आप्
- {विप्राप्}
- आप् (आप्लृ व्याप्तौ)।
- ‘विपाङ् विपाशनाद्वा विपाटनाद्वा विप्रापणाद्वा’ (नि० ९।२६।१)। विप्रापणं विविधा व्याप्तिः, विसृमरतेति यावत्।
इ
- {विप्रे}
- इ (इण् गतौ)।
- ‘सा त्वं विप्रेहि तिष्ठ वा’ (भा० आदि० १६७।३८) विप्रेहि दूरं गच्छ।
- ‘एते पृष्ठानि रोदसो र्विप्रयन्तो व्यानशुः’ (ऋ० ९।२२।५)। एते सोमासः। विप्रयन्तो विसरन्तः प्रथमानाः।
- ‘यद्यु ते विप्रेताः स्युः’ (श० ब्रा० ३।२।३।२२)। विप्रेताः स्युरुपरमेयुरिति यावत्।
- ‘सा त्वं विप्रेहि तिष्ठ वा’ (भा० आदि० १६७।३८)। विप्रेहि दूरं गच्छ।
ईक्ष्
- {विप्रेक्ष्}
- ईक्ष् (ईक्ष दर्शने)।
- ‘अधीरविप्रेक्षितमायताक्ष्याः’ (कु० १।४६)। विप्रेक्षितमितस्ततः प्रेक्षणम्।
- ‘उन्मत्त इव विप्रेक्षन्निद वचनमब्रवीत्’ (भा० द्रोण० ७३।२०)। विप्रेक्षन्=विप्रेक्षमाण इतस्तत ईक्षमाणः।
कृ
- {विप्रकृ}
- कृ (डुकृञ् करणे)।
- ‘अविनीत नोऽपत्यनिर्विशेषाणि सत्त्वानि विप्रकरोषि’ (शा० ७)। कदर्ययसीत्यर्थः।
- ‘न त्विदं केषुचिद् ब्रह्मन् व्याहर्तव्यं कथं चन। विद्यार्थिनो हि मे पुत्रान् विप्रकुर्युः कुतूहलात्॥’ विप्रकुर्युर्बाधेरन्।
- ‘कमपरमवशं न विप्रकुर्युर्विभुमपि तं यदमी स्पृशन्ति भावाः’ (कु० ६।९५)॥ विप्रकुर्युः=विकारमुत्पादयेयुः, चित्तवृत्तिं दूषयेयुरित्यर्थः।
- ‘रक्षांसि विप्रकुर्वन्ति तापसान्’ (रा० ३।१।२०)। बाधन्ते, कदर्थयन्ति।
- ‘आभरणोचितं रूपमाश्रमसुलभैः प्रसाधनैर्विप्रकार्यते’ (शा० ४)। विप्रकार्यते विरूपं क्रियते।
- ‘तस्मिन् विप्रकृताः काले तारकेण दिवौकसः’ (कु० २।१)। विप्रकृता उपपीडिताः।
- ‘तथा महीं विप्रकृतामनार्यैस्तपोवनादेत्य ररक्ष रामः’ (बुद्ध० ९।६९)। उक्तोऽर्थः।
- ‘विधर्मतो विप्रकृतः पिता यस्याभवत्पुरा’ (भा० शा० ८३।३९)।
- ‘विप्रकृतः पन्नगः फणां कुरुते’ (शा० ६।३१)। विप्रकृतः क्षोभितः। उपतप्तो दूनः।
- ‘ततो वै प्राश्निकाः प्राहुः पशुं विप्रकृतस्त्वया। मांसैरभिजुहोतीति तव राष्ट्रं मुनिर्बकः’ (भा० शल्य० ४१।२०)॥ त्वया विप्रकृतो बको मुनिः पशुं राष्ट्रं जुहोतीत्यन्वयः। विप्रकृतः तिरस्कृतः। परुषमुक्त इति प्राकरणिकोऽर्थः।
