अञ्च्
- {अन्वञ्च्}
- अञ्च् (अञ्चु गतिपूजनयोः)।
- ‘अग्नये क्षामवतेऽष्टाकपालं येषां पूर्वापरा अन्वञ्चः प्रमीयेरन् गृहदाहो वा’ (आप० श्रौ० ९।१।३६१)। अन्वञ्चः=सन्तताः।
- ‘त्वामन्वञ्चो वयं स्मसि’ (ऐ० ब्रा०)। त्वदनुगामिनो वयमित्याह।
- ‘जामि वा एतद् यज्ञस्य क्रियते यदन्वञ्चौ पुरोडाशावूपांशुयाजमन्तरा यजति’ (तै० ब्रा० १।३।१।३)। अन्वञ्चौ अध्यवहितौ। जामि आलस्यजनकम्।
- ‘ये चैनमन्वञ्चो भवन्ति’ (शां० ब्रा० २।५)। अन्वञ्चोऽनुगन्तारः।
अर्च्
- {अन्वर्च्}
- अर्च् (अर्च पूजायाम्)।
- ‘अनु यदी मरुतो मन्दसानमार्चन्निन्द्रम्’ (ऋ० ५।२९।२)। अनुशब्दोऽर्चने किं वैशिष्ट्यमाधत्त इति न ज्ञायते। अर्चायामनुक्रमं ब्रूयादुत?
अर्ज्
- {अन्वर्ज्}
- अर्ज् (अर्ज अर्जने, अर्ज प्रतियत्ने)।
- ‘इदं वै यूपमुच्छ्रित्याध्वर्युरा परिव्ययणान्नान्वर्जति’ (श० ब्रा० ३।७।२।४)। नान्वर्जति=न त्यजति।
अव्
- {अन्वव्}
- अव् (अव रक्षणाद्यूनविंशतावर्थेषु)।
- ‘अनु त्रितस्य युध्यतः शुष्ममावन्नुत क्रतुम्’ (ऋ० ८।७।२४)। अन्वावन्=आहर्षयन्, समुत्साहमैधयन्।
अस्
- {अन्वस्}
- अस् (अस भुवि)।
- ‘यदि पत्नी नानुष्यात्’ (आप० श्रौ० ६।३।१२।५)। नान्वासीना स्यात्, अन्तिकस्था न स्यात्।
- ‘यदि यजमानो नानुष्यात्’ (भा० श्रौ० ६।११।३)। उक्तोऽर्थः।
- ‘अपि शर्वर्या अनुस्मसीति’ (ऐ० ब्रा० ४।५)। अनुस्मसि=सज्जाः स्मः। परिदद्मः, उपहराम इति वा।
- ‘अनुष्याम रोदसी देवपुत्रे’ (ऋ० १।१८५।४)। अनुष्याम=अनुभवेम, आप्नुयाम।
अस्
- {अन्वस्}
- अस् (असु क्षेपे)।
- ‘(मेखला) मुञ्जवल्शेनान्वस्ता भवति’ (श० ब्रा० ३।२।१।१३)। अन्वस्ता=प्रोता।
आस्
- {अन्वास्}
- आस् (आस उपवेशने)।
- ‘अन्वास्यमाना मुनिभिः सान्त्व्यमानाश्च भारत’ (भा० वन० ५।४)। **अन्वास्यमानाः=उपास्यमानाः, उपस्थीयमानाः। समीपे वर्तमानैर्मुनिभिः परिगताः। **
- ‘अन्वासितमरुन्धत्या स्वाहयेव हविर्भुजम् (रघु० १।५६)। समीपे वर्तमानयाऽरुन्धत्या सेवितम्।
- ‘सन्ध्यामन्वास्य पश्चिमाम्’ (रा०)। सायंसन्ध्यासम्बन्धि देवतादिध्यानं कृत्वेत्यर्थः।
- ‘अन्वास्यमानश्चिरजीवदोषैः’ (प्रतिमा० ३।१५)। अन्वास्यमानः सेव्यमानः, युक्त इत्यर्थः।
आप्
- {अन्वाप्}
- आप् (आप्लृ व्याप्तौ)।
- ‘तद्विस्रस्तं नान्वाप्नोत्पूर्वं सवनम्’ (ऐ० ब्रा० ३।२७)। नान्वाप्नोत् अनुगन्तुं नाशक्नोत्। तद्धीतरसं नान्वाप्नोत् पूर्वे सवने (=प्रातर्मध्यन्दिन) सवने। इति च तत्रैव।
इ
- {अन्वि}
- इ (इण् गतौ)।
