग्भेदेन। अमरश्च पठति–सारावे रुदिते त्रातर्याक्रन्दो दारुणे रणे इति। यद्यप्यमर आक्रन्दं निर्विशेषेण त्रातारमाह तथापि मनुवचनसंवादायार्थसङ्कोचो बोद्धव्यः।
- ‘पश्चात्पार्ष्णिग्राह आक्रन्दः पार्ष्णिग्राहासार आक्रन्दासारः’ (कौ० अ० ६।२।१८)।
क्रम्
- {आक्रम्}
- क्रम् (क्रमु पादविक्षेपे)।
- ‘आयं गौः पृश्निरक्रमीत्’ (ऋ० १०।१८९।१)। आक्रमीत् पर्यक्रमीत्।
- ‘आ वो मूर्धानमक्रमीम्’ (ऋ० १०।१६६।५)।
- ‘यावत्-प्रतापनिधिराक्रमते न भानुरह्नाय तावदरुणेन तमो निरस्तम्’ (रघु० ५।७१)। आक्रमते दिवमारोहति, उदयत इत्यर्थः। आक्रामति धूमो हर्म्यतलम्। आङ उद्गमने (पा० १।३।४०) इत्यत्र प्रत्युदाहरणं वृत्तौ। आरोहतीत्यर्थः।
- स्वर्ग लोकमाक्रामत’ (लाट्या श्रौ० ८।१२।८)। उक्तोऽर्थः। आक्रामति वृद्धः कुतुपम्। आरोहति, अधितिष्ठति, श्रयते, प्रतिश्रयते।
- ‘बाह्यास्थानमण्डपस्थापितमासनमाचक्राम’ (हर्ष०)। अधितष्ठावित्यर्थः।
- ‘दैवेनाक्रम्यते सर्वं दैवं हि परमा गतिः’ (रा० १।५९।२३)। आक्रम्यतेऽभिभूयते।
- ‘येनाक्रमन्त्यृषयो ह्याप्तकामाः’ (मुण्डकोप० ३।१।१)। आक्रमन्ति=आक्रामन्ति, प्राप्नुवन्ति।
- ‘न च बर्हिराक्रामति’ (शां० श्रौ० ३।१६।१८)। बर्हिषि पदं न निदधातीत्यर्थः।
- ‘पादं पादेन नाक्रमेत्’ (भा० अनु० ४९८२)। पादस्योपरि पादं न निदधीतेत्यर्थः।
- ‘अथाश्वमाक्रमयति’ (श० ब्रा० २।१।४।२३)। आक्रमयति परिक्रमयति।
- ‘स तैराक्रमयामास शुद्धान्तं शुद्धकर्मभिः’ (कु० ६।५२)। आक्रमयामास प्रवेशयामास।
- ‘विजिगीषवो यथा परभूमिमाक्रमन्ति’ (हितोप०)। आक्रमन्ति आक्रमन्ति आस्कन्दन्ति प्रार्थयन्तेऽभियान्ति। संक्षेपेणोपदिष्टमार्ग आक्रम्यमाणो न दुःसहो भवति। आक्रम्यमाण आस्थीयमानः।
- ‘इह समदशकुन्ताक्रान्तवानीरवीरुत्०’ (उत्तर० २।२०)। आक्रान्ताऽऽश्रिताऽध्यासिता।
- ‘त्रेताग्निधूमाग्रम्… आक्रान्तविमानमार्गम्’ (रघु० १३।३७)। आक्रान्त आसादितो व्याप्तः।
- ‘आतपाक्रान्तोयमुद्देशः’ (माल०३)। व्याप्त इत्यर्थः।**
- ‘आक्रान्तपूर्वमिव भुजङ्गम्’ (रघु० ९।७९)। आक्रान्तम्=पादाक्रान्तम् अधस्पदं कृतमित्यर्थः।
- ‘शुशुभे तेन चाक्रान्तं मङ्गलायतनं महत्’ (रघु० १७।२९)। आक्रान्तमध्यासितम्।
- ‘साऽऽक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयम्’ (अमरु० ३४)।
- ‘चकाराक्रान्तलक्ष्मीकः ससाधनमिवाश्रमम्’ (कि० ११।७)। आक्रान्ताऽभिभूता।
- ‘आक्रान्ता तिलकक्रियापि तिलकैः’ (माल० ३।५)। आक्रान्ता विशेषिताऽतिशयिता। दिदृक्षाक्रान्तहृदयः। दर्शनेच्छागृहीतचेताः।
- ‘निर्ययुस्तुरगाक्रान्ता रथैश्च सुमहारथाः’ (रा० ६।१२७।१३)। तुरगाक्रान्ता अश्वारूढाः।
- ‘वलिभिर्मुखमाक्रान्तम्’ (भर्तृ० ३)। आक्रान्तं व्याप्तम्।
- ‘शङ्काभिः सर्वमाक्रान्तम् अन्नं पानं च भूतले’ (हितोप० १।२१)। अस्माभिरियमाक्रान्ता मदीया तेन वल्लभा। आक्रान्ता वशे कृता। सन्धिनी।
- ‘गौराक्रान्ता वृषभेण’ (अमरः)। आक्रान्ताऽऽरूढा।
- ‘आक्रान्तिसंभावितपादपीठम्’ (कु० ३।११)। आक्रान्तिश्चरणन्यासः।
- ‘आक्रान्तितो न वशमेति महान्परस्य’ (शिशु० ५।४१)। आक्रान्तिरास्कन्दोऽवस्कन्दः।
- ‘यो भूतानि धनाक्रान्त्या वधात् क्लेशाच्च रक्षति’ (भा० शां० ९७।८)। धनाक्रान्त्याः (स्वस्य) धनस्य अपहारात्।
- ‘आक्रम्य याजिन् पृथिवीम्’ (वा० सं० ११।१९)। पदा मृत्पिण्डमधिष्ठायेत्याह। दैवमाक्रम्य पौरुषेण। बाधित्वेत्यर्थः।
- ‘एक एवास्य दोषो गुणानाक्रम्य तिष्ठति’ (भा० वन० २९४।२२)। आक्रम्याऽभिभूय। शिखरमाक्रम्य। शिखरमारुह्य।
- ‘पर्वताग्रं तु लोकात्मा हस्तेनाक्रम्य केशवः। देवानां मध्यतः स्थित्वा ममन्थ पुरुषोत्तमः’ (रा० १।४५।३१)॥ आक्रम्य धृत्वा, गृहीत्वा, अवलम्ब्य।
- ‘निगृह्य रोषं शोकं च धैर्यमाक्रम्य केवलम्’ (रा० २।२२।३)। आक्रम्य संश्रित्य, आस्थाय, आलम्ब्य।
- ‘यं च पन्थानमाक्रम्य प्रयाति मनुजेश्वरः’ (रा० ५।८१।२२)। उक्तोऽर्थः।
- ‘शावकानाक्रम्य कोटरमानीय प्रत्यहं खादति’ (हितोप०)। आक्रम्य=आस्कद्य=वशमानीय।
- ‘भुजगपतिरयं मे मार्गमाक्रम्य सुप्तः’ (मृच्छ० ९।१२)। आक्रम्य व्याप्य रुद्ध्वा।
- ‘योजनानां सहस्राणि बहून्याक्रम्य तिष्ठति’ (कथा० १।१५)। आक्रम्य, व्याप्य।
- ‘जम्बुद्वीपमाक्रम्य’ (हितोप० ३)। आक्रम्य=अतिक्रम्य।
- ‘आक्रम्य मानुषं कण्ठमाच्छिद्य धमनीमपि। उष्णं नवं प्रपास्यामि फेनिलं रुधिरं बहु’ (भा० आदि० १५२।१०)॥ कण्ठमाक्रम्य=कण्ठमवस्कद्य शिरोधिं भित्त्वा।
- ‘असमाप्तजिगीषस्य स्त्रीचिन्ता का मनस्विनः। अनाक्रम्य जगत्कृत्स्नं नो सन्ध्यां भजते रविः’ (राज० ४।४४१)॥ अनाक्रम्य=अलङ्घयित्वा, तेजसाऽनभिभूय।
- ‘केनाक्रमेण यजमानः स्वर्गं लोकमाक्रमते’ (बृह० उ० ३।१।६)। आक्रमः सोपानः।
- ‘हरिराक्रमणेन संनतिं किल बिभ्रीत भियेत्यसंभवः’ (शिशु० १६।३४)। आक्रमणमास्कन्दनम्।
- ‘स्वेन्द्रियाक्रमणं विना’ (यो० वा० ६ (१)८१।१५)। इन्द्रियाक्रमणम्=इन्द्रियसंयमनम्।
- ‘साष्टाङ्गपातमवनौ प्रणिपत्य वक्तुमाचक्रमे किमपि’ (पारिजात० ४।९)। आङस्थाने। प्रः प्रयोज्य उपो वा।
क्री
- {आक्री}
- क्री (डुक्रीञ् द्रव्यविनिमये)।
- ‘भार्यां शुल्काक्रीताम्’ (दशकु०)। आङा नार्थः।
क्रीड्
- {आक्रीड्}
- क्रीड् (क्रीडृ विहारे)।
- ‘आक्रीडमानो हृष्टात्मा’ (भा० वन० १४६।२७)। क्रीडन् इत्यर्थः। पुमान् आक्रीड उद्यानमित्यमरः।
- ‘रुद्रस्याक्रीडसदृशः संहारः सर्वदेहिनाम्’ (भा० द्रोण० १२४।४४)। आक्रीडः क्रीडनं क्रीडा।
- ‘ततो गत्वोद्यानं यथासुखमाक्रीड्य’ (अवि० १)। आक्रीड्य क्रीडित्वा।
- ‘आक्रीडतामरुणपादसरोरुहाभ्यामार्द्रे मदीयहृदये भुवनार्द्रमोजः’ (कृष्णामृते श्लो० १५)। आक्रीडतां समन्तात् स्वैरं कीडतु विहरतु।
क्रुध्
- {आक्रुध्}
- क्रुध् (क्रुध क्रोधे)।
- ‘उपाध्यायस्य दुहिता मामाक्रुध्य निरागसम्’ (बृ० श्लो० सं० ४।९४)। आक्रुध्य=अभिक्रुध्य।
क्रुश्
- {आक्रुश्}
- क्रुश् (क्रुश आह्वाने रोदने च)।
- ‘अये गौरीनाथ त्रिपुरहर शम्भो त्रिनयन। प्रसीदेत्याक्रोशन्’ (भर्तृ० ३।८७)। आक्रोशन् उच्चैरुदाहरन्।
- ‘पतिमाचुक्रुशुश्चापि सस्वनं चापि चुक्रुशुः’ (रा० २।२०।६)। आचुक्रुशुराचक्रन्दुः।
- ‘आऽन्यः क्रोशति प्रान्यः शंसति’ (तै० सं० ७।५।९।३)। आक्रोशति, निन्दति, अवक्षिपति, परिवदति।
- ‘यथाभिप्रेतमितरां ब्रह्मचार्याक्रोशेत्’ (लाट्या० श्रौ० ४।३।१६)। आक्रोशेत् शपेत्।
- ‘क्रुध्यन्तं न प्रतिक्रुध्येदाक्रुष्टः कुशलं वदेत्’ (मनु० ६।४८)। आक्रुष्टः शप्तः, अपशब्दमुक्तः।
- ‘तत्र स्वाक्षारणा यः स्यादाक्रोशो मैथुनं प्रति’ (अमर:)। आक्रोशोऽभिशंसनम्।
- ‘आक्रोशमपि परिहासमाकलयन्ति’ (काद०)। आक्रोशो निन्दा। अपवादः।
- ‘षष्ठ्या आक्रोशे’ (पा० ६।३।२१)। उक्तोऽर्थः।
- ‘शतं ब्राह्मणमाक्रुश्य क्षत्रियो दण्डमर्हति’ (मनु० ८।२६७)। आक्रुश्य=अभिशप्य=अपभाष्य।
- ‘तं तु मां जीवलोकोऽयं नूनमाक्रोष्टुमर्हति’ (रा० २।१२।६६)। आक्रोष्टुं धिक्कर्तुम्।
- ‘तं वत्सं मेधातिथिराक्रोशदब्राह्मणोसि शूद्रापुत्र इति’ (पञ्च० ब्रा० १४।६।५)। आक्रोशदशपत्, परुषं व्याहरत्, साधिक्षेपमवदन्।
क्षर्
- {आक्षर्}
- क्षर् (क्षर संचलने)।
- ‘मातरं पितरं जायां भ्रातरं तनयं गुरुम्। आक्षारयन् शतं दाप्यः’ (मनु० ८।२७५)। आक्षारयन् दूषयन्। यशो दूषयन्, दोषेण गच्छन्, दोषभाग् इति प्रख्यापयन्।
- ‘पूर्वमाक्षारयेद्यस्तु नियतं स्यात्स पापभाक’ (नारद०)। आक्षारयेत् दोषमारोपयेत्।
- ‘यः स्वल्पेनापि कार्येण सुहृदाऽऽक्षारितो भवेत्’ (भा० शां० ८३।४०) आक्षारितो धनग्रहणेन रिक्तः स्यादित्यर्थ इति नीलकण्ठः।
- ‘यद्यप्याङ्पूर्वस्य क्षरतेः क्षीणतायां प्रसिद्धिर्न, केवलस्य तु समस्ति तपः क्षरति विस्मयादित्यादिषु दर्शनात्। पूर्वमाक्षारितो दोषैः’ (मनु० ८।३५४)। आक्षारितो निन्दितोऽभिशस्तः।
क्षि
- {आक्षि}
- क्षि (क्षि निवासगत्योः)।
- ‘सर्वान्पथो अनृणा आक्षियेम’ (अथर्व० ६।११७।३)। आक्षियेम=आवसेम।
- ‘य आक्षियन्ति पृथिवीमुत द्याम्’ (अथर्व० १८।२।४९)। उक्तोऽर्थः।
- ‘तान् जनान् य आक्षियन्पृथिवीम्’ (अथर्व० १२।१।५७)।
क्षिप्
- {आक्षिप्}
- क्षिप् (क्षिप प्रेरणे)।
- ‘तमाक्षिपत्कीचकोऽथ बलेन बलिनां वरः’ (भा० वि० २२।६१)। आक्षिपत्=अवाक्षिपत्=अवापातयत्।
- ‘स्वं वत्समतिपिबन्तं विषाणकोट्याऽऽक्षिपति धेनुः’ (तन्त्रा० ४।१०)। आक्षिपति पराणुदति।
- ‘यथा नाक्षिप्यसे विषयैः’ (काद०)। नाकृष्यसे न प्रधर्ष्यसे।
- ‘अरे रे राघागर्भभारभूत किमेवमाक्षिपसि’ (वेणी० ३)। आक्षिपसि अधिक्षिपसि।
- ‘वस्तुतस्तु नेह पूर्वपदमाक्षिप्यते’ (पा० ६।३।३४ सूत्रे सि० कौ०)। आक्षिप्यते प्रत्यवमृश्यते।
- ‘मतौः छः सूक्तसाम्नोः’ (पा० ५।२।५९)। अत्र काशिका–मत्वर्थग्रहणेन समर्थविभक्तिः प्रकृतिविशेषणं प्रत्ययार्थ इति सर्वमाक्षिप्यते। आक्षिप्यते सन्निधाप्यते उपस्थाप्यत इति पदमञ्जरी। आङ्=इतः=अर्वाक्। सम्बन्धिशब्दाश्च पुनरेवमात्मका यदुत सम्बन्धिनमाक्षिपन्ति (भाष्ये)।
- ‘जात्या व्यक्तिराक्षिप्यते’ (का० प्र० २)। उक्तोऽर्थः।
- ‘कथंचित्समाधीयमानमप्येतद् गोमयपायसीयं न्यायमाक्षिपति’ (यो० सू० १।३२ भाष्ये)।
- ‘हीनाङ्गानतिरिक्ताङ्गान्… नाक्षिपेत्’ (मनु० ४।१४१)। नाक्षिपेत् नोपहसेत्।
- ‘यावत्ते पृथिवीं पार्था हत्वा भ्रातृशतं रणे। नाक्षिपन्ति महात्मानः…’ (भा० द्रोण० १२२।१९-२०)॥ आच्छिन्दन्ति।
- ‘ततस्तु तावकं सैन्यं दीप्तैः शरगभस्तिभिः। आक्षिपत्पल्वलाम्बूनि निदाघाकं इव प्रभुः’ (भा० द्रोण० १४६।१०-११)॥ आक्षिपत्=अहरत्=उदच्छिनत्।
- ‘स ददाति मनुष्येभ्यः स चैवाक्षिपते पुनः’ (भा० द्रोण० २०२।११३)। आक्षिपते आच्छिनत्ति, प्रत्यादत्ते।
- ‘तस्मिन्पिचुप्लोतं वाऽऽक्षिपेत्’ (सुश्रुत० २।१९३।२१)। निक्षिपेदित्यर्थः।
- ‘संयोज्याक्षिपते भूयस्तथा भूतानि भूतकृत्’ (भा० पु० १०।८२।४४)। आक्षिप्ते संहरते।
- ‘हिंसकस्तावद् वध्यस्य वीर्यमाक्षिपति’ (यो० सू० २।३४ भाष्ये)। पदन्नोमास्-’ (६।१।६३) सूत्रे पदादय आदेशा पादादिकां स्वार्थिकीं प्रकृतिमाक्षिपन्तीत्युक्तम्। आक्षेप उपस्थितिः। उपस्थापयन्तीत्यर्थः।
- ‘न यौवनमाक्षिपेज्जरा मे’ (बुद्ध० ५।३५)। आक्षिपेत् हरेत्। आच्छिन्द्यात्। स्वोक्तमाक्षिपति। प्रतिषेधतीत्यर्थः।
- ‘आक्षिपन्तीमिव प्रभां शशिनः स्वेन तेजसा’ (भा० वन० ५५।१३)। आक्षिपन्तीम्=आच्छिन्दतीम्, न्यक्कुर्वतीम्, पश्चात्कुर्वतीम्, अधरयन्तीम्।
- ‘आक्षिपन्तं प्रभां भानोः स्वशृङ्गैः काञ्चनोज्जवलैः’ (भा० आदि० १७।५)। उक्तचर एवार्थः।
- ‘आक्षिपंस्तरसा गिरीन्’ (भा० पु० ६।१२।२८)। आक्षिपन् हरन्।
- ‘आक्षिप्यमाणः शस्त्रास्त्रकोविदः शस्त्रमन्यवत्’ (राज० ७।१०-३२)। आक्षिप्यमाणः तिरस्क्रियमाणः।
- ‘कुतूहलाक्षिप्तहृदयः’ (उत्तर०)। कौतुकाकृष्टचेता इत्याह।
- ‘अधिकाराक्षिप्तयोः’ (मुद्रा० १)। आक्षिप्त आच्छिन्न आमृष्ट इत्यनर्थान्तरम्।
- ‘आक्षिप्तमिव मे चेतः’ (वेणी० २)। आक्षिप्तं विक्षिप्तं व्याकुलम्।
- ‘अक्लेशलभ्या हि भवन्त्युत्तमार्था महात्मनाम्। जन्मान्तरार्जिताः स्फारसंस्काराक्षिप्तसिद्धयः’ (कथा० ७।१९)॥ आक्षिप्ता आहृताः।
- ‘आक्षिप्तसूत्रा मणयश् छिन्नपक्षा इव द्विजाः’ (भा० वन० ८०।५)। आक्षिप्तसूत्राः छिन्नसूत्राः।
- ‘आक्षिप्तो जयकुञ्जरेण तुरगात्’ (रत्ना० ४।१२)। आक्षिप्तोधः पातितः।
- ‘अनुग्रहस्तावदाक्षिप्ताधिकारयोर्भद्रभटपुरुषदत्तयोः’ (मुद्रा० ३)। आच्छिन्ननियोगयोरित्यर्थः।
- ‘वरमन्धो न चक्षुष्मान् मदादाक्षिप्तसत्पथः’ (का० नी० सा० १५।४)। परित्यक्तसन्मार्ग इत्याह।
- ‘मधूत्सवाक्षिप्तपौरलोकं गृहम्’ (कथा० ४।३५)। आक्षिप्त आकृष्टः।
- ‘भूमावाक्षिप्य कीचकम्’ (भा० वि० १६।९)। आक्षिप्य पातयित्वा।
- ‘(शिलायाम्) आक्षिप्य स्वेच्छया भक्षयति बको जलचरान्’ (पञ्चत०)।
- ‘एवंवादिनो वचनमाक्षिप्य’ (काद०)। अन्तरा प्रतिबध्येत्यर्थः।
- ‘इत्याक्षिप्य तत्कथां कथंचित् प्रसाद्यमानोपि न तस्थौ’ (वि० पु० ४।१३।१०१)। उक्तोऽर्थः।
- ‘अग्रपादमाक्षिप्य’ (रघु० ७।७)। आक्षिप्य प्रतिसंहृत्य।
- ‘ततस्तेजश्च चक्षुश्च सर्वप्राणभृतामपि। आक्षिप्य सहसा सूर्यो द्योतते स्वेन तेजसा’ (रा० ४।४०।६५)॥ आक्षिप्य अभिभूय।
- ‘कल्पान्ते चैव सर्वेषां स्मृतिमाक्षिप्य तिष्ठति’ (भा० अनु० १४।३५०)। आक्षिप्य विलुप्य संहृत्य।
- ‘स केशेषु परामृष्टो बलेन बलिनां वरः। आक्षिप्य केशान्वेगेन बाह्वोर्जग्राह पाण्डवम्’ (भा० वि० २२।५२-५३)॥ आक्षिप्य मोचयित्वा।
- ‘अशुभेभ्यः सदाऽऽक्षिप्य (मानसम्) शुभेष्वेवावतारयेत्’ (भा० शां० ३०८।१९)। आक्षिप्य विप्रकृष्य वियोज्य।
- ‘अंशुकाक्षेपविलज्जितानाम्’ (कु० १।१४)। अंशुकाक्षेपोंऽशुकापहरणम्।
- ‘कल्पाक्षेपकठोरभैरवमरुद्०’ (उत्तर० ५।१४)। कल्पाक्षेपः सृष्टिसंहारः, संवर्तः, सम्प्लवः।
- ‘विरुद्धमाक्षेपवचस्तितिक्षितम्’ (कि० १४।२५)। आक्षेपवचोऽधिक्षेपवचनम्।
- ‘विषयाक्षेपपर्यस्तबुद्धिः’ (भर्तृ० ३।४७)। विषयाक्षेप इन्द्रियार्थाकर्षणम्।
- ‘गोरोचनाक्षेपनितान्तगौरैः’ (कु० ७।१७)। आक्षेपो निक्षेपो न्यासः।
- ‘स्वसिद्धये पराक्षेपः’ (का० प्र० २)। आक्षेपः प्रत्यवमर्श उपलक्षणम्। आक्षेपो विरोधोक्तिर्दोषकथनम्।
- ‘आक्षेपोऽलङ्कारविशेषः साहित्ये–आक्षेपः स्वयमुक्तस्य प्रतिषेधो विचारणात्। चन्द्र सन्दर्शयात्मानमथवास्ति प्रियामुखम्’ (कुवलय० ७३)॥ निगदव्याख्यातः श्लोकः।
- ‘कथारसस्याक्षेपसामर्थ्यम्’ (काद०)। आक्षेपो मनोविनोदः।
- ‘वदनमपहरन्तीं तत्कृताक्षेपमीशः’ (कु० ७।९५)। आक्षेप आकर्षणमुन्नमनम्।
- ‘पाण्डवेषु च साक्षेपं द्रोणं जानाति ते सुतः’ (भा० द्रोण० १२।३०)। साक्षेपं पक्षपातिनम्।
- ‘सोऽयं प्राप्तस्तवाक्षेपम्’ (भा० द्रोण० १०२।६)। आक्षेपः शरगोचरः।
- ‘अपगताक्षेपः’ (यो० वा० ४।३५।६८)। आक्षेप उपहितभावः। त्यक्तसंकुचितात्मस्वरूप इत्यर्थः।
- ‘अभिद्रवणमाक्षेपमवस्थानं सविग्रहम्’ (भा० शल्य० ५७।१९)। आक्षेपम् परयत्नस्य तत्पातनहेतुतासम्पादनम्।
- ‘आक्षेपसर्गयोः कर्ता निश्चलः पुरुषः स्मृतः’ (भा० शां० ३१८।४३)। आक्षेपः प्रलयः।
- ‘आयामविस्रम्भाक्षेपैस्त उच्यन्ते’ (ऋ० प्रा० ३।१)। आक्षेपस्तिर्यग्गमनं मात्राणाम् इत्युवटः।
- ‘बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः प्राणायामः’ (यो० सू० ४।२।५१)। विषयाक्षेपी विषयसम्बन्धी।
- ‘पार्श्वं केषां चिदाक्षिपत्’ (रा० ६।९८।४)। आक्षिपत् आच्छिनत्।
- ‘कान्तस्याक्षिप्यते यस्मात् प्रस्थानम्…’ (काव्यादर्शे २।१४४)। आक्षिप्यते प्रतिषिध्यते।
- ‘वादायाचिक्षेप स पण्डितान्’ (कथा० ६६।६४)। आचिक्षेप आजुहुवे।
- ‘आदावेव तदाङ्के स्यादामुखाक्षेपसंश्रयः’ (सा० द० ६।६३)। आक्षेप उपक्षेपः संकेतः।
- ‘चित्रैर्वाक्यैः स्वकार्योत्थैः प्रस्तुताक्षेपिभिर्मिथः’ (सा० द० ६।३२)। प्रस्तुताक्षेपिभिः प्रकृतं दूरात् सङ्केतवद्भिः।
क्षण्
- {आक्षण्}
- क्षण् (क्ष्णु तेजने)।
- ‘तूष्णीमन्यः कुम्भमाक्ष्णौति’ (का० श्रौ० २१।४।६)। क्षिपतीत्यर्थः। भिनत्तीति वा।
खिद्
- {आखिद्}
- खिद् (खिद छन्दोमात्रगोचरः)।
- ‘शत्रूयतामाखिदा भोजनानि’ (अथर्व० ४।२३।७)। आच्छिन्धीत्यर्थः। आङ्पूर्वः खिदिराच्छेदने वर्तत इति सायणः।
- ‘आहं खिदामि ते मनो राजाश्वः पृष्ठ्यामिव’ (अथर्व० ६।१०२।२)।
- ‘यथाखिदते प्रखिदते च’ (तै० सं० ४।५।९।२)। उक्तोऽर्थः।
खन्
- {आखन्}
- खन् (खनु अवदारणे)।
- आङ्पूर्वः खनतिरन्तर्विदारणे वर्तते यथाऽऽखुरित्यत्र यथा वाऽऽखर इत्यत्र।
ख्या
- {आख्या}
- ख्या (ख्या प्रकथने)।
- ‘तदेकं सत्त्रेधाऽऽख्यायते’ (श० ब्रा० १०।४।१।१)। आख्यायते कीर्त्यते, उदाह्रियते, कथ्यते।
- ‘देवजातानि गणश आख्यायन्ते’ (श० ब्रा० १४।४।२।२४)। उक्तोऽर्थः।
- ‘सुवर्णबिन्दुरित्याख्यायते’ (मालती० ९)। आख्यायते संज्ञायते, समाख्यायते।
- ‘आदित्यानीमानि शुक्लानि यजूंषि वाजसनेयेन याज्ञवल्क्येनाख्यायन्ते’ (बृहदा० उ० ६।५।३)। प्रसिद्धिं नीयन्त इत्याह।
- ‘अन्तर्गतमपि व्यक्तमाख्याति हृदयं हृदा’ (रा० १।७७।२८)। आख्याति जानाति।
- ‘ते रामाय वधोपायमाचख्युर्विबुधद्विपः’ (रघु० १५।५)। रामायाऽऽचख्युः शशंसुः।
- ‘योऽधीते चतुरो वेदान्सर्वानाख्यानपञ्चमान्’ (भा० वन० ५८।९)। आख्यानमितिहासः पूर्ववृत्तोक्तिः।
- ‘आख्यानमाख्यास्यन्’ (श० ब्रा० १३।४।३।२)।
- ‘तदाख्यातविधानं च योगः संचार एव च’ (भा० शां० ५९।४८)। आख्यातविधानम् अभिमन्त्रितदुन्दुभिध्वनिना प्रयाणादिकथनम्।
- ‘सेवा श्ववृत्तिराख्याता’ (मनु० ४।६)। आख्याता व्यपदिष्टा कीर्तिता।
- ‘किंवा शकुन्तलेत्यस्य मातुराख्या’ (शा० ७)। आख्या समाख्या, संज्ञा, नामधेयम्।
- ‘पश्चादुमाख्यां सुमुखी जगाम’ (कु० १।२६)।
- ‘वृसीषु रुचिराख्यासु निषेदुः काञ्चनीषु ते’ (रा० ७।६०।१२)। आख्याऽभिख्या शोभा।
- ‘विभाषाऽऽऽख्यानपरिप्रश्नयोरिञ्च’ (पा० ३।३।११०)। आख्यानं प्रतिवचनम्।
- ‘न ह्यन्यत्पृष्टेनान्यदाख्येयम्’ (२।२।२४ सूत्रे भाष्ये)। आख्येयं प्रतिवक्तव्यम्।
- ‘आख्यातोपयोगे’ (पा० १।४।२९) आख्यातोपदेष्टा।
- ‘आख्यातारच विद्यन्ते पुमांश्चेद् विद्यते कुले’ (भा० उ० ७२।६३)। आख्यातारः कीर्तयितारः, वर्णयितारः।
गम्
- {आगम्}
- गम् (गम्लृ गतौ)।
- ‘विश्वो ह्यन्यो अरिराजगाम’ (ऋ० १०।२८।१)। आययावित्यर्थः।
- ‘आ घा ता गच्छान् उत्तरा युगानि’ (ऋ० १०।१०।१०)। उक्तोऽर्थः।
- ‘अथ ये प्रवृत्तेर्थे अमिताक्षरेषु ग्रन्थेषु वाक्यपूरणा आगच्छन्ति’ (नि० १।९)। आगच्छन्ति आगमा उपजना भवन्ति, उपचीयन्त इत्यर्थः।
- ‘अधीयीत वा तद्विद्भ्यो वा पर्वागमयेत’ (गो० गृ० १।५।१४)। आगमयेत शिक्षेत। उपाददीत। उपयुञ्जीत।
- ‘आगमय दण्डनीतिं कुलविद्याम्’ (दशकु०)। आगमय शिक्षस्व। आगमयस्व तावन्माणवक। सहस्व, प्रतीक्षस्वेत्यर्थः। आगमेः क्षमायामिति वार्तिके काशिकायामुदाहरणम्।
- ‘यावदागमयतेऽथ नरेन्द्रान् स स्वयंवरमहाय महीन्द्रः’ (नै० ५।१) आगमयते आनाययति।
- ‘सर्वमागमयामास पाण्डवानां विचेष्टितम्’ (भा० उ० ७।४)। आगमयामास ज्ञातवान्।
- ‘आत्मनस्तु ततः श्रेयो भार्गवात्सुमहातपाः। ज्ञानमागमयत्प्रीत्या…’ (भा० शां० १२४।२५)॥ आगमयत् अलब्ध, अविदत्।
- ‘यत्रागमयमानानामसत्कारेण पृच्छताम्’ (भा० शां० २८७।४१)। आगमयमानानां शिक्षमाणानाम्।
- ‘भवतां च यथा जन्म तदप्यागमित मया’ (भा० आदि० १३७।१६)। आगमितम् अवगतम्।
- ‘सम्यगागमिता विद्या प्रबोधविनयाविव’ (रघु० १०।७१)। आगमिता उपात्ता गृहीता।
- ‘पुराणमागम्य ततो ब्रवीम्यहम्’ (भा० आदि० ५६।७)।
- ‘तद् व्याकरणमागम्य परं ब्रह्माधिगम्यते’ (वा० प० १।२२) आगम्य=अधिगम्य, अवगम्य।
- ‘देशान्तरादागमय्य व्याचक्षाणान् क्षमापतिः’ (राज० ४।४८८)। आगमय्य आनाय्य।
- ‘यथाऽयमागमो मह्यं यथा चेदमभूत्पुरा’ (भा० आदि० ७१।१८)। आगमो गुरूपदेशः।
- ‘आगमे च प्रयोगे च चक्रे तुल्यमिवात्मना’ (भा० आदि० २२१।७४)। आगमः शास्त्रम्।
- ‘यस्यागमः केवलजीविकायै तं ज्ञानपण्यं वणिजं वदन्ति’ (माल० १।१७)। आगमः शास्त्रज्ञानं व्युत्पत्तिः।
- ‘द्वावप्यागमिनौ प्रयोगनिपुणौ च’ (माल० १ )। आगमिनौ शास्त्रज्ञौ।
- ‘बहुधाप्यागमैर्भिन्नाः पन्थानः सिद्धिहेतवः’ (रघु १०।२६)। आगमः शास्त्रम्।
- ‘नाधर्मणागमः कश्चिन्मानुषान् प्रति वर्तते’ (मनु० २।८१) आगमो धनादिप्राप्तिः।
- ‘आगम निर्गमं स्थानं तथा वृद्धिक्षयावुभौ’ (मनु० ८।४०१)। आगमो देशान्तरीयद्रव्यस्यागमनम्। यदागमास्तद्गुणीभूतास्तद्ग्रहणेन गृह्यन्ते (परिभाषा)। आगम उपजनः।
- ‘पूर्वभुक्त्या च सततमुदकस्यागमेन च’ (एतैर्लिङ्गैर्नयेत्सीमाम्) (मनु० ८।२५२)। आगमः प्रवाहः।
- ‘अत्रैव च मया प्राप्त आगमो वानरेषु वै’ (रा० ६।४।३०)। आगमः परिचयः।
- ‘इति चाप्यागमं भूयो दैवस्य प्रतिपालये’ (भा० वि० २०।७)। आगम आनुकूल्यम्।
- ‘दैवस्य चागमे यत्नस्तेन कार्यो विजानता’ (भा० वि० २०।९)। उक्तपूर्व एवार्थः।
- ‘आगमा वः शिवाः सन्तु स्वस्था भवत पुत्रकाः’ (भा० आश्रम० ३६।४०)। आगमाः पन्थानः।
- ‘आगमास्ते शिवाः सन्तु’ (रा० २।२५।२१)। अनन्तरोदीरित एवार्थः।
- ‘नियमस्तु स यत्कर्मानित्यमागन्तुसाधनम्’ (अमरः)। आगन्तु बाह्यं कादाचित्कम्। आगन्तुकः पाठः। प्रक्षिप्तः असम्प्रदायः।
- ‘बहुप्रकृतावागन्तुना पर्वणाऽवग्रहो भवति’ (वा० प्रा० ४।७)। आगन्तु अभ्युच्चितम्।
- ‘स न मन्येतागन्तूनिवार्थान् देवतानाम्’ (नि० ७।४)। आगन्तवो बाह्याः, बहिष्ट आगता न तु देवतात्मान्तर्भूताः।
- ‘तस्योपकरणं प्रमाणं प्रहरणं प्रधारणमवधारणं च खरपट्टादागमयेत्’ (कौ० अ० ४।८।२४)। आगमयेत् उपलभेत, प्रतीयात्।
- ‘प्रज्ञामेवागमयति यः प्राज्ञेभ्यः स पण्डितः’ (भा० उ० ३५।६६)। आगमयति आनयति।
- ‘न तस्य पुनरागतिः’ (स्कन्द पु० का० ४।२१।११०)। पुनरागतिः पुनर्भवः प्रेत्यभावः।
- ‘अथ यस्यागमादर्थपृथक्त्वमह विज्ञायते’ (नि० १।४)। आगमोऽध्याहार इति दुर्गः।
गल्
- {आगल्}
- गल् (गलेति लौकिकः)।
- ‘बभौ वर्षाम्बुविविलन्नं पद्ममागलितं यथा’ (भा० आदि० १३६।३४)। आगलितं गलितमवपतितं भ्रष्टम्।
- ‘पार्श्वागलित????’ (रा० ५।१३।३४)। आगलितः स्रस्तः।
गुर्
- {आगुर्}
- गुर् (गुरी उद्यमने)।
- ‘द्विरागूर्य मैत्रावरुणो द्विः प्रेष्यति’ (ऐ० ब्रा० २।२८)।
- ‘पुरोडाशं पचत्यं जुषस्वेन्द्रागुरस्व च’ (ऋ० ३।५२।२)। आगुरस्व=अनुमन्यस्व।
- ‘आ च शास्स्वा च गुरस्व’ (वा० सं० २१।६१)। आगुरस्व=उद्यच्छ। धात्वर्थ एवानुवृत्तः।
- ‘दैवीं वाचं दुन्दुभ आगुरस्व’ (अथर्व० ५।२०।४)। उक्तचर एवार्थः।
- ‘सर्वाभ्यो वा एष देवताभ्यः सर्वेभ्यः पृष्ठेभ्य आत्मानमागुरते। यः सत्रायागुरते’ (तै० ब्रा० १।४।७।७)।
- ‘छेदार्थमागूर्णपरश्वधानाम्’ (अवदा० विश्व० जा० ४०)। उद्यतस्वधितीनामित्याह। अधिकृत्य प्रस्तुत्य आगूर्येत्यर्थ इति अधिकृत्य कृते ग्रन्थे (४।३।८७) इत्यत्र काशिका।
- ‘सर्वाभ्यो वा एष देवताभ्यः सर्वेभ्यः पृष्ठेभ्य आत्मानमागुरते यः सत्रायागुरते’ (तै० ब्रा० १।४।७।७)। आगुरुते संकल्पयति। पुस्तके न्यस्तपूर्वमपीदं वचोऽनूद्यतेऽर्थनिर्देशाय।
- ‘यद्वो देवास आगुरे यज्ञियासो हवामहे’ (तै० सं० १।२।१)। आगुरे कर्मोद्योगे।
- ‘छायातरोः स्वादुफलप्रदस्य च्छेदार्थमागूर्णपरश्वधानाम्। धात्री न लज्जां यदुपैति भूमि र्व्यक्तं तदस्या हृतचेतनत्वम्’ (आर्यशूरकृतायां जातकमालायाम्)॥ आगूर्णपरश्वधा उद्यतस्वधितयः।
गूर्
- {आगूर्}
- गूर् (गूर उद्यमने)।
- ‘गिरा प्रभोरुपालब्धस्तदागूरणगर्भया’ (राज० ७।१९९२)। आगूरणं भर्त्सनम्।
गॄ
- {आगॄ}
- गॄ (गॄ शब्दे)।
- ‘यया चिद्विश्वे वसवो गृणन्ति’ (ऋ० ७।३८।३)। आगृणन्ति प्रशंसन्ति, स्तुवन्ति।
- ‘आ यस्य ते महिमानं शतमूते शतक्रतो गीर्भिर्गृणन्ति कारवः’ (ऋ० ८।४६।३)। उक्तोऽर्थः।
गै
- {आगै}
- गै (कै गै शब्दे)।
- ‘स ह स्मैभ्यः कामानागायति। आगाता ह वै कामानां भवति’ (छां० उ० १।२।१४)।
- ‘कं ते काममागायानि’ (छां० उ० १।७।९)। कामानागायति स्म गानेन सम्पादयति स्म। आगाता गानेन सम्पादकः। आगायानि गानेन सम्पादयामि।
- ‘यो वाचि भागस्तं देवेभ्य आगायत्’ (श० ब्रा० १४।४।१।३)। उक्तोऽर्थः।
ग्रन्थ्
- {आग्रन्थ्}
- ग्रन्थ् (ग्रन्थ सन्दर्भे)।
- ‘तद्यथा पुनराग्रन्थं पुनर्निग्रन्थमन्तं बध्नीयान्मयूखं वान्ततो धारणाय निहन्यात् तादृक् तत्’ (ऐ० ब्रा० ५।१५)।
- ‘तद्यथा पुनराग्रन्थं पुनर्निर्ग्रन्थमन्तं बध्नीयात् मयूखं वा ऽन्ततो धारणाय निहन्यात् तादृक् तत्’ (ऐ० ब्रा० ५।१५)। अस्याप्यर्थनिर्देशायेह पुनरनुवादः। आग्रन्थमाग्रथ्याग्रथ्य।
ग्रह्
- {आग्रह्}
- ग्रह् (ग्रह उपादाने)।
- ‘आ ता एता वचोयुजा हरी गृभ्णे सुमद्रथा’ (ऋ० ८।४५।३९)। आगृभ्णे=आगृह्णे, रुणध्मि, वारयामीत्यर्थः।
- ‘आ गृह्णीतं सं बृहतं प्राणापानान्न्यर्बुदे’ (अथर्व० ११।९।११)।
- ‘अयमागृहीतकमनीयकङ्कणः’ (करः) (उत्तर० १।१८)। आगृहीतो बद्धः।
- ‘चलेपि काकस्य पदार्पणाग्रहः’ (नै०)। आग्रहोऽभिनिवेशः।
- ‘तमीमण्वीः समर्य आ गृभ्णन्ति योषणो दश’ (ऋ० ९।१।७)। ईम् (सोमम्) आगृह्णन्ति समन्ताद् गृह्णन्ति आददते।
- ’ तेजो वावाऽद्भ्यो भूयस्तद्वा एतद् वायुमागृह्याकाशभितपति’ (छा० उ० ७।११।१)। आगृह्य अवष्टभ्य।
घष्
- {आघष्}
- घष् (घुषिर् अविशब्दने, घुषिर् शब्द इत्येके)।
- ‘आस्य श्रवस्याद् आ च घोषात्’ (ऋ० ५।३७।३)। आघोषात् संश्रवस्य विषयः स्यादित्यर्थः।
घ्रा
- {आघ्रा}
- घ्रा (घ्रा गन्धोयादाने)।
- ‘गन्धमाघ्राय चोर्व्याः’ (मेघ० २१)। गन्धमुपादायेत्यर्थः।
- ‘येन वा गन्धानाजिघ्रति’ (ऐ० उ० ५।१)।
- ‘आ जिघ्र कलशम्’ (वा० सं० ८।४२)।
- ‘मूर्ध्न्याघ्रायते श्वापदैः’ (सुश्रुते १।११०।४)। उक्तोऽर्थः।
- ‘मूर्ध्नि केशवमाघ्राय’ (भा० आदि० २२१।४०)।
- ‘आघ्राय चुम्बित्वा नासिकया स्पृष्ट्वा वा॥ आजघ्रुर्मूर्ध्नि बालांश्च’ (भट्टि० १४।१२)। उक्तोऽर्थः।