- ‘ये मां विप्रकृतां क्षुद्रैरुपेक्षध्वं विशोकवत्’ (भा० वन० १२।१२६)। विप्रकृतामवमानिताम्। खलीकृताम्।
- ‘भर्तुर्विप्रकृतापि रोषणतया मा स्म प्रतीपं गमः’ (शा० ४।१७)। विप्रकृता=असद् व्यवहृता।
- ‘एतैः कः सदृशो लोके दूरं विप्रकृतैरपि’ (का० नी० सा० १८।४८)। विप्रकृतै राजापथ्यकारिभिर्विरुद्धैः।
- ‘दुष्टानां निर्लज्जानां च विप्रकृत् (भा० पु० ६।१७।११)। विप्रकृत् बाधकः परिभावकः।
- ‘कश्चान्यो भ्रातृभार्यां वै विप्रकर्तुं तथार्हति’ (भा० उ० १८२।८)। विप्रकर्तुं निकर्तुं तिरस्कर्तुम्।
- ‘विप्रकारान्प्रयुङ्क्ते स्म स बहून् मम वेश्मनि’ (भा० अनु० १७०।३८)। विप्रकारान् विरुद्धानाचारान्, अपचारान्, अपराधान्।
- ‘विप्रकारमपाक्रष्टुं राक्षसैर्भवतामिमम्’ (रा० ३।६।२३)। विप्रकारं कदनं वैशसम्।
- ‘उदीरितां तामिति याज्ञसेन्या नवीकृतोद्ग्राहितविप्रकाराम्’ (कि० ३।५५)। विप्रकारोऽधिक्षेपोऽवमानः।
- ‘शशंसुर्विप्रकारं तं तस्मै तारककारितम्’ (भा० अनु० ८६।२८)। विप्रकार उपप्लवोऽपायो विनाशः।
- ‘मत्स्यानां विप्रकारांस्ते बहुनस्मानकीर्तयन्’ (भा० वि० ४७।९)।
- ‘शैथिल्यं याति स रथः स्नेहो विप्रकृतो यथा’ (मात्स्य० १३६।५६)।
- ‘येन कौमारके यूयं सर्वे विप्रकृताः सदा’ (भा० उ० ७९।१२)। विप्रकृता उपपीडिताः, कदर्थिताः।
- ‘विप्रकारं सपत्नीनामेवं जीर्णापि राघव’ (रा० २।२०।४६)। विप्रकारं तिरस्कारम् अवज्ञाम्, अवमाननाम्।
- ‘विप्रकारं च रामस्य सम्प्रयाणं वनस्य च’ (रा० २।१२।७२)। विप्रकारमपकारमिति तीर्थः।
कृष्
- {विप्रकृष्}
- कृष् (कृष विलेखने)।
- ‘कामं दुग्धे विप्रकर्षत्यलक्ष्मीम्।’ (उत्तर० ५।३०)। दूरं गमयतीत्यर्थः।
- ‘विरुद्धेन लक्ष्येण हि विप्रकृष्टा’ (भा० आदि० १९३।२४)। पितृकुलात्पतिकुलं प्रापितेत्यर्थः। सा विसृष्टेति पाठान्तरम्। विसृष्टाऽतिसृष्टा निसृष्टेत्यनर्थान्तरम्। इत्थं तिलकभेदा एते (विशेषकादयः)।
- ‘पर्यायत्वं त्वदूरविप्रकर्षात्’ (२।६।१२३ अमरोद्घाटने स्वामी)। विप्रकर्षो वैदूर्यम्, भेदो विशेषः।
- ‘द्रौपद्याविप्रकर्षेण राज्यापहरणेन च’ (भा० वन० २।९)। विप्रकर्षः कर्षणम्।
- ‘स्वगुणैरेव मार्गत विप्रकर्षं पृथग्जनात्’ (भा० शां० २८७।२५)। विप्रकर्षः प्रकर्ष उत्कर्षः।