- ‘गन्धर्वा एनं (ब्रह्मचारिणम्) अन्वायन्’ (अथर्व० ११।७।२)। अनुगच्छन्तीत्यर्थः।
- ‘विश्वे देवा अनु तत्ते यजुर्गुः’ (ऋ० १०।१२।३)। अनुययुः=अनुजग्मुः। अन्वेष्टुमनुसस्रुरित्यर्थः।
- ‘मा वालिपथमन्वगाः’ (रा० ४।३०।८१)। मान्वगाः=माऽनुगाः=मानुसार्षीः, मा तत्र पदं निधा इत्यर्थः।
- ‘देवा देवानामनु हि व्रताऽगुः’ (ऋ० ३।७।७)। अन्वगुः=अन्वकार्षुः।
- ‘मा मन्युवशमन्वगाः’ (भा० वन० १०।२८)। मान्वगाः=माऽनुगाः=मा गमः।
- ‘मैतं पन्थामनुगा भीम एषः’ (अथर्व० ८।१।१०)।
- ‘अस्तं वा अस्तं यन्तं सर्वे देवा अनुयन्ति’ (श० ब्रा० ११।६।२।४)। उक्तोऽर्थः।
- तं वजन्तं… अन्वीयुरनुसारिणः’ (रा० १।३३।१८)
- ‘मम देवासो अनुकेतमायन्’ (ऋ० ४।२५।२)। अन्वायन्=अन्वरुन्धन्।
- ‘यश्चित्तमन्वेति परस्य राजन्’ (भा० सभा० ६३।४)। उक्तोर्थः।
- ‘तन्मा पितुर्गोतमादन्वियाय’ (ऋ० ४।४।११) अनुक्रमेण प्राप। यद् दाय इत्यध्यगच्छम् इत्यर्थः।
- ‘धातुरादेशमन्वेति’ (महाभा०)। धातोरादेशेनान्वयः सम्बन्धो भवति।
- ‘त्वमेकाकिनी भीरु निरन्वयजने वने’ (भट्टि० ५।६६)। अन्वयः=अनुगाः।
- ‘कतरकुलान्वयो भवतालङ्क्रियते’ (अवि० ४)। अन्वयः=सम्बन्धः।
- ‘तपसाऽन्वितो वेषस्त्वं राममहिषी ध्रुवम्’ (रा० ५।३३।१३)। अन्वितः युक्तः। योग्यः, सदृशः।
- ‘त्वन्मार्गमन्विते तस्मिन्राघवे’ (रा० ३।४०।३१)। अन्विते=अनुगते।
- ‘तथापि तस्या लावण्यं रेखया किंचिदन्वितम्’ (शा० ६।१४)। किञ्चित्=मात्रया। अन्वितं संगतम्। रेखया=चित्रेण।
- ‘सम्पदिस्तु न गृह्यतेऽनन्वितार्थत्वात्’ (पा० ३।१।४० इत्यत्र वृत्तौ)। अनन्वितार्थत्वात्=असामर्थ्यात्।
- ‘अन्वित्या दिवा दिवं जिन्व’ (वा० सं० १५।६)। अन्वेति देहमनुगच्छतीत्यन्वितिरन्नम्।
- ‘पद्मं तावत्तवान्वेति मुखम्’ (काव्यादर्श २।२०)। अन्वेत्यनुकरोति।
इष्
- {अन्विष्}
- इष् (इष गतौ)।
- ‘अन्विष्यामि भर्तारमहं प्रेतवशं गतम्’ (भा० आदि० १२५।२४)। अनुगमिष्यामि। प्रमीतं पतिमनुप्रमेष्य इत्यर्थः।
- ‘भवन्तमहमन्विष्ये मातरौ च यतव्रतः’ (भा० आश्रम० ३६।२४)। अनुसरिष्यामीति प्रथमकल्पितोऽर्थः। सेविष्य इति तात्पर्यार्थः।
- ‘न रत्नमन्विष्यति मृग्यते हि तत्’ (कु० ५।४५)। अन्विष्यति=मार्गति, मार्गयति, विचिनोति, गवेषयति।
- ‘कालमन्वेषयन्तौ’ (पञ्चत०)। सदृशमवसरं प्रतीक्षमाणौ।
- ‘अन्विष्यन्तस्ततः सीतां सर्वे ते…’ (रा० ४।४७।१)। विचिन्वन्त इत्यर्थः।
- ‘याम् (वृत्तिम्) अन्वेषयतां नृणां यान्ति सर्वे समाप्तिं गुणाः’ (भर्तृ० ३।९८)। विचिन्वतामित्यर्थः।