- ‘व्याघ्रो मामाघ्रातुमागतवान्’ (दशकु०)। आघ्रातुमाक्रमितुमवस्कन्तुम्।
- ‘कामाघ्रातयाऽनया’ (दशकु०)। कन्दर्पाक्रान्तयेत्यर्थः।
चक्ष्
- {आचक्ष्}
- चक्ष् (चक्षिङ् व्यक्तायां वाचि)।
- ‘आचष्ट आसां पाथो नदीनां वरुण उग्रचक्षाः’ (ऋ० ८।३४।१०)। आचष्टे सम्पश्यति। पाथसि सलिले दृशं पातयति।
- ‘वातो देवेभ्य आचष्टे यथा पुरुष ते मनः’ (श० ब्रा० ३।४।२।७)। आचष्टे ज्ञपयति वेदयति आख्याति। गां धयन्ती परस्मै नाचक्षीतेति स्मृतिः। वत्सं धापयमानां गां परस्मै न शंसेदित्यर्थः।
- ‘रामायाचचक्षे ताम्’ (रा० ३।२।९)। आचचक्षे …भर्त्रे कन्यां शिखण्डिनीम्। आचचक्षे प्रख्यापयामास।
- ‘तं रथं राजपुत्राय सूतः …आचचक्षे’ (रा० २।३९।१३)। सज्जो रथ इति निवेदयामास।
- ‘भैरवमुच्चैर्विरुवन्मृगोऽसकृद् ग्रामघातमाचष्टे’ (व० बृ० सं० २९।३)। आचष्टे ग्रामघातनिमित्तभावमात्मनो वेदयति।
- ‘शर्व इति यथा प्राच्या आचक्षते भव इति यथा वाहीकाः।’ (श० ब्रा० १।७।३।८)। आचक्षते संजानते संज्ञया कीर्तयन्ति।
चम्
- {आचम्}
- चम् (चमु भक्षणे)।
- ‘आचान्तः पुनराचामेत्’ (गो० गृ० १२।३७)। आङ् ईषदर्थे। ईषद् भक्षयेत् अश्नीयात्।
- ‘त्रिराचामेदपः पूर्वम्’ (मनु० २।६०)। उक्तोऽर्थः।
- ‘अनुष्णाभिरफेनाभिस्तीर्थेन…सर्वदाचामेत्’ (मनु० २।६१)। आचामेत् प्रमृज्यात् (मुखम्), शोधयेत्।
- ‘आकाशवायुर्दिनयौवनोत्थानाचामति स्वेदलवान्मुखे ते’ (रघु० १३।२०)। हरतीत्युपचरितोऽर्थः।
- ‘ते हया वासुदेवस्य दारुकेण प्रचोदिताः। पन्थानमाचेमुरिव ग्रसमाना इवाम्बरम्’ (भा० उ० ८३।५९)॥ पन्थानमतित्वरिता अत्यक्रामन्नित्यर्थः।
- ‘नाचेमे हिममपि वारि वारणेन’ (कि० ७।३४)।
- ‘शैवालभोजनश्चैव तथाऽऽचामेन वर्तयन्’ (भा० शां० (३०३।१९)। आचामो भक्तमण्डः।
चर्
- {आचर्}
- चर् (चर गतिभक्षणयोः)।
- ‘आ च परा च चरति प्रजानन्’ (ऋ० १०।१७।६)। आचरति अनुकूलमाभिमुख्येन चरति गच्छति।
- ‘आथर्वणे’ (७।१०।१) तु दिवः पृथिवीमागच्छतीति सायणभाष्यम्।
- ‘आ च परा च पथिभिश्चरन्तम्’ (ऋ० १।१६४।३१)। आचरन्तमर्वाग्गच्छन्तम्।
- ‘नभस्वतीरा वां चरन्तु वृष्टयः’ (ऋ० ८।२५।६)। आचरन्तु इहागच्छन्तु।
- ‘कृत्तिं वसान आचर’ (वा० सं० १६।५१)। उक्तोऽर्थः।
- ‘एते पतन्ति चत्वारः पञ्चमश्चाचरंस्तैः’ (छां० उ० ५।१०।९)। आचरन् संव्यवहरन्, सङ्गच्छमानः।
- ‘संवत्सरेण पतति पतितेन सहाचरन्’ (मनु० ११।१८०)। एकयानगमनैकासनोपवेशनैकपङ्क्तिभोजनरूपान्संसर्गानाचरन्निति कुल्लूककृतं विवरणम्।
- ‘जानन्नपि हि मेधावी जडवल्लोक आचरेत्’ (मनु० २।११०)। आचरेत् व्यवहरेत्। किं निगमनिरुक्तव्याकरणवशेन धातुतोऽर्थः कल्पयितव्य उत यत्र म्लेच्छा आचरन्ति स शब्दार्थ इति (मी० १।३।१० शा० भा०)। व्यवहरन्ति प्रयुञ्जत इत्यर्थः।
- ‘तस्यां त्वं साधु नाचरः’ (रघु० १।७६)। नाचरः=नावर्तथाः, न व्यवाहरः।
- ‘यद् यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः’ (गीता ३।२१)। आचरति व्यवहरति, अनुतिष्ठति, विदधाति।
- ‘पुत्रमिवाचरति शिष्यं पुत्रीयति शिष्यम्। उपमानादाचारे’ (पा० ३।१।१०) इति सूत्रे वृत्तावुदाहरणम्। शिष्ये पुत्रवद् वर्तत इत्याह।
- ‘समुद्यमी मण्डलशुद्धिमाचरेत्’ (का० नी० सा० ८।९०)। आचरेत् कुर्यात्।
- ‘भिषग्भेषजमाचरेत्’ (का० सं० खि० अन्तर०)। भेषजमाचरेत् भैषज्यं कुर्यादित्यर्थः।
- ‘आचरति मित्रस्येति’ (का० श्रौ० १६।४।१५)। आचरति प्रक्षिपति (इन्धनम्)।
- ‘अद्धि तृणमघ्न्ये विश्वदानीं पिब शुद्धमुदकमाचरन्ती’ (अथर्व० ७।७७।११)। आचरन्ती सर्वतश्चरन्ती।
- ‘प्राणात्यये तथाज्ञानादाचरन्मदिरामपि’ (भा० शां० ३४।२०)। **आचरन् पिबन्। अकथितं च (पा० १।४।५१) इत्यत्र भाष्ये ब्रुविशासिगुणेन च यत्सचते तदकीर्तितमाचरितं कविनेति कारिकायामाचरितमित्युक्तम् इत्यर्थे प्रयुक्तम्।
- ‘यथाचरितमेवात्र शस्त्रं पत्रं विधीयते’ (भा० शां० १०१।२)। आचरितं कुलदेशादागतम्। पत्रं वाहनम्।
- ‘धर्मेण व्यवहारेण छलेनाचरितेन च’ (मनु० ८।४९)। दारपुत्रपशून् हत्वा कृत्वा द्वारोपवेशनम्। यत्रार्थी दाप्यतेऽर्थं स्व तदाचरितमुच्यते॥ इत्यत्र कुल्लूकोद्धृतं बृहस्पतिवचः।
- ‘तस्कराचरितो मार्गो नैष वीरनिषेवितः’ (रा० ३।५१।२८)। आचरित आस्थितः।
- ‘अगस्त्याचरितामाशां दक्षिणां हरियूथपाः।’ (रा० ४।४५।६)।
- ‘अगस्त्याचरितामाशामनाशास्यजयो ययौ’ (रघु० ४।४४)। उक्तोऽर्थः।
- ‘मार्गं सन्मार्गगतिभिः…। पूर्वैराचरितं सद्भिः शास्त्रीयं न परित्यजेत्’ (का० नी० सा० १२।५)। आचरितं निषेवितम्।
- ‘शय्यासने चाचरिते नाविशेत्’ (आप० ध० १।२।८।११)। आचरिते उपयुक्ते।
- ‘तेषु वनमुख्येषु सुरैराचरितेषु च’ (हरि० १।२६।८)। आचरितेषु कृतसंचारेषु।
- ‘प्रासादाग्राणि रम्याणि नगरोपवनानि च। सम्पन्नानि सुगन्धीनि युक्तान्याचरितुं त्वया’ (रा० ३।४६।२५)॥ आचरितुं विचरितुम्।
- ‘तस्मिन्देशे य आचारः पारम्पर्यक्रमागतः’ (मनु० २।१८)। आचारः सामयिको धर्मः कुलाचारश्च।
- ‘ये अस्या आचरणेषु दध्रिरे’ (ऋ० १।४८।३)। आचरणमागमः।
- ‘अधीतिबोधाचरणप्रचारणः’ (नै० १।४)। आचरणमुपदेशस्य विधिवदनुष्ठानम्।
- ‘स यथा प्रयोग्य आचरणे युक्तः’ (छां० उ० ८।१२।३)। आचरणः सर्वत्र चरणशीलो रथः, शकटो वा। प्रयोग्यो वाजी बलीवर्दो वा। आचर्यो देशः। चरेराङि चागुरौ इति वार्तिके वृत्तावुदाहरणम्। आचरितुं विचरितुं योग्य इत्यर्थः।
- ‘करणगोचरश्च कर्तृव्यापारो न कर्मगोचरतामाचरति’ (सर्वद० सं० पात पं० १४१)। आचरति गच्छति।
- ‘ये तेऽर्यमन् बहवो देवयानाः पन्थानो राजन् दिव आचरन्ति’ (तै० सं० २।३।१४।४)। आचरन्ति आभिमुख्येन यावत् कर्मस्थानं वितायन्ते।
- ‘अथ याञ्छब्दानार्या न कस्मिंश्चिदर्थे आचरन्ति म्लेच्छास्तु कस्मिंश्चिदर्थे प्रयुञ्जते’ (मी० शा० भा०)। आचरन्ति व्यवहरन्ति।
- ‘व्रणे च मधुमेहे च पानीयं मन्दमाचरेत्’ (सुश्रुत० सूत्र० १९।३०)। टीकाकृतो डल्लनस्योद्धार एषः। आचरेत् उपयुञ्जीत आददीत।
- ‘गमनेऽस्याः क्षणविघ्नमाचरन्त्या’ (विक्रम० १।३९)। आचरन्त्या उत्पादयन्त्या कुर्वत्या।
चि
- {आचि}
- चि (चिञ् चयने)।
- ‘आचिक्याते च भूयोपि राघवौ तेन पन्नगैः’ (भट्टि० १४।४७)। आचिक्याते आच्छन्नौ।
- ‘शैलैरिवाचिनोद् भूमिम्’ (भट्टि० १७।६९)। आचिनोत् आच्छादयत्।
- ‘आचार्यः कस्मात्। आचारं ग्राहयति, आचिनोत्यार्थान्, आचिनोति बुद्धिम् इति वा।’ (नि० ३।४।१२)। आचिनोति वर्धयति।
- ‘कचाचितौ विष्वगिवागजौ गजौ’ (कि० १।३६)। आचितौ=आकीर्णौ। बिन्दुभिश्चाचयोऽङ्गानाम् (अ० हृ० सूत्र० ७।२३)। आचयो व्याप्तिः।
- ‘आचर्य द्युतिमुत्साहम्… अपकर्षति’ (सौन्दर० १४।४)।
छिद्
- {आच्छिद्}
- छिद् (छिदिर् द्वैधीकरणे)।
- ‘मिषतामाच्छिनत्ति नः’ (कु० २।४६)। आच्छिनत्ति आक्षिप्य गृह्णाति।
- ‘भर्तारमाच्छेत्स्यामि कामिनीभ्यः’ (भा०)। व्यावर्तयिष्यामीत्यर्थः।
- ‘अथ (कुशानि) सकृदाच्छिन्नान्युपमूलं दिनानि भवन्ति’ (श० ब्रा० २।४।२।१७)। दिनानि=दितानि। संलापो विपुलोदयः।
- ‘लभ्यते नान्तराच्छेत्तुं दुर्जातैर्जातु दुर्जनः’ (राज० ३।१४२) आच्छेत्तुमाक्षेप्तुम्। लभ्यते शक्यते। मम वच आच्छिद्य। आक्षिप्य, अगणयित्वेति वा।
- ‘आच्छिद्य धमनीमपि’ (भा०)। छित्त्वा, कर्त्तित्वा शकलीकृत्येति वा।
- ‘आच्छिद्य पूत्रे निर्याते कौसल्या यत्र जीवति’ (रा० २।५७।२२)। आच्छिद्य न्यायप्राप्तमभिषेकं परित्यज्य।
- ‘तदानीं शिर आच्छिद्य पातयामि महीतले’ (पद्मपु० ५।५६।२८)। आच्छिद्य छित्त्वा। आङा नार्थः।
- ‘आच्छिद्य पुत्रे निर्याते कौसल्या यत्र जीवति’ (रा० २।५७।२२)। आच्छिद्य न्यायप्राप्तमभिषेकं त्यक्त्वेति तिलकः, आच्छिद्य प्रसह्येति तु भूषणम्।
छुर्
- {आच्छुर्}
- छुर् (छुर छेदने)।
- ‘सामोन्मुखेनाच्छुरिता प्रियेण।’ आच्छुरिता नखच्छेदं लम्भिता।
छृद्
- {आच्छृद्}
- छृद् (उछृदिर् दीप्तिदेवनयोः)।
- ‘अथैनामाच्छृणन्ति’ (उखाम्) (श० ब्रा० ६।५।४।१५)। एतस्यामुखायां पय आसिञ्चन्तीत्याह।
- ‘अजक्षीरेणाच्छृणत्ति’ (असुर्यं पात्रम्) (तै० सं० ५।१।७)। दीपयतीत्यर्थः।
छो
- {आच्छो}
- छो (छो तनूकरणे)।
- ‘कस्त्वाऽऽछ्यति’ (वा० सं० २३।३९)। आच्छ्यति=छिनत्ति।
- ‘मध्यतो हि मनुष्या आच्छ्यन्ति’ (तै० सं० ६।३।९)। आच्छ्यन्ति छिन्दन्ति।
जन्
- {आजन्}
- जन् (जनी प्रादुर्भावे)।
- ‘आ ब्रह्मन्ब्राह्मणो ब्रह्मवर्चसी जायताम्’ (वा० सं० २२।२२)। आजायतामा समन्ताज्जायताम् उत्पद्यताम्।
- ‘यदा वै क्षत्रियाय पापं भवति ब्राह्मणकल्पोऽस्य प्रजायामाजायते’ (ऐ० ब्रा० ७।२९)। आजायते जायते। आङा नार्थः।
- ‘अन्या धूमादिमाजाता राम जीवपरम्परा’ (यो० वा० ४।६०।९)। आजाताऽनुप्रविष्टा।
- ‘ततस्ते पुनराजातिं म्रष्टाः प्राप्स्यन्ति कुत्सिताम्’ (हरि० १।१९।५)। आजातिराजानो जन्मेत्यनर्थान्तरम्।
- ‘स एक आजानजानां देवानामानन्दः’ (तै० उ० २।८।२)। आजानो देवलोक इति शङ्करः। आजानो जन्मेत्यन्ये। ये शुश्रुवद्भ्यो देवेभ्योऽन्ये।
जप्
- {आजप्}
- जप् (जप जल्प व्यक्तायां वाचि, जप मानसे च)।
- ‘उपोत्थायाध्वर्युश्च यजमानश्चाश्वस्य दक्षिणे कर्णे आजपतः’ (श० ब्रा० १३।४।२।१५)। आजपत ईषज्जल्पत इत्यर्थः।
- ‘तस्या उपोत्थाय कर्णमाजपेत्’ (तै० सं० ७।१।६)। आजपेत् उपांशु कथयेत्। आङ् पूर्वो जपिरिह सकर्मकः प्रयुक्तः। कर्णमेत्य जपेदित्यर्थः।
जि
- {आजि}
- जि (जि जये, जि अभिभवे)।
- ‘तासां वै होत्राणामायतीनामाजयन्तीनामच्छावाकीयाऽहीयत’ (ऐ० ब्रा० २।३६)। आजयन्तीनामभिभवन्तीनाम्।
- ‘ते वै प्रातराज्येरेवाजयन्त आयन्’ (ऐ० ब्रा० २।३६)। आजयन्तः साधु जयन्तः, वशे कुर्वन्तः।
जीव्
- {आजीव्}
- जीव् (जीव प्राणधारणे)।
- ‘आजीव्यः सर्वभूतानाम् ब्रह्मवृक्षः सनातनः’ (भा० आश्व० ४७।१४)। आजीव्य आश्रेयः।
- ‘निहतान्निहतान् दैत्यानाजीवयति’ (मात्स्यपु० १३७।१५)। आजीवयति संजीवयति।
ज्ञा
- {आज्ञा}
- ज्ञा (ज्ञा अवबोधने)।
- ‘एवं वै विद्वांसमाहुरपि पशूनां वाच आजानाति’ (पञ्चविंश० १०।२।७)। आजानाति साकल्येन जानाति।
- ‘शक्तिभिर्भिन्नहृदयाः स्खलन्तोपि पदे पदे। आजानन्ति यतः संज्ञामाजानेयास्ततः स्मृताः’ (अश्वतन्त्रे)॥ साधु जानन्तीत्यर्थः।
- ‘मनो वै देवा मनुष्यस्याजानन्ति’ (श० ब्रा० १।१।७)। आजानन्ति साधु जानन्ति।
- ‘भ्रातुर्वचनमाज्ञाय लक्ष्मणः परवीरहा’ (रा० २।५६।२४)। आज्ञाय ज्ञात्वा। आङ् नान्तरमर्थे कुरुते।
- ‘प्रतिवेदितमाज्ञाय सूतमभ्यन्तरं पितुः’ (रा० २।१६।७)। आज्ञाय ज्ञात्वा। आङर्थान्तरं नाह।
- ‘तेषां तन्मतमाज्ञाय’ (भा० कर्ण० ९५।४)।
- ‘भ्रातॄणां मतमाज्ञाय नारदस्य च धीमतः’ (भा० वन० ८६।१)।
- ‘नैवार्थेन च कामेन विक्रमेण न चाज्ञया। शक्या दैवगतिर्लोके निवर्तयितुमुद्यता’ (रा० ६।११०।२५)॥ आज्ञा प्रणयनसामर्थ्यम्, पौवापर्यविधानशक्तिः।
- ‘त्वमाज्ञाता त्वमिन्द्रासि दाता’ (ऋ० १०।५४।५)। आज्ञाता विधाता, परिच्छेत्ता।
- ‘संज्ञानमाज्ञानं विज्ञानं प्रज्ञानम्’ (ऐ० उ० ३।४)। आज्ञानमाज्ञप्तिरिति शङ्करः। आदेश इति यावत्। मनसाऽऽज्ञायीति आज्ञायिनि च (पा० ६।३।५) सूत्रे वृत्तावुदाहरणम्। आजानातीत्येवंशीलः।
- ‘आजिज्ञासेन्याः शंसति’ (ऐ० ब्रा० ६।३३)। आज्ञातुमवज्ञातुमिच्छा ऽजिज्ञासा, तामर्हन्तीति सायणः। आङनादर इति दुर्लभोऽन्यत्रार्थः। आजिज्ञासेन्याः (स्त्री०) कुन्तापसूक्तविशेषाः।
तक्ष्
- {आतक्ष्}
- तक्ष् (तक्षू तनूकरणे)।
- ‘आतक्ष्य तक्षाण इवापरेषां गात्राणि’ (अवदा० जा० २९।२५)। आतक्ष्य सन्तक्ष्य।
तञ्च्
- {आतञ्च्}
- तञ्च् (तञ्चू संकोचने)।
- ‘दध्ना पय आतनक्ति।’ पयसि दध्यासिच्य तत् संहतं करोतीत्यर्थः।
- ‘इन्द्रस्य त्वा भागं सोमेनातनच्मि’ (वा० सं० १।४)। सोमासेचनेन सान्द्रं करोमीत्याह।
- ‘उच्छेषणाभावे तण्डुलैरातञ्च्यात् तण्डुलाभावे ओषधीभिः’ (आप० श्रौ० १।४।१४।१)। उक्तोऽर्थः।
- ‘तदेषेव व्रतचर्या यत्पूर्वेद्युर्दुग्धं दधि हविरातञ्चनं तत् कुर्वन्ति’ (श० ब्रा० ११।१।४।१)। हविरातञ्चनं हविषः सान्द्रीकरणम्।
- ‘यो दधिधान्यामप्रयतं पय आतञ्च्य मन्थति’ (आप० ध० १।२९।१४)। तक्राद्यातञ्चनेन संस्कृत्येत्यर्थः।
- ‘सोमेन त्वा ऽऽतनच्मि’ (तै० सं० १।१।३)। आतनच्मि घनीकरोमि। त्वा क्षीरम्।
- ‘प्रातर्दुग्धं द्वैधं कृत्वा तस्यान्यतरां भक्तिमातच्य तेन’ यजेत (ऐ० ब्रा० ७।३)। उक्तोऽर्थः। आतञ्चनं द्रव्यान्तरसम्प्रयोगेण घनीकरणम्।
तन्
- {आतन्}
- तन् (तनु विस्तारे)।
- ‘नेदानीं पीतिरश्विना ततान’ (ऋ० ५।७६।३)। पीतिः पानं सोमपीथो नाततान न प्रतीक्षते इत्याह।
- ‘मा त्वा तनदीशिषे वीर्यस्य’ (ऋ० १।९१।२३)। मा त्वाऽऽतनत् शत्रूयमाणो मा कश्चित्त्वां प्रत्युपस्थितो भूदित्याह।
- ‘अहं रुद्राय धनुरातनोमि’ (अथर्व० ४।३०।५)। आततज्यं करोमीत्यर्थः।
- ‘आ द्यां तनोषि रश्मिभिः’ (ऋ० ४।५२।८)। आतनोषि व्याप्नोषि।
- ‘यास्ते अग्ने सूर्ये रुचो दिवमातन्वन्ति रश्मिभिः’ (वा० सं० १३।२२)। उक्तोऽर्थः।
- ‘प्रियपुरतो युवतीनां तावत् पदमातनोतु हृदि मानः’ (भर्तृ० १।३२)। पदमातनोतु पदं करोतु, आस्पदं लभताम् अवकाशमाप्नोतु।
- ‘यदाततमव तत्तनु’ (अथर्व० ७।९५।३)। आततम् आयतम् (जारस्य शेपः)।
- ‘आनन्दनेन जडतां पुनरातनोति’ (उत्तर० ३।१२)। आतनोति करोति जनयति।
- ‘आतन्वानेभ्यः’ (वा० सं० १६।२२)।
- ‘उत्क्षिप्तज्याकानि धनूंषि कुर्वद्भ्यः। आतन्वाना आयच्छन्तोऽस्यन्तो ये च धावथ’ (अथर्व० ६।६६।२)। उक्तोऽर्थः।
- ‘नमस्त आतान’ (वा० सं० ६।१२)। आतानो यज्ञः, यज्ञो वा आतानो यज्ञं हि तन्वत इति ब्राह्मणम्।
- ‘मौर्वी धनुषि चातता’ (रघु० १।१९)। आकृष्टेत्यर्थः।
- ‘कतमां द्यां ररिश्मरस्याऽऽततान’ (तै० ब्रा० २।८।६।२)। आततान व्याप, व्याप्तवान्।
तप्
- {आतप्}
- तप् (तप सन्तापे)।
- ‘शं ते सूर्य आतपतु’ (अथर्व० ८।२।१४)। आतपतु भातु, भासताम् प्रकाशताम्।
- ‘आतप्यमानहृदये’ (भा० पु० ३।३१।१३)। आतप्यमानं दूयमानम्।
तुद्
- {आतुद्}
- तुद् (तुद व्यथने)।
- ‘आतोदिनौ नितोदिनावथो सन्तोदिनावुत’ (अथर्व० ७।९५।३)। आतोदिनौ सर्वतो व्यथकौ, आहन्तारौ, ताडयितारौ। ततं वीणादिकं वाद्यमानद्धं मुरजादिकम्। वंशादिकं तु सुषिरं कांस्यतालादिकं घनम्॥ चतुर्विधमिदं वादित्रातोद्यनामकम् (अमर:)।
- ‘आतुद्यतेऽभिहन्यते इत्यातोद्यम्’ (ना० शा० ६।२८ अभिनवभारत्याम्)।
तृद्
- {आतृद्}
- तृद् (उतृदिर् हिंसानादरयोः)।
- ‘पुरा जत्रुभ्य आतृदः’ (ऋ० ८।१।१२)। आतृदः=आतर्दनात् द्वैधीकरणात् व्यधनात्।
- ‘शतातृण्णा कुम्भी’ (श० ब्रा० १२।७।२।१३)। शतातृण्णा शतच्छिद्रा।
- ‘तस्मात्तद् (रुधिरम्) आतृण्णात् (पुरुषात्) प्रैति रसो वृक्षादिवाहतात्’ (वृ० उ० ३।९।२८)। आतृण्णः छिन्नः क्षत आहतः।
तृप्
- {आतृप्}
- तृप् (तृप प्रीणने)।
- ‘आ यत् तृपन्मरुतो वावशानाः’ (ऋ० १।१७।३)। आतृपन् तृप्ताः सुहिता अभूवन्।
- ‘अनुकामं तर्पयेथामिन्द्रावरुणा राय आ’ (ऋ० १।७३।३)। धनस्य प्रकामं तर्पयतं न इत्याह। अन्यत्र आतर्पणं मङ्गलालेपनं भवति।
तॄ
- {आतॄ}
- तॄ (तॄ प्लवनतरणयोः)।
- ‘उक्षन्ते अश्वान् तरुषन्त आ रजः’ (ऋ० ५।५९।१)। उक्षन्त इत्यस्य मरुतः कर्तारः। रज आतरुषन्तः=अन्तरिक्षमतिक्रामन्तः, अन्तरिक्षं मध्येन यान्त इति वा। आतरः तरपण्यं स्यात्। तरणस्य पारगमनस्य हेतोर्यच्छुल्कं दीयते तदातरः। आतरलाघवहेतोर्मुरहर तरणीं तवालम्ब इत्युद्भटश्लोकः।
दंश्
- {आदंश्}
- दंश् (दंश दशने)।
- ‘शल्यस्य पूर्णचन्द्रसुदर्शनम्। मुखं पद्मपलाशाक्षं काकैरादष्टमव्रणम्’ (भा० स्त्री० २३।४)। आदष्टं वितुन्नम्।
दा
- {आदा}
- दा (डुदाञ् दाने)।
- ‘सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रविः’ (रघु० १।१८)। आदत्ते गृह्णाति हरति।
- ‘चत्वारो राजासन्दीमाददते’ (श० ब्रा० ३।३।४।२६)। आददते उद्वहन्ति, उत्थापयन्ति।
- ‘एकस्मिन्नेव पशावादीयमानेऽप्रियं भवति किमु बहषु’ (श० ब्रा० १४।४।२।२२)। आदीयमानेऽपह्रियमाणे।
- ‘निश्चितार्थामिति वाचमाददे’ (कि० १।३)। वाचमाददे वक्तुं प्रचक्रमे।
- ‘प्रदीपः स्नेहमादत्ते दशयाभ्यन्तरस्थया’ (शिशु० २।८५)। आदत्ते आत्मन्यन्तः करोति।
- ‘स हि सर्वस्य लोकस्य मन आददे’ (रघु० ४।८)। आददे, जहार, चकर्ष।
- ‘मम धर्मार्थयुक्तं हि श्रुत्वा वाक्यमनामयम्। न चेदादास्यते बालो दिष्टस्य वशमेष्यति’ (भा० उ० ९३।१८)॥ नादास्यते न प्रतिपत्स्यते, नाङ्गी करिष्यति।
- ‘सर्वमिदमाददीय यदिदं किं च’ (केनोप०)। आददीय अपहरेय उड्डाययेय।
- ‘शिरांस्याददिरे वीरा रथिनामश्वसादिनः’ (भा० भीष्म० ४६।२२)। चिच्छिदुः, अपजह्रुः।
- ‘श्वघ्नीव यो जिगीवाँ लक्षमादत्’ (ऋ० २।१२।४)। आदत्=आदत्त=अविध्यत्।
- ‘कः पुमानिह कुले जातः। स्त्रियपरगृहोषितां तेजस्वी पुनरादद्यात्’ (रा० ६।१००।१८)। स्त्रियमादद्यात् परिग्रह इति परिगृह्णीयात्।
- ‘आ सोमो वस्त्रा रभसानि दत्ते’ (ऋ० ९।९६।१)। आदत्ते परिधत्ते।
- ‘सोमस्य मित्रावरुणोदिता सूर आददे। तदातुरस्य भेषजम्।’ (ऋ० ८।७२।१७)। आददे जग्राह। पपावित्यर्थः।
- ‘व्यवहारासनमाददे’ (रघु० ८।१८)। आददेऽधितष्ठौ, अध्यासाञ्चक्रे।
- ‘त्वरमाणौ पलायेथां न वां जीवितमाददे’ (रा० ३।३।७)। आददे=अपहरामि।
- ‘शुभां विद्यामाददीतावरादपि’ (मनु० २।२३८)। आददीत प्रतीच्छेत्।
- ‘म्रियमाणोप्याददीत न राजा श्रोत्रियात्करम्’ (मनु० ७।१३३)। आददीत=गृह्णीयात्।
- ‘मन्दमिवाग्र आददीत’ (पञ्च० ब्रा० ७।१)। सम्बोधयेदुपक्रमेत वा।
- ‘त्रिगर्तराजमादातुं सिंहः क्षुद्रमृगं यथा’ (भा० वि० ३३।४७)। आदातुं ग्रहीतुम्।
- ‘हयान्गजान् वर्म्मिणश्चाददानांस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्’ (भा० उ० ४८।५५)। आददानान् ग्रसमानान्। शरौघान् इति विशेष्यम्।
- ‘आदाय कुन्तीं भ्रातॄंश्च जगामाशु’ (भा० आदि० १५०।२६)। आदाय सहादाय। कुन्त्यादिभिः समेत इत्यर्थः।
- ‘आभिषेचनिकं सर्वमिदमादाय…प्रतीक्षते त्वां स्वजनः’ (रा० २।७९।४)। अभिषेचनोपकरणं समानीयेत्यर्थः।
- ‘एते खलु काश्यपसन्देशमादाय तपस्विनः सम्प्राप्ताः’ (शा० ४)। काश्यपसन्देशहरा इत्यर्थः। आदाय मार्गशीर्षाच्च द्वौ द्वौ मासावृतुः स्मृत इति कात्य इत्यमरोद्घाटने स्वामी। आदाय आरभ्य।
- ‘आदानं हि विसर्गाय सतां वारिमुचामिव’ (रघु० ४।८६)। आदानं ग्रहणम्।
- ‘आदानमप्रियकरं दानं च प्रियकारकम्। अभीप्सितानामर्थानां काले युक्तं प्रशस्यते’ (मनु० ७।२०४)॥ उक्तोऽर्थः।
- ‘सारादानं दानमाहुर्धनानाम्’ (अवदा० कुल्माष० जा० श्लो० २३)। यद् दानीयाय स्वं धनं दीयते तेन सारभूतोऽनर्घोऽर्थः प्रत्यादीयते दात्रेति किमपि रुच्यमुक्तमार्यशूरेण।
- ‘भक्ष्यमाणो ह्यनादानात् क्षीयते हिमवानपि’ (भा० वन० ३२।१०)।
- ‘कुशाङ्कुरादानपरिक्षताङ्गुलिः’ (कु० ५।११)। आदानमुद्धरणमुन्मूलनम्।
- ‘अथवा मन्त्रवद् ब्रूयुरात्मादानाय दुष्कृतम्’ (भा० शां० २१२।३०)। आत्मादानं मनोनिग्रहः।
- ‘यद्वा अनीशानो भारमादत्ते वि वै लिशते’ (तै० सं० ६।२।५।१)। आदत्ते वहति।
- ‘न मान्यमानो मुदमाददीत’ (मात्स्य पु० ३९।२६)। संमान्यमानो हर्षं नाहारयेदित्याह।
- ‘आदिनाभ्यासेनोपहितेनोपधामादत्ते’ (नि० ५।१२)। उपधामकारं लुम्पतीत्यर्थः।
- ‘श्रेय आददानस्य साधु भवति हीयतेऽर्थाद् य उ प्रेयो वृणीते’ (कठोप० १।२।१)। आददानस्य परिगृह्णानस्य।
- ‘एकस्मिन्नेव पशावादीयमानेऽप्रियं भवति किमु बहुषु’ (बृह० उ० १।४।१०)। आदीयमाने आच्छिद्यमाने।
- ‘पाशासिमुद्गरधरास्तामादातुं कृतोद्यमाः’ (स्कन्द पु० का० ४।७१।५४)। आदातुं ग्रहीतुं प्रग्रहीतुम्।
- ‘अदत्तस्यानादानमस्तेयम्’ (यो० भा०)।
- ‘ब्राह्मणकल्पस्ते प्रजायामाजनिष्यते आदाय्यापाय्यावसायी’ (ऐ० ब्रा० ७।२९)। आदायी प्रतिग्रहशीलः।
- ‘वसुदेवसुतौ वीक्ष्य प्रीता दृष्टिं न चाददुः’ (भा० पु० १०।४१।७)। आददुः=आददिरे=प्रत्याजह्रुः।
दा
- {आदा}
- दा (दाण् दाने)।
- ‘हस्तौ पृणस्व बहुभिर्वसव्यैराप्रयच्छ दक्षिणादोत सव्यात्’ (अथर्व० ७।२८।८)। आप्रयच्छ आभिमुख्येन देहीत्यर्थः।
दाश्
- {आदाश्}
- दाश् (दाशृ दाने)।
- ‘यो नो अग्ने दुरेव आ मर्तो वधाय दाशति’ (ऋ० ६।१६।३१)।
दिव्
- {आदिव्}
- दिव् (दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु)।
- ‘नाद्यूनां तु स्त्रियं गच्छेन्नातुरां न रजस्वलाम्’ (वि० पु० ३।११।११५)। आद्यूनाऽप्रसन्ना। अन्यत्रात्रार्थे परिद्यून इति प्रयोगमवतरन् दृष्टः। आद्यूनस्त्वौदरिकमाह।
दिश्
- {आदिश्}
- दिश् (दिश अतिसर्जने, दिशिरुच्चारणक्रिय इति भा०)।
- ‘आदिशेत् प्रथमे पिण्डे मातरं पुत्रिकासुतः’ (बौ० ध० २।२।३।१६)। मातृनामादेशं दद्यादित्यर्थः। दिशिरिहोच्चारणक्रियः।
- ‘अशुभनिमित्तोत्पत्तौ शास्त्रतः शान्तिमादिशेत्’ (व० बृ० सं० ४८।८, ५।५५)। आदिशेत् विधेयत्वेन निर्दिशेत्।
- ‘यद्यु अभिचरेदादिशेत्’ (श० ब्रा० ३।५।२८)।
- ‘तस्य नामादिशेत्’ (श० ब्रा० ५।२।४।२०)। कोर्तयेत्, उच्चारयेत्।
- ‘प्रियं राजानमादिशेत्’ (लाट्या० श्रौ० १।१०।२१)।
- ‘यन्नादेक्ष्यामः’ (लाट्या० श्रौ० ८।८।२९)। यद्विशिष्य न वक्ष्याम इत्यर्थः।
- ‘आदिशत्याचार्याधीनो भव’ (इति) (गो० गृ० ३।१।१२)। आदिशति उपदिशति, अनुशास्ति, आज्ञापयतीत्यर्थः।
- ‘नास्य व्रतमादिशेत्’ (मनु० ४।८०)। उपदिशेत्, विदधीत। अस्तेर्भूशब्द आदिश्यते। अस्तेः स्थान उच्चार्यते विधीयते वा।
- ‘बर्हिषि ऋत्विग्भ्य आदिशति’ (का० श्रौ० २।४।११)। निर्दिशति, इदं ब्रह्मण इदं होतुरित्येवम्।
- ‘आदिशत्सर्वं यथासन्दिष्टमिष्टवत्’ (रा० २।८२।२२)। सोऽदिशदिति पाठान्तरम्। आदिशद् आज्ञापयत्।
- ‘आदिक्षदभिगमं वनाय’ (भट्टि० ३।९, ७।२८)। उक्तोऽर्थः।
- ‘अन्वेष्टुं वानरान्सर्वानादिदेश दिशो दश’ (रा० ५।३२।२)। आदिदेश आज्ञापयामास।
- ‘आदिश्यन्तां शार्ङ्गरवमिश्राः शकुन्तलानयनाय’ (शा० ४)।
- ‘अन्वेषणेऽनिरुद्धस्य चारानादिश मा चिरम्’ (हरि० २।१२१।३५)।
- ‘हरिवीराणामादिशद् दक्षिणां दिशम्’ (रा० ४।४१।७)। ** दक्षिणां दिशं प्रति प्रयाणमाज्ञापयदित्यर्थः।**
- ‘नूनं तु बलवाँल्लोके कृतान्तः सर्वमादिशन्। लोके रामाभिरामस्त्वं वनं यत्र गमिष्यसि’ (रा० २।२४।५॥। आदिशन्=आदिशति। उक्तोऽर्थः।
- ‘सा नो भूमिरादिशतु यद् धनं कामयामहे’ (अथर्व० १२।१।४०)। क्व लभ्यं तदिति ब्रवीतु, येन कामितं धनं लभेमहीत्याह।
- ‘यं न माता पिता भ्राता सुहृदश्चादिशन्ति हि’ (भा० पु० ८।२२।४)।
- ‘पतिपुत्रधनैर्हीनामादिदेश भविष्यतीम्’ (बृ० श्लो० सं० ४।८७)। इहादेशो भविष्यद्वचनं भवति। अत आदेशिको भविष्यद्वक्ता भवति। बाला स्त्री प्राणदा प्रोक्ता तरुणी प्राणहारिणी। प्रौढा करोति वृद्धत्वं वृद्धा मरणमादिशेत्॥ अत्रातिसर्जनं दानमित्येवार्थो मुख्यः, जननं तु गौणः। आङा नार्थः।
- ‘व्रतमादिष्टवान्रामः सहायं गुहमब्रवीत्’ (रा० २।५२।७१)। आदिष्टवान् अङ्गीकृतवान्।
- ‘या पुष्पकभद्रादिभिरादेशिकैरादिष्टा स्वामिनो देवी भविष्यतीति’ (स्वप्न० १)। आङ्शब्दः प्रागर्थे। देवीत्वलाभात्पूर्वमेव तल्लाभ उक्त इत्यर्थः।आदेशोऽनागतार्थशंसनम्।
- ‘प्रतिषिद्धमनादिष्टं प्रमादाद्यच्च नाशितम्’ (याज्ञ० २।२६०)। अनादिष्टमननुज्ञातम्।
- ‘आदिष्टा दक्षिणा’ (श० ब्रा० ११।१।५।११)। आदिष्टा विहिता। आज्ञप्तोच्छिष्टयोः क्लीबम् (आदिष्टम्) (मेदिनी)।
- ‘नियुतो वायोरित्यादिष्टोपयोजनानि’ (निघण्टौ १।१५)।
- ‘आदिश्यादिश्य नाराचैराजघान वृकोदरः’ (भा० वन० २७१।३५)। आदिश्य नाम विश्राव्येति नीलकण्ठः। लक्ष्यं बद्ध्वेत्यन्ये।
- ‘आदिश्यादिश्य तेजस्वी शिरांस्येषां व्यपातयत्’ (भा० आश्व० ८४।८)। शक्तिमायसीम्।
- ‘चिक्षेपार्जुनमादिश्य’ (भा० द्रोण० २८।९)। आदिश्य उद्दिश्य लक्ष्यं कृत्वा।
- ‘आदिश्यादिश्य दुर्गस्थान्पातयामास राक्षसान्’ (भा० वन० १८४।४०)। आदिश्य संमुखीकृत्य।
- ‘आस्मिन्पिशङ्गमिन्दवो दधाता वेनमादिशे’ (ऋ० ९।२१।५)। आदिशे आदेष्टुम्=लक्ष्यं कर्तुम्।
- ‘वसुमित्रं गोप्तारमादिश्य’ (माल० ५)। आदिश्य नियुज्य।
- ‘अथ यन्तारमादिश्य धुर्यान्विश्रामयेति सः’ (रघु० १।५४)। आदिश्य आज्ञाप्य।
- ‘नाम्न्यादिशिग्रहोः’ (पा० ३।४।५८)। आदिशिरुच्चारणे वर्तते। नामादेशमाचष्टे।
- ‘इदमोन्वादेशेऽशनुदात्तस्तृतीयादौ’ (पा० २।४।३२)। अत्र वृत्तिः– आदेशः कथनम्, अन्वादेशोऽनुकथनम्।
- ‘आदेशं देशकालज्ञः प्रतिजग्राह’ (रघु० १।९२)। आदेश आज्ञा।
- ‘मङ्गलादेशवृत्ताः’ (मनु० ९।२५८)। पुत्रलाभादि मङ्गलमादिश्य शंसित्वा ये वर्तन्ते जीवन्ति ते तथाभूताः।
- ‘अथादेशा उपनिषदाम्’ (श० ब्रा० १०।४।५।१)। आदेश उपदेशः। अनुशासनम्।
- ‘उत तमादेशमप्राक्ष्यः, येनाश्रुतं श्रुतं भवत्यमतं मतम्’ (छां० ६।१ ३)। उक्तोऽर्थः।
- ‘सिद्धादेशः, विप्रश्निकादेशवचनानि’ (काद०)। आदेशो भविष्यद्वचनम्।
- ‘सिद्धानामादेश ऋद्धिश्चित्तविकारिणी’ (व० बृ० सं० २।५।१९)। आदेशो व्याहारः, उपदेशो वा।