- ‘अन्येषां कर्म सफलमस्माकमपि वा पुनः। विप्रकर्षेण बुध्येत कृतकर्मा यथाफलम्’ (भा० वन० ३२।४६)॥ विप्रकर्षोऽवसानम्। कृतानां कर्मणामन्त इति नीलकण्ठः। विप्रकर्षेण भेदेन वैलक्षण्येनेति परे।
- ‘खादनीयानि (मधूनि)) भूतानां यैर्बालो विप्रकृष्यते’ (भा० स्त्री० ५।१८)। विप्रकृष्यते दूरं कृष्यते ह्रियते।
कॄ
- {विप्रकॄ}
- कॄ (कॄ विक्षेपे)।
- ‘परिघो विप्रकीर्णस्ते बाणैश्छिन्नः समन्ततः’ (रा० ६।९५।३९)। विप्रकीर्णः शकलीकृतो विपर्यस्तः।
- ‘विरथं विप्रकीर्णं च भग्नशस्त्रायुधं तथा’ (यो हन्ति) (भा० वन० १८।१४)। विप्रकीर्णः प्रसारिताङ्गं भुवि पतितः।
- ‘स्रजश्च विविधाश्चित्रा विप्रकीर्णा ददर्श सः’ (रा० ५।१४।५३)। विप्रकीर्णा विपर्यस्ताः।
- ‘विप्रकीर्णां तु तां दृष्ट्वा राक्षसानां महाचमूम्’ (रा० ३।३०।३५)। विप्रकीर्णां भग्नाम्।
- ‘दिवसं विप्रकीर्णानामाहारार्थं च…। समागतानां नीडेषु पक्षिणां श्रूयते स्वनः’ (रा० ३।५।५)॥ विप्रकीर्णानां व्यपेतानां विप्रयुज्य दिक्षु विदिक्षु च प्रस्थितानाम्।
क्रम्
- {विप्रक्रम्}
- क्रम् (क्रमु पादविक्षेपे)।
- ‘अधीत्य चाविप्रक्रमणं सद्यः’ (आप० ध० २।२।५।२)। विप्रक्रमणमपगमनम्।
- ‘यस्य विप्रक्रान्तमहुतमग्निहोत्रं सूर्योऽभ्युदियात्’ (आप० श्रौ० ९।२।८।३६)। विप्रक्रान्तं प्रक्रान्तम्। विशब्दोऽनर्थकः।
गम्
- {विप्रगम्}
- गम् (गम्लृ गतौ)।
- ‘यथागतं विप्रजग्मुर्विदित्वा पाण्डवान् वृतान्’ (भा० आदि० २००।८)। विप्रतस्थिर इत्याह।
- ‘प्रजाः सर्वा महाराज विप्रजग्मुर्यथागतम्’ (भा० वन० १०५।१९)। विप्रजग्मुर्नाना दिक्षु प्रतस्थिरे।
- ‘हतारोहाश्च मातङ्गाः पाण्डवेन कृता रणे। विप्रजग्मुरनीकेषु मेघा वातहता इव’ (भा० भीष्म० ५४।८३-८४)॥ विप्रजग्मुर्विप्रकीर्णा बभूवुः। घना वाताहता इवेति पाठान्तरम्।
दुष्
- {विप्रदुष्}
- दुष् (दुष वैकृत्ये)।
- ‘वेदास्त्यागश्च यज्ञाश्च नियमाश्च तपांसि च। न विप्रदुष्टभावस्य सिद्धिं गच्छन्ति कर्हिचित्’ (मनु० २।९७)॥ विप्रदुष्टभावस्य दुष्टस्वभावस्य। विप्रावनर्थकौ।
द्रु
- {विप्रद्रु}
- द्रु (द्रु गतौ)।
- ‘भयार्ता विप्रदुद्रुवुः’ (हरि० २।११९।९८)। पलायाञ्चक्रिरे।