- ‘न तु नीतिः सुनीतस्य शक्यतेऽन्वेषितुं परैः’ (भा० वि० २८।९)। विचित्योपलब्धुमित्यर्थः।
- ‘दुर्बलाश्चैव सततं नान्वेष्टव्या बलीयसा’ (भा० आश्रम० ६।१७)। नोच्छेत्तव्या इति नील०।
- ‘सारङ्गान्वेषणं वने’ (भा० शां० १७८।७)। अन्वेषणमनुगमनम्, तच्चरितानुकरणम्। सारङ्गो भ्रमरः।
- ‘संभूय च मदर्थोऽयमन्वेष्टव्यो नरेश्वराः’ (रा० ७।४४।२०)।
- ‘अन्वेष्टव्या हि वैदेह्या रक्षणार्थे सहायता’ (रा० २।४६।९)। अन्वेष्टव्या विचेया। सहायता सहायसमूहः।
इष्
- {अन्विष्}
- इष् (इष इच्छायाम्)।
- ‘यामन्वैच्छद् हविषा विश्वकर्मा’ (अथर्व० १२।१।६०)। अन्वैच्छत्=विचेतुमैच्छत्=व्यचिनोत्।
- ‘हन्त तमात्मानमन्विच्छामः’ (छां० उ० ८।७।२)। अन्विच्छामः=अनुसन्दध्मः।
- ‘आ मृत्योः श्रियमन्विच्छेन्नैनां मन्येत दुर्लभाम्’ (मनु० ४।१३७)। श्रियमन्विच्छेत्=श्रियः प्राप्तय उद्युञ्जीत।
- ‘तदेवासनमन्विच्छेद् यत्र नाभिपतेत् परः’ (भा० वि० ४।१३)। अन्विच्छेत्=इच्छेत्।
- ‘अन्वेष्टव्यो यदसि भुवने भूतनाथः शरण्यः’ (उत्तर० २।२३)। तदा प्रभृति वै भ्राता भ्रातुरन्वेषणं नृप।
- ‘प्रयातो नश्यति क्षिप्रं तन्न कार्यं विपश्चिता’ (हरि० १।३।२६)।
ई
- {अन्वी}
- ई (इङ् गतौ)।
- ‘…विद्याविद्भिश्च दारकैः। अन्वीतमेव ददृशुः’ (राज० ३।१११)। अन्वीतं परिवृतम्।
ईक्ष्
- {अन्वीक्ष्}
- ईक्ष् (ईक्ष दर्शने)।
- ‘अन्वैक्षन्त मनसा चक्षसा च’ (अथर्व० २।३४।३)। अन्वैक्षन्त=अवादधत। अवैक्षन्त।
- ‘अन्वीक्षमाणो रामस्तु विषण्णं भ्रान्तचेतसम्। राजानं मातरं चैव ददर्शानुगतौ पथि’ (रा० २।४०।३९)। अन्वीक्षमाणः पृष्ठतोऽवलोकयमानः।
- ‘श्रवणादनु पश्चाद् ईक्षाऽन्वीक्षा’ (न्याये)।
- ‘अन्वीक्षणमनु श्रेयो ह्यस्य विचिन्तयन्’ (रा० ७।३।४)। अन्वीक्षणम्=शुभाशुभवीक्षणम्।
ॠ
- {अन्वर्}
- ॠ (ॠ गतौ)।
- ‘अन्वारत् कुम्भकर्णं मरुत्सुतः’ (भट्टि० १५।५७)। अन्वारत्=अन्वगच्छत्।
एष्
- {अन्वेष्}
- एष् (एषृ गतौ)
- ‘व्यक्तमन्वेषते भूयो यद् वृत्तं तस्य धीमतः’ (रा० १।३।१)। अन्वेषते=अन्विच्छति। कतकधृतः पाठः।
- ‘धर्मेणान्वेषते गतिम्’ (रा० १।३।२)। काव्यस्यान्वेषत इति क्वाचित्कः पाठः।
कथ्
- {अनुकथ्}
- कथ् (कथ वाक्यप्रबन्धे)।
- ‘अन्वादिष्टोन्वाचितः कथितानुकथितो वा’ (पा० ६।२।१९० सूत्रवृत्तौ)। अनुकथितः=पश्चात्कथितः। यस्य प्रामुख्येन कथनं कीर्तनं न। आदेशः कथनमन्वादेशोऽनुकथनम्।
- ‘तद् द्वेष्यं विजानीयादिदमा कथितमिदमैव यदनुकथ्यते’ (पा० २।४।३२ सूत्रे भाष्ये)। अनुकथ्यते पश्चात् कथ्यते।
कम्