- ‘राजद्विष्टादेशकृतः’ (याज्ञ० २।३०४)। राज्ञा द्विष्टोऽरोचितो य आदेशो भविष्यद्वचनं तत्कृतस्तदुदाहर्तार इत्यर्थः। राज्ञः प्रतिकूलानि कर्माणि कुर्वाणा इति त्वापदेः। तन्न। आदेशः कर्म नाह।
- ‘धातोः स्थान इवादेशं सुग्रीवं संन्यवेशयत्’ (रघु० १२।५८)। शब्दस्य स्थाने विहितं शब्दान्तरमादेशः।
- ‘अनादेशे जपो होम उपवासस्तथैव च’ (भा० शां० ३६।६)। अनादेशे विशेषतोऽनुक्ते दोषे।
- ‘दक्षिणं प्रतीयानादेशे’ (आश्व० श्रौ०)। आदेशो विशिष्य निर्देशः, तदभावोऽनादेशः।
- ‘उदगयनपूर्वपक्षः पुण्याहेषु प्रागावर्तनादह्नः कालोऽनादेशे’ (द्रा० गृ० १।१।२)। उक्तोऽर्थः।
- ‘उद्धृतं मे स्वयं तोयं व्रतादेशं करिष्यति’ (रा० २।२२।२८)। व्रतादेशो व्रतानुष्ठानम् व्रतसमाप्तौ स्नानाचरणम्।
- ‘तत्र भिषजा… आत्मनोऽथर्ववेदे भवितरादेश्या’ (चरक सूत्र० ३०।२०)। आदिष्टीति ब्रह्मचार्युच्यते। तथा च (मनु० ५।८८) प्रयोगः–आदिष्टी नोदकं कुर्यादा व्रतस्य समापनात्। व्रतादेशनमादिष्टं तदस्यास्तीति व्युत्पत्तिः।
- ‘औषधग्रहणाद् द्रव्यगुणरसवीर्यविपाकप्रभावानामादेशः’ (सुश्रुत० १।१।२७)। आदेशः कथनम्।
- ‘तद्ये ऽनादिष्टदेवता मन्त्राः’ (नि० ७।४।१)। अनिर्दिष्टदेवताका इत्यर्थः।
- ‘सखे स एष सर्वसम्पदामास्पदतया त्रिदशालयस्यादेश इव गुर्जरदेशः’ (विश्व० च० १०।३३)। आदेशः स्थानापन्नः, प्रतिनिधिः।
दिह्
- {आदिह्}
- दिह् (दिह उपचये)।
- ‘बाहुभिश्चन्दनादिग्धैः’ (भा० द्रोण० ११३।१५)। आदिग्धैरासमन्ताल्लिप्तैः।
- ‘कवचैः शोणितादिग्धैः’ (भा० भीष्म० ९६।६२)। उक्तोऽर्थः।
- ‘निपेतुः शोणितादिग्धा धरण्यां पावकोपमाः’ (रा० ३।३।१२)। आदिग्धा ईषद् दिग्धाः।
दीप्
- {आदीप्}
- दीप् (दीपी दीप्तौ)।
- ‘आदीपकस्य स्तेनस्य वर्णसंकरिकस्य च’ (भा० शां० ८५।२२)। आदीपको गृहादिदाहकः, अग्निदः।
- ‘आदीप्तमिवाम्बरं सदिग्दाहं विचरति सप्तर्चिः’ (व० बृ० सं० ३१।१३)।
दु
- {आदु}
- दु (टुदु उपतापे)।
- ‘आदुन्वस्व विदुन्वस्व द्रुह्य कुप्यस्व याचकि’ (भा० आदि० ७८।११)। आदुन्वस्व आभिमुख्येन वक्षस्ताडनादिना सन्तापं प्राप्नुहीत्यर्थः।
दुह्
- {आदुह्}
- दुह् (दुह प्रपूरणे)।
- ‘कवेरपत्यमादुहे’ (ऋ० ९।१०।८)। आदुहे आपूरयामीति सायणः।
दृ
- {आदृ}
- दृ (दृङ् आदरे)।
- ‘मा पुत्रक तदादृथाः’ (ऐ० ब्रा० ५।१४)। मा स्म तज्जीगणः, तत्रार्थे चिन्तातुरो मा स्म भूरित्यर्थः।
- ‘भूरिश्रुतं शाश्वतमाद्रियन्ते’ (मालती० १।५)। सादरं शीलयन्त इत्यर्थः।
- ‘निपीय यस्य क्षितिरक्षिणः कथाः समाद्रियन्ते न बुधाः सुधामपि’ (नै० १।१)। न समाद्रियन्ते न बहु मन्यन्ते, न गणयन्तीत्यर्थः।
- ‘यत्किञ्चिद् दुर्मदाः स्वैरमाद्रियन्ते निरर्गलम्’ (महावीर० ७।३)। आद्रियन्ते कामयन्ते स्पृहयन्ते, सोत्सुकमिच्छन्ति।
- ‘इति स्म पृच्छत्यनुवेलामादृतः’ (रघु० ३।५)। आदृत आदरवान् सादरः। विनीतः सन्नित्यर्थः। कर्तरि क्तः।
- ‘दण्डनीत्यां नात्यादृतोऽभूत्’ (दशकु०)। उक्तोऽर्थः।
- ‘सर्वे तस्यादृता धर्मा यस्यैते त्रय आदृताः’ (मनु० २।२३४)।
- ‘तस्मात् तत्रादृतो भवेत्’ (मनु० ७।१५०)।
- ‘तौ वारयितुं श्यना निर्देश आदृतः’ (पा० ७।२।१० सूत्रे सि० कौ०)। आदृत आस्थित आश्रितः कृतः।
दृश्
- {आदृश्}
- दृश् (दृशिर् प्रेक्षणे)।
- ‘आ पश्यति प्रति पश्यति परा पश्यति पश्यति’ (अथर्व० ४।२०।१)। पश्यसीति पैप्लादाः पठन्ति। आपश्यति आगामि भयकारणं परिहर्तुं जानातीत्यर्थ इति सायणः।
- ‘उत्कलादर्शितपथः कालिङ्गाभिमुखो ययौ’ (रघु० ४।३८)। आदर्शितः सम्यग्दर्शितः कार्त्स्न्येन दर्शितो वा।
- ‘प्रत्यक्षप्रमाणस्यानुमानादिप्रमाणान्तरानङ्गीकारे ऽकिञ्चित्करत्वप्रदर्शनेन तेषां प्रज्ञायाः प्रमादमादर्शयति’ (स्याद्वाद० १९ इत्यत्र हैमः)। आदर्शयति कार्त्स्न्येन दर्शयति।
- ‘अप्स इति रूपनामाप्सातेरप्सानीयं भवत्यादर्शनीयं व्यापनीयं वा’ (नि० ५।१३।१)। आदर्शनीयमाभिमुख्येन दर्शनीयम्।
दॄ
- {आदॄ}
- दॄ (दॄ विदारणे)।
- ‘तस्या हृदयमादीर्य’ (श० ब्रा० १४।१।२।१२)। आदीर्य दीर्णं भूत्वेत्यर्थः।
- ‘य आदृत्या परिपन्थीव शूरोऽयज्वनो विभजन्नेति वेदः’ (ऋ० १।१०३।६)। आदृत्या=आदृत्य=आदीर्य।
दै
- {आदै}
- दै (दैप् शोधने)।
- ‘धनुरादायमानस्तु जानुभ्यामगमन्महीम्’ (भा० आदि० १८।२५)। आदायमानः=आदायन्=परीक्षमाणः। शुन्धन्निति तु शब्दार्थः।
दो
- {आदो}
- दो (दो अवखण्डने)।
- ‘आदानेन सन्दानेनामित्राना द्यामसि’ (अथर्व० ६।१०४।१)। आद्यामसि=आद्यामः=संचूर्णयामः।
- ‘अधा सपत्नान्मामकान् अग्नेस्तेजोभिरादिषि’ (अथर्व० १३।१।३०)। उक्तचर एवार्थः।
- ‘तानग्न आ द्या त्वम्’ (अथर्व० ६।१०४।२)। आद्या=आद्य आबधान।
- ‘सा ब्रह्मज्यं देवपीयुं ब्रह्मगव्यादीयमाना। मृत्योः पड्वीश आ द्यति’ (अथर्व० १२।५।१५)। उक्तोऽर्थः।
द्युत्
- {आद्युत्}
- द्युत् (द्युत दीप्तौ)।
- ‘यन्मे अक्ष्योरादिद्योत पार्ष्ण्योः प्रपदोश्च यत्। आपस्तत्सर्वं निष्करन्’ (अथर्व० ६।२४।२)। आदिद्योत दुष्यति विकृतं भवति।
द्रु
- {आद्रु}
- द्रु (द्रु गतौ)।
- ‘तथेति तं (वृत्रं) हनिष्यन्त आद्रवन्’ (ऐ० ब्रा० ३।२०)। आद्रवो धावनम्।
- ‘समाहूतः केन चिदाद्रवेति’ (भा० वन० ५।९)। आद्रव त्वरितमायाहि।
- ‘सोऽवेन्मां वै हनिष्यन्त आद्रवन्ति’ (ऐ० ब्रा० ३।२०)। इतः सत्वरमायान्तीत्याह।
- ‘तावाद्रुत्याब्रूतां प्राणन्तु नौ युवाभ्यां पशव इति’ (जै० ब्रा० १।१०९)। आद्रुत्य एत्य, सहसोपेत्य।
धा
- {आधा}
- धा (डुधाञ् धारणपोषणयोः)।
- ‘अहये वा तान्प्रददातु सोमा आ वा दधातु निर्ऋतेरुपस्थे’ (ऋ० ७।१०४।९)। आदधातु निदधातु।
- ‘अत्रिः सूर्यस्य दिवि चक्षुराधात्’ (ऋ० ५।४०।८)। आधात्=न्यास्थत्।
- ‘प्रतिदीव्ने दधत आ कृतानि’ (ऋ० १०।३४।६)। आदधते धरन्ते स्थापयन्ति।
- ‘जनपदे न गदः पदमादधौ’ (रघु० ९।४) आदधौ निदधौ। पदं नादधौ अवकाशं न लेभे।
- ‘मय्येव मन आधत्स्व’ (गीता० १२।८)। निधेहीत्यर्थः।
- ‘मा युद्धे चेत आधिथाः’ (भा० उ० १२९।४०)। माऽऽधिथा मा धृथाः।
- ‘जायापती अग्निमादधीयाताम्’ (का० श्रौ० ४।१३।१३)। अग्न्याधानं कुर्वीयाताम्। अग्न्याधानमग्निहोत्रार्थमिध्माधानम्, एधःस्थापनं वेद्याम्। वसन्तेऽग्नीनादधीत। उक्तचरोऽर्थः।
- ‘आधीयतां धैर्ये धर्मे च धीः’ (काद०)।
- ‘प्रतिपात्रमाधीयतां यत्नः’ (शा० १)। पात्रे पात्रे भूमिकादौ विषये यत्नोऽवेक्षा क्रियतामित्याह।
- ‘रसनिबन्धनं प्रत्यादृतमनाः कविर्विरोधिपरिहारे परं यत्नमादधीत’ (३।१७ ध्वन्या० लो०)। आदधीत कुर्यात्।
- ‘पाटलापुष्पमेकं च आदधावेकपाटला’ (हरि० १।१८।१७)। आदधौ स्वीकृतवती।
- ‘तस्मिन्निधीनादधीत प्रज्ञां पर्याददीत च’ (भा० शां० ८६।२९)। आदधीत प्रणिदद्यात्, समर्पयेत्।
- ‘कपयो दूतवाक्यानि श्रुत्वैव भयमादधुः’ (रा० ४।३७।२०)। भयमाहारयामासुः, भीतिमाविविशुरित्यर्थ:।
- ‘सवर्णाऽऽधत्त सामुद्री दश प्राचीनबर्हिषः’ (हरि० १।२।३३)। आधत्त व्यजायत।
- ‘नहि सकृन्निपातमात्रेणोदबिन्दुरपि ग्रावणि निम्नतामादधाति’ (का० सू० वृ० १।३।२४)। आदधाति जनयति।
- ‘चित्तस्य नो विस्मयमादधाति’ (माल० ५।१७)। उक्तपूर्व एवार्थः।
- ‘सुमेधसां कर्मणि दुष्करेपि नित्यक्रिया कौशलमादधाति’ (का० नी० सा० १६।५०)
- ‘प्रायः प्रत्ययमाधत्ते स्वगुणेषूत्तमादरः’ (कु० ६।२०)।
- ‘वसुदेवः सुतानष्टावादधे सहदेवया’ (भा० पु० ९।२४।५१)। आदधे लेभे। अपूर्वोऽर्थः।
- ‘आ धूर्ष्वस्मै दधाताश्वान्’ (ऋ० ७।३४।४)। आदधात युङ्ग्ध्वम्।
- ‘एतद्वः पितरो वास अधत्त’ (वा० सं० २।३२)। आधत्त परिधत्त।
- ‘भूयो बभौ दर्पणमादधाना’ (कु० ७।२६)। आदधाना आददाना गृह्णाना बिभ्रती।
- ‘(पिशिताशनानां) छायाश्चरन्ति बहुधा भयमादधानाः’ (शा० ३।१७)।
- ‘अवनीमात्मकीर्तिप्रकाशैराशापालानुभावग्रसनगृरुतरैरञ्चितामादधानः’ (महावीर० ७।८)। अञ्चितामलङ्कृतां कुर्वाण इत्यर्थः।
- ‘अथ क्रमेण नृपतिर्लोभाभ्यासेन भूयसा। आधीयमानचित्तोऽभूत्…’ (राज० ५।१६५)॥ आधीयमानचित्तो मनोव्यथायुक्तः।
- ‘वाहनमाहितात्’ (पा० ८।४।८)। यदारोपितमुह्यते तदाहितमुच्यते। इक्षुवाहणम् इत्यत्रेक्षव आहिता भवन्ति।
- ‘शेषः सदैवाहितभूमिभारः’ ( शा० ५।४)।
- ‘प्रसादवृत्त्याहितलोकवृत्तया’ (का० नी० सा० १०।४०)। आहितं न्यस्तं वृत्तं लोकव्यवहारो यत्र साऽऽहितलोकवृत्ता, तया।
- ‘अतिथिभ्यो मया देयमिति मे व्रतमाहितम्’ (भा० अनु० २।७१)। आहितं धृतम्।
- ‘आहूतो न निवर्तेयमिति मे व्रतमाहितम्’ (भा० द्रोण० १७।३९)। उक्तोऽर्थः।
- ‘विक्रीतमाहितं यत् पित्रा जीवता मम’ (रा० २।१११।२८)। आहितमाधिरूपेण न्यस्तम्। आहितः स्वामिना च यः (दासः) इति मिताक्षरायां नारदवचनम्। आहितो बन्धके स्थापितः।
- ‘अत्याप्तिरुच्छिष्टे भूतिश्चाहिता निहिता हिता’ (अथर्व० ११।९।२२)। आहिता आभिमुख्येन स्थिता।
- ‘मन्त्रिष्वाधाय तद् राज्यं गङ्गावतरणे रतः’ (रा० १।४३।१३)। आधाय आरोप्य समर्प्य।
- ‘इन्द्रे त्रैलोक्यमाधाय’ (भा० १।७७३५)।
- ‘अन्यं राजानमाधाय पञ्चालेषु नरेश्वरम्’ (भा० उ० १९०।८)।
- ‘तमेव (अग्निं) चाधाय विवाहसाक्ष्ये’ (रघु० ७।१७)। विवाहे साक्षिणं स्थापयित्वा।
- ‘काप्यकारः स यच्चिते पापमाधाय शंसनम्’ (त्रिकाण्ड०)। आधाय निधाय, कृत्वा।
- ‘उन्मत्तप्रेमसंरम्भादारभन्ते यदङ्गनाः। तत्र प्रत्यूहमाधातुं ब्रह्मापि खलु कातरः’ (भर्तृ० १।६०)॥ आधातुं स्थापयितुं जनयितुम्।
- ‘न शक्ष्यामि बालेस्मिन् गुणानाधातुमीप्सितान्’ (भा० आदि० १५८।१५)। आधातुं भावयितुं जनयितुम्।
- ‘अष्टमे च मया गर्भे कार्यमाधानमात्मनः’ (हरि० २।२।१०)। आधानं स्थापनम्।
- ‘विक्रयाधानवर्जानि।’ (कौ० अ० २।१।७)। आधानम् आधित्वेन स्थापनम्।
- ‘क्रयविक्रयाधानयाचितेषु’ (याज्ञ० २।२३८)। आधानमाधिकरणम्।
- ‘गुणो विशेषाधानहेतुः सिद्धो वस्तुधर्मः’ (सा० द०)। विशेषोपजननम्।
- ‘प्रजानां विनयाधानाद्रक्षणाद्भरणादपि’ (रघु० १।२४)। विनयाधानं शिक्षाप्रदानम्।
- ‘कौतुकाधानहेतोः’ (मेघ० ३ )। कौतुकाधानमौत्सुक्यजननम्।
- ‘तवापि मृत्युराधानादकृतप्रज्ञ दर्शितः’ (भा० पु० ९।९।३६)। आधानं निधुवनं रतं मैथुनं व्यवायः। अन्यत्र दुर्लभोऽयमर्थः। शब्दरूपेषु शब्दार्थेषु च स्वश्छन्दोऽस्य कवेरनृषेरपि।
- ‘एनमाधिं दापयिष्ये …भयं क्वचित्’ (शुक्र० ४।६४१)। आधिर्बन्धकम्।
- ‘आधिश्चोपनिधिश्चोभौ न कालात्ययमर्हतः’ (मनु० ८।१४५)। उक्तोऽर्थः।
- ‘न तेषामापदः सन्ति नाधयो व्यापदस्तथा’ (भा०)। आधिर्मानसी व्यथा।
- ‘व्याधिर्यदि भवेद्राज्ञः प्रविशेयुश्चिकित्सकाः। आधिर्वा यदि तत्रास्य कारणं नोपलभ्यते’ (कथा० ६।१२८)॥ उक्तोऽर्थः। ये चाधिम् (आजीवन्ति)। स्वगृहे परान्वासयित्वा तेभ्यो भूतिग्रहणमाधिः, यः स्तोम इति प्रसिद्धः। भोजनादिषु व्ययितं द्रव्यमवक्रयो वा। आधिः कुटुम्बव्यापृतः, अभ्यागारिक इति कोषः।
- ‘पात्रविशेषे न्यस्तं गुणान्तरं व्रजति शिल्पमाधातुः’ (माल० १।६)। आधाता विनयं दाता, विद्यां सङ्क्रमयिता, वितरीता।
- ‘वाक्यं रसात्मकं काव्यम्’ (सा० द० १)। रस एवात्मा साररूपतया जीवनाधायकोस्येति रसात्मकम्। जीवनमाधत्ते निषिञ्चतीति जीवनाधायकः।
- ‘स्वां प्रजां बृहदुक्थो महित्वाऽऽवरेष्वदधादा परेषु’ (ऋ० १०।५६।०)। आदधात्=अकरोत्। आङ् नार्थे विशेषं करोति।
- ‘यथा ऽनसि युक्त आधीयते’ (तै० सं० ५।४।१०)। आधीयते वोढव्यमिति शेषः।
- ‘वहत्यनड्वानादधानः’ (जै० ब्रा० १।३८)। आदधान आहितभारः।
- ‘यो ह वै शिशुं साधानं सप्रत्याधानं सस्थूणं सदामं वेद’ (बृह० उ० २।२।१)। आधीयते ऽस्मिन्नित्याधानम्। भूतसूक्ष्ममयं लिङ्ग शरीरम्। तेन सह वर्तमानं साधानम्।
- ‘प्रहृत्य परिधीन् जुहोति। निराधानाभ्यामेव (अश्वाभ्याम्) घासं प्रयच्छति’ (तै० ब्रा० १।६।३)। आधानं खलीनं कबिकम्।
- ‘आधिभेदाद्यथा भेदो मणेरवगतस्तथा’ (उपदेश० १८।१२२)। आधिरुपाधिः। छन्दोवशादुपशब्दस्त्यक्तः। स दोषः। न ह्याधिरुपाधेरर्थे प्रसिध्यति।
धाव्
- {आधाव्}
- धाव् (धावु गतिशुद्ध्योः)।
- ‘अस्माँ अच्छा सुमति र्वां शुभस्पती आ धेनुरिव धावतु’ (ऋ० ८।२५।४)। युवयोः सुमतिः सौमनस्यमस्मानभ्याधावतु त्वरितमागच्छत्वित्याह।
- ‘प्रेक्षमाणास्तदान्योन्यमाधावन्नगरं प्रति’ (भा० शल्य० २९।७७)। नगरमभ्यधावन् इत्यर्थः।
- ‘तत आधावनप्रधावनमात्रे नन्दगोपपुत्रे’ (बाल० ३)। आधावनमितस्ततो धावनम्। प्रधावनं चङ्क्रमणम्। प्रशब्द आदिकर्मणि।
- ‘आ कलशेषु धावति’ (सोमः) (ऋ० ९।१७।४)। आधावति स्यन्दते प्रवहति।
- ‘आ नः सुतास इन्दवः पुनाना धावता रयिम्’ (ऋ० ९।१०६।९)। हे सुता अभिषुता इन्दवः सोमबिन्दवोऽस्मान्प्रति रयिं रायं द्युम्नमाधावत प्रवाह्यानयतेत्याह
धु-धू
- {आधु|आधू}
- धु-धू (धुञ्-धू कम्पने)।
- ‘अथ धवित्रैराधूनोति’ (श० ब्रा० १४।१।३।३०)। आधूनोति वीजयति।
- ‘अंशूनाधुनोति’ (श० ब्रा० ११।५।९।८)। आधुनोति घट्टयति क्षोभयति।
- ‘आधुन्वन्तो वा पिबन्तश्च तोयम्’ (श्वानः) (व० बृ० सं० ८८।१०)। आधुन्वन्तश्चलयन्तः पुच्छम्।
- ‘आधूतान् वायुना पश्य सन्ततान् पुष्पसंचयान्’ (रा० गोरि० २।१०४।९)।
- ‘आधूतान् आन्दोल्य प्रक्षिप्तान्। ये यज्ञे धुवनं तन्वते’ (श० ब्रा० १४।१।३।३२)। धवित्रेण मारुतं प्रेरयन्ति।
धृ
- {आधृ}
- धृ (धृञ् धारणे)।
- ‘सकृच्छ्रुतमयं बालः सर्वं चाधारयेद् हृदि’ (कथा० २।३७)। हृदि मनसि आधारयेत् रक्षेत्।
- ‘अधारयो दिव्या सूर्यं दृशे’ (ऋ० १।५२।८)। आधारयः=आवृतवानसि, न्यक्षिपः, न्यदधाः।
- ‘आ पवमान धारय रयिं सहस्रवर्चसम्’ (ऋ० ९।१२।९)। आधारय आहर।
- ‘हंसक, वृत्तान्तं तावदाधारय यावदुच्छ्वसिमि’ (प्रतिज्ञा० १)। आधारय विरमय, विरामं नय।
- ‘आधारयद्यो विविधाश्चित्राः सुमनसः सदा’ (रा० २।९९।३३)। आधारयत् अबिभः।
- ‘भवन्ति हि देवदत्तस्य गावः, न च तास्तस्मिन्नाधृता भवन्ति’ (पा० ५।२।९४ सूत्रे भाष्ये)। न हि देवदत्तस्तासामाधार इत्यर्थः। आध्रियन्तेऽस्मिन्क्रिया इत्याधारः (आधारोऽधिकरणम् १।४।४५ सूत्रे वृत्तिः)।
धृष्
- {आधृष्}
- धृष् (ञिधृषा प्रागल्भ्ये धृष प्रसहने)।
- ‘मा वां वृको मा वृकीराधर्षीत्’ (ऋ० १।१८३।४)। अवमन्तुमपकर्तुं वा मा स्म धर्षीत्, न जातु धृष्णुयात्।
- ‘मायां देवस्य नकिरा दधर्ष’ (ऋ० ५।८५।६)। न कश्चिद् अवहेलयितुमुत्सहते इत्याह।
- ‘स्मृत्याचारव्यपेतेन मार्गेणाधर्षितः परैः। आवेदयति चेद्राज्ञे व्यवहारपदं हि तत्’ (याज्ञ० २।५)॥ आधर्षितोऽभिभूतः।
ध्मा
- {आध्मा}
- ध्मा (ध्मा शब्दाग्निसंयोगयोः)।
- ‘उद्धमाधम सन्धम’ (तै० आ० १।१२।१)।
- ‘तव भुजबलदर्पाध्मायमानस्य वामः शिरसि चरण एष न्यस्यते। वारयैनम्’ (वेणी० ३।४०)। आध्मायमानः स्फायमानः।
- ‘अयं विन्ध्यो येनाहृतविहृतिराध्मानमजहात्’ (महावीर० ७।१४)। आध्मानं वर्धनं स्फातिः।
- ‘योगाधमनविक्रीतं योगदानप्रतिग्रहम्’ (मन० ८।१६५) आधमनं बन्धकम्। योग इह च्छलमुक्तः।
- ‘एको ह्यनीशः सर्वत्र दानाधमनविक्रये’ (का० स्मृ०)। उक्तोऽर्थः।
- ‘आध्मातस्तेन हरिणा न चक्रे शङ्खराड्’ (हरि० ३।१२०।१३)। आध्मातः पूरितः।
- ‘महावाताध्मातैर्जलधरैः’ (मृच्छ०)। आध्माताः स्फीताः।
- ‘वातेनाध्मापितां नाभिम्’ (सुश्रुत० १।३७४।५)। आध्मापिता स्फाविता।
- ‘यच्चैतद् बहुभिर्भेरीमाधमद्भिः शब्दमुच्चारयद्भि र्महाञ्शब्द उपलभ्यते’ (मी० शा० भा० १।१।६।१७)। आधमद्भिः, पूरयद्भिः, ताडयद्भिः।
- ‘शराध्मातमहातूणाः’ (सौन्दर० १।३५)। आध्माताः स्फीताः पूर्णाः।
ध्वंस्
- {आध्वंस्}
- ध्वंस् (अवस्रंसने गतौ च)।
- ‘आध्वस्तं चक्षुः’ (नि० ४।३)। आवृतमित्यर्थः।
नद्
- {आनद्}
- नद् (णद अव्यक्ते शब्दे)।
- ‘रथेनानादयन् दिशः’ (भा० आदि० १३८।२८)। आनादयन्प्रतिध्वनयन्।
नन्द्
- {आनन्द्}
- नन्द् (टुणदि समृद्धौ)।
- ‘(दण्डः) यथाशास्त्रं प्रयुक्तः सन् सदेवासुरमानवम्। जगदानन्दयेत् सर्वमन्यथा तत् प्रकोपयेत्’ (याज्ञ० १।३५५)॥
नम्
- {आनम्}
- नम् (णम प्रह्वत्वे शब्दे च)।
- ‘आ नो रुद्रस्य सूनवो नमन्ताम्’ (ऋ० ६।५०।४)। आनमन्ताम् इतोभिवर्तन्ताम् इत्याह।
- ‘यावन्नराशैर्न रिपुः शवाशान् सन्तर्पयत्यानम तावदस्मै’ (भट्टि० १२।७५) अस्मा आनम आत्मानं तदधीनं कुरु।
- ‘नृपतयो यत आनमन्ति’ (भा० पु० १।१५।२१)। आनमन्ति प्रणता भवन्ति।
- ‘तं राजकमाननाम’ (काद०)। प्रणनामेत्यर्थः।
- ‘सकृदेवानतं शेकू रथमभ्यसितुं परे’ (भा० वि० ५५।२०)। आनतमागतम्। उपशब्दस्यार्थ आङ्। अत्रार्थे उपनतशब्दस्य बहुलः प्रयोगः। तं प्रवरं मुनीनां पतञ्जलिं प्राञ्जलिरानतोस्मि। आनतोस्मि प्रणमामि।
- ‘वित्तेनानतिः स्त्रीमतामासुरः’ (गौ० ध० १।४।९)। आनतिरर्जनम् प्राप्तिः।
- ‘मज्जा म आनतिः’ (वा० सं० २०।१३)। आनमन्ति भूतानि यत्र साऽऽनतिः।
- ‘आनम्य मूर्ध्नि चाघ्राय’ (रा० २।२५।३८)। आनम्य=आत्मानं नमयित्वा।
- ‘बलाच्चानम्य दुर्बलान्’ (भा० वि० २९।११)। आनम्य आनमय्य वशे नीत्वा, आत्मसात्कृत्वा।
- ‘…नन्दिना सह संकथाम्। काञ्चित्तर्जनिविन्यासपूर्वं कुर्वन्तमानमत्’ (स्कन्द पु० का० ४।८९।२)। आनमत् प्राणमत्।
- ‘सकृदेवानतं शेकू रथमभ्यसितुं परे’ (भा० वि० ५५।२०)। आनतमुपनतमुपगतम्। अभ्यसितुं परिचेतुम्। शराः कर्तारः।
- ‘पामरैरप्यपेयानां वारीणां परिपातरि। आश्रये जलजन्तूनामानिनंसा कथं तव’ (विश्व० च०)॥ आनिनंसा नन्तुमिच्छा।
नर्द्
- {आनर्द्}
- नर्द् (नर्द शब्दे)।
- ‘आनर्दं नर्दतः सम्यक् तदा सूयं भविष्यति’ (भा० उ० १४१।४७)। आनर्दो महानादः। णमुलन्तमिति नीलकण्ठः। सूयम् इत्यस्य स्थाने सत्यमिति क्वचित्पाठः
नह्
- {आनह्}
- नह् (णह बन्धने)।
- ‘आनह्यते नासा’ (सुश्रुत० २।३६९।१०)। आनह्यते रुध्यते। ततं वीणादिकं वाद्यमानद्धं मुरजादिकम् (अमर०)।
- ‘विस्तीर्णवक्षसं दीर्घभुजमानद्धकन्धरम्’ (शि० भा० १।७५)। आनद्धकन्धरम् आयतग्रीवम्।
- ‘ततो रुद्धे शकृन्मूत्रे सैन्यमानाहदुःखितम्’ (भा० वन० १२२।१५)। आनाहस्तु विबन्धः स्यादित्यमरः। दैर्घ्यमायाम आनाह इति च सः।
- ‘आनह्यते यस्य विधूप्यते च प्रक्लिद्यते शुष्यति चापि नासा। न वेत्ति यो गन्धरसांश्च जन्तुर्जुष्टं व्यवस्येत्तमपीनसेन’ (सुश्रुत० उत्तर० २२।३)॥ आनह्यते रुध्यते।
- ‘पुनरानह्यते वापि पुनर्विव्रियते तथा’ (नासिका) (सुश्रुते २४।१०)। उक्तोऽर्थः।
नी
- {आनी}
- नी (णीञ् प्रापणे)।
- ‘यः पुरुषमेधानामयुतमानयेत् तेनास्यायुतनायित्वम्’ (भा० १।३७७३)। आनयेत् आहरेत् संबिभृयात्।
- ‘केनाप्युत्क्षिपतेव पश्य भुवनं मत्पार्श्वमानीयते’ (शा० ७।८)। आनीयते प्राप्यते।
- ‘दूरादिन्द्रमनयन्ना सुतेन’ (ऋ० ७।३३।२)। आनयन् आहरन्।
- ‘आनिनाय भुवः कम्पम्’ (रघु० १५।२४)। आनिनाय जनयामास भावयाञ्चकार।
- ‘हरिरानीतः पुरुवारो अप्सु’ (ऋ० ९।९६।२४)। आनीतः प्रक्षिप्तः। तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा। प्रानयति प्रक्षिपति।
- ‘दधनि मध्वानीय’ (आश्व० गृ० १।२१।५)। आनीय आसिच्य।
- ‘जालमानाय’ (पा० ३।१।१२४) इत्यत्र पाणिनीये निपातित आनायो जालम्। साहित्ये दुर्लभ आनायशब्दः।
- ‘आनायिंस्तु रघौ’ (१६।७५) लभ्यते–आनायिनस्तद्विचये नदीष्णान्। आनायिनो जालवन्तो जालिकाः।
नु-नू
- {आनु|आनू}
- नु-नू (णु स्तुतौ णू स्तवने)।
- आनुते शृगालः। आङि नुप्रच्छ्योरिति वार्तिके वृत्तावुदाहरणम्। आनुते क्रोशति रौति वाश्यते। आङा शब्दविशेषात्स्तुतिलक्षणादपकृष्य शब्दसामान्ये धातुर्व्यवस्थापितः।
- ‘(पतत्त्रिणः) मन्द्रमानुवानाः’ (भट्टि० ८।६७)। उक्तोऽर्थः।
- ‘आ वामृताय केशिनीरनूषत’ (ऋ० १।१५६।६)।
- ‘आ कलशा अनूषतेन्दो धाराभिरोजसा’ (ऋ० ९।६५।१४)। आनूषत ध्वनन्ति।
नृत्
- {आनृत्}
- नृत् (नृती गात्रविक्षेपे)।
- ‘उत्समा कीरिणो नृतुः’ (ऋ० ५।५२।१२) उत्समानृतुः=उत्समानर्तिषुः=इतस्ततः साकम् उदशलन्।
- ‘आनृत्यतः शिखण्डिनो गन्धर्वस्य’ (अथर्व० ४।३७।७)। आ समन्तान्नृत्यत इत्यर्थः।
- ‘मरुद्भिरानर्तितनक्तमाले’ (नर्मदारोधसि) (रघु० ५।४२)। आनर्तिता आन्दोलिताः प्रेङ्खन्त्यः
पण्
- {आपण्}
- पण् (पण व्यवहारे स्तुतौ च)।
- ‘नैकद्रव्योच्चयवतीं समृद्धविपणापणाम्’ (भा० अनु० ३०।१७)। विपणो विपणी पण्यवीथिका। आपणो निषद्या। एत्यात्रापणन्त इत्यापण इति गोचरसंचरेत्यादिसूत्रे (पा० ३।३।११९) वृत्तिः।
पत्
- {आपत्}
- पत् (पत्लृ गतौ)।
- ‘श्येनो भूत्वा विश आपतेमाः’ (अथर्व० ३।३।३)। आपत आगच्छ।
- ‘कर्ममध्ये या इष्टयो व्रातपतीयाद्याश्चापतन्ति ता अनुष्ठेयाः’ (का० श्रौ० वृ०)।
- ‘आपतन्ति हि संसारपथमवतीर्णानामेते वृत्तान्ताः’ (काद०)। आपतन्ति अतर्किता उपनमन्ति।
- ‘आ वर्षिष्ठया न इषा वयो न पप्तता सुमायाः’ (ऋ० १।८८।१)। आपप्तत=अभित्वरध्वम्।
- ‘आपतत्येष दुष्टात्मा सङ्क्रुद्धः पुरुषादकः’ (भा० आदि० १५३।४)। उक्तोऽर्थः।
- ‘तच्चेदन्तः पुनरापतेच्छेषेण शुद्ध्येरन्’ (गौ० ध० २५।५)। आपतेत् आगच्छेत्।
- ‘जीवन्वा पतिरापतेत्’ (बृ० श्लो० सं० ४।३६)। उक्तोऽर्थः।
- ‘आपतत्यात्मनः प्रायो दोषोऽन्यस्य चिकीर्षितः’ (कथा० २०।२१३)। आत्मानमनुधावति, आत्मनि प्रसजति। दोषोऽपायः।
- ‘वेनन्ति वेना पतयन्त्या दिशः’ (ऋ० १०।६४।२) पत गतौ चुरादिः।
- ‘मधुरतराण्यापतन्ति मनसः’ (काद०)। आपतन्ति आभासन्ते, प्रतीतिं यान्ति, प्रतीयन्ते।
- ‘स्फुटपौरुषमापपात पार्थः।’ आपपात=आस्कन्दत्।
- ‘अपि नाध्वश्रमः शीघ्रं रथेनापततस्ते’ (रा० २।७२।५)। आपतत आगच्छतः=आस्यन्दमानस्य।
- ‘पादैः शनैरापततः प्रमन्यून्’ (भट्टि० ३।४८)। आपतत आगच्छतः। (द्वि० बहु०)।
- ‘प्रबलद्वीपिनमापतन्तमुच्चैः’ (राज० ३। )।
- ‘सा ददर्श ततस्त्रस्तान् हरीनापततो द्रुतम्’ (रा० ४।१९।६)। द्रुतमापततः पलायमानान्।
- ‘तत्र काष्ठं कुठारेण पाट्यमानं विधेर्वशात् आपत्य तस्य जङ्घायां भित्त्वान्तः प्रविवेश तम्’ (कथा० २८।१५)॥
- ‘जग्रहापततस्तस्य पादौ च रघुनन्दनः’ (रा० ३।१२।२४)।
- ‘कथमिदमापतितम्’ (उत्तर० २)। आपतितं घटितं संवृत्तम्।
- ‘अदर्शनादापतितः पुनश्चादर्शनं गतः’ (भा० शां० १७४।१७)। आपतित आविर्भूतः।
- ‘क्वचित्प्राकरणिकादर्थादप्राकरणिकस्यार्थस्यापतनम्’ (सा० द०)। आपतनं प्रतीतिः।
- ‘आपातरम्या विषयाः पर्यन्तपरितापिनः’ (कि० ११।१२)। आपातरम्यास्तत्कालरमणीयाः। तदात्वे पात आपात इति वैजयन्तीति मल्लिः।
- ‘आपातरमणीयानां संयोगिनां प्रियैः सह। अपथ्यानामिवान्नानां परिणामोऽतिदारुणः’ (पञ्चत०)॥
- ‘मध्वापातो विषास्वादः’ (मनु० ११।९)। मध्वापातो मधुरोपक्रमः।
- ‘आनन्त्यव्यभिचारदोषापातात्’ (सा० द० १०।१९)। आपातः प्रसङ्गः।
- ‘तदापातभयात्पथि’ (कु० २।४५)। आपात आस्कन्दः, आक्रमः, धर्षणम्।
- ‘गरुडापातविश्लिष्टमेघनादास्त्रबन्धनः’ (रघु० १२।७६)। गरुडापाता गरुत्मतोऽवतरणम्।
- ‘आपातान् प्रतितिष्ठन्ति पुलिन्दशबरा इव’ (भा० शां० १५१।८)। आपातो नरकः।
- ‘करटापातविस्फोटा भान्त्यर्था वासनादयः’ (यो० वा० ४।३३।३८)। आपातोऽवपातः।
- ‘आमुखापाति कल्याणं कार्यसिद्धिं हि शंसति’ (कथा० १८।४९)। आमुख उपक्रमे जायमानं घटमानं श्रेय इत्यर्थः।
- ‘आपतये त्वा परिपतये गृह्णामि’ (वा० सं० ५।५)। पवनमुद्दिश्याह। आपतिरापतनम् इतः पवनं वानम्।
- ‘किन्त्वधीते वेदे द्वयमापतति’ (मी० शा० भा० १।१।१।१)। आपतति प्रसज्यते प्राप्नोति।
- ‘वाग्दत्ता यद्यनूढैव कन्या पञ्चत्वमापतेत्’ (कर्मप्रदीपे १।६।१३)। आपतेत् प्राप्नुयात्।
- ‘आपतत्यात्मनि प्रायो दोषोऽन्यस्य चिकीर्षितः’ (कथा० २०।२१३)। आपतति आयाति।
- ‘मदश्चैकपदे नष्टः क्रोधश्चापतितो महान्’ (रा० ४।१५।२)। आपतित उत्पन्न आविर्भूतः, विजृम्भितः।
- ‘तत्रायमद्यापतितो विपाकः’ (रा० ३।६३।४)। आपतित उपनतः प्राप्तः प्रसक्तः।
- ‘आपतये त्वा गृह्णामि’ (तै० सं० १।२।१०)। प्राणो वाऽऽपतिः। आवृत्त्याऽभिमुख्येन वा पततीति।
पद्
- {आपद्}
- पद् (पद गतौ)।
- ‘एष रावणिरापादि वानराणां भयङ्करः’ (भट्टि० १५।८९)। आपादि प्राप्तः।
- ‘तस्य मत्स्यः पाणी आपेदे’ (श० ब्रा० १।८।१।१)। आपेदे प्राप।
- ‘रावणस्य पुरीं लङ्कामापेदतुः’ (रा० ६।१६।२१)। आपेदतुः=आपेदाते=प्रापतुः।
- ‘अथ यदि पण्यमानः (सोमः) किञ्चिदापद्येत’ (श० ब्रा० १२।६।१।१०)। आपद्येत आपदमाप्नुयात्। विकारं गच्छेत्।
- ‘शर्यातो ह वा ईक्षाञ्चके। यत्किमकरं तस्मादिदमापादीति’ (श० ब्रा० ४।१।५।४)। तत इयमापदुपनतेति तदर्थः।
- ‘अर्थधर्मौ परित्यज्य यः काममनुवर्तते। एवमापद्यते क्षिप्रं राजा दशरथो यथा’ (रा० २।५३।१३)। आपद्यते=आपद्गतो भवति।
- ‘एवमापद्यते’ (माल०)। एवं भवतीत्यर्थः।
- ‘न ह्येतास्वन्यत्सामापद्यते।’ (लाट्या० श्रौ० १०।२।२)। आपद्यते विद्यते।
- ‘बलादपराधिनं मामापादयसि’ (विक्रम०)। अपराद्धतां मयि प्रसञ्जयसि।
- ‘क्व नु नाम वयं सर्वाः कालेनाल्पेन तं नरम्। समागच्छेम यो नस्तद्रूपमापादयेत्पुनः’ (भा० आदि० २१७।१३)॥ आपादयेत् प्रापयेत्।
- ‘स राजा परमापन्नः’ (हरि० १।२४।११)। आपन्न आपत्प्राप्तः। स्यादापन्न आपद्गत इत्यमरः।
- ‘आपन्नाभयसत्रेषु दीक्षिताः खलु पौरवाः’ (शा० २।१७)। उक्तोऽर्थः।