- ‘यूथपा मत्ताः सयूथा विप्रदुद्रुवुः’ (रा० २९३।१)। उक्तोऽर्थः।
- ‘दृष्ट्वा विप्रद्रुता भीता मुनयः शतशो दिशः’ (रा० १।५५।२२)। विप्रद्रुताः कान्दिशीकाः।
- ‘विप्रद्रुतानहं मन्ये निमग्नाञ्शोकसागरे’ (भा० कर्ण० २।१९)। उक्तोऽर्थः।
- ‘यथा वै व्योकसौ (पक्षिणौ) विप्रद्रवतः’ (पञ्च० ब्रा० १४।३।८)। विप्रद्रवतः=विश्लिष्टं पततः।
- ‘तांश्च विप्रद्रुतान्सर्वान्’ (रा० २।९६।५)। विप्रद्रुतान् दिक्षु विदिक्षु च द्रुतान् पलायितान्।
धाव्
- {विप्रधाव्}
- धाव् (धावु गतिशुद्ध्योः)।
- ‘(सेना) विप्रधावति वेगेन भीमस्याभिहता शरैः’ (भा० कर्ण० ६०।६१)। विप्रधावति विप्रकीर्णा सती धावति।
नश्
- {विप्रणश्}
- नश् (णश अदर्शने)।
- ‘ब्राह्मणेषु प्रमूढेषु धर्मो विप्रणशेद् ध्रुवम्’ (भा० १३।३०८३)। विप्रणशेत्, विप्रणश्येत्, तिरोभवेत्, पराभवेत्।
- ‘अपि श्वपाके शुनि वा न दानं विप्रणश्यति’ (भा० १३।३२१२)। विप्रणश्यति निष्फलं भवति।
- ‘अविप्रणाशः सर्वेषां कर्मणामिति निश्चयः’ (भा० आश्रम० ३४।४)। फलवन्ति कर्माणि भवन्ति नाफलानीत्याह।
नी
- {विप्रणी}
- नी (णीञ् प्रापणे)।
- ‘संवत्सरं विप्रणयेतस्माज्जातः पुनर्भवेत्’ (भा० शां० ९६।४)। विप्रणयेत् शिक्षयेत्। तव दासोऽस्मीति वदेति शिक्षयेदिति प्रकृतेऽर्थः। विप्रणयेदतिक्रमयेत् क्षपयेदिति तु संस्कृतशार्मण्यकोषः।
- ‘संचये च विनाशान्ते मरणान्ते च जीविते। संयोगे विप्रयोगान्ते को नु विप्रणयेन्मनः’ (भा० शा० १०४।४४) विप्रणयेद् योजयेत् आसजेत्।
बुध्
- {विप्रबुध्}
- बुध् (बुध अवगमने, बुधिर् बोधने)।
- ‘एवं व्युत्थापिते धर्मे बहुधा विप्रबोधिते। निश्चयं नाधिगच्छामः संमूढाः सुरसत्तम’ (भा० आश्व० ४९।१३)॥ विप्रबोधिते=बोधिते=वर्णिते=निरूपिते। विप्रावनर्थकौ, तदर्थस्य बहुधेत्यनेनैवोक्तत्वात्।
मुच्
- {विप्रमुच्}
- मुच् (मुच्लृ मोक्षणे)।
- ‘भोक्तारो विप्रमुच्यन्ते कर्ता दोषेण लिप्यते’ (भा० उ० ३३।४२)। विप्रमुच्यन्ते बन्धं न लभन्ते। विप्रावनर्थकौ।
मोक्ष्
- {विप्रमोक्ष्}
- मोक्ष् (मोक्ष असने)।
- ‘प्रहारविप्रमोक्षार्थं सहसा धरणीं गतः’ (भा० भीष्म० ४८।९२) प्रहारविप्रमोक्षार्थं। प्रहारपरिहारार्थम्। आघातवञ्चनार्थम्।