- ‘आपन्नं स्तृणन् निरस्येत्’ (का० श्रौ० २।६।३३)। आपन्नं (वेद्यां) पतितं (तृणादिकम्)।
- ‘कूजद्भिरापादितवंशकृत्यम्’ (रघु० २।१२)। आपादितं निष्पादितं निर्वृत्तम्। आपदिरनिष्टप्रसङ्ग इति परिभाष्यते।
- ‘दैवीनां मानुषीणां च प्रतिहर्ता त्वमापदाम्’ (रघु० १।६०)। आपदो विपदो व्यसनानि।
- ‘ध्यानापादांश इव’ (छां० उ० ७।६।१)। आपादो ध्यानफललाभः (शङ्करः)।
- ‘द्रव्यस्य सङ्ख्यान्तरापादने’ (अधिकरणविचाले ५।३।४३ इत्यत्र वृत्तिः)। आपादनं प्रापणम्।
- ‘तदाहुर्यस्याग्निहोत्रमधिश्रितममेध्यमापद्येत’ (ऐ० ब्रा० ७।५)। आपद्येत सम्पद्येत भवेत्।
- ‘मृत्युरापद्यते मोहात्सत्येनापद्यते ऽमृतम्’ (भा० शां० १७५।३०)। आपद्यते प्राप्यते।
- ‘दोषाः प्रकुपिताः…। व्याप्य देहमशेषेण ज्वरमापादयन्ति हि’ (सुश्रुत० उत्तर० ३९।६)। आपादयन्ति प्रसञ्जयन्ति, जनयन्ति।
- ‘अत्रैव मा भगवान् मोहान्तमापीपदत्’ (बृह० उ० ४।५।१४)। मोहावस्थां मा प्रापिपत्।
- ‘द्वयोरापन्नयोस्तुल्यमनुबध्नाति यः पुनः। तयोर्दण्डमाप्नोति पूर्वो यदि वेतरः’ (नारद०)॥ आपन्नयोरभियुक्तयोः, अभियोगग्रस्तयोः।
- ‘यथाक्षन्नापन्नं विधावति’ (तै० सं० ६।१।९)। अक्षन्नापन्नम्=अक्ष्णि प्रविष्टम्।
- ‘तेनैचश्चतुर्विंशतेः संज्ञाः स्युरिति नापादनीयम्’ (पा० १।१।१० इत्यत्र दीक्षितः कौमुद्याम्)। नापादनीयम्=नानिष्टापत्तिश्चोदनीयेत्यर्थः।
- ‘अथ ये प्रभवो ध्यानापादांशा इवैव ते भवन्ति’ (छां० उ० ७।६।१)। ध्यानमापद्यन्ते प्राप्नुवन्ति ते ध्यानापादाः।
पा
- {आपा}
- पा (पा पाने)।
- ‘नापिबेयं बलाद्वक्षो भित्त्वा चेद्रुधिरं युधि’ (भा० सभा० ६८।५३)। आपिबेयम्=निःशेषेण पिबेयम्, कणेहत्य पिबामीत्यर्थः।
- ‘ततो स्या आपपौ वक्त्रं पद्मं मधुकरो यथा’ (हरि० ८७४६)। उक्तोऽर्थः।
- ‘षडाननापीतपयोधरासु’ (रघु० १४।२२)। आपीता निःशेषेण पीता।
- ‘आपीतौ युष्मद्विधैः पुत्रैः …पयोधरौ’ (हर्ष० ५)। उक्तोऽर्थः।
- ‘ता राघवं दृष्टिभिरापिबन्त्यः’ (रघु० ७।१२)। सतृष्णमालोकयन्त्य इति तात्पर्यार्थः।
- ‘उपैति सविता ह्यस्तं रसमापीय पार्थिवम्’ (भा० शां० ५८।२८)। रसमाकृष्येत्यर्थः।
- ‘आपाने पानकलिता दैवेनाभिप्रचोदिताः’ (भा० आदि० २।३५५)। आपानं पानशाला। अमरस्त्वापानं पानगोष्ठिकेति पठति।
- ‘गन्धर्वाप्सरसो भद्रे मामापानगतं सदा उपतिष्ठन्ति’ (भा० वन० २८१।१३)। उक्तोऽर्थः।
- ‘आपिबेयं समुद्रं च’ (रा० ३।४९।३)। निःशेषं पिबेयमित्यर्थः।
- ‘सा निनाय तमुद्यानमापानाय सुराङ्गना’ (कथा० ७३।१५२)। आपानं सुरापानम्।
- ‘आपित्वे नः प्रपित्वे तूयमागहि’ (ऋ० ८।४।३)।
- ‘आपित्वे आपानकाल इति दुर्ग।’ (नि० ३।२०)
पिष्
- {आपिष्}
- पिष् (पिष्लृ संचूर्णने)।
- ‘यदाऽऽपिपेष मातरं पुत्रः प्रमुदितो धयन्’ (वा० सं० १९।११)। आपिपेष ईषत् पिनष्टि क्षिणोति।
- ‘तं पाणिनापेष बोधयाञ्चकार’ (श० ब्रा० १४।५।१।१५)। पाणिनापेषम् पाणिभ्यां निपौड्य।
पीड्
- {आपीड्}
- पीड् (पीड अवगाहने)।
- ‘अन्यानि वासांसि परिधाय सकृदेनान्यापीड्य’ (आश्व० गृ० ४।४)। इहापीडयतिर्निष्पीडयतेरर्थे पठितः।
- ‘कण्ठे जीर्णलताप्रतानवलयैरत्यर्थमापीडितः’ (शा० ७।११)। आपीडित आबाधितः।
पू
- {आपू}
- पू (पूङ् पवने)।
- ‘इन्द्रस्येन्दो जठरमापवस्व’ (ऋ० ९।७०।१०)। श्रापवस्व प्रक्षरन् प्रविशेत्यर्थः।
- ‘ते नः सहस्रिणं रयिं पवन्तामा सुवीर्यम्’ (ऋ० ९।१३।५)। अस्मान्प्रति प्रवाहयन्त्वित्यर्थः।
- ‘आ पवस्व हिरण्यवदश्ववत् सोम वीरवत्’ (वा० सं० ८।६३)। आपवस्व प्रक्षर।
पृ
- {आपृ}
- पृ (पृङ् व्यायामे)।
- ‘अह्नयापृतार्तकरणा निशि निः शयानाः’ (भा० पु० ३।९।१०)। आपृतानि व्यापृतानि आर्तानि करणानि येषां ते आपृतार्तकरणाः। अन्यत्र व्याङ्पूर्व एव प्रियतिः प्रयोगमवतीर्णो दृश्यते। अत्र तु केवलेनाङोपसृष्ट इति भागवतकारस्य व्यवहारं प्रत्यनादरस्य निदर्शनम्। स चेह बहुल ऋतिंकरश्च विदाम्।
पृच्
- {आपृच्}
- पृच् (पृची सम्पर्चने)।
- ‘आ त्वा पृणक्त्विन्द्रियं रजः सूर्यो न रश्मिभिः’ (ऋ० १।८४।१)। आपृणक्तु पूरयतु।
- ‘सेमं पृण’ (ऋ० १।१६।९)। पूरयेत्याह।
- ‘काममापृण दुर्मन्मानं सुमन्तुभिरेमिषा पृचीमहि’ (ऋ० १।१२९।७)। इषा अन्नेन आपृचीमहि सन्तर्पयामः।
- ‘वस्वो वीरस्यापृचः’ (ऋ० ८।४०।९)। आपृचः कार्त्स्न्येनाधिकृतवानसि, निरवशेषमधितिष्ठसि।
पृच्
- {आपृच्}
- पृच् (पृची सम्पर्के)।
- ‘हन्तास्यान्याभिर्ऋग्भिर्मन्त्रमापृणचाम’ (ऐ० ब्रा० ६।१)। सर्वतः सम्पृक्तं करवामेत्यर्थः।
पॄ
- {आपॄ}
- पॄ (पॄ पालनपूरणयोः, पूरी आप्यायने)।
- ‘वक्त्रमापूर्यतेऽश्रूणाम्’ (सुश्रुत० १।११६।१४)। ** अश्रूणामिति कर्मणः शेषत्वविवक्षायां षष्ठी।**
- ‘भृत्यैरापुर्यते नृपः’ (हितोप० २।७२)।
- ‘यत्त ऊनं तत आपूरयाति’ (अथर्व० १२।१।६१)।
- ‘आ रोदसी अपृणाज्जायमानः’ (तै० सं० ५।१।८)। आपृणात् आप्रात्।
प्याय्
- {आप्याय्}
- प्याय् (ओप्यायी वृद्धौ)।
- ‘आपीनानि धेनूनां स्रोतांसि सरितामिव’ (हरि०)। आपीनानि ऊधांसि। विशेष्येर्थे विशेषणप्रयोगः।
- ‘आप्यायितो वचनामृतेन’ (महावीर० १।२)। आप्यायितः सन्तृप्तः।
प्यै
- {आप्यै}
- प्यै (प्यैङ् वृद्धौ)।
- ‘आ वयं प्यासिषीमहि’ (अथर्व० ७।८६।५)। आप्यायिता भूयास्मेत्यर्थः।
प्रच्छ्
- {आप्रच्छ्}
- प्रच्छ् (प्रच्छ ज्ञीप्सायाम्)।
- ‘आपृच्छे त्यां गमिष्यामि पुनरेष्यामि चाप्यहम्’ (भा० सभा० ३।१)। आपृच्छे आमन्त्रये, गमनानुज्ञां याचे।
- ‘आपृच्छे साधयिष्यामि, गच्छ विप्र यथासुखम्।’ (भा० आश्व० १९।५२)। उक्तोऽर्थः
- ‘आपृच्छस्व प्रियसखममुं तुङ्गमालिङ्ग्य शैलम्’ (मेघ १२)।
- ‘आपृच्छति च यच्छ्रेयः करोति च हितं वचः’ (भा० सौ० २।२२)। इहाङार्थे न कश्चिद् विशेषः क्रियते। अस्थान आङ् इति वा सुवचम्।
- ‘अनापृच्छन्हि गृह्णानो हस्तच्छेदनमर्हति’ (गौ० ध० )। अनुज्ञामयाचमान इत्यर्थः।
- ‘आपृष्टोऽसीह कौन्तेय स्वस्ति प्राप्नुहि भारत’ (भा० सभा० ७८।२२)। आपृष्टो दत्तगमनानुज्ञः
प्रा
- {आप्रा}
- प्रा (प्रा पूरणे)।
- ‘आ प्रा द्यावापृथिवी अन्तरिक्षम्’ (ऋ० १।११५।१)। आप्राः=अप्रात्, पूरितवान्, व्याप्नोत्, व्याश्नुत।
- ‘येनेमे चित्रवज्रहस्त रोदसी ओभे सुशिप्र प्राः’ (अथर्व० २०।८०।१)।
- ‘आपप्रौ पार्थिवं रजो बद्वधे रोचना दिवि’ (ऋ० १।८१।५)। उक्तोऽर्थः
प्री
- {आप्री}
- प्री (प्रीञ् प्रीतौ)।
- ‘स मुखत आत्मानमा प्रीणीत’ (तै० सं० ५।१।८)। प्रीणयामासेत्यर्थः।
प्लु
- {आप्लु}
- प्लु (प्लुङ् गतौ)।
- ‘अन्योऽन्यमापुप्लुविरे तथान्ये’ (बुद्ध० १३।२५)।
- ‘तेन शब्देन सहसा…। आप्लवन्त गतैः सत्त्वै र्मत्स्याः शतसहस्रशः’ (भा० वन० १६९।२०)। आप्लवन्त पलायन्त। गतैः सत्त्वैर्विगताभिर्बुद्धिभिः।
- ‘एता अश्वा आप्लवन्ते’ (ऐ० ब्रा० ६।३३)। उत्प्लवन्त इत्यर्थः।
- ‘स भीमसेनस्य रथम्…आपुप्लुवे सिंह इवाचलाग्रम्’ (भा० कर्ण० ८४।३६)। आपुप्लुवे उत्प्लुत्यारूढवान्।
- ‘स्यन्दनं वृषसेनस्य तूर्णमापुप्लुवे भयात्’ (भा० द्रोण० १२९।३३)। उक्तोऽप्यः।
- ‘सवस्त्रोऽहरहराप्लुवीत’ (शा० गृ० ४।१२)। आप्लुवीत=आप्लवेत=स्नायात्।
- ‘तेनैनां सकेशनखामभ्यज्य ह्रासयित्वाऽऽप्लावयन्ति’ (गो० गृ० २।५।६)। आप्लावयन्ति स्नापयन्ति।
- ‘एतेषु तीर्थेषु…काशिकन्या…आप्लावयत गात्राणि’ (भा० उ० १८६।२९)। गात्राण्याप्लावयत शरीरं निरणेनेक्, अस्नादित्यर्थः।
- ‘अनाप्लवमानः’ (लाट्या० श्रौ० ९।२।१८)। अस्नानित्यर्थः।
- ‘प्राद्रवत्सहसा राजन्पुत्रो दुर्योधनस्तव। आप्लुतश्च ततो यानं चित्रसेनस्य धन्विनः’ (भा० द्रोण० ११६।२४-२५)॥ आप्लुतः प्लुत्याऽऽरूढः।
- ‘स विपन्नरथो भीमो नकुलस्याप्लुतो रथम्’ (भा० द्रोण० १८८।२३)। आप्लुतः शैघ्र्येणारूढः।
- ‘ततः सा सहसा त्रासादाप्लुता निम्नागातटम्’ (वि० पु० २।१३।१३)। उत्प्लुत्य नदीकूलमारूढेत्यर्थः।
- ‘गोमन्तशिखराच्छ्रीमानाप्लुतोऽमितविक्रमः’ (हरि० २।४२।८१)।
- ‘तौ नगादाप्लुतौ दृष्ट्वा’ (हरि० २।४ ।१)। उक्तपूर्व एवार्थः। आप्लुतः स्नातको व्रतो इत्यमरः।
- ‘यावन्नाश्यायते वेदिरभिषेकजलाप्लुता’ (रघु० १७।३७)। जलाप्लुता जलपूर्णा। बाष्पाप्लुतः, व्यसनाप्लुतः रुधिराप्लुत इत्यादिषु तदर्थक एवाप्लुतशब्दः।
- ‘प्रथमो वार्षिको मासः श्रावणः सलिलाप्लुतः’ (रा० ४।२५।१२)। अनन्तरोदीरित एवार्थः।
- ‘अवाङ्मुखमथो दीनं दृष्ट्वा सोममिवाप्लुतम्’ (रा० ७।१०६।१)। आप्लुतमुपप्लुतमुपरक्तं ग्रहगृहीतम्। आङस्थाने। सोमश्चन्द्रः।
- ‘जलमाप्लुत्य’ (मनु० ५।७७)। जलमाप्लुत्य जलमवगाह्य, स्नात्वा।
- ‘ऊषुराप्लुत्य गात्राणि तपश्चातस्थुरुत्तमम्’ (भा० वन० ९५।५)। गात्राण्याप्लुत्य=अभिषिच्य। अन्तर्णीतण्यर्थकः प्लवतिः।
- ‘अप आप्लुत्य’ (आश्व गृ० ३।२।१)। आप्लवनं स्नानं भवति। इह द्वितीयाश्रुत्याऽवगाहनपूर्वके स्नाने वर्तत इति हरदत्तः।
- ‘पाञ्चालस्य रथस्येषामाप्लुत्य सहसाऽपतत्’ (भा० आदि० १३८।५७)। आप्लुत्य उत्प्लुत्यारुह्य।
- ‘माता कुमारमादायाप्लाव्य’ (पा० गृ० २।१)। आप्लाव्य प्रस्नाप्य।
- ‘अन्नमाप्लाव्य वारिणा’ (मनु० २।३१४)। आप्लाव्य अभ्युक्ष्य।
- ‘मूत्रेणाप्लाव्य सप्ताहं स्नुहीक्षीरेण ततः परम्’ (सुश्रुत० १।१६८।१३)। मूत्रेणाप्लाव्य मूत्रेणाभ्युक्ष्य, मूत्रे निमग्नं कृत्वा।
- ‘कलशोदकेषु शाखामाप्लाव्यौदुम्बरीं स्पृशेत्तुरगान्’ (व० बृ० सं० ४३।२१)। शाखामाप्लाव्य शाखां निमज्ज्य।
- ‘प्रलयाप्लावमिवाभिदर्शयन्तः’ (शिशु० २०।७०)। आप्लाव आप्लव ओघः।
- ‘आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः’ (रा० ६।४।२६)। आप्लवन्तः समन्ताद्रक्षणार्थं गच्छन्तः।
- ‘ध्वजवर्मरथानश्वान्नाना प्रहरणानि च। आप्लुत्याप्लुत्य समरे वानरेन्द्रा बभञ्जिरे’ (रा० ६।९३।१२)॥ आप्लुत्याप्लुत्य प्लुतिभिराक्रम्याक्रम्य।
- ‘सितासिते सरिते यत्र संगते तत्राप्लुतासो दिवमुत्पतन्ति’ (ऋग्वेदे खिलपाठः)। आप्लुतास आप्लुताः कृतस्नानाः। आप्लाव आप्लवः स्नानम् इत्यमरः।
प्लुष्
- {आप्लुष्}
- प्लुष् (प्लुष दाहे)।
- ‘दिवाकराप्लुष्टविभूषणास्पदाम्’ (कु० ५।४८)। आप्लुष्टमीषत्प्लुष्टमवदग्धम्
बन्ध्
- {आबन्ध्}
- बन्ध् (बन्ध बन्धने)।
- ‘यत्ते देवी निर्ऋतिरा बबन्ध दाम’ (अथर्व० ६।६३।१)। आबबन्ध बबन्ध अपिननाह।
- ‘स्रजः प्रह्रादस्य मूर्ध्नि चाबबन्ध’ (हरि० १३७३०)। उक्तोऽर्थः।
- ‘क्व समाधानमाबध्नातु अवष्टम्भः’ (काद०)। आबध्नातु निदधातु।
- ‘न निर्भरमाबध्नाति पदम्’ (काद०)। आबध्नाति न्यस्यति निधत्ते।
- ‘स्यन्दनाबद्धदृष्टिषु’ (रघु० १।४०)। रथप्रत्युप्तदर्शनेषु।
- ‘आबद्धा मानुषाः सर्वे निबद्धाः कर्मणो र्द्वयोः’ (भा० सौ० २।२)। आबद्धा आ समन्ताद् बद्धाः।
- ‘ताभ्यामाबद्धाभ्यां शोभमाना’ (कुण्डलाभ्याम्) (भा० आदि० ३।९७)।
- ‘गते प्रेमाबन्धे प्रणयबहुमाने विगलिते’ (अमरु० ४३)। प्रेमाबन्धः प्रणयबन्धः। आबन्धो योत्रं योक्त्रम् इत्यमरः।
बाध्
- {आबाध्}
- बाध् (बाधृ लोडने, लोडनं प्रतिधातः)।
- ‘तेऽसुरा दिग्भ्य आबाधन्त’ (तै० सं० ५।७।२।१)। प्रतिजघ्नुरित्यर्थः।
बृह्
- {आबृह्}
- बृह् (बृहू उद्यमने)।
- ‘यत्समूलमाबृहेयु र्वृक्षं न स पुनराभवेत्’ (बृहदा० उ० ३।९।२८)। केचिदत्रोद्यमनेऽर्थे दन्तोष्ठ्यादिं वृहिं पठन्ति। तदपि साधु।
- ‘मूलमस्याबर्हि’ (पा० ४।४।८८)। आबृह्यत उत्पाट्यत इत्याबर्हि।
भज्
- {आभज्}
- भज् (भज सेवायाम्)।
- ‘एमं भज ग्रामे अश्वेषु गोषु’ (अथर्व० ४।२२।२)। इमं ग्रामादिषु आभज भागिनं कुर्वित्याह।
- ‘प्रजापति र्वै पित ॠभून् मर्त्यान्त्सतोऽमर्त्यान्कृत्वा तृतीयसवन आभजत्’ (ऐ० ब्रा० ६।१२)। उक्तोऽर्थः।
- ‘त्वं सूर्ये न आ भज तव क्रत्वा तवोतिभिः’ (ऋ० ९।४।५)।
- ‘याँ आभजो मरुत इन्द्र सोमे’ (ऋ० ३।३५।९)। हे इन्द्र यान्मरुतः सोमे भागिनोऽकरोरित्याह।
- ‘आ तं भज सौश्रवसेष्वग्ने उक्थ उक्थ आ भज शस्यमाने’ (ऋ० १०।४५।१०)।
- ‘पाहि माऽग्ने दुश्चरिताद् आ मा सुचरिते भज’ (तै० सं० १।१।१२।१)। सुचरित आभज सुचरिते भागिनं कुरु। सुचरितवन्तं मां कुर्विति तात्पर्यार्थः।
- ‘ऋतवो ह वै देवेषु यज्ञे भागमीषिरे आ नो यज्ञे भजत मा नो यज्ञादन्तर्गत’ (श० ब्रा० १।६।१।१)। अन्तरित्यत्र व्यवधौ वर्तते। यज्ञान्नो मास्म व्यवधातेत्यर्थः।
- ‘हन्तेमानस्मिन्नुक्थ आभजा इति’ (ऐ० ब्रा० ३।२०)।** आभजै आगतभागान् भागवतः करोमीत्याह।**
- ‘आ नो भजस्व राधसि’ (ऋ० ४।३२।२१)।
- ‘तव वै वयं स्मो नु न एतस्मिन्सामन्नाभजेति’ (जै० उ० ब्रा० १।६।१।८)।
- ‘इयं दुरुक्तात् परिबाधमाना प्राणापानाभ्यां बलमाभजन्ती’ (लौ० गृ० ४१।१५)। आभजन्ती ददती (मेखला)।
- ‘एतद्ध वै पितरो मनुष्यलोक आभक्ता भवन्ति यदेषां प्रजा भवति’ (श० ब्रा० १३।८१।६)। आभक्ता भागिनः। यदिदं किञ्चैवमु तत्सर्वं यज्ञ आभक्तम्।
- ‘या वै प्रजा यज्ञेऽनन्वाभक्ताः पराभूता वै ताः’ (श० ब्रा० १।५।२।४)। उक्तोऽर्थः।
- ‘आभजन्ति गुणिनः पृथक् पृथक् पार्थ सत्कृतिमकृत्रिमाममी’ (शिशु० १४।५७)। आभजन्ति अर्हन्ति। प्राचीने वैदिके साहित्ये त्वन्यादृश एव व्यवहार आभजेः, स पुस्तके दर्शित इति तत एव विज्ञानीयः।
भा
- {आभा}
- भा (भा दीप्तौ)।
- ‘विश्वा आभाहि प्रदिशश्चतस्रः’ (अथर्व २।६।१)। आभाहि प्रकाशय।
- ‘आयं भातु शवसा पञ्च कृष्टीः’ (का० सं० ३७।९, लौ० गृ० ४४। ) इत्यत्र च देवपालोद्धृतो मन्त्रः)। आभातु प्रकाशयतु। यथा पूर्वत्र तथेह भातिरुपसर्गवशात्सकर्मकः। रम्यां य उपसर्पन्ति दीपाभां शलभा यथा। दीपाभा दीपार्चिः। दीपप्रभा।
- ‘शराणां गार्ध्रवाससाम्। स्पर्शमाशीविषाभानाम्’ (भा० वन० ३३।८७)। आभा आभासः।
भाष्
- {आभाष्}
- भाष् (भाष व्यक्तायां वाचि)।
- ‘वैशम्पायनश्चन्द्रापीडमाबभाषे’ (काद०)। आबभाषे आललाप सम्बोधयामास।
- ‘सखी वेत्रभृदावभाषे’ (रघु० ६।८२)। इहाङ् नार्थे विशेषं करोति। बभाष इत्येवार्थः।
- ‘एवमाभाष्यमाणोपि भ्रातृभिः कुरुनन्दन’ (भा० भीष्म० ४३।२०)। आभाष्यमाणः सम्बोध्यमानः।
- ‘कोशिकश्च तथेत्याह राजा चाभाष्य मन्त्रिणः’ (रा० १।१७।१७)। आभाष्य आहूय, आकार्य।
- ‘सम्बन्धमाभाषणपूर्वमाहुः’ (रघु० २।५८)। आभाषणं संभाषणम्, संवादः। स्यादाभाषणमालाप इत्यमरः।
- ‘आभाषस्ते किमु न विदितः खण्डितः पण्डितः स्यात्’ (शान्ति०)। आभाष आभाणकः।
- ‘चित्रस्थानवलोक्य शून्यवलभावेकैकमाभाषते’ (सा० द० १०।६० इत्यत्रोदाहरणश्लोकः)। आभाषते आलपति, सम्बोधयति।
- ‘आबभाषे तदा वीरो यथावत् प्रशशंस च’ (रा० ४।३।३)। उक्तोऽर्थः।
- ‘तमेवमुक्त्वा राजानं गङ्गां चाभाष्य लोककृत्’ (रा० १।४२।२६)। वत्से राजानं यथाकालमनुगृहाणेत्युक्त्वा। गङ्गां चाभाष्य गङ्गां चाभिमुख्येन सम्बोध्य।
भास्
- {आभास्}
- भास् (भासृ दीप्तौ)।
- ‘सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम्’ (श्वेता० उ० ३।१७)। आभासः प्रतीतिः। हेत्वाभासः। हेतुवदाभासते प्रतिभाति इति हेत्वाभासो दुष्टो हेतुः।
- ‘कबन्धः परिघाभासो दृश्यते भास्करान्तिके’ (रा० ३।२३।११)। परिघाभासः परिघसदृशः।
भुज्
- {आभुज्}
- भुज् (भुजो कौटिल्ये)।
- ‘प्रासादाभोगविस्तीर्णः स्तुतिशब्दो ह्यवर्तत’ (रा० २।६५।३)। आभोगो विस्तारः।
- ‘अकथितोपि ज्ञायते यथाऽयमाभोगस्तपोवनस्येति’ (शा० १)।
- ‘गङ्गाभोगकुटिला’ (भा० वन०)। आभोगः कौटिल्यम्।
- ‘बाहुमाभोगिनं कृत्वा’ (हरि० २।३४।३६)। आभोगिनम् अतिवृद्धम्। आयामवन्तम्।
भुज्
- {आभुज्}
- भुज् (भुज पालनाभ्यवहारयोः)।
- ‘स्वरूपसाक्षात्कारवती प्रज्ञा आभोगः’ (यो० सू० तत्त्ववैशारद्याम्)।
भू
- {आभू}
- भू (भू सत्तायाम्)।
- ‘आ देवानामभवः केतुरग्रे’ (ऋ० ३।१।१७)। आभवः=अवर्तथाः।
- ‘यत्समूलमुद्बृहेयुर्वृक्षं न स पुनराभवेत्’ (श० ब्रा० १४।६।९।३४)। आभवेत् जायेत।
- ‘कथमाभवन्ति’ (भा० आदि० ९०।६)। भवन्ति जीवन्ति कथं न शीर्यन्ते। आभवन्ति पुनर्जायन्ते।
- ‘विद्मा उत्स यत आबभूथ’ (ऋ० १०।८४।५)। आबभूथ अजायथा उदपद्यथाः।
- ‘स इदं विश्वमभवत् स आभवत्’ (अथर्व० ७।१।२)। आभवत् सर्वतो व्याप्य वर्तते, आवृत्यावृत्य ताद्रूप्येण कारणात्मना वा वर्तत इति सायणः।
- ‘अस्माकं विप्रेमाणमन्विदमसुरा आभविष्यन्ति’ (ऐ० ब्रा० १।२४) विप्रेमाणं विरोधमनुलक्ष्य इदं जगदभिभविष्यन्तीत्याह।
- ‘सर्वान् कामान्पूरयत्याभवन् प्रभवन्भवन्’ (अथर्व० ३।२९।२)। आभवन् समन्ताद् भवन् व्याप्नुवन्। भवन्निति वर्धिष्णुमाह।
- ‘आभूतो भूतः स उ जायते पुनः’ (अथर्व० ११।४।२०)।
- ‘य आबभूव भुवनानि विश्वा’ (वा० सं० ३२।५)। आबभूव कारणात्मना व्याप्तोऽभूत्।
- ‘कथं भवन्ति कथमाभवन्ति कथं भूता गर्भभूता भवन्ति’ (मात्रय पु० ३९।९)। आभवन्ति पुनर्जायन्ते।
- ‘तय। देवाः सुतमा बभूवुः’ (तै० सं० ३।८।३।३)। आबभूवुः प्राप्ताः।
भृ
- {आभृ}
- भृ (भृञ् भरणे)।
- ‘आ नो अग्ने रयिं भर’ (ऋ० १।७९।८)। आभर आहर।
- ‘किमित्यपास्याभरणानि यौवने धृतं त्वया वार्धकशोभि वल्कलम्’ (कु० ५।४४)। आभ्रियते पुष्यते रूपमनेनेत्याभरणं भूषणम् अलङ्कारः।
- ‘येनेमा विश्वा भुवनान्याभृता’ (ऋ० १०।१७०।४)। आभृता=आभृतानि पूर्णानि।
मन्
- {आमन्}
- मन् (मन ज्ञाने)।
- ‘अथा हि मद आ सोम मन्ये’ (ऋ० ८।४८।६)। आमन्ये आ समन्तात् स्तौमि।
मन्त्र्
- {आमन्त्र्}
- मन्त्र् (मत्रि गुप्तपरिभाषणे)।
- ‘यजमानमामन्त्रयते’ (भा० श्रौ० ६।११।१)। सम्बोधयतीत्यर्थः।
- ‘तमामन्त्रयाम्बभूव’ (काद० ८१)। तं सम्बोधयामास, तेन समं संललाप।
- ‘परिजनोप्येवमामन्त्रयते’ (काद० १०५)। आमन्त्रयते ब्रूते, भाषते।
- ‘आमन्त्रयध्वं राष्ट्रेषु ब्राह्मणान्’ (भा०)। ब्राह्मणेभ्यो दूताः प्रष्यन्तामित्याह।
- ‘आमन्त्रयस्व सहचरम्’ (शा० ३)। गमनानुज्ञामाप्नुहीत्यर्थः।
- ‘उग्रश्रवसमामन्त्र्य उपपन्नमिति ब्रुवन्’ (भा० आदि० ४०।५)। आमन्त्र्य सम्बोध्य।
- ‘मम त्वामन्त्रय गुरून् न मां दोषः स्पृशेदयम्’ (भा० वन० २९६।२२)। आमन्त्रय अनुज्ञापय।
- ‘सत्यकामो ह जाबालो जबालां मातरमामन्त्रयाञ्चक्रे’ (छां० उ० ४।४।१)। आमन्त्रयाञ्चक्रे पप्रच्छ अनुयुयुजे।
- ‘आमन्त्रयेऽत्रभवतीं गच्छामि स्वगृहान्प्रति’ ( )। आमन्त्रये आपृच्छे अनुमानयामि त्वां स्वगमनमित्यर्थः। देवः स्वामीति नृपतिरामन्त्रणीयः। पतिवज्ज्येष्ठमध्यमाधमैः स्त्रियः॥ आमन्त्रणीयः सम्बोधनीयः।
- ‘स कृत्वा निश्चय विष्णुरा मन्त्र्य च पितामहम्’ (रा० १।१६।१०)। आमन्त्र्य साधयामीत्युक्त्वा।
- ‘तमनुप्राप्तां वृद्धामामन्त्र्य सत्कृताम्’ (रा० २।११७।७)। आमन्त्र्य सम्बोध्य।
- ‘अम्बेति वै योषाया आमन्त्रणम्’ (श० ब्रा० ६।६।२।५)। आमन्त्रणमालापः।
- ‘अन्योन्यामन्त्रणं यत्स्याज्जनान्ते तज्जनान्तिकम्’ (सा० द०)। इहामन्त्रणं संलापमाह।
- ‘विधिनिमन्त्रणेत्यादिसूत्रे’ (३।३।१६१) आमन्त्रणं कामचारानुज्ञामाचष्टे।
- ‘तृतीयमामन्त्रणम्’ (आप० ध० २।१७।१३)। आमन्त्रणमाह्वानम्।
- ‘तस्य पुरस्तादावसथस्तदामन्त्रणम् इत्याचक्षते’ (आप० ध० २।२५।४)। आमन्त्र्यतेऽत्रेत्यामन्त्रणमास्थानमण्डपः।
- ‘शराणामामन्त्रितानाम्’ (भा० वन० २०।२६)। आमन्त्रितानामभिमन्त्रितानाम्, मन्त्रैः संस्कृतानाम्।
- ‘साऽऽमन्त्रितम्’ (पा० २।३।४८)। सम्बोधने या प्रथमा साऽऽमन्त्रितसंज्ञा भवति।
- ‘ततः परिषदं सर्वामामन्त्र्य वसुधाधिपः’ (रा० २।२।१)। आमन्त्र्य=अभिमुखीकृत्य, सम्बोध्य।
मुच्
- {आमुच्}
- मुच् (मुच्लृ मोक्षणे)।
- ‘आमुञ्चतीवाभरणं द्वितीयम्’ (रघु० १३।२२)। आमुञ्चति प्रतिमुञ्चति, बध्नाति, बिभर्ति।
- ‘आमुञ्चद् वर्म रत्नाढ्यम्’ (भट्टि० १७।६)। उक्तोऽर्थः।
- ‘आमोक्ष्यन्ते त्वयि मधुकरश्रेणिदीर्घान्कटाक्षान्’ (मेघ० ३७)। आमोक्ष्यन्ते आ समन्तान्मोक्ष्यन्ते। आङ्पूर्वस्य मुञ्चतेर्बन्धनमर्थ इति नियमो न। तत्प्रायिकमित्येव।
- ‘आमुञ्चतां च वर्माणि सम्भ्रमः सुमहानभूत्’ (भा० आदि० ४०९५)। आमुञ्चतां बध्नताम्।
- ‘करोऽयमामुक्तविवाहकौतुकः’ (कु० ५।६६)। उक्तचर एवार्थः।
- ‘माहेन्द्रमामुमोच तनुच्छदम्’ (रघु० १२।८६)। आमुमोच प्रतिमुमोच बबन्ध।
- ‘येनाहं शीघ्रमामुञ्चे महापातककिल्बिषात्’ (मात्स्य पु० १०३।९)। आमुञ्चे मुच्ये। आङस्थाने। मुचोऽकर्मकस्यैवेति सूत्राल्लिङ्गान्मुचिरकर्मकोऽप्यस्तीत्यभ्युपगमः। तेनेहाकर्मकत्वेन प्रयोगो न दुष्यति।
मुद्
- {आमुद्}
- मुद् (मुद हर्षे )।
- ‘आमोदं कुसुमानि धारयन्ति’ (सुभाषितम्)। आमोदो घ्राणतर्पणो गन्धः। आमोदः सोतिनिर्हारी इत्यमरः।
- ‘आमोदो नहि कस्तूर्याः शपथेन विभाव्यते।’ (सुभाषितम्)
- ‘आमोदं परमं जग्मुः’ (रा०)। आमोदो हर्षः।
- ‘ईश्वरामोदिताः सर्व उत्पेतुश्चाम्बरे ततः’ (मात्स्यपु० १३८।२)। आमोदिता उद्धर्षिताः।
मृश्
- {आमृश्}
- मृश् (मृश आमर्शने, आमर्शनं स्पर्शः)।
- ‘शरासनज्यां मुहुराममर्श’ (कु० ३।६४)। आममर्श पस्पर्श।
- ‘आममर्श कुमारस्तं’ (कन्थकमश्वं) बभाषे च वयस्यवत् (बुद्ध० ६।५४)। अनन्तरोदीरित एवार्थः।
- ‘आमृष्टं नः परैः पदम्’ (कु० २।३१)। आमृष्टम् आच्छिन्नम्।
- ‘अगृहीतात्मकं संविदूहामर्शसूचकम्’ (यो० वा० ६(२) १८७।३६)। आमर्शश्चिन्तनम्।
- ‘परस्वं भुवि नामृक्षन्महाविषमिवोरगम्’ (सौन्दर०)। नामृक्षन् नामार्क्षुः, नाम्राक्षुः, नास्पृशन्।
- ‘पुत्र देवेन सर्वज्ञेन सर्वशक्तिनाऽऽमृष्टाः श्रियः’ (भोज० २७ तमस्य श्लोकस्य परस्तात्)। आमृष्टाः=आच्छिन्नाः आक्षिप्ताः।
मृष्
- {आमृष्}
- मृष् (मृष तितिक्षायाम्, मृषु सहने च)।
- ‘प्रत्युद्यातुमतस्तात नैतदामर्षयाम्यहम्’ (भा० द्रोण० १२।२१)। नामर्षयामि नोत्सहे।
म्ना
- {आम्ना}
- म्ना (म्ना अभ्यासे)।
- ‘भवत्प्रणीतमाचारमामनन्ति हि साधवः’ (कु० ६।२१)। आमनन्ति स्मरन्ति स्मृतिरूपेणोपनिबध्नन्ति।
- ‘त्वामामनन्ति प्रकृतिं पुरुषार्थप्रवर्तिनीम्’ (कु० २।१३)। आमनन्ति उदाहरन्ति, निगच्छन्ति, निगमयन्ति।
- ‘एवं हि सूत्रकारा आमनन्ति’ (मालती० ७)। आमनन्ति उपदेशं परम्परीणं संस्मरन्ति, पूर्वानुकान्तमनुशासति।
- ‘समौ हि शिष्टैराम्नातौ वर्त्स्यन्तावामयः स (शत्रुः) च’ (शिशु० २।१०)। समौ तुल्यौ कथितौ वर्धिष्यमाणो रोगः शत्रुश्च।
- ‘आमनन्मन्त्रमुत्तमम्’ (भट्टि० १७।३०)। आमनन् कण्ठे कुर्वन्, अधीयानो वा, आवृत्त्या पठन्निति वा।
- ‘विद्याम्नाये महाञ्श्रमः’ (भा० शां० ३३१।४७)। विद्याम्नायो विद्याभ्यासः।
- ‘स्वाध्यायाम्नायकर्शिताः’ (भा० उ० ९९।१३)। स्वाध्यायाम्नायो वेदपाठः।
- ‘आम्नायवचनादहिंसा प्रतीयेत’ (नि० १।१६)।
- ‘आम्नायादन्यत्र नूतनश्छन्दसामवतारः’ (उत्तर० ४)। आम्नायो वेदः।
- ‘आम्नायः पुनर्मन्त्राश्च ब्राह्मणानि चेति’ (कौ० सू०)।
- ‘आम्नायभङ्गान्निर्नष्टनामकृत्यास्ततः परम्’ (राज० १।८३)। आम्नायभङ्गः सम्प्रदायविपरिलोपः।
- ‘इत्येतस्मिञ्जनाम्नाये केचिदव्यभिचारिणि’ (राज० १।३१६)। जनाम्नायो लोकप्रवादः, ऐतिह्यम्।
- ‘अनाम्नायमला वेदा ब्राह्मणस्याव्रतं मलम्’ (भा० शां० ३२८।२०)। आम्नायोऽभ्यासः।
यज्
- {आयज्}
- यज् (यज देवपूजासङ्गतिकरणदानेषु)।
- ‘येभ्यो होत्रां प्रथमामायेजे मनुः’ (ऋ० १०।६३।७)। आयजति=अभ्यर्चति प्रार्थयते वा।
- ‘यस्मै त्वमायजसे स साधत्यनर्वा क्षेति दधते सुवीर्यम्’ (ऋ० १।९४।२)। आयजसि ददासि प्रदिशसि।
- ‘प्रजावदस्मे द्रविणाऽऽयजस्व’ (वा० सं० १४।४)। आयजस्ष दत्स्व।
- ‘मयि देवा द्रविणमा यजन्ताम्’ (अथर्व० ५।३।५)। आयजन्ताम्=ददतु।
- ‘आयागभूतं नृपतेस्तस्य वेश्मनि राघव’ (रा० १।३१।१३)। आयागभूतं यजनीयदेवताभूतम्।
- ‘आ हि ष्मा सूनवे पितापिर्यजत्यापये सखा सख्ये वरेण्यः’ (ऋ० १।२६।३)। आयजति ददाति।
यत्
- {आयत्}
- यत् (यती प्रयत्ने)।
- ‘सहस्रं मय्यायतन्ताम्’ (अथर्व० १७।१।३०)। आयतन्तां सर्वतश्चेष्टन्तामिति सायणः। अवतिष्ठन्तामिति वार्थः स्यात्।
- ‘कस्मिन्नायतथो जने’ (ऋ० ५।७४।२)। आयतथ आयतेथे अवतिष्ठेथे।
- ‘आ ते भद्रायां सुमतौ यतेम’ (ऋ० ६।१।१०)। उक्तोऽर्थः।
- ‘आ यद्वामीयचक्षसा…यतेमहि स्वराज्ये’ (ऋ० ५।६६।६)।
- ‘दुर्दान्तानां दमनविधयः क्षत्रियेष्वायतन्ते’ (महावीर० ३।३४)। क्षत्रियाधीना भवन्तीत्यर्थः।
- ‘वयं त्वय्यायतामहे’ (महावीर० १।४९)। त्वन्निघ्ना भवाम इत्यर्थः।
- ‘मित्रो जनानायातयति ब्रुवाणः’ (ऋ० ३।५१।१)। आयातयति प्रवर्तयति। आयातनमारम्भः। तद्यथा भोजनमायातितमनेनेति दुर्गः।
- ‘यजमानमेवैतत् स्वर्गे लोक आयातयति’ (श० ब्रा० ११।५।२।१०)। आयातयति आयतनं स्थानं पदं लम्भयतीत्यर्थः।
- ‘एतमेव (अग्निमेव) तदेतस्मिँल्लोक आयातयति’ (ऐ० ब्रा० ३।३४)।
- ‘सम्यक् प्रशंसति’ (षड्गुरु०)।
- ‘प्रपायति’ (गोविन्द०)।
- ‘प्रजारक्षणार्थं सर्वतो यजमानं करोति’ (भट्ट०)।
- ‘आदित्यरूपं प्रकाशमायातयति प्रसारयति’ (सायणः)।
- ‘दैवायत्तं कुले जन्म मदायत्तं तु पौरुषम्’ (वेणी० ३।३३)। मदायत्तम् मन्निघ्नम्।
- ‘भाग्यायत्तमतः परं न खलु तद् वाच्यं वधूबन्धुभिः’ (शा० ४।१७)। उक्तोऽर्थः।
- ‘स्वायां दिश्यायत्तम्’ (श० ब्रा० ९।३।४।१३)। आयत्तम्=कृतावस्थानम्।
- ‘प्रहस्तः परमायत्तस्ततः सुस्राव शोणितम्’ (रा० ६। )। परमायत्तः परमोद्युक्तः।
- ‘सगता परमायत्ता रामेण सह संयुगे’ (रा० ३।३६।६)। परमायत्ता अत्यन्तं सन्नद्धाः।
- ‘दैवमेव परं मन्ये धिक् पौरुषमनर्थकम्। यत्राधिरथिरायत्तो नातरत्पाण्डवं रणे’ (भा० द्रोण० १३५।१)। आयत्त उद्युक्तः।
- ‘विजने वाऽऽयतने वने गिरौ वा’ (बुद्ध० ५।१९)। आयतनं देवतायतनं देवमन्दिरम्।
- ‘आस्मै यतन्ते सख्याय पूर्वीः’ (ऋ० १०।२९।८)। आयतन्ते सर्वात्मना यतन्ते प्रयस्यन्ति। इच्छिन्तीत्यर्थः।
- ‘आ ते यतन्ते यथा पृथक् पृथक् शर्धांस्यग्ने अजरस्य धक्षतः (साम० उत्तर० ३।२।७)। आयतन्ते सर्वतो यतन्ते।
- ‘आ यद् वामीयचक्षसा मित्र वयं च सूरयः। व्यचिष्ठे बहुपाय्ये यतेमहि स्वराज्ये’ (ऋ० ५।६६।६)॥ स्वराज्ये स्वराड् इन्द्रः। स्वराज इन्द्रस्य राज्ये आयतेमहि आयतनमास्पदं लभेमहि।
- ‘भो भोः शूलायतनाः, न खलु व्यापादयितव्यश्चन्दनदासः’ (मुद्रा० ७)। शूलमायतनं जीवनोपायो येषां ते तथोक्ताः।
- ‘आयतनवती र्वा अन्या आहुतयो हूयन्ते, ऽनायतना अन्याः’ (तै० सं० १।१।९।२७)। विभक्तावकाशं स्थानमायतनम्।
यम्
- {आयम्}
- यम् (यम उपरमे)।
- ‘प्राणान् आयच्छेत्। प्राणायाम् कुर्यात्। उच्चैरुच्चैस्तरामिच्छन्पदान्यायच्छते महान्’ (का० नी० सा० १४।१५)। आयच्छते आयतान् दीर्घान्विक्रमान् करोति।
- ‘दृंह मूलमाग्रं यच्छ’ (अथर्व० ६।१३७।३)। अग्रमायच्छ आयतं कुरु।
- ‘दुर्द्यूतदेविनः। कृते क्षत्रविनाशाय घनुरायच्छदर्जुनः’ (भा० द्रोण० २८।१६)। आयच्छत्=आकर्षत्।
- ‘आ त्वा यच्छन्तु हरितो न सूर्यम्’ (ऋ० १।१३०।२)। आयच्छन्तु=इत आकर्षन्तु।
- ‘आ ते वत्सो मनो यमत्’ (ऋ० ११।७।२९)। आयमत्=आकर्षतु, आहरतु।
- ‘बाणमुद्यतमायंसीत्’ (भट्टि० ६।११९)। सज्जीकृतं बाणमुपसंहृतवान् इत्यर्थः।
- ‘श्रियमायच्छमानाभिरुत्तमाभिरनुत्तमाम्’ (भट्टि० ८।४६)। आयच्छमानाभिः स्वीकुर्वाणाभिः। आहरद्भिर्दधद्भिरित्यर्थः।
- ‘पश्चादुच्चैर्भवति हरिणः स्वाङ्गमायच्छमानः’ (शा० प्रक्षिप्तः श्लोकः)।
- ‘नम आयच्छद्भ्यः’ (वा० सं० १६।२२)। धनूंषि आकर्षद्भ्य इत्यर्थः।
- ‘आतन्वाना आयच्छन्तोस्यन्तः’ (अथर्व० ६।६६।२)। शरसन्धानेन धनूँष्याकर्षन्त इत्यर्थः।
- ‘आ नः सुम्नेषु यामय’ (ऋ० ८।३।२)। आयामय उपरमय स्थापयेत्यर्थः।
- ‘सन्दानमर्वन्तं पड्वीशं प्रिया देवेष्वायामयन्ति’ (वा० सं० २५।३९)। आयामयन्ति गमयन्ति।
- ‘आयतस्वभावानि दुःखानि’ (काद० १७५)। प्रकृत्या दीर्घकालव्यापीनीत्यर्थः।
- ‘आयतवल्गं निरुद्धवाहैः’ (शिशु० ३।३०)। आकृष्टमुखरज्जु इत्यर्थः।
- ‘प्रतिहितामायताम्’ (इषुम्) (अथर्व० ११।१।१)। संहितामाकृष्टामित्याह। लोकवेदयोरिषुः स्त्रियामपि। वेदे तु स्त्रियामेवेति विशेषः।
- ‘यथेषुरायताऽनस्ता’ (श० ब्रा० ३।७।२।२)। उक्तोऽर्थः।
- ‘आयतमुक्तेन शरेण’ (रा० ५।३१।३०)।
- ‘राजन्ये दुन्दुभावायतायाम्’ (अथर्व० ६।३८।४०)। आयम्यमानायाम् आताड्यमानायाम्।
- ‘तन्नायतं बोधयेयुरित्याहुः’ (बृ० उ० ४।३।१४)। आयतं निद्राणम्। शयितो हि दीर्घीकृताङ्गो भवति। अत एवायतशब्देनोच्यते।
- ‘आयामितमन्त्रवीर्य०’ (भा० शां० ६४।१८)। आयामितमाविर्भावितम् प्रकाशितम्।
- ‘यथा मित्रं ध्रुवं लब्ध्वा कृशमप्यायतिक्षमम्’ (मनु० ७।२०८)। आयतिरुत्तरकालः।
- ‘उत्पत्तिमायतिं स्थानं विभुत्वं चैव पञ्चधा’ (प्रश्न० उ० ३।१२)। आयतिरागमः।
- ‘द्रक्ष्यन्ति समरे योधाः शलभानामिवायतीः’ (भा० द्रोण० १५९।७१)। आयतीः==दीर्घाः पङ्क्तीः।
- ‘शरवृष्टिमपश्याम शलभानामिवायतिम्’ (भा० शल्य० १३।४१)।
- ‘काम्बोजानामिव महाराज शलभानामिवायतिः’ (भा० उ० १६६।३)। उक्तोऽर्थः।
- ‘प्राक्कर्मायतिजनितो हि यो विपाकः’ (तन्त्रा० २।४।१३२)। आयतिः प्रभावः। स्यात्प्रभावेपि चायतिरित्यमरः।
- ‘प्रस्थिता धनुरायन्तुं वार्यतां साधु मा गमत्’ (भा० आदि० १८८।७)। आयन्तुम् आकर्ष्टुम्
- ‘अस्माकं त्वा मतीनामा स्तोम इन्द्र यच्छतु’ (ऋ० ४।३२।१५)। आयच्छतु आकर्षतु।
- ‘आयभ्यते हिक्कतो यस्य देहः’ (सुश्रुते)। आयम्यते दीर्घी भवति।
- ‘या राजन्ये दुन्दुभावायतायाम्’ (तै० ब्रा० २।७।७।१)। आयतायामभिहन्यमानायां ताड्यमानायाम्।
- ‘तस्य बाणमयं वर्षं शलभानामिवायतिम्’ (भा० वि० ५८।६५)। आयतिः सन्ततिः ततिः।
- ‘अल्पायतिश्चेन्महाव्ययो भक्षयति’ (कौ० अ० २।९।१०)। आयतिरायः।
- ‘अतो यान्यन्यानि वीर्यवन्ति कर्माणि यथाग्नेर्मन्थनमाजेः सरणं दृढस्य धनुष आयमनमप्राणन्ननवानंस्तानि करोति’ (छां० उ० १।३।५)। आयमनं कर्षणम्।
यस्
- {आयस्}
- यस् (यसु प्रयत्ने)।
- ‘व्यक्तं रामाभिषेकार्थे इहायस्यति धर्मराट्’ (रा० २।१४।६५)। आयस्यति आयासवान्भवति। प्रयतते। उद्युङ्क्ते।
- ‘पिण्डार्थमायस्यतः’ (मुद्रा० ३)। प्रयतमानस्येत्यर्थः।
- ‘नायस्यसि तपस्यन्ती’ (भट्टि० ६।७०)। नायस्यसि क्लिष्यसे। मथनायस्तैर्बाहुभिः। मथनायस्ता मन्थनक्लान्ता अवलोडनखिन्ना बाहवः, तैः।
- ‘स्नेहमूलानि दुःखानि देहजानि भयानि च। शोकहर्षौ तथायासः सर्वं स्नेहात् प्रवर्तते’ (भा०) आयासः क्लमः, खेदः, श्रमः।
- ‘आयस्योत्पाटितान् केशान् यो नरो नावबुध्यते’ (चरक० इन्द्रिय० ८।८)। आयस्य बलादाकृष्य।
या
- {आया}
- या (या प्रापणे)।
- ‘परा यात पितर आ च यात’ (अथर्व० १८।३।१४)। आयात पुनर्वागार्थमस्माभिराहूताः स त आगच्छतेत्याह।
- ‘पूरा नदीनां पुष्पाणि तरूणां शशिनः कलाः। क्षीणानि पुनरायान्ति यौवनानि न देहिनाम्’ (कथा० ५५।११०)॥
- ‘जलौघो भृशमाययौ’ (कथा० १२।१११)।
याच्
- {आयाच्}
- याच् (टुयाचृ याच्ञायाम्)।
- ‘(आयाचमाना) रामस्य च भवं नित्यमभवं रावणस्य च’ (रा० ५।२१।२२)।
- ‘आयाचमानां दुःखार्तां…दशग्रीवपराभवम्’ (रा० ५।१९।२१)।
- ‘वाग्यतां देवतागारे ददर्शायाचतीं श्रियम्’ (रा० २।४।३०)। आयाचतीमायाचन्तीं प्रार्थयमानाम्। आङाभिमुख्ये स्यात्।
यु
- {आयु}
- यु (यु मिश्रणामिश्रणयोः)।
- ‘युक्तः सर्वैः पद्भिः सममायुते’ (श० ब्रा० १३।२।७।६) सममायुते साकं कर्षति।
- ‘विश्वस्य यो मन आयुयुवे’ (ऋ० १।१३८।१)। आयुयुवे आकर्षति हरति ईष्टे।
- ‘स (पवमानः) मध्व आयुवते वेविजानः’ (ऋ० ९।७७।२)। आयुवते आदत्ते।
- ‘आ जाया युवते पतिम्’ (ऋ० १।१०५।२)।
- ‘आ रश्मीन् देव युवसे स्वश्वः’ (तै० ब्रा० २।७।१६।२)। रश्मीनायुवसे प्रग्रहान्यच्छसि।
- ‘रायस्पोषं त्वमस्मभ्यं गवां कुल्मिं जीवस आयुवस्व’ (तै० सं० २।४।५।२)। आयुवस्व देहि, वितर प्रदिश।
- ‘आ स्वमद्म युवमानः’ (ऋ० १।५८।२)। आयुवमान आददानः, गह्लानः।
- ‘वयांसि समासं पक्षावायुवानानि पतन्ति’ (श० ब्रा० ४।१।२।२६)। आयुवानानि विस्तारयन्ति। आयामयन्ति।
- ‘सिंहशार्दूलमातङ्गवराहर्क्षमृगायुतं वनम्’ (भा० ६४।३९)। आयुतं युक्तम् आचितं निचितम्।
- ‘आयुतं पितॄणाम्’ (ऐ० ब्रा० १।३)। विलीनार्धमायुतं तु नवनीतं यतो घृतम् इति षड्गुरुशिष्योद्धृतः श्लोकांशः।
- ‘आयुषा वै देवा असुरानायुवत’ (पञ्च० ब्रा० १६।३।२)। आयुवत आयुवन् व्ययोजयन्।
- ‘आज्यं वै देवानां सुरभिघृतं मनुष्याणामायुतं पितॄणां नवनीतं गर्भाणाम्’ (ऐ० ब्रा० १।३)। आयुतमीषद् विलीनम्।
युज्
- {आयुज्}
- युज् (युजिर् योगे)।
- ‘वातान्ह्यश्वान्धुर्यायुयुज्रे’ (ऋ० ५।५८।७)। आयुयुज्रे=आयुयुजिरे=युक्तवन्तः।
- ‘आयुक्तकुशलाभ्यां चासेवायाम्’ (पा० २।३।४०)। आयुक्तस्तात्पर्येण युक्तो व्यापृतः। आयुक्तो गौः शकटे। आयुक्त ईषद् युक्तः।
- ‘येऽत्र ब्राह्मणाः संमर्शिनो युक्ता आयुक्ताः’ (तै० उ० १।११।४)। आयुक्ता नियुक्ता व्यापारिताः।
- ‘आयोजितस्तपस्यात्मा’ (काद० १७३)। आयोजितः प्रवर्तितो व्यापारितः।
- ‘कुसुमायोजितकार्मुक०’ (कृ० ४।२४)। कुसुमै रचितं धनुः, पौष्पं धनुरित्यर्थः।
- ‘मालाः कदम्बनवकेसरकेतकीभिरायोजिताः शिरसि बिभ्रति योषितोद्य’ (ऋतु० २।२१)। आयोजिता ग्रथिताः।
- ‘रसातलरसायोगात् तृणगुल्मलतादयो जनयन्ति यदाकारम्’ (यौ० वा० ५।६८।१९)। आयोग उपयोगः।
- ‘शरीरं सर्वे प्राविशन्नायुजः प्रयुजो युजः’ (अथर्व० ११।१०।२५)। **आयुज आयोजनानि। अत्र सायणोप्युपसर्गकृतमर्थे विशेषं नालमूहितं यदाह–उपसर्गवशादमीषामर्थभेदोऽवगन्तव्य इति।
- ‘ये तत्र ब्राह्मणाः संमर्शिनः। युक्ता आयुक्ताः’ (तै० उ० १।११।३)। इदं पुस्तके न्यस्तपूर्वम्। भूयोवैशद्याय पुनर्न्यासः। साङ्गोपाङ्गं सकलेषु श्रौतेषु स्मार्तेषु च कर्मसु युक्ता आयुक्ता उक्ता इति गोपालानन्दस्वामी।
- ‘तिष्ठा हरी रथ आ युज्यमाना’ (ऋ० ३।३५।१)।
युध्
- {आयुध्}
- युध् (युध सम्प्रहारे)।
- ‘यः क्रुद्धमायोत्स्यसि’ (भा० वन० २६८।७)। उपसर्गवशात्सकर्मकोऽत्र युधिः।
- ‘न रथिनः पादचारमायोधयन्ति’ (उत्तर० ५, चन्द्रकेतूक्तिः)।
रक्ष्
- {आरक्ष्}
- रक्ष् (रक्ष पालने)।
- ‘आ मा मित्रावरुणेह रक्षतम्’ (ऋ० ७।५०।१)। आ समन्ताद् रक्षतं गोपायतम्।
- ‘तस्य द्वाराणि सर्वाणि पर्याप्तानि बृहन्ति च।… यन्त्रैरारक्षितानि च’ (भा० आश्रम० ५।१७)।
- ‘आरक्षो मे हतस्तात रामेणाक्लिष्टकारिणा’ (रा० ३।३१।४०)। आरक्षोऽन्तपालः।
- ‘रक्षांसि हि विलुम्पन्ति श्राद्धमारक्षवर्जितम्’ (मनु० ३।२०४)। आरक्षो रक्षा।
रच्
- {आरच्}
- रच् (रच प्रतियत्ने)।
- ‘मधुपर्कमारचय्य’ (ऋ० १।१२५१ इत्यत्र सायणः)। मधुपर्कं निर्माय कल्पयित्वा।
- ‘आरचितमुण्डमालः’ (दशकु०)। आरचिता बद्धा न्यस्ता निक्षिप्ता।
- ‘इत्यारचय्य वपुरर्णशतार्धकेन’ (पञ्चत० ३।१।२४)। आरचय्य संयोज्य।
रञ्ज्
- {आरञ्ज्}
- रञ्ज् (रञ्ज रागे)।
- ‘आरक्ताश्चैव निर्यासाः’ (वि० पु० ३।१७।९)। आरक्ता ईषद् रक्ताः।
रभ्
- {आरभ्}
- रभ् (रभ राभस्ये)।
- ‘आरभन्तेऽल्पमेवाज्ञाः।’ आरभन्ते प्रक्रमन्ते।
- ‘माऽऽरब्धा बलिविग्रहम्’ (भट्टि० ५।३८)। बलिना रामेण विग्रहं युद्धं माऽऽरब्धा मोपक्रंस्था मा कार्षीरित्यर्थः। तृणैरारभ्यते रज्जुः। आरभ्यते निर्मीयते।
- ‘वाचा ह्यारभन्ते यद्यदारभन्ते’ (श० ब्रा० १२।२।४।१)।
- ‘आ त्वा रम्भं न जिब्रयो ररभ्मा शवसस्पते’ (ऋ० ८।४५।२०)। आररभ्म आरेभिमहे आरभामहेऽवलम्बामहे। रम्भो दण्डः।
- ‘आ ते हस्तौ रभामहे’ (अथर्व० ८।१।८)। आरभामहे आलम्बामहे गृह्णीमहे।
- ‘ये त्वारभ्य चरामसि’ (१।५७।४)। त्वाऽऽरभ्य=त्वामालम्ब्य।
- ‘भूतैः पञ्चभिरारब्धे देहे’ (भा० पु० ३।३१।३०)। आरब्धे निर्मिते।
- ‘वर्षीयांश्च पृथिव्या ध्रुवः सर्वमारभ्य तिष्ठति’ (आप० ध० १।२३।९)। आरभ्य विष्टभ्य। शेषित्वेनाधिष्ठायेत्युज्ज्वलायां हरदत्तः। संस्तभ्येति तु शङ्कराचार्यः।
- ‘मृगातिशय तद् ब्रूहि कमारभ्येति भाषसे’ (अवदा० रुरुजा० २७)। कमारभ्य, कमुद्दिश्य, कमधिकृत्य।
- ‘मालत्याः प्रथमावलोकदिवसादारभ्य’ (मालती० ६)। आरभ्य आदाय, दिवसात् प्रभृति।
- ‘अयथाबलमारम्भो निदानं क्षयसम्पदः’ (शिशु० २।९४)। आरम्भोऽभियानम्, यानम्।
- ‘आरम्भे पारमेष्ठ्यं तु न प्राप्यमिति मे मतिः’ (भा० सभा० १५।५)। राजसूयारम्भे।
- ‘आगमैः सदृशारम्भः’ (रघु० १।१५)। आरम्भश्चर्या।
- ‘किं स्विदासीदधिष्ठानमारम्भणं कतमत् स्वित्कथासीत्’ (ऋ० १०।८१।२)। आरम्भणमालम्बनस्थानम्।
- ‘तां प्रत्यारब्धिरभवत्क्रुध्यतां सर्वमन्त्रिणाम्’ (राज० ६।६।३४८)। आरब्धिरभियानम्।
- ‘यज्ञो वै देवेभ्योऽपाक्रामत् स सुपर्णरूपं कृत्वाऽचरत् तं देवा एतैः सामभिरारभन्त’ (पञ्च० ब्रा० ४।३।१०)। आरभन्त अगृह्णन्।
- ‘आरभामहे त्वा जीर्णा इव दण्डम्’ (नि० ३।२१।१)। अवलम्बामह इत्यर्थः।
- ‘अन्तरिक्षेऽनारम्भणान्यादायात्मानं परिपतन्ति’ (छां० उ० २।९।४)। अनारम्भणानि अनालम्बनाति, अनाश्रयाणि।
रम्
- {आरम्}
- रम् (रमु क्रीडायाम्)।
- ‘आरमाच्छावाक’ (ऐ० ब्रा० ६।३०)। आरम उपरम, विरम।
- ‘आरमेदा सम्प्रैषात्’ (आश्व० श्रौ० २।१६।२)। आरमेत् विरमेत्।
- ‘विरामोस्त्विति चारमेत्’ (मनु० २।७३)। उक्तोऽर्थः।
- ‘अन्तर्वत्नी त्वहं भ्रात्रा ज्येष्ठेनारम्यतामिति’ (भा० आदि० १०४।११)। आरम्यताम् उपरम्यताम्। प्रारिप्स्यमानात्कर्मणो वारयात्मानमिति तात्पर्यार्थः।
- ‘सत्यधर्मार्थवृत्तेषु शौचे चैवारमेत्सदा’ (मनु० ४।१७५)। आरमेत् रतिं कुर्यात्। प्रीतिमनुभवेत्।
- ‘ताश्च समं युगपदारमत्’ (कथा० ४४।५०)। आत्मानं रमयामासेत्यर्थः।
- ‘आरेमुरित्वा पुलिनान्यशङ्कम्’ (भट्टि० ३।३८)। आत्मानं विनोदयामासुरित्यर्थः।
- ‘आरतनिःस्वनैः’ (कि० ५।६)। प्रशान्तगर्जितैरित्याह।
- ‘अनारमत्यग्ने दुःशीर्ततनो जुषस्व स्वाहा’ (आप० श्रौ० ६।४।१४।१३)। अनारमति=(रुद्रे) अविरमति सति।
- ‘चक्षुषोरेवैते आरमणे कुरुतः’ (श० ब्रा० ४।२।१।१९)। आरत्यवरतिविरतय उपरामे इत्यमरः।
- ‘तस्मादेना आरतं शंसेत्’ (शां० ब्रा० १५।४)। आरतं तूष्णीम्।
- ‘विरामोऽस्त्विति चारमेत्’ (मनु० २।७३)। आरमेत् विरमेत्।
- ‘स्वात्मारामेषु कुशलप्रश्न एव विडम्बनम्’ (ब्रह्मवै० २।६१।२०)। स्वात्मन्यारामो रति र्थेषां ते तथोक्ताः।
राध्
- {आराध्}
- राध् (राध साध संसिद्धौ)।
- ‘शूद्रस्तु वृत्तिमाकाङ्क्षन् क्षत्रमाराधयेद्यदि’ (मनु० १०।१२१)। आराधयेत् परिचर्यया रञ्जयेत्।
- ‘आराधयति धर्मज्ञः परलोकं जितेन्द्रियः’ (रा० २।६०।६)। आराधयति साधयति आप्नोति।
- ‘यदि वा जानकीमपि। आराधनाय लोकानां मुञ्चतो नास्ति मे व्यथा’ (उत्तर० १।१२)। आराधनमनुरञ्जनम् प्रीणनम्।
- ‘सम्बन्धे विपरीतमेव तदभूदाराधनं ते मयि’ (उत्तर० ४।१७)। आराधनं सत्क्रिया सभाजनमर्हणा।
- ‘मन्त्राराधनतत्परेण मनसा नीताः श्मशाने निशाः’ (भर्तृ० )। आराधनं साधनं वशीकरणम्।
रिच्
- {आरिच्}
- रिच् (रिचिर् विरेचने)।
- ‘स सुन्वत इन्द्रः सूर्यमा देवो रिणङ् मर्त्याय स्तवान्’ (ऋ० २।१९।५)। आरिणक् आरेचयत्।
- ‘आरेचितम्रूलता०’ (कु० ३।५)। आरेचिते वक्रीभूते।
री
- {आरी}
- री (रीङ् स्रवणे, री गतिरेषणयोः)।
- ‘ए रिणाति बर्हिषि प्रियं गिरा’ (ऋ० ९।७१।६)। आरिणाति आस्रावयति।
- ‘आस्मै रीयन्ते निवनेव सिन्धवः’ (ऋ० १०।४०।९)। आरीयन्ते स्रवन्ति। त्वरितं स्यन्दन्ते।
रु
- {आरु}
- रु (रु शब्दे)।
- ‘तस्करानारुवन्त्यः’ (गावः) (व० बृ० सं० ९२।१)॥ ** रम्भारवेण संनिहितान्स्तेनान्कथयन्त्य इत्यर्थः।**
- ‘ओ रोदसी वृषभो रोरवीति’ (ऋ० ६।७३।१)। द्यावापृथिव्यौ रम्भया पूरयन् इत्याह।
- ‘आरावं मातृवर्गस्य भृगूणां क्षत्रियैर्वधे’ (भा० आदि० १८०।५)। आरावः क्रन्दितं क्रन्दनध्वनिः।
रुज्
- {आरुज्}
- रुज् (रुजो भङ्गे)।
- ‘आरुजन्विरुजन्पार्थो ज्यां विकर्षश्च पाणिना’ (भा० द्रोण० १२७।३१)। आरुजन् कृन्तन्।
रुध्
- {आरुध्}
- रुध् (रुधिर् आवरणे)।
- ‘तेषु तेष्ववकाशेषु शीघ्रमारुध्यतां पुरी’ (हरि० ५०१३)। आ समन्ताद् रुध्यताम् इत्यर्थः।
- ‘बन्धुता शुचमारुणत्’ (भट्टि० १७।४९)। आरुणत् अपनीतवती।
- ‘यः स्मारुन्धानो गध्या समत्सु’ (ऋ० ४।३८।४)। आरुन्धानः सुष्ठु गृह्णानः, इतः कर्षन्वा।
- ‘वायवारुन्धि नो मृगान्’ (कौ० सू० १२७)। इतः प्रेरयेत्यर्थः।
- ‘पद्भ्यामारोधयन्मार्गम्’ (भा० आदि० १०४।१९)। आरोधयत् पिहितवान्।
- ‘नगर्याः पश्चिमं द्वारं शीघ्रमारोधयन्तु’ (हरि० ५०१५)। उक्तोऽर्थः।
- ‘वत्सानारुध्य शाद्वलं’ (भा० पु० १०।१३।७)। आरुध्य=अवरुध्य।
रुह्
- {आरुह्}
- रुह् (रुह बीजजन्मनि)।
- ‘आ यदश्वान्वनन्वतः श्रद्धयाहं रथे रुहम्’ (ऋ० ८।१।३१)। आरुहम् आरुक्षम्।
- ‘सा भूमिमारुरोहिथ वह्यं श्रान्ता वधूरिव’ (अथर्व० ४।२०।३)। उक्तोऽर्थः।
- ‘आ रोहतायुर्जरसं वृणानाः’ (ऋ० १०।१८।६)।
- ‘आरुरुहू रथादिषु’ (भट्टि० )। अत्रार्थे सप्तमीप्रयोगो विरलो लोकवेदयोः।
- ‘सिंहासनमारुरोह’ (काद० १११)। सिंहासनमध्यासाञ्चक्रे।
- ‘गत्वा च नासिकां छित्त्वा भार्यायास्तामारोपयत्। गुरुनासां मुखे तस्या न च तत्रारुरोह सा’ (कथा० ६१।१६)॥ आरोपयत् प्रत्यवपत्। गुरोर्नासा गुरुनासेति षष्ठीतत्पुरुषः।
- ‘आभरणभारमङ्गेषु नारोपयन्ति’ (काद० २०३)। नारोपयन्ति न न्यस्यन्ति।
- ‘छाया हि भूमेः शशिनो मलत्वेनारोपिता शुद्धिमतः प्रजाभिः’ (रघु० १४।४०)। आरोपिताऽध्यासिता।
- ‘अङ्कमारोप्य’ (रघु० ३।२६)। अङ्के निधायेत्यर्थः।
- ‘वृषल भृत्यमिव मामारोढुमिच्छसि’ (मुद्रा० ३)। मम प्रबुभूषसि।
- ‘अत्यारूढिर्भवति महतामप्यपभ्रंशनिष्ठा’ (शा० प्रक्षिप्तः श्लोकः)। आरूढिरुच्छ्रायः। नगाद्यारोहः पर्वताद्युत्सेधः।
- ‘सारोहाणां च वाजिनाम्’ (रा० ६।३।३४)। आरोहः सादी।
- ‘अश्वा हतारोहाः’ (हरि०)।
- ‘आरोहे विनये चैव युक्तो वारणवाजिनाम्’ (भा० वि० )। आरोह आरोहणम्।
- ‘लङ्का सारोहा पर्वते’ (रा० ५।७३।६)। पर्वतारूढा पर्वतस्योपरि स्थितेत्यर्थः।
- ‘क्लृप्ताः स्थूणाः कुरुतारोहणानि। गन्धर्वाप्सरसां चैव शीघ्रम्। यत्र नृत्येरंप्त्वप्सरसः समस्ताः’ (भा० आश्व० १०।२७)॥ आरोहणानि रङ्गस्थलानि रङ्गाः।
- ‘उदग्राक्लिष्टसुश्लिष्टं मञ्चारोहणमुत्तमम्’ (हरि० २।२८।८)। आरोहणं सोपानम्। आरोहणं स्यात्सोपानम्। (अमरः)। श्रोण्यामप्यारोहो वरस्त्रियाः (अमरः)। वरारोहा मत्तकाशिन्युत्तमा वरवर्णिनी (अमरः)। समारोहपरिणाहा वृक्षा निधाः। आरोह उत्सेधः।
- ‘यास्ते रुहः प्ररुहो यास्त आरुहो याभिरापृणासि दिवम्’ (अथर्व० ९।२६।३)। आरुह आ समन्ताद् रोहन्त्यः शाखाः।
- ‘तं देशमारोपितपुष्पचापे’ (कु० ३।३५)। आरोपितज्यमारोपितमित्युक्तम्। विदितो वनेचर इतिवदुत्तरपदलोपोऽत्र द्रष्टव्यः। आरोपितपुष्पचापोऽधिज्यपुष्पधन्वा, तस्मिन्।
- ‘वस्तुन्यवस्त्वारोपोऽध्यारोपः’ (वे० सा०)। निगदव्याख्यातम्।
रम्भ्
- {आरम्भ्}
- रम्भ् (रभि शब्दे)।
- ‘श्रुत्वा भेरीरवं घोरं मेघारम्भितसंनिभम्’ (मात्स्यपु० १३६।२८)। मेघारम्भितं मेघगर्जितं स्तनयित्नुस्तनितम्।
लक्ष्
- {आलक्ष्}
- लक्ष् (शम लक्ष आलोचने)।
- ‘एतदालक्ष्यते राम मधुकानां महद् वनम्’ (रा० ३।१९।२२)। आलक्ष्यते आ समन्ताद् दृश्यते।
- ‘नातिपर्याप्तमालक्ष्य मत्कुक्षेरद्य भोजनम्’ (रघु० १५।१८)। आलक्ष्य लक्षयित्वा।
लप
- {आलप}
- लप (लप व्यक्तायां वाचि)।
- ‘अहं ह्यरण्ये कथमेकमेका त्वामालपेयं निरता स्वधर्मे’ (भा० वन० २६६।३)। आलपेयं संभाषये।
- ‘तत्र योन्यत्कर्मणः साधु मन्येन्मोघं तस्यालपितं दुर्बलस्य’ (भा० उ० २९।८)। आलपितं मन्त्रणा, संमर्शः।
- ‘आलापाश्च प्रलापाश्चाभीलालपश्च ये’ (अथर्व० ११।८।२५)। आलापा आभाषणानि, सार्थकवचनानि। अभीलालपः। यङ्लुकि क्विपि बहुवचने रूपम्। अभीत्यत्र सांहितिको दीर्घः।
- ‘डामरैः प्रहितालापश्चैत्रे यात्रामदान्मदात्’ (राज० ७।९१५)। प्रहितालापो दत्तसन्देशः कृतनिमन्त्रणः।
लभ्
- {आलभ्}
- लभ् (डुलभष् प्राप्तौ)।
- ‘आयुधं तेन सत्येन पादौ चैवालभे तव’ (रा० २।१८।१९)। आलभे स्पृशामि।
- ‘यत्त्रिषु यूपेष्वालभेत’ (तै० ब्रा० १।८।६।१)। आलभेत, बध्नीयात्, विशसेत्, निबर्हयेत्।
- ‘प्रातर्वै पशूनालभन्ते’ (श० ब्रा० ३।७।२।४)। उक्तोऽर्थः।
- ‘इध्ममर्चिरालभते’ (तै० ब्रा० २।१।१०।१)। आलभते गृह्णाति, व्याप्नोति।
- ‘वेदशिरसा नाभिदेशमालभते’ (आश्व० श्रौ० १।११।२)। आलभते स्पृशति।
- ‘यथा शाल्वपते नान्यं वरं ध्यायामि कञ्चन। त्वामृते पुरुषव्याघ्र तथा मूर्धानमालभे’ (भा० उ० १७५।१६)॥
- ‘पृष्ठतस्त्वामनुयास्यामि सत्यमात्मानमालभे’ (भा० आश्रम० ३।५२)। इत्यादिषूपलम्भनेऽर्थ आलभेः प्रयोगो द्रष्टव्यः। उपलम्भनं च वाचा शरीरस्पर्शनमिति शप उपलम्भन इति वार्तिके वृत्तिः।
- ‘अक्षान्यद् बभ्रूनालभे’ (अथर्व० ७।११३।७)। अक्षानामृशामीत्यर्थः।
- ‘त्रीणि तेजांसि नोच्छिष्ट आलभेत कदाचन। अग्निं गां ब्राह्मणं चैव’ (भा० अनु० १०४।६३)। अत्रोभयत्र स्पर्शनमात्रमर्थः।
- ‘रक्षांसि वा एनं तर्ह्यालभन्ते यर्हि न जायते’ (ऐ० ब्रा० ३।५)। एनमग्निमालभन्ते परिगृह्णन्ति।
- ‘अग्ने व्रतपते व्रतमालप्स्ये’ (मै० सं० १।९।१)। आस्थास्यामीत्याह।
- ‘आज्यमालभ्योपस्पृशेदपः सोममालिप्स्यमानस्तथा विपर्यस्य’ (का० श्रौ० ८।२।७)। आलिप्स्यमानः स्प्रष्टुमिच्छन्। आलिप्समान इति तु पाणिनीयाः।
- ‘एतद्वै यत्रैतान्प्रजापतिः पशूनालिप्सत त आलिप्स्यमा?? उदचिक्रमिषन्’ (श० ब्रा० ७।५।२।४)। आलिप्सत अजिघांसत्।
- ‘उतालब्धं स्पृणुहि जातवेदः’ (ऋ० १०।८७।७)।
- ‘अनालब्धं जृम्भति गाण्डिवं धनुरनाहता कम्पति मे धनुर्ज्या’ (भा० उ० ४८।१०२)। अनालब्धमनाकृष्टम्।
- ‘एवं सामभिरालब्धः श्वफल्कतनयो मणिम्’ (भा० पु० १०।५७।४०)।
- ‘गामालभ्यार्कमीक्ष्य वा’ (मनु० ५।८७)। आलभ्य स्पृष्ट्वा।
- ‘केशेष्वालभ्य पाणिभ्यां निष्पिपेष महीतले’ (भा० सौ० ८।१७)। आलभ्य गृहीत्वा, आकृष्य।
- ‘प्राणि वा यदि वाऽप्राणि यत्किञ्चिच्छ्राद्धिकं भवेत्। तदालभ्यानध्यायः पाण्यास्यो हि द्विजः स्मृतः’ (मनु० ४।११७)॥ आलभ्य हस्तेन प्रतिगृह्य प्रतीष्येत्यर्थः।
- ‘नामृतस्य हि पापीयान्भार्यामालभ्य जीवति’ (भा० उ० १७।१५)। आलभ्य पीडयित्वा।
- ‘केशानङ्गं वासश्चालभ्याप उपस्पृशेत्’ (आप० ध० २।३।३)। आलभ्य स्पृष्ट्वा।
- ‘रौद्रं तु राक्षसं पित्र्यमासुरं चाभिचारिकम्। उक्त्वा मन्त्रं स्पृशेच्चाप आलभ्यात्मानमेव च’ (मुकुन्दशर्मकृतायां गो० गृ० (१।३।१२) टीकायामुद्धृतम्)। आत्मालम्भ आत्मस्तुतिः। साप्यप्रायत्यजननी।
- ‘गुरुणाऽऽलम्भिता भार्या तथा भ्रातुर्यवीयसः’ (दे० भा० पु० ४।१३।३४)। आलम्भिता परामृष्टा दूषिता।
- ‘आलम्भयज्ञाः क्षत्राश्च हविर्यज्ञा विशः स्मृताः। परिचारयज्ञाः शूद्रास्तु तपोयज्ञा द्विजातयः’ (भा० शां० २३२।३१)॥ आलम्भो वधः।
- ‘स्त्रीणां च प्रेक्षणालम्भमुपघातं परस्य च’ (मनु० २।१७९)। आलम्भः परिष्वङ्गः।
- ‘कृष्टजानामोषधीनां जातानां च स्वयं वने। वृथालम्भेऽनुगच्छेद् गां दिनमेकं पयोव्रतः’ (मनु० ११।१४४)॥ वृथालम्भे निष्प्रयोजने छेदने।
- ‘मङ्गलालम्भनीयानि’ (रा० १।७८।१०)। स्पर्श मङ्गलानि शिवङ्कराणीत्यर्थः।
- ‘नैवंविधं मया युक्तमालब्धुं क्षत्रयोनिना’ (भा० वि० ४१।२)। आलब्धुं स्प्रष्टुम्।
- ‘तिला भक्षयितव्याः सदा त्वालम्भनं च तैः’ (भा० अनु० ६८।१९)। आलम्भनं सर्वतः स्पर्शनम्, उद्वर्तनमुत्सादनमित्यर्थः।
- ‘आलभेतासकृद् दीनः करेण च शिरोरुहान्’ (सुश्रुत० कल्प० १।८)। आलभेत स्पृशेत्।
- ‘धनैर्मलिनचित्तानामालभन्तेऽङ्गनं क्वचित्’ (स्कन्द० का० ४।७१।१६)। उक्तोऽर्थः।
- ‘मङ्गलालम्भनं योगः श्रुतमुत्थानमार्जवम्’ (भा० उ०)। आलम्भनं स्पर्शः।
लम्ब्
- {आलम्ब्}
- लम्ब् (अबि रबि लबि शब्दे, लबि अवस्रंसने च)।
- ‘पतितां किं नाम नालम्बसे’ (सा० द०)। आलम्बसे धारयति, अवष्टभ्नासि।
- ‘तस्य कविता मच्चित्तमालम्बते’ (धूर्त्तसमागमे)। आलम्बते हरति, आवर्जयति।
- ‘तनू रोमाञ्चमालम्बते।’ रोमोद्गमं श्रयतीत्यर्थः।
- ‘अथालम्ब्य धनू रामः’ (भट्टि० ६।३५)। आलम्ब्य गृहीत्वा।
- ‘शोभन्ते किञ्चिदालम्बाः शालयः कनकप्रभाः’ (रा० ३।१६।१७)। किञ्चिदालम्बाः किञ्चिन्नताः।
- ‘रामे सलक्ष्मणे याते सीतां शून्ये यथासुखम्। निरालम्बां हरिष्यामि राहुश्चन्द्रप्रभामिव’ (रा० ३।४०।२८)॥ निरालम्बां निराश्रयाम्
- ‘यमुद्धर्तुं पूषा व्यवसित इवालम्बितकरः’ (विक्रम० ४।३४)। आलम्बितकरः प्रसारितकरः, आयामितहस्तः।
ला
- {आला}
- ला (ला आदाने)।
- ‘आलानं गजबन्धनी।’ आलायत आदीयत गृह्यतेऽत्रेति व्युत्पत्तेः।
- ‘आलाने गृह्यते हस्ती’ (मृच्छ० १।५०)।
- ‘अरुन्तुदमिवालानमनिर्वाणस्य दन्तिनः’ (रघु० १।७१)।
- ‘गृहीतामालितां स्तम्भे…। …गजराज वधूमिव’ (रा०)॥ आलितां बद्धामिति भूषणकारः।
लिख्
- {आलिख्}
- लिख् (लिख अक्षरविन्यासे)।
- ‘मनो निष्ठाशून्यं भ्रमति च किमप्यालिखति च’ (मालती० १।३१)। आलिखति रेखा उत्किरति।
- ‘त्वामालिख्य प्रणयकुपितां धातुरागैः शिलायाम्’ (मेघ० २।३८)। आलिख्य चित्रेऽर्पयित्वा।
- ‘आलिखन्त इवाकाशम्’ (भा० वि० ३८।३)। **आलिखन्तो धर्षन्तः। **
- ‘शृङ्गाभ्यामालिखन्दर्पाद् द्वारं द्विरदो यथा’ (रा० ४।९।६२)। आलिखन् उत्खनन् अपस्किरमाणः।
- ‘अपाच्चतुष्पाच्छकुनिष्वालेखने’ (पा० ६।१।४२)। आलेखनमुल्लेखनम् उत्करणम्।
- ‘कैलासशिखरप्रख्यामालिखन्तीमिवाम्वरम्’ (रा० ५।२।२३)। लङ्कापुरीमिति शेषः। आलिखन्तीमुल्लिखन्तीम्।
लिप्
- {आलिप्}
- लिप् (लिप् उपदेहे)।
- ‘आलिप्यते चन्दनमङ्गनाभिः’ (ऋतु० ६।१२)। आलिप्यते समन्ताच्चर्च्यते।
- ‘आलिम्पन्नमृतमयैरिव प्रलेपैः’ (उत्तर० ३।३९)। उक्तोऽर्थः।
लिश्
- {आलिश्}
- लिश् (लिश अल्पीभावे)।
- ‘ततो न मनुष्या आशुर्न पशवः। आलिलिशिरे ता हेमाः प्रजा अनाशकेन’ (श० ब्रा० २।४।३।२)। आलिलिशिरेऽकृश्यन् कृशतामापन्। लिशिरिव कृशिरप्यकर्मकः। तनूकरणमर्थस्तु भ्रमकः।
लिह्
- {आलिह्}
- लिह् (लिह आस्वादने)।
- ‘न हि सिंहः परालीढमामिषं भोक्तुमिच्छति’ (रा० गो० सं० २।६२।२५)। आलीढमास्वादितम्।
- ‘सेनान्यमालीढमिवासुरास्त्रैः’ (रघु० २।३७)। आलीढं क्षतम्।*
- ‘नालीढया परिहतं भक्षयीत कदाचन’ (भा० अनु० १०४।९०)। आलीढा रजस्वला, उदक्या, पुष्पवती, मलिनी।
ली
- {आली}
- ली (लीङ् श्लेषणे)।
- ‘निर्भिद्योपरि कर्णिकारकुसुमान्यालीयते षट्पदः’ (विक्रम० २।२३)। आलीयतेऽन्तः शयते।