या
- {विप्रया}
- या (या प्रापणे)।
- ‘विप्रयातांस्तु वो भिन्नान्’ (भा० कर्ण० ९३।५४)। विप्रयातान् विद्रुतान् नाना दिशो भजमानान्।
- ‘विप्रयातरथानीकाः समपद्यन्त पाण्डवाः’ (भा० भीष्म० ५२।११)। विप्रयातो विप्रकीर्णः। विप्रद्रुतानीका इति पाठान्तरम्।
युज्
- {विप्रयुज्}
- युज् (युजिर् योगे)।
- ‘यदि तु चन्द्रमुखमिति विप्रयुज्यते तदा विशेषणसमासायत्तं रूपकम्’ (रसगङ्गाधरे परिणामालङ्कारे नागेशः)। विप्रयुज्यते विपरीतं प्रयुज्यते।
- ‘सुकरैर्विप्रयुक्तार्थाः कोशमापूरयन्त्युत’ (हरि० १।५१।६)। सुकरैर्यथोचितैः करग्रहैर्विशेषेण प्रयुक्तार्था इति नीलकण्ठः।
- ‘विप्रयुक्तो हि रामेण मुहूर्त्तमपि नोत्सहे। जीवितुम्…’ (रा० १।२०।८)॥ विप्रयुक्तो विरहितो विनाकृतः।
- ‘संयोगा विप्रयोगान्ताः’ (रा० २।१०५।१६)। विप्रयोगो विरहः, विनाभवः।
- ‘मा भूदेवं क्षणमपि च ते विद्युता विप्रयोगः’ (मेघ० )।
- ‘वागेषा यत्पृष्ठानि। तामेतां विप्रयुञ्जते तां विहरन्ति’ (जै० ब्रा० २।१)। विप्रयुञ्जते पृथक् कुर्वन्ति।
- ‘ततो रथै र्विप्रयुक्तैर्वारणैश्च प्रचोदितैः’ (मात्स्य० १७५।४)। विप्रयुक्तै र्विशेषेण प्रयुक्तैः प्रेरितैः प्राजितैः।
- ‘दृश्यते खल्वपि विप्रयोगः। तद्यथा अक्षीणि मे दर्शनीयानि पादा मे सुकुमारा इति’ (पा० १।४।२१ सूत्रे भाष्यम्)। विरुद्धः प्रयोगो विप्रयोगः।
लप्
- {विप्रलप्}
- लप् (लप व्यक्तायां वाचि)।
- ‘विभाषा विप्रलापे’ (पा० १।३।५०)। विप्रलापो विरोधोक्तिरित्यमरः।
- ‘सत्यं श्रेष्ठं पाण्डव विप्रलापम्’ (भा० वन० ५।२१)।
- ‘विगतः प्रलापोऽनर्थकं वचो यस्मात्, सत्यविशेषणम्। न चेन्मोघं विप्रलप्तं ममेदम्’ (भा० शां० २९।१४५)। विप्रलप्तम्=विप्रलपितम्। सविस्तरं प्रकर्षेण लपितं भाषितमिह विप्रलपितमुक्तम्। चरमे चरणे पथ्यं मुमूर्षोरिव सुप्रयुक्तम् इत्युक्तेर्विरुद्धवचनमित्यर्थो नेह सङ्गच्छते।
- ‘अप्यस्वरं सुस्वरविप्रलापा’ (रा० ३।६३।७)। विप्रलापो विलापः, अन्यत्र विरोधोक्तिमाह।
लभ्
- {विप्रलभ्}
- लभ् (डुलभष् प्राप्तौ)।
- ‘चन्द्रोपरागं प्रति तु केनापि विप्रलब्धासि’ (मुद्रा० १)। विप्रलब्धाऽतिसंहिता, मिथ्योक्ता।