- ‘आलीनचन्दनौ। स्तनाविव दिशस्तस्याः शैलौ मलयदर्दुरौ’ (रघु० ४।५१)। आलीनचन्दनौ व्याप्तचन्दनद्रुमौ।
- ‘साहं कदम्बमालीना मेघकाले’ (हरि० ५४२४)। कदम्बे नीपे क्लिष्टेत्याह।
- ‘विडालोलूकचरितामालीननरवारणाम्’ (रा० २।११४।४)। आलीनानि श्लिष्टानि विलग्नानि नराणां वारणानि कवाटानि यस्यां तां तथाभूताम्।
- ‘(कोकिला) स्थिता चूते मृतेवालीय’ (कथा० १११।२२)। आलीय आसङ्गं प्राप्य। जटाभिरालापयते। लियः संमाननशालीनीकरणयोश्च (१।३।७०) इति सूत्रे वृत्तावुदाहरणम्। पूजां समधिगच्छतीत्यर्थः।
लुप्
- {आलुप्}
- लुप् (लुप्लृ छेदने)।
- ‘अस्रैस्तावन्मुहुरुपचितैर्दृष्टिरालुप्यते मे’ (मेघ० १०३)। आलुप्यतेऽवलुप्यते।
- ‘वालानभिपेदुरतानालुलुपुः’ (श ब्रा० ३।४।१।१७)। आङ् ईषदर्थे। अवचकृतुरित्यर्थः।
लुभ्
- {आलुभ्}
- लुभ् (लुभ विमोहने, व्यामोहनं व्याकुलीभावः)।
- ‘प्राण आलुभ्येत्’ (श० ब्रा० १।३।२।७)। व्याकुली भवेदित्यर्थः।
- ‘यो व एतदतिक्रामाद् य आलुलोभयिषादिति’ (ऐ० भा० ४।७)। आलोभो भ्रम इति षड्गुरुशिष्यः। भ्रमयितुमिच्छेदित्यर्थः।
लू
- {आलू}
- लू (लूञ् छेदने)।
- ‘अमरवधूहस्तसदयालूनपल्लवा नन्दनद्रुमाः’ (कु० २।४१)। सदयमालूना अवखण्डिताः पल्लवा येषां ते।
लोक्
- {आलोक्}
- लोक् (लोकृ दर्शने)।
- ‘त्वन्मार्गमालोकते’ (सा० द०)। तव मार्गं त्वयानुसृतं पन्थानमालोकते उदीक्षते इत्यर्थः। आलोकितः कुरबकः कुरुते विकासम्। आलोकितो निघ्यातः। निर्वर्णितः। कुरबकस्यायं दोहद इति कविसम्प्रदायः।
लोच्
- {आलोच्}
- लोच् (लोचृ दर्शने)।
- ‘आलोच्य गिरिमुख्यं (रैवतं) मागधं तीर्णमेव च। माधवाः कुरुशार्दूल परां मुदमवाप्नुवन्’ (भा० सभा० १४।५२)।
- ‘परस्परमालोच्य प्रत्यूचुस्ते न किञ्चन’ (रा० ३।१।८)। उभयत्राङ् विशेषकृन्न।
लोड्
- {आलोड्}
- लोड् (लोडृ उन्मादे)।
- ‘वनेचरस्य किमिदं कामेनालोड्यते मनः’ (भा० आदि० २१९।१६)। आलोड्यते मथ्यते। उन्मथ्यते। चाल्यते। आक्षिप्यते।
- ‘मन्थं वा प्रसव्यमालोड्य’ (आश्व० गृ० ३।१०।११)। आलोड्य घट्टयित्वा।
- ‘पिष्टमालोड्य तोयेन’ (का० श्रौ० भा०)। ब्रा०)।
- ‘विषमालोड्य पास्यामि’ (भा० वि० २१।४८)। उक्तोऽर्थः।
वद्
- {आवद्}
- वद् (वद व्यक्तायां वाचि)।
- ‘सजातानुग्रेहा वद ब्रह्म चापि चिकीहि नः’ (अथर्व० १।१०।४)। आवद आ समन्तात् कथय।
- ‘वर्षमावद तादुरि’ (अथर्व० ४।१५।१४)। आवद आभाषय। यादृशेन त्वद्घोषेण वृष्टिर्जायते तादृशं शब्दं कुर्वित्यर्थः।
- ‘तवाहं शूररातिभिः प्रत्यायं सिन्धुमावदन्’ (ऋ० १।११।६)। आवदन् आभाषमाणः।
- ‘सर्वतो नः शकुने भद्रमावद’ (ऋ० २।४३।२)।
- ‘यथेमां वाचं कल्याणीमावदानि जनेभ्यः’ (वा० सं० २६।२)। आवदानि आभिमुख्येन ब्रवीमि।
वप्
- {आवप्}
- वप् (डुवप बीजसन्ताने)।
- ‘स हेक्षाञ्चके। कथं न्वहमिमानि सर्वाणि भूतानि पुनरात्मन्नावपेय’ (श० ब्रा० १०।४।२।३)। आत्मन्नावपेय=आत्मन्यन्तर्निवेशयेय।
- ‘अथ हविरावपति’ (श० ब्रा० १।१।४।७)। आवपति प्रक्षिपति।
- ‘पांसुभिरावपेत्’ (व० बृ० सं० ५४।१२०)। आकिरेदित्यर्थ:।
- ‘त्वं कल्याण वसु विश्वमोपिषे’ (ऋ० १।३१।९)। ओपिषे विकिरसि संकिरसि।
- ‘अग्नौ तुषानावप जातवेदसि’ (अथर्व० ११।१।२९)। प्रक्षिपेत्यर्थः।
- ‘श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद् भुवि’ (मनु० ३।१०५)। उक्तोऽर्थः।
- ‘तस्मिन्नन्या देवता ओप्यन्ते’ (नि० १२।५)। ओप्यन्तेऽन्तर्निवेश्यन्ते समावेश्यन्ते।
- ‘किंस्विदावपतां श्रेष्ठम्’ (भा० वन० ३१३।५५)। आवपतां जुह्वताम्। आवापो हविःप्रक्षेपः।
- ‘अभोज्यं बुभुक्षमाणः पृथिवीमावपेत्’ (गौ० ध० ३।६।३)। आवपेत् प्रक्षिपेत्।
- ‘केशानावपन्ती’ (भा० आदि० ३।१५७)। आवपन्ती प्रसाधयन्ती।
- ‘लाजानावपन्तिका’ (पा० गृ० १।६।२)। विकिरन्तीत्यर्थः।
- ‘किन्तु पारावतीमेनां चञ्च्वा चञ्चुषु तण्डुलान्। आवपन्तीं स्वशावानामीक्षे पुत्रवतीमिति’ (बृ० श्लो० सं० ४।६०)॥ आवपन्तीं निक्षिपन्तीम्। स्यादालवालमावालमावाप इत्यमरे पर्यायाः। आवापः संमिश्रणं भवत्युपयोगार्हतां नीयमाने द्रव्ये द्रव्यान्तरसंसर्गो वा।
- ‘शाल्यावापे कृषीवलाः’ (नारद स्मृतिः)। आवापो बीजसन्तानः।
- ‘तान् गृहीतशरावापान्’ (भा० आदि० १८९।१३)।
- ‘ततः शरावापमपास्य सूतजः’ (भा० कर्ण० ९०।६९)। शरावापः शरासनं धनुः। आवापोद्वापौ। अभ्युच्चापोद्धारौ।
- ‘तन्त्रावापविदा’ (शिशु० २।८८)। आवापो विरोधभावना, अवस्कन्दसंकल्पः।
- ‘कुशलं हि मे बह्वन्यदस्ति यत्रायमावापं गतः स्वर्गेप्यपकर्षमल्पं करिष्यतीति’ (यो० सू० भा० २।११)।
- ‘प्राक् स्विष्टकृत आवापः’ (गो० गृ० १।८।१६)। आवापः=प्रधानहोमः।
- ‘प्रभुरग्निः प्रतपने भूमिरावपने प्रभुः’ (भा० आदि० ८८।१३)। आवपनं सङ्ग्रहः।
- ‘भूमिरावपनं महत्’ (वा० सं० २३।१०)। आवपनं वपनस्थानम्।
- ‘त्वमस्यावपनी जनानामदितिः’ (अथर्व० १२।१।६१)। आवपनी भाजनं पात्रम्।
- ‘आवपनं च भूमेः’ (गौ० ध० १।१।३१)। आवपनमन्यत आनीय पूरणम्। आवापकः पारिहार्यः कटको वलयोऽस्त्रियाम् इत्यमरः।
वस्
- {आवस्}
- वस् (वस् निवासे)।
- ‘मामावसन्ति सुकृतः’ (अथर्व० ७।८४।२)। मयि निवसन्तीत्यर्थः।
- ‘अपामुपस्थे विभृतो यदावसत्’ (ऋ० १।१४४।२)। उक्तोऽर्थः।
- ‘स्वाध्यायाद्योगमासीत योगात् स्वाध्यायमावसेत्’ (वि० पु० ६।६।२)। आवसेत् आश्रयेत्।
- ‘इह क्वावास्यते पान्थैः’ (कथा० १२४।१३३)।
- ‘सुहोत्राद्धस्ती य इदं हस्तिनापुरमावासयामास’ (वि० पु० ४।१९।२८)। आवासयामास निवेशयामास।
- ‘(राजानः) आवासिता नातिदूरे षट्कुरस्य’ (कथा० )। उक्तोऽर्थः।
- ‘कथंविधं पुरं राजा स्वयमावस्तुमर्हति’ (भा० शां० ८६।१)। आवस्तुमधिवस्तुम्।
- ‘आसनावसथौ शय्या (मनु० ३।१०७) आवसथो विश्रमस्थानमिति कुल्लूकः। आवसथो विश्रामभूमिरिति मेधातिथिः।
- ‘तस्य पुरस्तादावसथः’ (आप० ध० २।२५।४)। एत्यवासन्त्यस्मिन्नित्यावसथ आस्थानमण्डपः।
- ‘स किलाश्रममन्त्यमाश्रितो निवसन्नावसथे पुराद्बहिः’ (रघु० ८।१४)। उक्तचर एवार्थः।
- ‘माद्रीसुताभ्यां सहितः किरीटी सुष्वाप तामावसतिं प्रतीतः’ (भा० वन० १६५।१४)। उक्तचर एवार्थः। आवसतिं रात्रिम्। वासतेय्यपि रात्रिरुच्यते।
- ‘रोगी चिरप्रवासी परान्नभोजी परावसथशायी। यज्जीवति तन्मरणं यन्मरणं सोऽस्य विश्रामः’ (हितोप०)॥ आवसथो गृहम्।
- ‘उद्यानेषु विहारेषु प्रपास्वावसथेषु च’ (भा० शां० १४०।१४१)। आवसथ आश्रमः।
- ‘स ह सर्वत आवसथान्मापयाञ्चक्रे’ (छां० उ० ४।१।१)। आवसथाः शरणानि।
- ‘स…ग्रासाच्छादनावसथान् प्रतिविदध्यात्’ (कौ० अ० १।११)। उक्तपूर्व एवार्थः।
- ‘मास्म मत्कारणाद् देवी सुमित्रा दुःखमावसेत्। अयोध्याम्…’ (रा० २।५३।१६)॥ अयोध्यायां वसेत् इत्यर्थः।
- ‘आवसन् संयुताः कान्तैः परर्द्धिरचितां गुहाम्’ (मात्स्य० १२०।३३)। उक्तोऽर्थः।
- ‘स्वाध्यायाद्योगमासीत योगात्स्वाध्यायमावसेत्’ (योगभाष्ये)। स्वाध्यायेऽवस्थितः स्यादित्यर्थः।
वह्
- {आवह्}
- वह् (वह प्रापणे)।
- ‘जायां यामस्मा आवाक्षुः’ (अथर्व० ६।१८।१)। भार्यात्वेन समीपमानैषुरित्यर्थः।
- ‘यस्मै भूतानि बलिमावहन्ति’ (तै० आ० १।३१।२)। आवहन्ति हरन्ति उपहरन्ति।
- ‘आ वां वहन्तु रथाः’ (ऋ० ४।१४।४)। इत आनयन्त्यित्याह।
- ‘आ त्वा…ब्रह्मयुजो हरयः…वहन्तु सोमपीतये’ (ऋ० ८।१।२४)। उक्तोऽर्थः।
- ‘तेन कूलापहारेण मैत्रावरुणिरौह्यत’ (भा० शल्य० २।२९)। औह्यत=आ औह्यत=आप्लावितः।
- ‘बलवत्प्रतिविद्धस्य नस्तः शोणितमावहत्’ (भा० वि० ६८।४७)। आवहत् प्रावहत्, प्रास्त्रवत् अक्षरत्, अस्यन्दत।
- ‘इदं हविर्यातुघानान्नदीफेनमिवावहत्’ (अथर्व० १।८।१)। आवहतु वहतु, अपनयतु।
- ‘असिक्नीमावहत् पत्नीम्’ (वीरणस्य प्रजापतेः कन्याम्) (हरि० १।३।६)। पत्नीमावहत् भार्यां पर्यगृह्णात्।
- ‘अथास्मै पञ्चविंशतिवर्षाय षोडशवर्षां पत्नीमावहेत्’ (सुश्रुत० १०।)। पञ्चविंशतिवर्षं पुमांसं षोऽशर्वां पत्नीं लम्भयेदित्यर्थः।
- ‘गृहीतवेतनः कर्म त्यजन् द्विगुणमावहेत्’ (याज्ञ० २।१९३)। स्वामिने द्विगुणां भृतिं दद्यादित्याह।
- ‘आम्नानवैषम्यमपि नावश्यमर्थवैषम्यमावहति’ (ब्र० सू० शां० भा० ३।३।१७)। आवहति जनयति, करोति।
- ‘हिंसा हि पुरुषस्य दोषमावक्ष्यति’ (सां० तत्त्व० १)। आवक्ष्यति जनयिष्यति।
- ‘तद्धरति बहत्यावहति भाराद् वंशादिभ्यः’ (पा० ५।१।५०)। आवहति उत्पादयति।
- ‘अभ्यासो हि कर्मणां कौशलमावहति’ (गणहरत्न० १।४)। उक्तोऽर्थः।
- ‘सूक्ष्मेभ्योपि प्रसङ्गेभ्यः स्त्रियो रक्ष्या विशेषतः। द्वयोर्हि कुलयोः शोकमावन्हेयुररक्षिताः’ (मनु० ९।५)।
- ‘धर्मो ह्युपचितः सम्यगावहत्यर्थमुत्तमम्’ (अवदा० जा० २२।३३)।
- ‘गीतनृत्यहसितैरुन्मत्ततामावहन्त्युपेक्षिता विकारा इव वातिकाः’ (हर्ष० ४)।
- ‘रामबाणासनक्षिप्तमावहत् परमां गतिम्’ (रा० ४।१७।८)। बाणासनं धनुः। क्षिप्तमस्त्रमिषुः। आवहत् प्रापयत्।
- ‘अग्ने सुखतमे रथे देवाँ ईलित आवह’ (ऋ० १।१३।४)। आवह आनय।
- ‘यस्य हि स्रोतांसि यच्च वहन्ति यच्चावहन्ति यत्र च…तानि सर्वं तदन्यत्तेभ्यः’ (चरक० वि० ५।४)। आवहन्ति पुषणन्ति। अमूमावहामूमावह। अमूममूं देवतामामन्त्रयस्वेत्यर्थः।
- ‘याँ आवह उशतो देव देवान्’ (वा० सं० ८।१९)। आवह आहूतवानसि।
- ‘पुत्र मज्जनमावह’ (भा० पु० १०।११।१८)। मज्जनं स्नानं निर्वह निर्वर्तय आचरेत्यर्थः। अन्यत्र सुदुर्लभोऽत्रार्थ आङ्पूर्वस्य वहतेः प्रयोगः।
- ‘सुमन्त्रावाहय क्षिप्रमृत्विजो ब्रह्मवादिनः’ (रा० १।१२।५)। आवाहय मत्समीपं प्रापय।
- ‘वशे स्थास्यन्ति ते देवा यांस्त्वमावाहयिष्यसि’ (भा० आश्रम० ३०।६)। आवाहयिष्यसि आह्वास्यसि, उपह्वास्यसे।
- ‘पयोमूलफलैर्वापि पितृभ्यः प्रीतिमावहन्’ (मनु० ३।८२)। आवहन् जनयन्।
- ‘राघवः परमोदारो मुनीनां प्रीतिमावहन’ (रा० १।३०।२३)। उक्तोऽर्थः।
- ‘पुष्पं फलं चार्तवमावहन्त्यो बीजं च बालेयमकृष्टरोहि। विनोदयिष्यन्ति नवाभिषङ्गामुदारवाचो मुनिकन्यकास्त्वाम्’ (रघु० १४।७७)॥ आवहन्त्यो वहन्त्यः।
- ‘वयस्थां च महाप्राज्ञः कन्यामावोढुमर्हति’ (भा० अनु० १०४।१२४)। आवोढुं वोढुमुद्वोढुं परिणेतुम्।
- ‘आवाहाश्च विवाहाश्च सह सूतैर्मया कृताः’ (भा० उ० १४१।१४)। आवाहः कुलधर्म इति नीलकण्ठः। अथास्य कर्म।
- ‘वहनं हविषामावाहनं च देवतानाम्’ (नि० ७।८)। आवाहनं निमन्त्रणम्।
- ‘आवहति धार्यमाणः सङ्गममचिरात् प्रियजनेन’ (विक्रम० ४।३३)। आवहति जनयति, करोति।
- ‘जीवन्न सम्प्रति भवामि किमावहामि’ (का० प्र० ५।११४)। किं करोमीत्यर्थः।
- ‘उदिते प्राङ्मुखा गृह्याः प्रत्यङ्मुखा आवहमाना गोत्रनामान्यनु कीर्तयन्तः कन्यां वरयन्ति’ (शां० गृ० १।६।४)।
- ‘आवहन्ती पोष्या वार्याणि’ (ऋ० १।११३।१५)। आवहन्ती आहरन्ती प्रापयन्ती (उषाः)।
- ‘आवाहे विवाहे यज्ञे गमनं सखीभिः सह’ (का० सू० ४।१।१५)। आवाहे वरगृहे।
वा
- {आवा}
- वा (वा गतिगन्धनयोः)
- ‘आ वात वाहि भेषजं वि वात वाहि यद्रपः’ (ऋ० १०।१३७।३)। आवाहि आगमय।
- ‘द्वाविमौ वातौ वात आ सिन्धोरा परावतः’ (ऋ० १०।१३८।१)।
- ‘दक्षं ते अन्य आ वातु’ (ऋ० १०।१३७।२)। आवातु आदायाऽऽगच्छतु आगमयतु इतः प्रेरयतु। सर्वा दिश आवाति वातः। सर्वासु दिक्षु वातीत्यर्थः। देशकालाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणामिति दिशां कर्मत्वम्।
- ‘बद्धां बद्धां भित्ति शङ्काममुष्मिन्नावानावान्मातरिश्वा निहन्ति’ (कि० ५।३६)। आवान् समन्तात्प्रवहन्।
वास्
- {आवास्}
- वास् (वास उपसेवायाम्)।
- ‘आवासयन्तो गन्धेन जग्मुरन्यद्वनं ततः’ (रा० २।१०३।४१)। आवासयन्तः सुरभीकुर्वन्तः।
विज्
- {आविज्}
- विज् (ओषिजी भयचलनयोः)।
- ‘स रामलक्ष्मणौ…शरैः…भृशमावेजयामास’ (रा० ६।२०।८)। आवेजयामास संरम्भं गमयामास, क्षोभयामास।
- ‘आविग्ने हृदि सन्तापं जनयत्यशिवं मम’ (भा० आदि० २३३।१६)। आविग्नं चलितं क्षुभितम्।
विद्
- {आविद्}
- विद् (विद ज्ञाने)।
- ‘कश्छन्दसां योगमा वेद धीरः’ (ऋ० १०।११४।९)। आवेद अञ्जसा वेत्ति।
- ‘श्रद्धां भगस्य मूर्धनि वचसाऽऽवेदयामसि’ (नि० ९।३१।१)। वचनेनावेदयाम आघोषयाम इत्याह।
- ‘स्मृत्याचारव्यपेतेन मार्गेणाधर्षितः परैः। यदावेदयति राज्ञे व्यवहारपदं हि तत्’ (याज्ञ० २।५)॥ आवेदयति विज्ञापयति।
- ‘यावदावेद्यते राज्ञे हतः कर्णोऽर्जुनेन वै’ (भा० कर्ण० ९६।११)। राज्ञ आवेद्यते प्रवृत्तिर्दीयते, वृत्तान्तः शस्यते।
- ‘आवेदयन्ति प्रत्यासन्नमानन्दं निमित्तानि’ (काद० ६५)। पुरः स्फोरयन्तीति यावत्।
- ‘अवेदनीय आवेद्यः’ (लिङ्गपु० पू० ६५।४०)। आवेद्य आ ईषद् वेदितुं ज्ञातुं शक्यः।
विश्
- {आविश्}
- विश् (विश प्रवेशने)।
- ‘तामाविशत तां प्रविशत’ (अथर्व० १९।१९। १)। आविशत अभिमुखं प्रविशत प्रवेशोन्मुखा भवतेत्यर्थः।
- ‘गौरीगुरोर्गह्वरमाविवेश’ (रघु० २।२६)। आविवेश प्रविवेश।
- ‘अविप्लुतब्रह्मचर्यो गृहस्थाश्रममाविशेत्’ (मनु० ३।२)। आविशेत् प्रविशेत्, श्रयेत्, सङ्क्रामेत्।
- ‘आ त्वा स्वो विशतां वर्णः’ (अथर्व० १।२३।२)।
- ‘आ नो द्रप्सा मधुमन्तो विशन्तु’ (ऋ० १०।९८।४)। उक्तोऽर्थः।
- ‘अभिभूय च रक्षांसि ब्रह्मघोषो विनादयन्। आविवेश दिशः सर्वाः…’ (रा० ६।११।२३)॥ आविवेश व्यानशे व्याप।
- ‘तदाविशन्ति भूतानि महान्ति’ (मनु० १।१८)। तद् ब्रह्म पञ्चतन्मात्रात्मना स्थितमाविश्योत्पद्यन्त इत्यर्थः।
- ‘ध्र वं प्रशान्ताः सुखमाविशेयुः’ (भा० उ० २।३)। सुखमाविशेयुः सुखमाप्नुयुः।
- ‘वृत्रे विवर्धमाने च कश्मलं महदाविशत्’ (पुरन्दरः) (भा० वन० १०१।८)। आविशत्प्राविशत्।
- ‘हृतस्वं कामिनं चौरमाविशन्ति प्रजागराः’ (भा० उ० ३३।१३)। उक्तोऽर्थः।
- ‘रामः कवचमाविशत्’ (रा० ३।२४।१६)। आविशत् धृतवान्।
- ‘नासविभज्य भोक्तास्मि नाविशामि परस्त्रियम्’ (भा० शां० ७७।२१)। आविशामि संविशामि, संभवामि, मिथुनी भवामि।
- ‘न हृष्यन्ति न कुप्यन्ति नाविशन्त्याहरन्ति च’ (यो० वा० ६ (२) ९८।२)। नाविशन्ति कामाद्यावेशं न गच्छन्ति, कामादिभिर्नाभिभूयन्ते इत्यर्थः।
- ‘देहावरणं विभिद्य ते (बाणाः) सात्यकेराविविशुः शरीरम्’ (भा० द्रोण० ११८।११)। शरीरमाविविशुः शरीरेऽन्तः प्रविविशुः।
- ‘आविशन्ति च यं यक्षाः’ (भा० वन० २३०।५३)। आविशन्ति अभिभवन्ति।
- ‘स मा धीरः पाकमत्राविवेश’ (ऋ० १।१६४।२१)। मामाविवेश मामुपसर्पति।
- ‘आविष्टासि गृहे शून्ये सा त्वं परवशं गता’ (रा० २।१२।१८)। आविष्टा ग्रहगृहीता।
- ‘आविष्टा इव युध्यन्ते पाण्डवाः कुरुभिः सह’ (भा० भीष्म० ४६।३)। उक्तोऽर्थः।
- ‘आविष्टा इव नरेन्द्रवन्दपरिवृताः’ (हर्ष० ४)।
- ‘हृच्छयाविष्टचेतसा’ (भा० वन० २१०६)। हृच्छयः कामस्तेनाविष्टा व्याप्ता चेतना यस्याः सा।
- ‘तं तथा कृपयाऽऽविष्टम्’ (गीता २।३)। आविष्टलिङ्गा जातिः। आविष्टं लिङ्गं यया। नियतलिङ्गकेत्यर्थः।
- ‘संज्ञप्तमश्वमाविश्य तया मिश्री बभूव सः’ (हरि० ११२३७)
- ‘अथान्तर्गृहमाविश्य राजा दशरथस्तदा’ (रा० २।४।३)। आविश्य प्रविश्य।
- ‘जरावानभवद्राजा भारमावेश्य बन्धुषु’ (हरि० १।३०।२१)। आवेश्य निधाय।
- ‘कन्दर्पः…आवेष्टुमभ्ययात्तूर्णं कृतोद्वाहमुमापतिम्’ (रा० १।२५।१०)। आवेष्टुमभिभवितुम्।
- ‘युद्धाय च मतिं चक्रुरावेशं च परं ययुः’ (भा० शल्य० ६।२३)। आवेशः संरम्भः।
- ‘चिच्छायावेशतो बुद्धौ भानम्’ (बालबो० ६)। आवेशः प्रवेशः।
- ‘कारुकावेशनानि’ (मनु० ९।२६५)। आवेशनं शिल्पिशालेति वैजयन्ती। स्युरावेशिक आगन्तुरतिथिर्ना गृहागते इत्यमरः।
- ‘हन्त निर्युक्तमित्युक्त्वा रामः कवचमाविशत्’ (रा० ३।२४।१६)। कवचमाविशत् सन्नाहमबध्नात्।
- ‘आविशन्ति हि दुर्गाणि क्षिप्रमत्यानि वानराः’ (रा० ४।१९।१५)। आविशन्ति आक्रामन्ति।
- ‘क्रुद्धे स्मेरमुखावधीरणमथाविष्टे प्रसादक्रमः’ (प्र० च० ४।१८)। आविष्टः क्रोधवशं गतः।
- ‘वेष्टमानां तथाविष्टां पन्नगेन्द्रवधूमिव’ (रा० ५।१९।९)। आविष्टां मणिमन्त्राद्यभिभूताम्।
- ‘महाबलो यष्टिपाणि र्गेहावेशनिवारकः’ (शिवपु० २।४।१५।२७)। आवेशः प्रवेशः। अत्रार्थेऽन्यत्र मृग्यः प्रयोगः।
वी
- {आवी}
- वी (वी गतिप्राप्तिप्रजनकान्त्यसनखादनेषु)।
- ‘तमेव मन्ये नृपतिं जनानां यः प्रथमो दक्षिणानामाविवाय’ (ऋ० १०।१०७।५)।
वृ
- {आवृ}
- वृ (वृञ् वरणे वृङ् संभक्तौ)।
- ‘तपश्चरत्सु पृथिवीं प्रचेतस्सु महीरुहाः। अरक्ष्यमाणामावव्रुर्बभूवाथ प्रजाक्षयः’ (हरि० १।२।३५)॥ आवव्रुः-आवृतवन्तः परिचिक्षिपुः।
- ‘व्याजेनागतमावृणोति हसितम्’ (बालरा० १५)। आवृणोति प्रच्छादयति गोपायति।
- ‘आवव्रे मुसली तरुम्’ (भट्टि० १४।१०९)॥ मुसली प्रहस्तस्तरुमावव्रे मुसलेनापरुरोध।
- ‘इन्द्रियाणि शतक्रतो या ते जनेषु पञ्चसु। इन्द्र तानि त आवृणे’ (अथर्व० २०।२०।२)। इह वृणातिः केवले वरणे संभक्तौ वर्तते न तु रोधने।
- ‘निर्धनेन ममैकेन कामुकेनावृतं गृहम्’ (कथा० १२।९९)। आवृतं स्वीकृतमधिष्ठितम्।
- ‘किमर्थमावृतो लोका ममैते’ (भा० आदि० २२९।९)। आवृताः पिहिताः।
- ‘अनावृताः किल पुरा स्त्रिय आसन्’ (भा० १२२।१४)। अनावृता अनवरुद्धाः। अनावृता हि सर्वेषां वर्णानामङ्गना भूवि इति पाठान्तरम्।
- ‘सत्येनावृता श्रिया प्रावृता यशसा परीबृता’ (अथर्व० १२।५।२)।
- ‘पथि क्षेत्रेऽनावृते पालक्षेत्रिकयोः’ (गौ० ध० २।३।१८)। अनावृते क्षेत्रेऽकृतावृतिनि।
- ‘पटान्तेन मुखमावृत्य’ (शा० ५ )। आवृत्य पिधाय।
- ‘तं बाणमयं वर्षं शरैरावार्य सर्वतः’ (भा० आदि० १०२।८)। आवार्य परिहृत्य।
- ‘युधिष्ठिरस्तमावार्य बाहुना बाहुशालिनम्’ (भा० सभा० ७२।१६)। आवार्य अपरुध्य पराणुद्य।
- ‘अथावरणमुखानि नानाप्रहरणानि च’ (भा० आदि० १९।१)। आवरणं कवचः।
- ‘आ सर्वतातिमदितिं वृणीमहे’ (ऋ० १०।१००।१)। वृणीमहे वरयामः।
- ‘आ न्यावृत इमे लोकाः’ (तै० ब्रा० ३।८।१०।३)। व्यावृतः त्रिप्रकाराः। अत्र वृञ् वरणे इति धातुः।
वृज्
- {आवृज्}
- वृज् (वृजी वर्जने)।
- ‘अथ तौ वध्यमानौ तु द्रोणेन रथसत्तमौ। आवर्जयेतां दुर्धर्षं युगान्ताग्निमिवोत्थित्म्’ (भा० द्रोण० ९२।१५)॥ आवर्जयेतां पर्यहरेताम्।
- ‘कुविदादस्य रायो गवां केतं परमावर्जते नः’ (ऋ० १।३३।१)।
- ‘आ स्त्रीणां सुकृतं वृङ्क्ते’ (श० ब्रा० १४।९।४।३)। आवृङ्क्ते हरति स्वाधीनं करोति।
- ‘सर्वत्रावर्जयामास नगरीवासिनां मनः’ (कथा० २४।१०४)। आवर्जयामास जहार।
- ‘आ मा वृक्त मर्त्यो दभ्रचेताः’ (ऋ० ७।९०।१६)। आदित्योपि वृक उच्यते।
- ‘यदावृङ्क्ते’ (नि० २।५।२१)।
- ‘कलशमावर्जयति’ (शा० १)। कलशमवाङ्मुखमवाचीनं करोति रेचयितुमिच्छन्।
- ‘मन्त्रैरावर्ज्यमानं हविरमरपतेरस्तु कल्याणवृष्ट्यै’ (आश्चर्य० ७।३६)। आवर्ज्यमानं प्रक्षिप्यमाणम्।
- ‘गौरवेणावर्जितः’ (पञ्चत० ४)।
- ‘आवर्जिता किञ्चिदिव स्तनाभ्याम्’ (कु०)। आनतेत्यर्थः।
- ‘हविरावर्जितं होतस्त्वया विधिवदग्निषु’ (रघु० १।६२)। आवर्जितं प्रक्षिप्तम्।
- ‘तनयावर्जितपिण्डकाङ्क्षिणः’ (रघु० ८।२६)। आवर्जिताः पूर्ता न्युप्ताः (पिण्डाः)।
- ‘अपि त्वदावर्जितवारिसंभवम्’ (कु० ५।३४) आवर्जितं मुक्तं क्षारितं सिक्तम्।
- ‘आवर्जितं यया चञ्च्वा हृदयात्तव शोणितम्’ (नागा० ५)। आवर्जितं मुक्तमुद्धृतम्। निष्कास्य पीतमिति यावत्।
- ‘आवर्जितानि च मया सकलसामाजिकमनांसीति मे निश्चयः’ (नागा० १)। आवर्जितानि आकृष्टानि हृतानि।
- ‘आवर्जितमुखस्कन्धं प्रेरयंस्तालमूर्धनि’ (हरि० २।१३।१९)। आवर्जितं भ्रमितम्।
- ‘तस्यावर्जितनागस्य म्लेच्छस्याधः पतिष्यतः’ (भा० द्रो० २६।१७)। आवर्जितः पतनप्रवणो नागो यस्य तस्य।
- ‘शिरोभिरावर्जितचारुमौलिभिः’ (अवदा० हस्तिजा० २७)। लम्बमानकिरीटैरित्यर्थः।
- ‘स्नेहपूर्वं प्रयुक्तेन स्वेदेनावर्जितेऽनिले’ (चरक० सूत्र० १४।४)। आवर्जितेऽपनीते।
- ‘कुमारस्य शिरसि कलशमावर्त्य’ (विक्रम० )। आवर्ज्य अवाङ्मुखं कृत्वा।
- ‘आवर्ज्य शाखाः सदयं च यासाम्’ (रघु० १६।१९)। आवर्ज्य नमयित्वा।
- ‘कथं चिद् दानमानाभ्यां तानावर्ज्यापि शस्त्रिणः’ (राज० ८।८१५)। ** आवर्ज्य वशे कृत्वा सङ्गृह्य।**
- ‘असुरेषु वै यज्ञ आसीत्तं देवास्तूष्णीं होमेनावृञ्जत’ (तै० सं० ६।३।७)। आवृञ्जत आहरन् वशेऽकुर्वन्।
- ‘अहमावर्जयिष्यामि युष्माकं परिपन्थिनः’ (रा० ५।६२।२)। आवर्जयिष्यामि वशे करिष्यामि, नमयिष्यामि, न्यग्भावयिष्यामि।
- ‘चतुर्दिगावर्जितसम्भृतां यो मृत्पात्रशेषामकरोद् विभूतिम्’ (रघु० ६।७६)। आवर्जिताऽऽहृताऽऽनीता।
वृत्
- {आवृत्}
- वृत् (वृतु वर्तने)।
- ‘को अध्वरे मरुत आववर्त’ (ऋ० १।१६५।२)। आववर्त आवर्तयामास इतोऽभिवर्तयामास इतोऽभिमुखांश्चकार।
- ‘इमं मानवावर्तं नावर्तन्ते’ (छां० उ० ४।१५।६)। नावर्तन्ते न पुनरागच्छन्ति।
- ‘यावदावर्तते चक्र तावती से वसुन्धरा’ (रा० २।१०।३६)। यावत्सूर्यमण्डलं परिभ्रमतीत्यर्थः।
- ‘एवं वृत्तिसंस्कारचक्रमनिशमावर्तते’ (यो० सू० १।५ भा०)। आवर्तते भ्रमति।
- ‘लब्धास्वादाः प्रविवेकेन कामेष्वावर्तन्ते’ (अवदा० जा० १८)। आवर्तन्ते पर्यटन्ति।
- ‘नावर्तते व्रतं स्वप्ने शुक्रमोक्षे कथं चन’ (भा० शां० ३४।२६)। व्रतं नावर्तते व्रतस्यावृत्तिर्न भवति, पुनरुपनयर्न न कर्तव्यं भवतीत्यर्थः।
- ‘आवर्तयेन्मुहुर्मन्त्रं धारयेच्च प्रयत्नतः’ (का० नी० सा० १२।४४)। आवर्तयेत् अभ्यस्येत्।
- ‘अथाप उपस्पृश्य त्रिः प्रदक्षिणामुदकमावर्तयति’ (बौ० ध० २।५।८।६)। आवर्तयति परिभ्रमयति।
- ‘तेजसा निर्दहेल्लोकान्कम्पयेद् धरणीं पदा। सक्षिपेच्च महामेरुं तूर्णमावर्तयेद् दिशः’ (भा० आदि० ७१।३६)॥ आवर्तयेत् एकी कुर्यात्।
- ‘अविसंवादन दानं समयस्याव्यतिक्रमः। आवर्तयन्ति भूतानि सम्यक् प्रणिहिता च वाक’ (भा० उ० ३८।३६)॥ आवर्तयन्ति परिवर्तयन्ति परिणमयन्ति। शत्रूनपि स्वीयान्कुर्वन्तीत्यर्थः।
- ‘विद्यामावर्तनीं पुण्यामावर्तयति स द्विजः’ (रा० ७।८८।२०)। आवर्तयति अभ्यस्यति, आमनति।
- ‘मनांसि तस्य योधानां ध्रुवमावर्तयिष्यति’ (भा० उ० ६।९)। आवर्तयिष्यति आवर्जयिष्यति।
- ‘सामदानविभेदैश्च प्रतिलोमानुलोमतः। आवर्तयत वैदेहीं बहुदण्डोद्यमैरपि’ (रा० ५।२४।३४)॥ आवर्तयत अनुनेतुमयतत।
- ‘तं प्रत्यञ्चमावर्तयन्ति’ (ऐ० ब्रा० १।१४)। तं शकटं प्रतीचीं प्रति निवर्तयन्तीत्याह।
- ‘अक्षमालिकामावर्तयति’ (कथा० २४।१०२)। योऽसावक्षमालामावर्तयन्नास्ते स तापसो वा तापसव्यञ्जनो वा (इति वयम्)। पारिणसर्ग्या हि रज्जवो द्रढीयस्यो भवन्तीत्यात्मनः कृते रज्जुमावर्तयामि। अम्बा मे पय आवर्तयति। सन्तापेन घनी करोतीत्यर्थः। (इमे अपि नः स्वे वाक्ये)।
- ‘जिह्वामावर्तयामास तस्यापि हुतभूक्तया’ (भा० अनु० ८५)। आवर्तयामास निवर्तयामास जहारेत्यर्थः।
- ‘द्रव्यर्युक्तं सम्प्रहारोपपन्नैर्वाहैर्युक्त तूर्णमावर्तयस्व’ (भा० द्रोण० २।२७)। आवर्तयस्व आनय।
- ‘आवर्तयन्त तेऽश्रूणि नयनैः शोकपीडितैः’ (रा० २।४७।१६)। आवर्तयन्त अमुञ्चन्।
- ‘अश्रूण्यावर्तयन्ती च नेत्राभ्यां करुणायती’ (भा० वन० ९।१४)। आवर्तयन्ती मुञ्चन्ती, विसृजन्ती।
- ‘आ कृष्णेन रजसा वर्तमानः’ (ऋ० १।३।५।२) आवर्तमानः परिभ्रमन्।
- ‘शनैरावर्तमानस्तु कर्तुर्मूलानि कृन्तति’ (मनु० ४।१७२)। आवर्तमानः फलाभिमुखी भवन् (अधर्मः)।
- ‘प्रयुद्धानां प्रभग्नानां पुनरावर्तिनामपि’ (भा० भीष्म० ४४।२९)।
- ‘शिरसा किंचिदाबृत्तमौलिना’ (हरि० ५७६३)। आवृत्तोऽवस्रस्तः।
- ‘स कृत्स्न एव सन्दर्भोऽस्माभिरावृत्तः’ (उत्तर० ६)। आवृत्तोऽभ्यस्तोऽसकृत्पठितः। त्रिरावृत्ता दश त्रिंशत् सम्पद्यन्ते। त्रिभिर्गुणिताः, त्रिभिरभ्यस्ता इत्यर्थः।
- ‘आवृत्तानां गुरुकुलाद् विप्राणां पूजको भवेत्’ (मनु० ७।८२)। आवृत्तानां समावृत्तानाम्। वेदसमाप्तौ व्रतसमाप्तौ वा स्नात्वा गुरुमनुमान्य गृहानागतानाम्।
- ‘नानिर्विधित्सो नावृत्तौ नापवृत्तोस्ति कश्चन’ (भा० शां० २६९।४६)। आवृत्तः सङ्गनिर्मुक्तः।
- ‘प्रणिधानाद्भक्तिविशेषादावर्तित ईश्वरस्तमनुगृह्णात्यभिध्यानमात्रेण’ (यो० सू० १।२३ भा०)। आवर्तितोऽभिमुखीकृतः।
- ‘एतैरेव तथा स्पष्टं ताम्रसौवर्णराजतम्। शुध्यत्यावर्तितम्’ (शङ्ख० १६।२-३)। आवर्तितं तप्त्वा द्रवीकृतम्।
- ‘सुध्मातसुतीक्ष्णावर्तितेऽयसि’ (वाग्भट० २६।२)। आवर्तिते आभुग्नीकृते।
- ‘तस्मादावर्तितश्चैव क्रतुरिन्द्रेण ते विभो’ (हरि० ३।५।२९)। आवर्तितो निवर्तितो विघ्नितः। सार्धमावर्त्य हेम्ना रजतम् (विद्ध०)।
- ‘अग्नौ शुद्धान्दशभिरावर्तैः सिन्धुजान्वातरंहसः’ (भा० वन० ७१।१४)। आवर्तैः शुद्धान् ह्रदावर्तादिदुष्टावर्तहीनान्।
- ‘रेखासन्धिषु पक्ष्मसु यानि ते स्वावर्तेषु च यानि ते’ (मन्त्रब्रा० १।३।१)। आवर्ताः ककुदावर्ताद्यभिधा लोमसन्निवेश-विशेषाः। आवर्तोऽम्भसां भ्रमः (अमरः)।
- ‘आवर्तबुद्बुदतरङ्गमयान् विकारान्’ (उत्तर० ३।४७)।
- ‘जगदप्येवमनिशं वार्यावर्तविवर्तवत्’ (यो० वा० (२) १४४।३)।
- ‘खेऽनिशं चक्रमृक्षाणां गुणावर्तो विवर्तते’ (यो० वा० ६(२) ६६।११)। गुणावर्तो वारियन्त्रपेषणी।
- ‘उत्पत्योत्पत्य लीयन्ते ते त्वावर्तविवर्तया’ (यो० वा० ६ (२) ६६।१९)।