- ‘स वै धर्मो विप्रलब्धः सभायां पापात्मभिः’ (भा० वन० ४।५)। विप्रलब्धो हिंसितः, अनादरेण लङ्घितः।
- ‘इत्युक्तास्ते तदा राजन् विप्रलम्भप्रधर्षिताः’ (भा० मौ० १।१८)। विप्रलम्भो वञ्चना।
- ‘तृषार्तं सति पानीये विप्रलम्भेन योजयन्’ (रा० २।७५।५७)। उक्तोऽर्थः। विप्रलम्भेन योजयन् विसंवदन् नास्तीत्युक्त्वाऽप्रयच्छन्नित्युक्तं भवति।
- ‘यस्माद्याति च लोकोऽयं विप्रलभ्य परस्परम्। ममत्वं न क्षमं तस्मात्स्वप्नभूते समागमे’ (बुद्ध० ६।४८)॥ विप्रलभ्य वियुज्य।
- ‘पौरुषेयवचनानि तु पुरुषबुद्धिप्रभवत्वाद् भ्रान्त्या विप्रलिप्सया वा प्रयुक्तानि’ (शा० दी० १।२)। विप्रलिप्साऽतिसन्धित्सा।
- ‘लुब्धेभ्यो विप्रलब्धेभ्यस्तेभ्यो नः सुमहद् भयम्’ (रा० ४।१९।१६)। विप्रलब्धेभ्यः (पूर्वमस्माभिः) वञ्चितेभ्यः।
ली
- {विप्रली}
- ली (लीङ् श्लेषणे)।
- ‘विद्याकल्पेन मरुता मेघानां भूयसामपि। ब्रह्मणीव विवर्तानां क्वापि विप्रलयः कृतः’ (उत्तर० ६।६)॥ विप्रलयः सम्पूर्णो लयः, अनवयवेनाभिसंवेशः।
लुप्
- {विप्रलुप्}
- लुप् (लुप्लृ छेदने)।
- ‘उभयोर्हस्तयोर्मुक्तं यदन्नमुपनीयते। तद्विप्रलुम्पन्त्यसुराः सहसा दुष्टचेतसः’ (मनु० ३।२२५)॥ विप्रलुम्पन्ति आच्छिन्दन्ति।
- ‘संचितान्यस्य वित्तानि विविधानि सहस्रशः। दस्युभिर्विप्रलुप्यन्ताम्…’ (रा० २।७५।४३)॥ लुण्ट्यन्तामित्यर्थः।
वद्
- {विप्रवद्}
- वद् (वद व्यक्तायां वाचि)।
- ‘विप्रवदन्ते सांवत्सराः विप्रवदन्ति सांवत्सराः।’ (पा० १।३।५०)। युगपत् परस्परप्रतिषेधेन विरुद्धं वदन्तीत्यर्थः।
- ‘विप्रवादाः सुबहवः श्रूयन्ते पुत्रकारिताः’ (भा० अनु० ४९।२)। विप्रवादा विविधाः प्रवादाः।
वस्
- {विप्रवस्}
- वस् (वस निवासे)।
- ‘स हि रामभयादेभिर्नागरैर्विप्रवासितः’ (भा० उ० १४७।२४)। दूरे स्थापित इत्याह।
- ‘विप्रवासे गुरोराचार्यकुलाय’ (आप० ध० १।३।३३)। विप्रवासेऽसंनिधौ।
- ‘विप्रोष्य ज्येष्ठस्य पुत्रस्योभाभ्यां पाणिभ्यां मूर्धानं परिगृह्य जपेत्’ (गो० गृ० २।८।२१)।
- ‘कामं तेषु तु विप्रोष्य स्त्रीष्विवायमहं वदेत्’ (महाभाष्ये पस्पशायाम्)। उक्तोऽर्थः।
- ‘तस्य सर्वस्वमादाय तं राजा विप्रवासयेत्’ (विष्णु धर्म० २।७२।१४६)। विवासयेत्, प्रवासयेदित्यर्थः। एकतरेणाप्युपसर्गेण शक्यो विवक्षितोऽर्थो वक्तुम्। यथास्थिते निर्वासयेदित्येवार्थः।