- ‘तयोरेवान्तरं गिर्योरार्यावर्तं विदुर्बुधाः’ (मनु० १।२२)। आर्या अत्रावर्तन्ते पुनः पुनरुद्भवन्तीत्यार्यावर्त इति कुल्लूकः।
- ‘स मया सागरावर्ते दृष्ट आसीत्परीप्सता’ (भा० वन० १४।१९)। सागरद्वीप इत्यर्थः।
- ‘भ्रमति सलिलं वृक्षावर्ते’ (प्रतिमा० ५।२)। आवर्त आलवालम्।
- ‘शङ्खनाभ्याकृतिर्योनिस्त्र्यावर्ता प्रकीर्तिता’ (सुश्रुत० १।३४३।११)। आवर्तः=वलिः। त्र्यावर्ता त्रिवलिः। आम्रावतः=घनभावमापन्न आम्ररसः।
- ‘ऊर्णा मेषादिलोम्नि स्यादावर्ते चान्तरा भ्रुवौ’ (अमरः)। आवर्तश्चक्रवर्तिचिह्नम्।
- ‘हृद्वक्त्रावर्ती श्रीवत्सकी हयः तेषां पुरुषरूपकमिव कृत्वा तस्मिंस्तामावृतं कुर्युः’ (ऐ० ब्रा० ७।२)।
- ‘अमन्त्रिका तु कार्येयं स्त्रीणामावृदशेषतः’ (मनु० २।६६)। आवृत् जातकर्मादिक्रियाकलापः।
- ‘अनयैवावृता कार्यं पिण्डनिर्वपणं सुतैः’ (मनु० ३।२४८)। आवृता परिपाट्याऽनुक्रमेण।
- ‘आवृते सोमपीतये’ (ऋ० ३।४२।३)। आवृते इतोऽभिसुखीकरणाय।
- ‘नास्याः (धुरः) वश्मि विमुचं नावृतं पुनः’ (ऋ० ५।४६।१)। आवृत् आवर्तनम्।
- ‘आदित्यस्यावृत्’ (तै० स० ५।२।१।३)। दैवस्वतः पन्था इत्यर्थः।
- ‘यो वा एतेषामावृतं ब्राह्मणं च न विद्यात्’ (श० ब्रा० ६।२।१।३९)। आवृत् परिणतिः।
- ‘स दग्धव्य उपेतश्चेदाहिताग्न्यावृताऽर्थवत्’ (याज्ञ० ३।२)। आवृत् परिपाटी।
- ‘पिष्टानामावृत्य धानाः पिष्टः’ (भा० श्रौ० ८।६।२१)। उक्तोऽर्थः।
- ‘जातवेदो निवर्तय शतं ते सन्त्वावृतः’ (अथर्व० ६।७७।३)। आवृत आवर्तनोपायाः।
- ‘आवर्तनोद्वर्तनकम्पितस्तन०’ (भा० पु० ८।१२।१९)। आवर्तनं नमनम्।
- ‘उदगयनपूर्वपक्षपुण्याहेषु प्रागावर्तनात्’ (द्रा० गृ० १।१।२)। मध्यन्दिनादूर्ध्वमहरावर्तनमित्याहुः।
- ‘आवर्तकोऽनिवर्ती च व्ययायौ तु पृथग् द्विधा’ (शु० नी० २।३३९)। आवर्तकः पुनः पुनरागामी आयो व्ययश्च।
- ‘जातं वंशे भवनविदिते पुष्करावर्तकानाम्’ (मेघ० ६)। पुष्करावर्तकाः प्रलयमेघाः।
- ‘आवर्तनं निवर्तनं यो गोपा अपि त हुवे’ (ऋ० १०।१९।४)। तैजसावर्तनी मूषा (अमरः)। तैजसं हेमादि आवर्त्यते द्रवी क्रियतेऽस्यामिति स्वामी।
- ‘आ ब्रह्मभूवनाल्लोकाः पुनरावर्तिनोऽर्जुन’ (गीता ८।१६)। आवर्तिन आवृत्तिमन्तः।
- ‘…विद्यां संजीवनीं कविः। आवर्तयामास तदा विधानेन शुचिव्रतः’ (वामनपु० ६९।७)॥ आवर्तयामास अभ्यास, गुणयाञ्चकार।
- ‘पितृपैतामहं राज्यं कस्य नावर्तयेन्मनः’ (रा० ६।१२५।१६)। आवर्तयेत् परिवर्तयेत् भ्रमयेत्।
- ‘यथाग्नौ कर्मारः पचति भृशमावर्तयति च’ (स्वर्णम्) (सौन्दर० १५।६८)। आवर्तयति सन्तपति।
- ‘तदाहुर्यज्जीवन्पुरुषः करोत्येव साधु करोति पापं का तयोर्व्यावृत्तिः’ (जै० ब्रा० १।१५)। व्यावृत्तिः पृथग्भावः।
- ‘सर्वौषधावघातः किमावर्त्यः सकृदेव वा’ (जै० न्या० ११।१।१८)। आवर्त्यः=आवृत्त्या कार्यः।
- ‘आसीत् तृतीये त्रेतायामावर्ते च मनोः प्रभो’ (लिङ्गपु० उ० ८।८)। आवर्ते परिवर्ते युगपरिवर्ते।
- ‘आनुपूर्वी स्त्रियां वाऽऽवृत् परिपाटी अनुक्रम इत्यमरः।’
वृष्
- {आवृष्}
- वृष् (वृषु सेचने)।
- ‘(इन्द्र) उरुव्यचा जठर आवृषस्व’ (ऋ० १।१०४।९)। आवृषस्व आसिञ्च।
वृह्
- {आवृह्}
- वृह् (वृहू उद्यमने)।
- ‘स इन्द्र इष्टकामावृहत’ (मै० सं० १।६।९, तै० सं० १।१।२।४)। उदपाटयदित्यर्थः।
- ‘मलमस्यावर्हि’ (पा० ४।४।८८)। आवृह्यत उत्पाट्यत इत्यावर्हि।
- ‘मुष्कावर्हो गवामिव’ (अथर्व० ३।९।२)। मुष्कमावृहत्युत्पाटयत्युन्मूलयतीति मुष्कावर्हः। कर्मण्यण्।
- ‘तस्यामावृढायाम्’ (श० ब्रा० २।१।२।१६)। तस्यामिष्टकायां निष्कासितायामित्यर्थः।
- ‘सरघा वा अश्वस्य सक्थ्यावृहत्’ (पञ्च० ब्रा० २१।४)। आवृहत् आच्छिद्य गृहीतवती। सक्थिप्रदेशे व्रणमकरोदित्यर्थः।
वे
- {आवे}
- वे (वेञ् तन्तुसन्ताने)।
- ‘अन्धो मणिमविध्यत्तमनङ्गुलिरावयत्’ (तै० ब्रा०, योगभाष्ये ४।३१ इत्यत्रोद्धृतम्)। आवयत् सूत्रे प्रावयत् प्रोतमकरोत्।
- ‘ये अन्ता यावतीः सिचो य ओतवो ये च तन्तवः’ (अथर्व० १४।२।५१)। ओयन्ते प्रोयन्त इत्योतवः प्रोतानि सूत्राणि।
- ‘नाहं तन्तुं न विजानाम्योतुम्’ (ऋ० ६।९।२)।
वै
- {आवै}
- वै (पै ओवै शोषणे)।
- ‘उपाध्यायिनी च स्नाता केशानावापयन्त्युपविष्टा’ (भा० ३।१५७)। आवापयन्ती शोषयन्ती।
वेष्ट्
- {आवेष्ट्}
- वेष्ट् (वेष्ट वेष्टने)।
- ‘फेनस्तायते यदप्स्वावेष्टमानः प्लवते’ (श० ब्रा० ६।१।२।३)। आवेष्टमान आवृण्वानः।
- ‘उष्णीषेणावेष्ट्य’ (श० ब्रा० ४।५।२।७)। उक्तोऽर्थः।
- ‘गोपाल इव दण्डेन यथा पशुगणान्वने। आवेष्टयत तां सेनां भगदत्तस्तथा मुहुः।’ (भा० द्रोण० २६।६३)। आवेष्टयत अरुन्द्ध।
व्यध्
- {आव्यध्}
- व्यध् (व्यध ताडने)।
- ‘आविध्यद् हस्ततलयोरुभयोरर्जुनस्तदा’ (भा० द्रोण० १०३।३१)। आविध्यत् अताडयत् प्राहरत्, तत्र च्छिद्रमकरोत्।
- ‘निवस्स्वाविध्य च स्रजम्’ (भट्टि० २०।११)। आविध्य (शिरसि) क्षिप। लोटि रूपम्।
- ‘ततः शाल्वं गदां गुर्वीमाविध्यन्तं महाहवे। द्विधा चकार सहसा प्रजज्वाल च तेजसा’ (भा० वन० ३।२३।३७)। आविध्यन्तम् प्रास्यन्तम्।
- ‘नश्यतीषुर्यथाऽऽविद्धः खे विद्धमनुविध्यतः’ (मनु० ९।४३)। आविद्धः क्षिप्तः। प्रास्तः।
- ‘शब्दानुकारी सङ्क्रुद्धो दर्पाविद्धसटाननः’ (हरि० २।१३।१५)। आविद्धा भ्रमिताः सटा यस्य तादृगाननं यस्य स एवम्भूतः।
- ‘आविद्धपुच्छो हृषितो व्यात्तानन इवान्तकः’ (हरि० २।१३।१६)। आविद्धमुत्क्षिप्तमूर्ध्वींकृतम् पुच्छम्।
- ‘यथाऽऽविद्धं याति’ (विक्रम० ४।२८)। कुटिलं यथा स्यात्तथा याति। स पाण्डुराविद्धविमानमालिनीं (लङ्कापुरीम्)। आविद्धाऽतिसंनिकर्षेण निवेशिता विमानमाला, तद्वतीम्।
- ‘वाताविद्धेन भामिनि काशपुष्पलवेनेदं साश्रुपातं मुखं मम’ (स्वप्न० ४।७)। वाताविद्धेन वायुनेतः प्रेरितेन।
- ‘पादपाविद्धपरिधः’ (रणः) (रघु० १२।७३)। आविद्धो भग्नः।
- ‘स महाधनरत्नौघो वस्त्रकम्बलफेनवान्। पाण्डुसागरमाविद्धः’ (भा० सभा० ५।३४)। आविद्धः सर्वतो विप्रकीर्णः।
- ‘आविद्धावेव दृश्येते रथिनौ तौ रथोत्तमौ’ (भा० आदि० २२६।३)। आविद्धौ=अलातचक्रवद् भ्रमितौ।
- ‘आविद्धाभिश्च मुक्ताभिरुत्तमैः स्फाटिकैरपि।’ (रा० २।१७।४)। आविद्धाभिः कृतच्छिद्राभिः।
- ‘अनाविद्धं रत्नं किसलयमलूनं कररुहैः’ (शा० २।१०)। अनाविद्धं शलाकयाऽकृतच्छिद्रं वज्रेणानुत्कीर्णम्।
- ‘तेन सहसा गृहीत्वा शिलायामाविध्य विगतप्राणः कृतः’ (तन्त्रा० १।१४)। आविध्य क्षिप्त्वा।
- ‘गदामाविध्य तरसा’ (भा० पु० १०।५५।१९)। आविध्य भ्रमयित्वा।
- ‘तां व्यवासृजदाविध्य क्रुद्धः कर्णं प्रति’ (भा० द्रोण० १४०।६६)। उक्तोऽर्थः।
- ‘आविध्याविध्य तौ वृक्षान् मुहूर्त्तमितरेतरम्। ताडयामासतुः…’ (भा० वन० १५७।६१)॥ अनन्तरोदीरित एवार्थः।
- ‘आविध्य दण्डं चिक्षेप’ (रा० २।३२।३६)। इहापि पूर्वेण समोऽर्थः।
- ‘यत्त्वां संचोदयति मे वच आविध्य राघव’ (रा० २।२४।३६)। **आविध्य आक्षिप्य आच्छिद्य। आविधो विध्यते येनेत्यमरः। घञर्थे कविधानं स्थास्नापाव्यधिहनियुध्यर्थम् (पा० ३।३।५८ सू० वा०)। तेनाङ्पूर्वाद्विध्यतेः कप्रत्ययो घञर्थे करणे।
- ‘तं दुन्दुभिं गिरिसंनिभम्। आविध्यत्…’ (रा० ४।११।४०)। आविध्यत् अभ्रमयत्।
- ‘अनाविद्धं रत्नं किसलयमलूनं कररुहैः’ (शा० २।१०)। अनाविद्धं छिद्रकर्या शलाकयाऽकृतच्छिद्रम्।
- ‘आविध्याथ गदां सोपि’ (दुर्गा० ९।१३)। आविध्य भ्रमयित्वा।
- ‘आव्याधिनीनां पतये नमः’ (काण्व सं० १७।२)। आ समान्ताद् विध्यन्तीत्याव्याधिन्यः।
व्ये
- {आव्ये}
- व्ये (व्येञ् संवरणे)।
- ‘आ वो हार्दि भयमानो व्ययेयम्’ (ऋ० २।२९।६)। आव्ययेयमात्मानमाच्छादयेयं (स्वस्य क्षेमाय)।
व्रज्
- {आव्रज्}
- व्रज् (व्रज गतौ)।
- ‘स त्वमायुधमादाय क्षिप्रमाव्रज’ (रा० २।३१।३१)। आव्रज=आयाहि, एहि।
- ‘वैश्वदेवे तु निवृत्ते यद्यन्योऽतिथिराव्रजेत्’ (मनु० ३।१०८)। उक्तोऽर्थः।
- ‘जनको ह वैदेह आसाञ्चक्रे। अथ ह याज्ञवल्क्य आवव्राज’ (श० ब्रा० १४।६।१०।१)। आवव्राज=आजगाम।
- ‘त्वामाव्रजेद्यदि रहः सा पुत्र वरवर्णिनी’ (भा० आदि० ९७।२१)। आव्रजेत् उपेयात्।
- ‘स पुनर्हृदयं कस्य क्रूरस्यापि न निर्दहेत्। कस्य ह्यकरुणस्यापि नेत्राभ्यामश्रुनाव्रजेत्’ (भा० सौ० ४।२८)॥ आव्रजेत् प्रवहेत् स्यन्देत।
व्रश्च
- {आव्रश्च}
- व्रश्च (ओव्रश्चू छेदने)।
- ‘एताभ्यस्त्वा देवताभ्य आवृश्चामः’ (श० ब्रा० १२।१।२।२२)। अवृश्चामः पृथक् कुर्मः।
- ‘आवृश्च्यन्तामदितये दुरेवाः’ (ऋ० १०।८७।१८)।
- ‘आ वृश्च्यन्तामदितये दुरेवाः’ (ऋ० १०।८७।१८)। पुस्तके ऽर्थो न निरदेशीत्यर्थनिर्देशायेहानूद्यते। आवृश्च्यन्तामाच्छिद्यन्ताम्। दुरेवा यातुधानाः।
- ‘आ देवताभ्यो वृश्च्यते पापीयान्भवति’ (तै० ब्रा० १।१।४।८)। आवृश्च्यते विच्छिद्यते, विश्लिष्यते, पृथग्भवति।
शक्
- {आशक्}
- शक् (शक्लृ शक्तौ)।
- ‘त्वमङ्ग शक्र वस्व आ शको नः। रायस्कामो जरितारं त आगन्’ (ऋ० ७।२०।९)। वस्वो वसुनो न आशकः धनस्येश्वरान्नः कुरु।
शंस्
- {आशंस्}
- शंस् (आङः शसि इच्छायाम्, शंसु स्तुतौ)।
- ‘अग्निहोत्रिणि देवता अशंसन्ते’ (मै० सं०)। आशंसन्ते कामपूर्तये तत्र लम्बन्ते।
- ‘त्वय्याशंसन्त्यमरामानवाश्च’ (भा० अनु० ७२।५६)। उक्तोऽर्थः।
- ‘तस्मादबलीयान् बलीयांसमाशंसते धर्मेण’ (श० ब्रा० १४।४।२।२६)। बलीयस्त्वमिच्छतीत्यर्थः।
- ‘आशंसन्तोऽस्माकमनुस्मरन्तः’ (भा० उ० ३०।१०)। आशंसन्त आशीर्भिर्वर्धयन्तः, आशिषाऽऽशासानाः।
- ‘स्वकार्यसिद्धिं पुनराशशंस’ (कु० ३।५७)। स्वकार्यसिद्धौ भूयोप्याशावानभूत्।
- ‘आशंसता बाणगतिं वृषाङ्के’ (कु० ३।१??)। आशंसता कथयता।
- ‘इत्याशशंसे करणैरबाह्यैः’ (रघु० १४।५०)। आशंसाऽऽशीः।
- ‘न नूनं मयि कैकेयि किंचिदाशंससे गुणान्’ (रा० २।१९।२४)। आशंससे संभावयसि, जानासि।
- ‘आ तू न इन्द्र शंसय गोष्वश्वेषु’ (ऋ० १।२९।१)। आशंसय समन्तात्प्रशस्तान् कुर्विति सायणः।
- ‘स दुष्टः पापमाशंसुः पाण्डवानां महात्मनाम्’ (भा० शां० ३९।२५)। पापमनिष्टमाशंसुरिच्छुः।
- ‘जग्मुराशंसवो जनाः’ (रा० २।१६।३५)। आशंसव आशंसितारः, प्रार्थयितारः।
- ‘सदा योगमाशंसु र्मनसा मदनातुरा’ (ब्रह्मवै० १।२३।२६)। आशंसुः=इच्छुः।
शङक्
- {आशङक्}
- शङक् (शकि शङ्कायाम्)।
- ‘अहं खल्वार्यस्य प्रसादाद् देवानामपि राज्यमाशङ्के किं पुनर्वानराणाम्’ (अभिषेक० १)। आशङ्के प्राप्तिमुत्प्रेक्षे।
शस्
- {आशस्}
- शस् (शसु हिंसायाम्)।
- ‘यदाशसा वदतो मे विचुक्षुभे’ (अथर्व० ७।५९।१)। आशसा दातृभिः कृतेन याच्ञानाप्रतिघातेन भर्त्सनप्रहरणादिरूपेण हिंसनेन (सायणः)।
शास्
- {आशास्}
- शास् (आङः शासु इच्छायाम्)।
- ‘आशासते कुटुम्बिभ्यस्तेभ्यः कार्यं विजानता’ (मनु० ३।८०)। आशासते प्रार्थयन्ते।
- ‘दीर्घमायुर्धनं पुत्रान् सम्यगाराधिता शुभाः। पुत्रेष्वाशासते नित्यं पितरो दैवतानि च’ (भा० उ० १३२।२५-२६)। आशासत इच्छन्ति, कामयन्ते।
- ‘तं त्वा वयं विश्ववाराऽऽशास्महे पुरुहूतं’ (ऋ० १।३०।१०)। आशास्महे याचामहे।
- ‘ऋवछन्दसाऽऽशास्ते’ (शा० ४)। आशिषं प्रदिशति।
- ‘किमन्यदाशास्महे केवलं वीरप्रसवा भूया’ (उत्तर० १)। कामन्यामाशिषमुच्चारयाम इत्यर्थः।
- ‘सर्वमस्मिन्वयमाशास्महे’ (शा० ७)। आशास्महे संभावयामः।
- ‘आशिषश्च प्रशिषश्च संशिषो विशिषश्च याः’ (अथर्व० ११।१०।२७)। आशिष इष्टफलप्रार्थनानि।
- ‘कच्चिदाशास्ति देवानां प्रसादं पार्थिवात्मजः’ (रा० ५।३६।१९)। आशास्ति आशास्ते प्रार्थयते।
शिक्ष्
- {आशिक्ष्}
- शिक्ष् (शिक्ष विद्योपादाने)।
- ‘आशिक्षायै प्रश्निनम्’ (तै० ब्रा० ३।४।४)। अल्पा शिक्षा आशिक्षा। आङीषदर्थे।
शी
- {आशी}
- शी (शीङ् स्वप्ने)।
- ‘ज्योगेव दीर्घं तम आशयिष्ठाः’ (ऋ० १०।१२४।१)। आशयिष्ठा आस्थाय शयनमकार्षीरित्यर्थः।
- ‘नास्य जाया शतवाही कल्याणी तल्पमाशये’ (अथर्व० ५।१७।१२)। तल्पमाशये तल्पमधिशेत इत्याह।
- ‘यस्ते गर्भममीवा दुर्णामा योनिमाशये’ (ऋ० १०।१६२।२)। आशये आशेते श्रयते।
- ‘कुसुमान्याशेरते षट्पदाः’ (विक्रम० २।२३ पाठभेदः)। आशेरते आश्लिष्यन्ति।
- ‘अहिमोहानमप आशयानम्’ (ऋ० ५।३०।६)। अप आशयानम् अप्सु श्रयन्तम्।
- ‘वृत्रमाशयानं सिरासु’ (ऋ० १।१२१।११)। इहाङ्शीङकर्मकः।
- ‘सुद्युम्नस्याशयन्पुंस्त्वम्’ (भा० पु० ९।१।३७)। आशयन् इच्छन्। आशयोऽभिप्रायस्तं कुर्वन्नित्यर्थ इति कल्पना।
- ‘आशयाश्चोदपानाश्च प्रभूतसलिलाकराः’ भा० शां० ८६।१५)। आशया निपानानि।
- ‘आशयाग्निदीप्तिः’ (दशकु० १६०)। आशय आमाशयः।
- ‘निरानन्दं गतश्रीकं हृताराममिवाशयम्’ (भा० शल्य० २९।१०३)। आशयो वनसत्त्वग्रहणाय कृतो गर्तः।
- ‘जगाम धरणीं तूर्णं महोरग इवाशयम्’ (भा० कर्ण० १४।३२)। आशयो बिलम्। इति कवेराशयः। अभिप्राय इत्यर्थः।
- ‘पयसामिवाशयः’ (कि० २।३)। आशय आधारः।
- ‘तन्मे दहति गात्राणि विषं पीतमिवाशये’ (रा० ६।५।६)। आशयो हृदयम्।
- ‘अहमात्मा गुडाकेश सर्वभूताशयस्थितः’ (गीता १०।२०)। उक्तोऽर्थः।
- ‘वैरस्य रूपमेतद्धि भेदं याति मुहुर्मुहुः। सन्धीयमानमपि यक्लिन्नाम्बरमिवाशयम्’ (राज० ७।३८४)॥ उदितचर एवार्थः।
- ‘क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः’ (यो० सू० १।२४)। क्लेशकर्मणां फलं विपाकस्तदनुगुणा वासना आशया इति भाष्यम्।
- ‘ऽ पो वृत्वी रजसो बुध्नमाशयत्’ (ऋ० १।४२।६)। आशयत् आश्रित्याशेत।
- ‘अहिमोहमानमप आशयानम्’ (ऋ० ५।३०।६)। आशयानमावृत्य शयानम्।
- ‘इत्येनमाशयेनाभिजुहोति’ (आश्व० गृ० २।१।६)। यस्मिन्नाज्ये पुरोडाशः शायितः स आशय उच्यते।
- ‘प्रयुक्तवीचि हस्ताग्रं प्रसन्नविपुलाशयम्’ (सरः) (कथा० १०१।१२)। आशयः परिमाणम्।
- ‘कुशलाकुशलाश्च कर्माशयाः समूलघातं हता भवन्ति’ (योगभाष्ये)। आशेरतेऽत्र सांसारिका इत्याशयाः। कर्माशयः कर्मनिधिः।
श्यै
- {आश्यै}
- श्यै (श्यैङ् गतौ)।
- ‘यावन्नाश्यायते वेदिरभिषेकजलाप्लुता’ (रघु० १७।३७)। आश्यायते शुष्यति।
- ‘सरितः कुर्वती गाधाः पथश्चाश्यानकर्दमान्’ (रघु० ४।२४)। आश्यानो घनभावं गतः कर्दमः पङ्को यत्र तान्।
श्रि
- {आश्रि}
- श्रि (श्रिञ् सेवायाम्)।
- ‘पापमेवाश्रयेदस्मान्हत्वा स्वजनमाहवे’ (गीता १।३६)। आश्रयेत् विन्देत्, लिम्पेत्।
- ‘उवाच धर्मसंयुक्तमश्वमेधाश्रितं वचः’ (रा० ७।९१।६)। अश्वमेधाश्रितं वचः=अश्वमेधसम्बद्धम्।
- ‘भीष्माश्रिताः कथाः’ (भा०)। भीष्माधिकरणाः। विनाश्रयं न तिष्ठन्ति पण्डिता वनिता लताः (उद्भट श्लोकः)।
- ‘प्रयोजनापेक्षितया प्रभूणां प्रायश्चलं गौरवमाश्रितेषु’ (कु० ३।८)। आश्रिता उपजीवकाः, भार्याः।
श्रु
- {आश्रु}
- श्रु (श्रु श्रवणे)।
- ‘आ स्मा अशृण्वन्नाशाः’ (अथर्व० १९।५।३)। आशा दिशः सर्वाः प्राच्यादय आशृण्वन् आश्रवणं फलं दातुमङ्गीकरणं कृतवत्य इति सायणः।
- ‘प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता’ (पा० १।४।४०)।
- ‘न म आशृणोः किमभुग् वदासि’ (ऋ० १०।९५।११)। न म आशृणोः=न मद्वचोङ्गी कुरुषे।
- ‘यस्य देवा आशृण्वन्ति’ (ऋ० १।१९०।१)। आभिमुख्येन शृण्वन्तीत्याह।
- ‘आ रोदसी वरुणानी शृणोतु’ (ऋ० ५।४६।८)। उक्तोऽर्थः।
- ‘आ ते कारो शृणवामा वचांसि’ (ऋ० ३।३३।१०)। आशृण्मोऽङ्गी कुर्म इत्यर्थः।
- ‘प्रत्याख्यायान्तत आशुश्रुवुः’ (नि० २।२६)। उक्तोऽर्थः।
- ‘आशृण्वन्तं यवं देवं यत्र त्वाऽच्छावदामसि’ (अथर्व० ६।१४२।२)। आभिमुख्येनास्मदुक्तमाकर्णयन्तमित्यर्थः।
- ‘आश्रावयेदस्य जनम्’ (भट्टि० १२।३०)। देशादिदानेनाकर्षेदित्यर्थः।
- ‘स वै प्रवरायाश्रावयति’ (श० ब्रा० १।५।१।१)। आकारयति, प्रेषयति प्रहिणोति। वचने स्थित आश्रव इत्यमरः।
- ‘यशः पथादाश्रवतापदोत्थात्’ (नै० ३।८४)। आश्रवतापदम् आज्ञाकारित्वं वश्यत्वं विधेयत्वम्।
- ‘भिषजामनाश्रवः’ (रघु० १९।४९)। भिषजां वचने न सन्तिष्ठत इत्याह।
- ‘तथानुशिष्टाप्यनाश्रवैवासीत्’ (दशकु० ५७)।
- ‘यत्र ग्राम्यस्य पशोर्नाशृणुयात्’ (पञ्च० ब्रा० २१।३।५)। ग्राम्यपशूनां शब्दं न शृणुयात्। आङ् विशेषकृन्न।
- ‘श्रोत्रेण सर्वा दिश आशृणोमि’ (तै० ब्रा० २।५।१।२)। आशृणोमि सर्वतः शृणोमि। आङ् व्याप्तौ।
- ‘इमं मे गङ्गे यमुने …आर्जीकीये शृणुह्या सुषोमया’ (ऋ० १०।७५।५)। आभिमुख्येन शृण्वित्यर्थः। आश्रवसङ्गरसन्धाः प्रतिश्रवः संश्रवः प्रतिज्ञा चेति पर्यायान्पठति हलायुधः।
श्लिष्
- {आश्लिष्}
- श्लिष् (श्लिष आलिङ्गने)।
- ‘आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसानुम्’ (मेघ० २)। आश्लिष्टसानुम्=सान्वासक्तम्। सानुना सम्पृक्तम्।
- ‘अवनितलाश्लिष्टललाटरेखया’ (काद० ६७)। आश्लिष्टं स्पृष्टम्।
- ‘कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे’ (मेघ० ३)।
- ‘मामाकाशप्रणिहितभुजं निर्दयाश्लेषहेतोः’ (मेघ० २।३९) आश्लेषः परिष्वङ्गः परिरम्भ उपगूहनम्।
- ‘मा तद् भूम्यामाश्लिषन्मा तृणेषु’ (ऋ० १।१६२।११)। मा ऽऽश्लिषत् मा संलग्नं भूत्।
श्वस्
- {आश्वस्}
- श्वस् (श्वस प्राणने)।
- ‘न चाश्वसिष्यन्ति पृथात्मजा मयि’ (भा० कर्ण० ८८।३२)। आश्वसिष्यन्ति विश्वसिष्यन्ति। श्रद्धास्यन्ति। प्रत्येष्यन्ति।
- ‘आश्वसिहि नरश्रेष्ठ प्राणिनः कस्य नापदः’ (रा० ३।६६।६)। आश्वसिहि धैर्य धेहीत्यर्थः।
- ‘प्रत्ययादाश्वसत्यः’ (मेघ० ८)। आश्वसत्यः क्षेमिणमात्मानं मन्यमानाः।
- ‘दूरस्थोऽस्मीति नाश्वसेत्’ (पञ्चत० १।३०७)।
- ‘आश्वासितपथिकजनसार्थः।’ (पञ्चत० २)। आश्वासितः सन्तर्पितः।
- ‘आश्वास्य पाययित्वा च परिप्लाव्य च वाजिनः’ (भा० वि० ६७।१९)। आश्वास्य उद्धर्ष्ये।
- ‘तत्र मूर्तमिवाश्वासं जमदग्निं ददर्श सः’ (कथा० ९।६४)। आश्वासो विस्रम्भो निःशङ्कता।
- ‘मातरि जायायां पितरि वा नाश्वस्युः’ (मी० शा० भा० १।१।६।३०)। न विश्वस्युरित्यर्थः।
- ‘न खलु मे आसीदाश्वास यथा पुनरपि सखीजनं प्रेक्षिष्य इति’ (विक्रम १)। आश्वासो विश्वासः प्रत्ययः।
सच्
- {आसच्}
- सच् (षच समवाये)।
- ‘ज्योतिष्मतीमदितिं धारयत्क्षितिं, स्वर्वतीमा स चेते दिवे दिवे जागृवांसा दिवे दिवे’ (ऋ० १।१३६।३)। आसचेते गवेषयेते, मृगयेते, मार्गयेते।
सञ्ज्
- {आसञ्ज्}
- सञ्ज् (षञ्ज सङ्गे)।
- ‘मा राजन्सारमज्ञात्वा कदलीस्तम्भमासज’ (भा० वन० १३१।२०)। माऽऽसज माश्रय। मावलम्बनं कार्षीः।
- ‘अयस्मयेनाङ्केन द्विषते त्वा सजामसि’ (अथर्व० ७।१२०।१)। आसजामः सम्बध्नीमः।
- ‘भुजे…स भूमेर्धुरमाससञ्ज’ (रचु० २।७४)। आससञ्ज आहितवान्।
- ‘आससञ्ज भयं तेषाम्’ (भट्टि० १४।१०४)। आससञ्जै लग्नम्। तान्भयमाविशत्, ते भयमाविशन्नित्यर्थः। तान्भयमविन्दत् इत्यभिप्रायः।
- ‘यदि नेष्टाऽऽत्मनः पीडा माऽऽसञ्जि भवता जने’ (कि० ११।६९)। भवतो जने लोक आसक्तिर्मा भूदित्याह।
- ‘यदि नोऽसुररक्षसान्यासजेयुः’ (श० ब्रा० १।५।३।२१)। आस्कन्देयुराक्रामेयुरित्यर्थः।
- ‘तान्दक्षिणतोऽसुररक्षसान्यासेजुः’ (श० ब्रा० ४।२।४।१९)। आसेजुः=आचस्कन्दुः।
- ‘स यद्येनं पुरस्तात्। असुररक्षसान्यासिसङ्क्षन्ति’ (श० ब्रा० १।६।१।१५)। आसङ्क्तुमाक्रमितुमिच्छन्तीत्यर्थः।
- ‘तिष्ठतां तपसि पुण्यमासजन्’ (कि० १३।४४)। आसजन् सम्पादयन्।
- ‘चापमासज्य कण्ठे’ (कु० २।६४)। आसज्य निधाय।
- ‘द्वीपिचर्मोत्तरासङ्गं द्वीपिचर्माधराम्बरम्’ (शि० भा० ११।८)। उत्तरासङ्गः प्रावरणं बृहतिका।
- ‘त्वगुत्तरासङ्गवतीमधीतिनीम्’ (कु० ५।१६)।
- ‘पदाकृष्टव्रततिवलयासङ्गसञ्जातपाशः’ (शा० १।३०)। आसङ्गः संश्लेषः।
- ‘ततो हैनमासङ्गो न विन्दति’ (श० ब्रा० ५।२।३।५)। नैनमुपशयस्थः कश्चिदास्कन्दतीत्यर्थः। आसङ्ग उपशयः।
- ‘तेऽसुररक्षसेभ्य आसङ्गाद् बिभयाञ्चक्रुः’ (श० ब्रा० ३।३।४।२)। आसङ्ग आस्कन्द आक्रमः।
- ‘चेतः स्वर्गतरङ्गिणीतटभुवामासङ्गमङ्गी कुरु’ (भर्तृ० ३।६०)। आसङ्गोऽनुरागो भक्तिः।
- ‘त्यवत्वा कर्मफलासङ्गम्’ (गीता ४।२०)। आसङ्गोऽभिष्वङ्गः, (फले) स्पृहा।
- ‘कार्तवीर्यभुजासक्तं तज्जलं प्राप्य निर्मलम्’ (रा० ७।३२।५)। आसक्तं रुद्धम्।
- ‘यदासक्तं सख्यं जने’ (महावीर० ५।५८)। बद्धम्।
- ‘कासक्तिकः’ (गो० गृ० १।२।२७)। कृतशिरोवेष्टन इत्यर्थः। कं शिरः। आसक्तिका वस्त्रबन्धनम्। के आसक्तिकाऽस्येति कासक्तिकः। आसङ्गिनी आवर्तः, अम्भसां भ्रमः।
सद्
- {आसद्}
- सद् (षद्लृ विशरणगत्यवसादनेषु)।
- ‘अग्निं दीप्तमिवासीदेद्राजानमुपशिक्षितः’ (शु० नी० २।२१५)। आसीदेत् उपसर्पेत, उपेयात् तत्संनिकर्षं गच्छेत्।
- ‘कः शुष्कवृक्षं वनमापतन्तं दवाग्निमासीदति निर्विशङ्कः’ (रा० ४।३३।४१)। आसीदति उपैति।
- ‘हिमालयस्यालयमाससाद’ (कु० ७।६९)। प्रापेत्यर्थः।
- ‘मा विदन्परिपन्थिनो य आसीदन्ति दम्पती’ (ऋ० १०।८५।३२)। आसीदन्ति उपशयस्था वर्तन्ते।
- ‘इमं यम प्रस्तरमा हि सीद्’ (ऋ० १०।१४।४)। आसीद् आगत्योपविश।
- ‘आ वामुपस्थमद्रुहा देवाः सीदन्तु यज्ञियाः’ (ऋ० २।४१।२१)। आसीदन्तु निषीदन्तु।
- ‘आसीदतु कलशं देव इन्दुः’ (सामवि० १।५३५)।
- ‘आसीदतु बर्हिषि मित्रो अर्यमा’ (सामवि० १।१५०)। आस्ताम् इत्यर्थः।
- ‘सीदता बर्हिरुरु वः सदस्कृतम्’ (अथर्व० २०।१३।२)। उक्तोऽर्थः।
- ‘मा स्म दुर्बलमासदः’ (भा० शां० ९१।१४)। माऽभिभूः।
- ‘आसादयतु मद्वीर्यं मुञ्चेम कुरुसत्तम’ (भा० द्रोण० १५९।११)। आसादयतु समासादयतु, समागच्छतु, प्रतिगृह्णातु।
- ‘आसादयतु मामेष धराधरमिवानिलः’ (भा० द्रोण० १९८।६१)। मया संयुगं गच्छत्वित्यर्थः।
- ‘मां पुनः परिभूयैवमासादयसि याच्ञ्या’ (अवदा० जा० ३४।१४)। आसादयसि कदर्थयसि।
- ‘असौ देवानासादयिष्यति’ (यो० वा० ५।३८।१८)। उत्सादयिष्यतीत्यर्थः। स चापूर्वः।
- ‘उपहरति हवींष्यासादयति तेषामासन्नानामतिथिरात्मञ्जुहोति’ (अथर्व० ९।६।२०)। आसादयति निदधाति।
- ‘अनेन रथवेगेन पूर्वप्रस्थितं वैनतेयमप्यासादयेय’ (शा० १)। प्रतिपद्येय, उपपद्येय।
- ‘यदा ह्यासीदतः पापान्दहत्युग्रेण तेजसा’ (भा० शां० ६८।४२)। आसीदतः संनिकृष्यमाणान् संनिहितान्, समीपस्थान्। आसन्नपरिचारकः। पार्श्वचरोऽनुचरः।
- ‘आसन्नमेव नृपति र्भजते मनुष्यम्’ (पञ्चत०)। आसन्नं सविधे वर्तमानम्।
- ‘न च किञ्चिदथोचुस्तं ह्रियाऽऽसन्ता युधिष्ठिरम्’ (भा० सभा० ७८।४)। आसन्ना अवनता नम्राः।
- ‘आसादितौ कथं ब्रूतं न गजैः कूलमुद्रुजैः’ (भट्टि० ६।९५)। आसादितौ व्यापादितौ। अगृह्यत…शीतासादितसादेन पाणिपादेन सूप्तता। शीतेन आसादितः प्रापितः सादः कार्श्यं दौर्बल्यं यस्य तेन। बहुमत्स्योऽयं ह्रदः। अस्मिञ्जालं प्रक्षिपामः। नगरसमीपेऽन्ये ह्रदा अनासादिताः।
- ‘तानासाद्य पुनरागमिष्यामः’ (तन्त्रा० १।५)। अनासादिता अविचिताः, अननुसंहिताः।
- ‘नक्रः स्वस्थानमासाद्य गजेन्द्रमपि कर्षति’ (पञ्चत०)। आसाद्य प्राप्य।
- ‘आसाद्य कवचं दिव्यं सहस्रार्कसमद्युति’ (रा० ७।६।६४)। आसाद्य परिधाय। व्यूढकङ्कटो भूत्वेत्यर्थः।
- ‘किमपि किमपि मन्दं मन्दमासत्तियोगात्’ (उत्तर० १।२७)। आसत्तिः सन्निकर्षः, सान्निध्यम्।
- ‘वाक्यं स्याद्योग्यताकाङ्क्षासत्तियुक्तः पदोच्चयः’ (सा० द० २।१)। उक्तोऽर्थः।
- ‘न च ते कचिदासत्तिर्बुद्धेः प्रादुर्भविष्यति’ (भा० शां० ५२।१७)। आसत्तिः, अवसादः, अवसन्नता।
- ‘प्राप्यासदमश्मानमग्निगोमयम्…’ (आश्व० गृ० ४।४।१२)। आसीदन्त्यस्यामित्यासद् गृहम्।
- ‘सामाऽऽसाद उद्गीथोऽपश्रयः’ (अथर्व० १५।३।८)। आसादः पादपीठम्।
- ‘गृहपत्न्यासाद उपविश्योदपात्रं निनयति’ (कौ० सू० २३।५)। आसाद आसन्दौ।
- ‘न त्वाम्…अविषह्यतमं दुःखमासादयितुमर्हति’ (रा० २।१०६।८)। आसादयितुमवसादयितुमुपवासयितुं क्षीणं कर्तुम्।
- ‘आसीददसुरो युद्धे शक्रसूनुर्व्यवर्धत’ (रा० ४।११।४४)। आसीदत् क्षीणबलोऽवर्तत।
- ‘तयेह विश्वाँ अवसे यजत्राना सादय’ (ऋ० ३।५७।५)। आसादय उपवेशय।
- ‘आयुतद्वयविष्कम्भस्यासन्नो वृत्तपरिणाहः’ (आर्य० २।१०)। आसन्नः सशेषः। परिणाहः परिधिः।
- ‘एदं बर्हिर्यजमानस्य सीद’ (ऋ० ३।५३।३)। आसीद निषीद।
सिच्
- {आसिच्}
- सिच् (सिच क्षरणे)।
- ‘आ धर्मे सिञ्च पय उस्रियायाः’ (अथर्व० ७।७३।६)। आसिञ्च प्रपूरय।
- ‘आ ते सिञ्चामि कुक्ष्योः’ (ऋ० ८।१७।५)। कुक्षेरुभयो: पार्श्वयोरासिञ्चामि पूरयामीत्याह।
- ‘आसेचनम्’ (का० श्रौ० ९।५।४)। उपर्यन्तर्वोक्षणम्। महावीरं करोति …प्रादेशमात्रमूर्ध्वसानुमुपरिष्टादासेचनवन्तं सन्नतं वायव्यप्रकारम्। आसेचनवान् सौषिर्योपेतः। तदासेचनकं रूपं तृप्तेर्नास्त्यन्तो यस्य दर्शनात् (अमरः)।
- ‘आ सिञ्चस्व जठरे मध्व ऊर्मिम्’ (तै० सं० १।४।१९)। आसिञ्चस्व आभिमुख्येन क्षारय।
- ‘आसेचनवन्ति पुषदाज्यस्य पूरयन्ति’ (आश्व० गृ० ४।३।१६)। आसेचनवन्ति बिलवन्ति (पात्राणि)।
सिध्
- {आसिध्}
- सिध् (षिध गत्याम्)।
- आसेधो राजाज्ञयाऽवरोध इति मिताक्षरा।
- ‘अप्राप्तव्यवहारश्च दूतो दानोन्मुखो व्रती। विषमस्थश्च नासेध्याः’ (नारदीय मनु० १।४७)। आसेध्या वार्या अवरोद्धव्याः। आसेधश्चतुर्धेति नारदः– स्थानासेधः कालकृतः प्रवासात्कर्मणस्तथा।
सु
- {आसु}
- सु (षुञ् अभिषवे, अभिषवः स्नपनं पीडनं स्नानं सुरासन्धानं च)।
- ‘यो अस्मै तीव्रान्त्सोमाँ आसुनोति प्रयस्वान्’ (अथर्व० २०।८९।५)। आसुनोति पीडयति।
- ‘देवस्य सवितुर्मतिमासवं विश्वदेव्यम्’ (वा० सं० २२।१४)। आसवमासोतुम् उद्धर्षयितुम्। उवटस्तु भगमित्यस्य विशेषणं मन्यते। सुतं तस्मात्तव प्रसुतमासुतं कुले दृश्यते। आसुतिः सुरासन्धानम्। आसुतीवलः शौण्डिकः।
सू
- {आसू}
- सू (षू प्रेरणे)।
- ‘यद्भद्रं तन्न आसुव’ (ऋ० ५।८२।४)। आसुव इतः प्रेरय।
- ‘आ ते प्राण सुवामसि परा यक्ष्मं सुवामि ते’ (अथर्व० ७।५५।६)। उक्तोऽर्थः।
- ‘असौ वा आदित्यः सायमासुवति…एष प्रातः प्रसुवति’ (मै० सं० १।५।७)।
सृ
- {आसृ}
- सृ (सृ गतौ)।
- ‘आसारसिक्तक्षितिबाष्पयोगात्’ (रघु० १३।२९)। आसारो वेगवद्वर्षम्। धरासम्पात आसारः (अमरः)।
- ‘मेघैः सततासारं वषद्भिरनिशं तदा’ (भा० आदि० २६।५)। आसारः स्यात्प्रसरणम् (अमरः)।
- ‘पार्ष्णिग्राहस्तदासारः’ (का० नी० सा० ८।४३)। अन्वग्गच्छद् बलमासार इति स्वामी। आसरतीत्यासारः। शत्रोः सर्वतो रोधोप्यासारो भवति।
- ‘अथ तेष्वाजिसृत्सु रथेषु पुनरासृतेषु’ (श० ब्रा० ५।१।५।१०)। आसृतेषु आवृत्तेषु।
- ‘मित्रबलमासारः’ (कौ० अ० १०।२।६)। निगदव्याख्यातम्।
- ‘अज्ञातविविधासारतोयशस्यः’ (पञ्चत० ३।३९)। आसारो भोज्यभक्ष्यसामग्री।
सेव्
- {आसेव्}
- सेव् (षेवृ सेवने)।
- ‘एतानासेवते यस्तु तपस्तस्य प्रहीयते’ (भा० शां० १९२।१८)। आसेवतेऽसकृत् सेवते जुषते, भजते।
- ‘निसस्तपतावनासेवने’ (पा० ८।३।१०२)। आसेवनं पुनः पुनः करणम्।
- ‘विशिपतिपदिस्कन्दां व्याप्यमानासेव्यमानयोः’ (पा० ३।४।५६) आसेवाऽऽभीक्ष्ण्यम्।
- ‘आयुक्तकुशलाभ्यां चासेवायाम्’ (२।३।४०)। आसेवा तात्पर्यम्।
- ‘यत्राप्रायश्चित्तं कर्मासेवते प्रायश्चित्तवति’ (आप० ध० १।१८।११)। आसेवते तात्पर्येण करोतीति यावत्।
स्कन्द्
- {आस्कन्द्}
- स्कन्द् (स्कन्दिर् गतिशोषणयोः)।
- ‘चयमास्कन्दति भस्मनां जनः’ (कि० २।२०)। भस्मनां चये राशौ पदं निधत्त इत्यर्थः।
- ‘कथमिदानीमुन्मादोपरागो माधवेन्दुमास्कन्दति’ (मालती० ९)। आस्कन्दति आक्रामति अभिभवति।
- ‘आस्कन्दल्लक्ष्मणं बाणैः’ (भट्टि० १७।८२)। उक्तोऽर्थः।
- ‘तानि पुनरमूनि प्रतिनियतार्थविषयवृत्त्या वेदमास्कन्दन्ति’ (निरुक्तोपोद्घाते दुर्गः)। आस्कन्द उत्प्लुत्यारोहणम्।
- ‘दत्तास्कन्दो वहन् (पक्षी) पृष्ठे शक्तिदेवम् अलक्षितम्’ (कथा० २६।३६)। आस्कन्तिदतमश्वानां गतिविशेषः।
- ‘न हि सिंहो गजास्कन्दी भयाद् गिरिगुहाशयः’ (रघु० १७।५२)। गजमास्कन्दति प्लुत्यारोहतीति गजास्कन्दी।
- ‘आस्कन्दी दक्षिणार्धस्य… कीनाशो गीयते द्विजैः’ (कथा० २४।८७)। आस्कन्दी दाता वदान्यः, उदारः।
स्कु
- {आस्कु}
- स्कु (स्कुञ् आप्रवणे)।
- ‘यो अस्याः कर्णावास्कुनोति’ (अथर्व० १२।४।६)। आस्कुनोति आकर्षति।
- ‘अथाङ्गारमास्कौति’ (श० ब्रा० १।२।१।५)। आस्कौति कर्षति, बहिष्करोति, निष्कासयति। लोके स्कुञ् क्रैयादिकः सौवादिकश्च।
- ‘यो अस्याः कर्णावास्कुनोत्या स देवेषु वृश्चते’ (अथर्व० १२।४।६)। आस्कुनोति आतृणत्ति, विध्यति, आच्छिनत्ति, छिद्रं करोति।
स्तृ
- {आस्तृ}
- स्तृ (स्तृञ् आच्छादने)।
- ‘आस्तृत्य साधु शयनम्’ (शु० नी० ४।१७)। शयनीयं रचयित्धा, विस्तार्येत्याह।
स्तॄ
- {आस्तॄ}
- स्तॄ (स्तॄञ् आच्छादने)।
- ‘वेद आस्तरणं ब्रह्मोपबर्हणम्’ (अथर्व० १५।३।७)। आस्तरणं शय्या।
- ‘वासो वल्कलमास्तरः किसलयानि’ (शान्ति० २।२०)।
- ‘कुसुमास्तरणे सहायतां बहुशः सौम्य गतस्त्वमावयोः’ (कु० ४।३५)। कुसुमास्तरणं कुसुमशयनम्।
- ‘निवेशनं पुनर्नवीकृत्य लेपनास्तरणोपस्तरणैः’ (आश्व० गृ० २।३)। आस्तरणं कुथः, कटः।
- ‘समुद्रगृहके शय्याऽऽस्तीर्णा’ (स्वप्न०)। आस्तीर्णा रचिता।
स्था
- {आस्था}
- स्था (ष्ठा गतिनिवृत्तौ)।
- ‘स मा त्वमातिष्ठ योगं तं येन शीघ्रा हया मम। भवेयुः…’ (भा० ३।२६३९)। उपायमाश्रयेत्यथः।
- ‘आतिष्ठ दिव्यं पन्थानमह्नाय भरतर्षभ’ (भा० शां० ९१।५७)।
- ‘आ नूनं रघवर्तनिं रथं तिष्ठाथो अश्विना’ (अथर्व० २०।१४०।३)।
- ‘आतिष्ठ वृत्रहन्रथं युक्ता ते ब्रह्मणा हरी’ (वा० सं० ८।३२)। अधितिष्ठेत्यर्थः।
- ‘आस्थाद्रथं सविता चित्रभानुः’ (ऋ० १।३५।४)। उक्तोऽर्थः।
- ‘शृण्वन्तु विश्वे अमृतस्य पुत्रा आ ये धामानि दिव्यानि तस्थुः’ (ऋ० १०।१३।१)। आतस्थुः=अधितष्ठुः। अध्यासते संश्रयन्त इत्यर्थः।
- ‘न श्मशानमातिष्ठेत्। स चेदमातिष्ठेदुदक हस्ते कृत्वा’ (गो० ब्रा० २।७)। श्मशाने तिष्ठेदित्यर्थः।
- ‘प्रत्यक्षं यत्तदातिष्ठ परोक्षं पृष्ठतः कुरु’ (रा० २।१०८।१७)। आतिष्ठ, गृहाण, आद्रियस्व।
- ‘स त्वमातिष्ठ यानाय यत्र यातो धनञ्जयः’ (भा० द्रोण० १११।४३)। आतिष्ठ प्रक्रमस्व।
- ‘एह्यश्मानमातिष्ठ’ (अथर्व० २।१३।४)। आतिष्ठ आक्राम आक्रम्य तिष्ठ।
- ‘संयमे यत्नमातिष्ठेद् विद्वान् यन्तेव वाजिनाम्’ (मनु० २।८८)। आतिष्ठेत् अनुतिष्ठेत्, आचरेत्, कुर्यात्, विदधीत।
- ‘यथा यथा हि सद्वृत्तमातिष्ठन्त्यनसूयकाः’ (मनु० १०।१२८)।
- ‘धर्मेण धर्मवृद्धावातिष्ठेद् यत्नमुत्तमम्’ (मनु० ९।३३३)। उक्तचर एवार्थः।
- ‘न तस्योच्छित्तिमातिष्ठेत्’ (का० नी० सा० ८।६७)। उक्तोऽर्थः। आगन्तुकवेषमातिष्ठति। परिगृह्णातीत्यर्थः।
- ‘स्वामिचित्तानुकूलैव वृत्तिरास्थीयतामिति’ (बृ० श्लो० सं० ४।७३)।
- ‘आस्थीयतां जये योगो धर्ममुत्सृज्य पाण्डवाः’ (द्रोण० १९०।११)। अङ्गी क्रियतामित्यर्थः। अस्तिं सकारमात्रमातिष्ठते। आगमौ गुणवृद्धी आतिष्ठते (आङः स्थः प्रतिज्ञान इति वार्तिके वृत्तावुदाहरणे)। आतिष्ठते प्रतिजानीते संगृणीते, अभ्युपैति। तद्यत्क्रूरी कुर्वन्ति।
- ‘यदास्थापयन्ति’ (श० ब्रा० ३।८।२।८)। आस्थापयन्ति प्रहरन्ति।
- ‘भवतो भवितेत्येवं स्वप्नमास्थापयद् द्विजः’ (बृ० श्लो० सं० ५।६५)। आस्थापयत् व्याकरोत् सनिश्चयं व्याख्यत्।
- ‘प्रविश्य तद्वदपरः काव्यमास्थपयेन्नटः’ (दश० ३।२)। आस्थापयेत् सूत्रयेत्।
- ‘नवं रथं राजानं ससारथिमास्थापयति’ (कौ० सू० १५।११)। आस्थापयति आरोहयति।
- ‘आस्थिताः क्लृप्तवर्माणो भद्रा नित्यमदा द्विपाः’ (भा० कर्ण० ८०।१०)। आस्थिता आश्रिता आरूढाः। (योधैः)।
- ‘आस्थितविष्टरः’ (रघु० १५।७९)। अधिष्ठितासन इत्यर्थः। आस्थितप्रतिषेधो वक्तव्यः (वा०)। पन्थानं याति न तु पथे यातीति भवति। अनास्थिते तु विपथात्पथे यातीति भवति। आस्थित आश्रित आक्रान्त इत्युदितचर एवार्थः।
- ‘उपायमास्थितस्याऽपि’ (शिशु० २।८०)। उक्तोऽर्थः।
- ‘कर्मणैव हि संसिद्धिमास्थिता जनकादयः’ (गीता ३।२०)। आस्थिताः प्राप्ताः।
- ‘श्वगणिवागुरिकैः प्रथमास्थितं वनम्’ (रघु० ९।५३)। आस्थितं वेष्टितम्।
- ‘इत्येवं सा समाभाष्य भूयः सन्देष्टुमास्थिता’ (भा० ५।६७४०)। आस्थिता आरब्धा।
- ‘वृद्धैः सम्मन्त्र्य सद्भिश्च बुद्धिमद्भिः श्रुतान्वितैः। आस्थितः…’ (भा० वन० १५०।३८)। आस्थितोऽनुगृहीतः।
- ‘न दृष्टपूर्वं कल्याणं सुखं वा पतिपौरुषे। अपि पुत्रे विपश्येयमिति रामास्थितं मया’ (रा० २।२०।३८)॥ आस्थितं जीवनं स्थापितम्।
- ‘समानं चिद्रथमातस्थिवांसा’ (अथर्व २०।३४।८)। आतस्थिवांसौ आस्थितवन्तौ=आश्रितवन्तौ।
- ‘रथमास्थाय’ (हरि० १।११३३)। आस्थाय आरुह्य।
- ‘महेन्द्रनास्थाय महोक्षरूपम्’ (रघु० ६।७२)। उक्तोऽर्थः।
- ‘क्षिप्रं मे रथमास्थाय निगृह्णीष्व हयोत्तमान्’ (भा० वि० ३७।२२)। सर्ववेदपारिषदं हीदं शास्त्रम्। तत्र नैकः पन्थाः शक्य आस्थातुम् (भाष्ये)। आस्थातुमाश्रयितुम्। अवश्यं च कश्चित् स्वकृतान्त आस्थेयः। तत्र संस्त्यानप्रसवौ लिङ्गम् इत्यत्र (भाष्ये)। आस्थेय आश्रेयः।
- ‘न ह्येषा बुद्धिरास्थेया अङ्गदं प्रति’ (रा० ४।२३।११)। उक्तोऽर्थः। यदि तु नेष्यते ततो यत्नान्तरमास्थेयमस्माद् विभाषाविज्ञानात् (पा० ६।१।२६ सूत्रे वृत्तौ)।
- ‘आस्थाता ते जयतु जेत्वानि’ (अथर्व० ६।१२??।१)। आस्थाताऽऽश्रयिता रथारोहः।
- ‘न सभ्रमो न भीः काचिदास्था वा समजायत’ (भा० शां २८१।१२)। आस्था समादरः।
- ‘मय्यप्यास्था न ते चेत् त्वयि मम नितरामेव राजन्ननास्था’ (भर्तृ० ३।३०)। उक्तोऽर्थः।
- ‘स्त्री पुमानित्यनास्थैषां वृत्तं हि महितं सताम्।’ (कु० ६।१२)। अनास्थाऽनादरः।
- ‘अनास्था बाह्यवस्तुषु’ (कु० ६।६३)।
- ‘एकान्तविध्वंसिषु मद्विधानां पिण्डेष्वनास्था खलु भौतिकेषु’ (रघु० २।५७)। उक्तोऽर्थः।
- ‘अत्यद्भुतैर्मम हृतस्य तथाप्यनास्था’ (महावीर० २।३९)। अनास्थाऽश्रद्धा भक्त्यभावो वा।
- ‘जयलक्ष्म्यां बबन्धास्थाम्’ (राज० ५।२४६)। आस्था आशा।
- ‘तासामास्थानादुज्जिहतामोषधयः’ (वा० सं० ११।३८)। आस्थानं मूलमाधारः।
- ‘आस्थाने पर्वता अस्थुः’ (अथर्व० ६।७७।१)। आस्थानं संश्रयस्थानम्।
- ‘इन्द्रो वृत्रस्यास्थानमच्छिनत्’ (शा० ब्रा० ५।५।५।१४)। आस्थानमाश्रीयमाणं निवर्तनमार्गम्।
- ‘राजानम् आस्थानगतम्’ (कथा० २१।१७)। आस्थानं राजसमा। आस्थानी क्लीबमास्थानम् (अमरः)।
- ‘अनैषीच्च तातो मे देवस्यालकेश्वरस्यास्थानीम्’ (दशकु० पृ० ११७)।
- ‘स्तूयमानो जयाशीर्मिरास्थानस्थानमागतः’ (बृ० श्लो० सं० २।२२)।
- ‘आस्थानमसितं तव’ (अथर्व० १।२३।३)। एत्य तिष्ठत्यत्रेति प्रक्षेपणभाजनादि।
- ‘शोणितास्थापनम्’ (सुश्रुत० २।३।१७)। रक्तस्रुतिविराम इहास्थापनशब्देनोक्तः।
- ‘आस्थापनवमनविरेचनैस्तदहरेवोपपादयेत्’ (चरक० वि० ७।१९)। आस्थापनं घृतेन तैलेन वा वस्तिकर्म।
- ‘आस्थापनं तु तरुणे गर्भे नार्या न शस्यते’ (का० सं० खि० अन्तर्० श्लो० २६)। उक्तोऽर्थः।
- ‘आस्थायिका’ (बृह० उप० ४।१।४)।
- ‘एह्यश्मानमातिष्ठाश्मेव त्वं स्थिरा भव’ (शां० गृ० १।१३।१२)। आतिष्ठ आक्राम, आरोह।
- ‘रुद्रो वा अपशुकाया आहत्यै नातिष्ठत’ (तै० ब्रा० १।६।१०)। पशुरहितामाहुतिं नाङ्गी करोतीत्यर्थः।
- ‘अन्योन्यस्मै नातिष्ठन्त’ (तै० ब्रा० १।३।२।२)। परस्परं विवदमानाः प्रथमानुष्ठातृत्वलक्षणाय ज्यैष्ठ्याय नातिष्ठन्त ज्यैष्ठ्यं नाङ्गीचक्रुः।
- ‘ता अस्मै (प्रजापतये) नातिष्ठन्तान्नाद्याय’ (तै० ब्रा० २।२।१०।६)। अन्नाद्यं दातुं नाङ्गीकृतवत्य इत्यर्थः।
- ‘आ यस्तस्थौ भुवनान्यमर्त्यः’ (ऋ० ९।८४।२)। आतस्थौ अधितष्ठौ।
- ‘मा स्वधितिस्तन्व आतिष्ठिपत्ते’ (ऋ० १।१६२।२०)।
- ‘किमेवमेभिर्विषयाभिषङ्गरसगृध्नुभिरास्थानिकैरास्थानीधूर्तैः’ (प्र० च० ६)। आस्थानी सभा।
- ‘स्नेहविरेचनास्थापनानुवासनैश्चैव दशरात्राहृतवेगमुपक्रमेत्’ (सुश्रुत० चि० ५।२७)।
- ‘अनास्थाप्यास्त्वतिस्निग्धः क्षतोरस्को भृशं कृशः’ (अष्टाङ्ग० सूत्र० १९।४)। आस्थापनशब्दो निरूहवचनः।
- ‘वरुणाय देवता राज्याय नातिष्ठन्त’ (पञ्च० ब्रा० १५।३।३०)। राज्यं दातुं नाभ्युपागमन् इत्यर्थः।
स्ना
- {आस्ना}
- स्ना (ष्णा शौचे)।
- ‘विवाहे कृत्यां यां चक्रुरास्नाने तां निदध्मसि’ (अथर्व० १८।२।६५)। आस्नानं स्नानार्थकं जलम्।
स्पृ
- {आस्पृ}
- स्पृ (स्पृ प्रीतिपालनयोः, प्रीतिचलनयोरित्येके)।
- ‘तेनेमाँल्लोकानास्पृणोति’ (श० ब्रा० ३।३।४।३)।
स्फर्
- {आस्फर्}
- स्फर् (स्फुर स्फुरणे, अकारोपधं केचित्पठन्ति)।
- ‘धनुरास्फालयन्’ (उत्तर० ४)। धातुरेफस्य लत्वापत्तिः। नादयन्, शिञ्जयन्। ध्वनयन्।
- ‘वीणामास्फलयन्तीम्’ (काद० १३१)। वादयन्तीमित्यर्थः।
- ‘आस्फालितं यत् प्रमदाकराग्रैः’ (रघु० १६।१३)। आस्फालितं ताडितम्।
- ‘पयोराशेरोघः प्रलयपवनास्फालित इव’ (उत्तर० ५।९)। आस्फालित आन्दोलितः।
- ‘शिलायामास्फालितः’ (पञ्चत० १)। ताडित इत्यर्थः।
स्फल्
- {आस्फल्}
- स्फल् (स्फल ताडने, लौकिकः)।
- ‘निहन्मि किं खलामेतां दृषद्यास्फालयामि किम्’ (वृ० क० को० १०८।४१)। आस्फालयामि अवताडयामि।
स्फुट्
- {आस्फुट्}
- स्फुट् (स्फुट विकसने, स्फुटिर् विशरणे)।
- ‘आस्फोटयत्तथाऽऽकाशे धर्मः प्राप्तो मयेति वै’ (भा० शां० २६१।४१)। बाहुशब्दमकरोदित्यर्थः
- ‘धृष्टमास्फोटयामास लङ्कां शब्देन पूरयन्’ (रा० ५।४३।६)। आस्फोटयामास क्षोभयामास।
- ‘तस्यास्फोटितशब्देन महता श्रोत्रपातिना। पेतुर्विहङ्गमास्तत्र चैत्यपालाश्च मोहिताः’ (रा० ५।४।७) ॥ आस्फोटितम् बाहुताडनशब्दः।
- ‘वल्गितास्फोटितोत्क्रुष्टैः ’ (भा० द्रोण० ८०।४१)। आस्फोटितं भुजाडम्बरः।
स्फुर्
- {आस्फुर्}
- स्फुर् (स्फुर रफुरणे)।
- ‘अक्षाणां हृदयं मे ज्यां रथं विद्धि ममास्फुरम्’ (भा० सभा० ५६।४)। आस्फुरम् अक्षन्यासपातनादिस्थानम्।
स्रु
- {आस्रु}
- स्रु (स्रु गतौ)।
- ‘सवितर्कविचारमाप शान्तं प्रथमं ध्यानमनास्रवप्रकारम्’ (बुद्ध० ५।१०)। आस्रवः क्लेशः। आदीनवास्रवौ क्लेशे इत्यमरः।
- ‘तेषामसि त्वमुत्तममनास्रावमरोगणम्’ (अथर्व० २।३।२)। आस्रवन्तीत्यास्रावा अतीसारातिमूत्रनाडीव्रणादयः।
- ‘एवा रोगं चास्रावं चान्तस्तिष्ठतु मुञ्ज इत्’ (अथर्व० १।२।४)। आस्रावो मूत्रातिसारः।
- ‘कण्टकोपि दुश्छिन्न आस्रावं जनयेच्चिरम्’ (भा० आदि० २४०।९)। आस्रावः क्षतम् इति नीलकण्ठः।
- ‘च्युतेष्वास्राववद् विद्यात्’ (गौ० ध० १।१।४३)। आस्राव आस्यजलम्।
- ‘तद्वै राष्ट्रमास्रवति भिन्नां नावमिवोदकम्’ (अथर्व० ५।१९।८)। आस्रवति वृष्ट्याऽऽप्लावयति।
हन्
- {आहन्}
- हन् (हन हिंसागत्योः)।
- आजघान रणे रामं तोत्त्रैरिव महाद्विपम्’ (रा० ३।२८।१०)। आजघान प्रजहार ताडयामास चक्षाण।
- ‘आजघ्ने वक्षसि द्रोणो नाराचेन धनञ्जयम्’ (भा० द्रोण० ९१।२३)। उक्तोऽर्थः।
- ‘आजघ्ने विषमविलोचनस्य वक्षः’ (कि० १७।६३)। उभयत्रापाणिनीयमात्मनेपदम्।
- ‘कः कपाटमाहन्ति। कुटिममाजघान’ (काद० १०)। कील आहन्यमानः प्रतिकीलं निर्हन्ति (पा० २।२।६ भाष्ये)। आहन्यमानो निखन्यमानः (निखायमानः)। दण्डाहतं कालशेयम् (अमरः)। आहतं मथितम्।
- ‘अङ्कमारोपितायां च तन्त्र्यो यस्यामनाहताः। मधुरं निस्वनेयुस्तां विद्या घोषवतीमिति’ (बृ० श्लो० स० ५।१४१)॥ अनाहता अताडिताः।
- ‘हृदये दिग्धशरैरिवाहतः’ (कु० ४।२५)। उक्तोऽर्थः।
- ‘पादाहतं यदुत्थाय मूर्धानमधिरोहति’ (शिशु० २।४६)। पादेनावताडितं (रजः)। अनाहो वाससी वसानः। अनाहते अधौते अनिक्ते। धावकेन फलके अताडिते इत्यर्थः। ये तन्त्रके निष्प्रवाणिनी इति वोच्येते।
- ‘आत्मनोऽर्थे त्वया लोको यत्नतः सर्व आहतः’ (भा० शल्य० ४।४१)। आहतः क्षतः, हिंसितः। आङ्पूर्वो हन्प्रायेण प्रहरणे ताडने दृष्टः।
- ‘न हि तद्विद्यते भूतमाहतं यन्न कम्पते’ (अवदा० जा० ३१।१४)। आहतं ताडितम्। त्र्याहताः पञ्च पञ्चदश सम्पद्यन्ते’ (आपटेकोषः)। त्र्याहतास्त्रिभिरभ्यस्ताः। सूर्याब्धिसंख्यया द्वित्रिसागरैरयुताहतैः। एकैकमब्देषु।
- ‘नवाहतेषु’ (व० बृ० सं० ८।२२)। निघातिकाताडनादिना दीनारादिषु रूपं यदुत्पद्यते तदाहतमित्युच्यते (काशिका ५।२।१२०)। आहतं रूपमस्य रूप्यो दीनारः।
- ‘ककुत्स्थ इत्याहतलक्षणोऽभूत्’ (रघु० ६।७१)। गुणैः प्रतीते तु कृतलक्षणाहतलक्षणौ (अमरः)। आहतान्युद्घोषितानि लक्षणानि यस्यासावाहतलक्षण इति स्वामी। आहतमभ्यस्तं लक्षणं नाम यस्य स तथोक्त इत्येवमपि व्युत्पादयन्ति।
- ‘तत्राहतास्त्रीणि शतानि शङ्कवः’ (अथर्व० १०।८।४)। आहता निखाताः। ब्राह्मण इदमाहतम्। सूत्र इदमाहतम् (नि० १।१।६ इत्यत्र दुर्गः)। आहतं पठितम्।
- ‘नेव मांसे न पीवसि नेव मज्जस्वाहतम्’ (अथर्व० १।११।४)। आहतमाबद्धम्।
- ‘आहत्य सर्वसंकल्पान्सत्त्वे चित्तं निवेशयेत्’ (भा० शां० २४६।९)। आहत्य विनाश्य।
- ‘तेषु यत्राहत्य प्रायश्चित्तमनुक्तम्’ (आप० ध० १।१०।२८।१४)। आहत्य पठित्वा। शब्दत इत्यर्थः।
- ‘दोषवत्स्वपतनीयेषु पतनीयव्यतिरिक्तेषु कर्मसु येष्वाहत्य प्रायश्चित्तं नोक्तम्।’ (आप० ध० १।२६।१२ उज्ज्वलायाम्)।
- ‘तस्य द्वावनध्यायौ यदात्माशुचिर्यद् देश इत्याहत्य वक्ष्यमाणत्वात्’ (आश्व० गृ० ३।१।४ टीकायाम्)। उक्तोऽर्थः।
- ‘क्वासौ रामो य आहत्य साखायं रावणं गतः’ (पद्मपु० ५।३४।५)। आङस्थाने। प्रः स्थाने स्यात्।
हि
- {आहि}
- हि (हि गतौ वृद्धौ च)।
- ‘तत्र त्वं मम नैवासि रामश्च वनमाहितः’ (रा० २।६१।२५)। वनमाहितो वनं प्रहितः, वनं प्रस्थापितः।
हु
- {आहु}
- हु (हुँ दानादनयोः, आदान इत्येके, प्रीणने इति चापरे)।
- ‘जिन्वन्ति विश्वे तं देवा यो ब्राह्मण ऋषभमाजुहोति’ (अथर्व० ९।४।१८)। आङर्थे विशेषकृन्न।
- ‘तस्मा इन्द्राय सुतमाजुहोमि’ (तै० ब्रा० १।१।१।५)। आजुहोमि सर्वतो जुहोमि।
हृ
- {आहृ}
- हृ (हृञ् हरणे)।
- ‘आहर सोम्य हस्तम्’ (बृ० उ० २।२।१३)। आहर गृहाण।
- ‘समिधं सोम्याहरोप त्वा नेष्ये’ (छां० उ० ४।४।५)।
- ‘नास्याग्निं गृहाद्धरन्ति नान्यत आहरन्ति’ (आप० ५।२।७।६)। आहरन्ति आनयन्ति।
- ‘आजह्रतुस्तच्चरणौ पृथिव्यां स्थलारविन्दश्रियमव्यवस्थाम्’ (कु० १।३३)। आजह्रतुः=दधतुः।
- ‘स विश्वजितमाजह्रे यज्ञं सर्वस्वदक्षिणम्’ (रघु० ४।८६)। आजहार संबभार संबिभराम्बभूव, वितेने, चकार।
- ‘मुनिस्तेषां पूजामथाहरत्’ (भा० वन० १८४।९)। पूजोपकरणसङ्ग्रहपूर्वं पूजां समपादयद् इत्युक्तं भवति।
- ‘आजहारर्जुनो राज्ञो राजसूयं महाक्रतुम् (भा० आदि० १।१२९)। सम्पादितवानित्यर्थः।
- ‘प्रस्वापनास्त्रं द्रुतमाजहार (कि० १६।२५)। आजहार आचकर्ष।
- ‘न खल्वकारणं कोपमाहरेन्नरपुङ्गवः (रा० ४।३३।३३)। कोपं दधीतेत्यर्थः।
- ‘तत: प्रभृत्यसौ दृश्यं नाजहार न चात्यजत्’ (यो० वा० ५।१२।३)। आजहार स्वी चकार।
- ‘निर्वासनः शान्तमना वद व्रज पिबाहर’ (यो० वा० ६ (२) १०६।२४)। आहर अभ्यवहर भुङ्क्ष्व।
- ‘राम निर्वासनीभावमाहरस्व विवेकतः’ (यो० वा० ४।३४।२७)। आत्मन्यापादयेत्याह।
- ‘उपशमसुखमाहरेत् पवित्रम्’ (यो० वा० ५।८।१८)। आहरेत्=निर्विशेत्, भुञ्जीत, अनुभवेत्।
- ‘(इन्द्रः) तम् (दशरात्रम्) आहरत् तेनायजत’ (तै० सं० ७।२।५।२)। आहरतिरिय संभारसमाहरणे वर्तते।
- ‘सार्घं स्वपरिवारेण शीघ्रमाह्रियतामिति’ (यो० वा० ६ (२) १३४।१४)। आह्रियतामानीयताम्।
- ‘न हृष्यन्ति न कुप्यन्ति नाविशन्त्याहरन्ति च’ (यो० वा० ६ (२) ९२।२)। आहरन्ति समाहरन्ति।
- ‘ऋत्विजो वृत्वा मधुपर्कमाहरेत्’ ( १।२१।१)। आहरेत उपहरेत्, दद्यात्।
- ‘आहरेत त्वयाज्ञप्तः सन्तानार्थं कुलस्य च’ (रा० १।११।५)। आहरेत निर्वहेत। क्रतुमिति शेषः। आहरेत् अर्जयेत्।
- ‘कीर्तिमाहरिष्यति मे सुता’ (रा० १।६७।२२)। आहरिष्यति सम्पादयिष्यति।
- ‘ब्रह्मचार्याहरेद् भैक्षम्’ (मनु० २।१८३)। आहरेद् अर्जयेत्।
- ‘दधानाश्च ये मर्त्या आहरिष्यन्ति सन्ततिम्’ (भा० अनु० १२५।७५)।
- ‘नाहारयति सन्त्रासं बाहू रामस्य संश्रिता’ (रा० २।६०।३०)। नाहारयति न करोति, न सम्प्राप्नोति।
- ‘रोषमाहारयत्तीव्रं निहन्तुं समरे खरम्’ (रा० ३।३०।१९)। रोवमकरोत्।
- ‘दृष्ट्वा मां बान्धवाः सर्वे हर्षमाहारयन्पुनः’ (भा० वन० २२।१९)। आहारयन्प्राप्नुवन्।
- ‘चिरस्य दृष्ट्वा वार्ष्णेयं बाष्पमाहारयत्पृथा’ (भा० उ० ९०।३)। आहारयत् व्यहरत्, व्यसृजत्, अमुञ्चत्।
- ‘मातृवद् भोजयित्वाग्रे शिष्टमाहारयत्तदा’ (भा० वन० ५०।१०)। आहारयत् अभुङ्क्त, आश्नात्।
- ‘भोज्यान्याहारयन्ति च’ (भा० शां० ५६।५०)। उक्तोऽर्थः।
- ‘सम्प्राप्तमाहरन्स्वस्थ आकाश इव तिष्ठति’ (यो० वा० ६ (२) १३४।१४)। आहरन् भुञ्जानोऽनुभवन्निर्विशन्।
- ‘स वल्कवासांसि तवाघुनाऽऽहरन् करोति मन्युं न कथं धनञ्जयः’ (कि० १।३५)। आहरन् परिदधानः।
- ‘समतामलमाश्रित्य सम्प्राप्तं कार्यमाहरन्’ (यो० वा० ५।१३।३९)। आहरन् आचरन् अनुतिष्ठन्।
- ‘हर्षामर्षविनिर्मुक्तः प्रत्यहं कार्यमाहरन्’ (यो० वा० ५।६०।४)। उदितचर एवार्थः।
- ‘आहार्यमाणे (अन्ने) कृमयो व्यदृश्यन्त सहस्रशः’ (भा० मौ० २।१४)। आहार्यमाणे भुज्यमाने।
- ‘येनाहृतास्त्रिशतं वाजिमेधाः’ (भा० भीष्म० २२।१५)। आहृताः संभृताः कृताः।
- ‘यदेव वव्रे तदपश्यदाहृतम्’ (रघु० ३।६)। आहृतमुपनीतम्।
- ‘अयाचिताहृतम्’ (याज्ञ० १।२१५)। आहृतमुपहृतं दत्तम्।
- ‘आहृतपुण्डरीका श्रीः’ (रघु० १८।८)। गृहीतपदमेत्यर्थः।
- ‘देवासुरकुटुम्बिभ्यः …अपरस्परमाहृताः’ (यो० वा०)। आहृता हृताः अपहृताः।
- ‘दुःशासनस्य पापस्य यन्मया नाहृतं शिरः’ (भा० वि० २१।७)। नाऽऽहृतं छित्त्वा नानीतमिति नीलकण्ठः।
- ‘हरिरित्याहृतः’ (भा० पु० ८।१।३०)। आहृत इति व्याहृतं व्यपदिष्टमाह। अपूर्वः कविकल्पितोर्थः। व्याहरतिरेव तत्रार्थे रूढ इति नाद्रियते।
- ‘आहृत्य सर्वभोगेभ्यो मनो मर्कटचञ्चलम्’ (यो० वा० ५।१।९)। आहृत्य प्रत्याहृत्य संहृत्य।
- ‘अत आहर्तुमिच्छामि पार्वतीमात्मजन्मने’ (कु० ६।२८)। पत्नीत्वेन परिग्रहीतुमित्यर्थः।
- ‘स गूढशल्यमाहर्तुं देहाच्छक्नोति देहिनाम्’ (सुश्रुत० सूत्र० ५।१७)। आहर्तुमुद्धर्तुम्।
- ‘अन्यच्छ्रोतुमथाहर्तुं शान्तं नेच्छति मे मनः’ (यो० वा० ६ (२) २०१।१३)। आहर्तुं प्राप्तुम्।
- ‘न त्वाहार्यो गुणोऽस्य सः’ (यो० वा० ५।१२।३)। आहार्य उत्पाद्यः।
- ‘प्रभुताबृंहितं चेतो नाहार्यमभिनन्दति’ (यो० वा० ५।४६।६)। आहार्यं बाह्यं संस्कारसाधनम्।
- ‘न रम्यमाहार्यमपेक्षते गुणम्’ (कि० ४।२३)। आहार्यं बाह्यम्। गुणं संस्कारम्। अयं चन्द्रो मुखमित्यादौ चन्द्रभिन्ने मुखे चन्द्राभेदज्ञानं तच्चाहार्यमेव (वाचस्पत्यम्)। आहार्यमभिप्रायकृतं सङ्कल्पकल्पितम्।
- ‘दहेयुराहार्य्येणाहिताग्निम्’ (आश्व० श्रौ० ६।१०)। अन्यत आनीतेन्ताग्निना।
- ‘मधुमान्भवति मधुमदस्याहार्यं भवति’ (अथर्व० ९।१।२३)।
- ‘समिदाहरणाय प्रस्थिता वयम्’ (शा० १)। आहरणमानयनम्।
- ‘को लम्बयेदाहणाय हस्तम्’ (रघु० ६।७५)। आहरणं ग्रहणम्।
- ‘अश्वमेधस्य कौरव्यं चकाराहरणे मतिम्’ (भा० आश्व० ७१।१७)। आहरणमुपकरणग्रहणपूर्वकं निर्वहणम्।
- ‘सत्त्वानुरूपाहरणीकृतश्रीः’ (रघु ७।३२)। आहरणं यौतकम्। अमरस्तु यौतकादि तु यद् देयं सुदायो हरणं च तत् इति हरणं सुदायेऽर्थे पठति। आङानियतवस्तुदानं ध्वन्यत इति मल्लिः।
- ‘बालः कृतोपनयनो वेदाहरणतत्परः’ (वि० पु० ३।९।१)। वेदाहरणं वेदग्रहणम्।
- ‘तन्महाभैरवीं विद्यां धर्मश्रद्धयोराहरणाय प्रस्थापयामः’ (प्र० च० )। आहरणं ग्रहणम्।
- ‘प्रसह्य वित्ताहरणं न कल्कः’ (भा० आदि० १।२७५)। प्रकर्षेण दुःखं सोढ्वा वित्तार्जनम्।
- ‘आहर्ता राजसूयस्य’ (हरि० १।२३।२५)। आहर्ता कर्ता।
- ‘प्रतिहन्ति मनो मेऽद्य राजसूयो दुराहरः’ (भा० सभा० १६।५)। दुराहरो दुष्करानुष्ठानः।
- ‘आहारः फलमूलानि प्रजानामभवत्तदा’ (हरि० १।६।१८)। आहारो भोज्यम्, भक्ष्यम्।
- ‘आहरेद् विधिवद् दारान्’ (याज्ञ० १।८९)। आहरेत् परिगृह्णीयात्।
- ‘रक्षसां चैव सन्तापमनर्थं चाहरिष्यसि’ (रा० ३।३८।२४)। आहरिष्यसि यत्नेन सम्पादयिष्यसि।
- ‘न तद्धरेद्यत्पुनराहरेत्परः’ (भा० वन० १४०।६९)। आहरेत् अपहरेत् आक्षिपेत्, आच्छिन्द्यात्।
- ‘नाहारमाहरत्’ (कथा० ३३।६५)। आहरत् अभ्यवाहरत् अभुङ्क्त, आश्नात्। अन्यत्र मृग्यः प्रयोगः।
- ‘तदाहुः। कथमग्नीनन्वादधानोऽन्वाहार्यपचनमाहारयेत्’ (ऐ० ब्रा० ७।११)। अन्वाहार्यनामक ओदनः पच्यते यस्मिन्दक्षिणाग्नौ सोऽन्वाहार्यपचनः। तस्याहरणमभिज्वलनम्।
- ‘प्रति प्रस्थातर्वर्षाहारं साम गाय’ (सत्या० श्रौ० २४।६।४)। वर्षमाहरति आनयतीति वर्षाहारः। कर्मण्यण्।
- ‘न चालङ्कृतीनामपोद्धाराहाराभ्यां वाक्यं पुष्यति दुष्यति वा’ (काव्यानु० हैमः)। आहारो ऽध्याहारः।
- ‘तद्यथा श्रेयांसमाहरन्नुपेयात्’ (शां० ब्रा० २५।१०)। आहरन् उपहरन्। सोपहार इत्यर्थः। रिक्तहस्तो न यायादित्यभिप्रायः।
- ‘ऋत्विजो वृत्वा मधुपर्कमाहरेत्’ (आश्व० गृ० १।२४।१)। आहरेदुपहरेत्।
ह्वे
- {आह्वे}
- ह्वे (ह्वेञ् स्पर्धायां शब्दे च)।
- ‘कंसश्चाणूरमाह्वयते’ (सि० कौ०)। स्पर्धमानस्तस्याह्वानं करोतीत्यर्थः।
- ‘आह्वत चेदिराण्मुरारिम्’ (शिशु० २०।१)। उक्तोऽर्थः।
- ‘आह्वयद् द्वैरथेन’ (भा० शां० ५।१)। आहूतवानित्यर्थः। एकैक आवयो रथमारुह्य परस्पर योधयत्वित्यामन्त्रयतेति यावत्।
- ‘हन्तैनं ब्रह्मोद्यमाह्वयामहा इति’ (श० ब्रा० ११।४।१।२)। ब्रह्मणि वादाय तमामन्त्रयामहै तदभिभवेच्छयेति ब्राह्मणार्थः।
- ‘स्त्रीपुंधर्मों विभागश्च द्यूतमाह्वय एव च’ (मनु० ८।७)। प्राणिद्यूतमाह्वयः। प्राणिद्यूतं समाह्वय इत्यमरे पाठः। आह्वय आह्वेति नामधेयपर्यायौ। तथा चामरः पठति–अथाह्वयः। आख्याह्वे अभिधानं च नामधेयं च नाम च। रामायणाह्वयं काव्यम्। वसिष्ठाह्वो मुनिसत्तमः। नगरं गजसाह्वयम्। (हस्तिनापुरम्)। गजेन हस्तिना (हस्तिनाम्ना नृपतिना) समान आह्वयो यस्य तत्तथाभूतम्। वृद्धेरप्याह्वया इमे (अमरः)। आह्वया नामानि, पर्यायाः।
- ‘पूर्ण आहावो मदिरस्य मध्वः’ (ऋ० १०।११२।६)। आहावो निपानम्।
- ‘निपानमाहावः’ (पा० ३।३।७४)। आहावस्तु निपानं स्यादुपकूपजलाशये इत्यमरः। आहवो युद्धम्। आह्वायका आह्वातारः।
- ‘आह्वायकान्भूमिपतेरयोध्याम्’ (भट्टि० २।४३)। अत्र भविष्यदर्थकेन ण्वुला योगे षष्ठीनिषेधशिष्टिर्नादृता कविना। भूमिपतिमिति तूचितम्।
- ‘आह्वायके विसृष्टेऽपि साऽन्यथा नागता कथम्’ (कथा० ५८।८८)। आह्वायक आह्वाता।