व्यध्
- {विप्रव्यध्}
- व्यध् (व्यध ताडने)।
- ‘कलशैर्विप्रविद्धैश्च स्रुवैर्भग्नैस्तथैव च’ (भा० वन० १०२।११)। विप्रविद्धैर्विप्रकीर्णैः।
- ‘विपकीर्णाजिनकुशं विप्रविद्धबृसीकटम्’ (रा० ३।६०।७)।
- ‘कवची सशिरस्त्राणो विप्रविद्धशरासनः’ (रा० ६।९०।७३)। विप्रविद्धशरासनो भग्नधन्वा।
व्रज्
- {विप्रव्रज्}
- व्रज् (व्रज गतौ)।
- ‘पुत्रान्संनिष्पाद्य ब्रूयुर्विप्रव्रजताऽस्मत्’ (आप० ध० १।१०।२९।९)। विप्रव्रजत नाना भवत, विविधं प्रकर्षेण स्नेहमुत्सृज्य गच्छतेत्याह।
सृ
- {विप्रसृ}
- सृ (सृ गतौ)।
- ‘अद्य विप्रसरिष्यन्ति राक्षस्यो हतबान्धवाः’ (रा० ३।३०।१०)। पलायिष्यन्त इत्याह।
- ‘सूपतीर्थाऽभवद् गङ्गा भूयो विप्रससार च’ (भा० स्त्री० २७।५)। पात्रं तस्याः पृथुतरमभूदित्यर्थः।
- ‘एवमनादि दुःखस्रोतो विप्रसृतम्’ (२।१५ योग० भा०)। विप्रसृतं सन्तानवाहि।
- ‘…बिलेभ्यश्चिरोषिता विप्रसरन्ति सर्पाः’ (रा० ४।३०।४५)। विप्रसरन्ति विनिष्क्रामन्ति।
सृज्
- {विप्रसृज्}
- सृज् (सृज विसर्गे)।
- ‘स ह मैत्रेयः स्वानन्तेवासिन उवाच यथार्थं भवन्तो यथागृहं यथामनो विप्रसृज्यन्ताम्’ (गो० ब्रा० पूर्व० १।३२)। विप्रसृज्यन्तां विप्रतिष्ठन्ताम्।
स्था
- {विप्रस्था}
- स्था (ष्ठा गतिनिवृत्तौ)।
- ‘यथाग्नेज्वलतः सर्वा दिशो विस्फुलिङ्गा विप्रतिष्ठेरन्’ (कौ० उ० ३।३)। विप्रतिष्ठेरन् नाना दिक्षु व्युच्चरेयुः।
- ‘तांस्तु विप्रस्थितान् दृष्ट्वा शास्त्रैः शास्त्राभिनन्दिनः’ (भा० शां० २८७।९)। विप्रस्थितान् विविधैर्मार्गैः प्रस्थितान्।
- ‘विप्रस्थितेषु देवेषु’ (रा० १।६३।२२)। यथास्वं निकाय्यान् प्रति प्रयातेषु।
- ‘विषस्थाने प्रदीप्ते वा प्रविष्टे निर्जनेपि वा’ (कौ० अ० १३।२।४८)। विप्रस्थाने उत्पथेन प्रस्थाने। विर्वैपरीत्ये।
हन्
- {विप्रहन्}
- हन् (हन हिंसागत्योः)।
- ‘अविप्रहतमैक्ष्वाको पन्थानं प्रतिपेदतुः’ (रा० ३।६९।२)। अविप्रहतम् अक्षुण्णम्। विशब्देन नार्थः।
- ‘नृत्येन चापराः क्लान्ताः पानविप्रहतास्तथा’ (रा० ५।११।५)। पानेन विप्रहता हतेन्द्रिया अभिभूता निर्जिताः।