- {अनुकम्}
- कम् (कमु कान्तौ)।
- ‘स देवान्नान्वकामयतैतुम्’ (ऐ० ब्रा० २।७)। अन्वकामयत=अकामयत। नार्थोऽनुना।
कम्प्
- {अनुकम्प्}
- कम्प् (कपि चलने)।
- ‘सौहृदेन तथा प्रेम्णा सदा मय्यनुकम्पसे’ (भा० आश्व० २।१०)। मां दयस इत्यर्थः।
- ‘सोऽन्वकम्पत वै नित्यं प्रजाः पूत्रानिवौरसान्’ (भा० शां० २९।५१)। उक्तोऽर्थः। अनुकम्पेः प्रयोगे विभक्तिद्वयं दृश्यते द्वितीया च सप्तमी च।
- ‘कथं ब्राह्मणी मामनुकम्पते’ (मृच्छ० ३)।
- ‘किमुज्जिहानजीवितां वराकीं नानुकम्पसे’ (मालती १०)।
- ‘व्यसने नानुकम्पन्ते सर्वभूतानि भूमिपम्’ (रा० ३।३७।१५)।
- ‘शफरीं प्रथमा वृष्टिरिवान्वकम्पयत्’ (कु० ४।३९)। अन्वकम्पयत्=अन्वकम्पत। स्वार्थे णिच्।
- ‘सर्वभूतानुकम्पकः’ (हरि० १।२४।१३)। सर्वभूतेषु सानुक्रोश इत्याह।
- ‘वक्ता हितानामनुरक्त आर्यः शक्तिज्ञ आत्मेव हि सोऽनुकम्प्यः’ (भा० उ० ३७।२५)। अनुकम्प्यः=अनुग्राह्यः।
काङ्क्ष्
- {अनुकाङ्क्ष्}
- काङ्क्ष् (काक्षि काङ्क्षायाम्)।
- ‘अतः प्रियं चेदनुकाङ्क्षसे त्वं सर्वेषु कार्येषु हिताहितेषु’ (भा० सभा० ६४।१५)। अनुर्विशेषकृन्न।
काश्
- {अनुकाश्}
- काश् (काशृ दीप्तौ)।
- ‘प्रकाशेनान्तरमनुकाशेन बाह्यं (प्रीणामि)’ (मै० सं० ३।१५।२)।
- ‘अमुनैवानूकाशेन यदद इन्द्रः सारथिरिव भूत्वोदजयत्’ (ऐ० ब्रा० २।२४)। अनूकाशेन=दृष्टान्तेन।
- ‘इडा वै मानवी यज्ञानूकाशिन्यासीत्’ (तै० ब्रा० १।१।४।४)। यज्ञतत्त्वप्रकाशनसमर्था।
- ‘अनूकाशं प्रकाशेन’ (तै० सं० ५।७।१२।४४)। अनूकाशो द्यावापृथिव्योर्मध्यम्। अनुक्रमेण काशन्तेऽ भासन्तेऽ स्मिञ्ज्योतींषि। इकः काश इति दीर्घः।
कुष्
- {अनुकुष्}
- कुष् (कुष निष्कर्षे)।
- ‘तुलेनानुकुष्णाति अनुतूलयति।’ (पा० ३।१२५ वृत्तौ) अनुकुष्णाति=अनुकर्षति।
कूज्
- {अनुकूज्}
- कूज् (कूज अव्यक्ते शब्दे)।
- ‘पश्य लक्ष्मण संवादं मम मन्मथवर्धनम्। पुष्पिताग्रेषु वृक्षेषु द्विजानामनुकूजताम्’ (रा० ३।७९।२४)। अनुकूजताम्=परस्परं कूजताम्।
कृ
- {अनुकृ}
- कृ (डुकृञ् करणे)।
- ‘शैलाधिपस्यानुचकार लक्ष्मीम्’ (भट्टि० २।८)। अनुप्राप। अनुकृतवानित्यर्थः।
- ‘भीमस्यानुकरिष्यामि बाहुः शस्त्रं भविष्यति’ (मृच्छ० ६।१७)। भीमवद् वर्तिष्ये।
- ‘सर्वाभिरन्याभि: कलाभिरनुचकार तं वैशम्पायनः’ (का०)।
- ‘यां कृतां (सभां) नानुकुर्वन्ति मानवाः’ (भा० सभा० १।११)। नानुकुर्वन्ति तादृशीं निर्मातुं न पारयन्ति।
- ‘बन्धं ततोऽनुकुर्वीत’ (सुश्रुते)। बन्धमासजेत्।
- ‘तदनुकृतवती सा यत्र वाचो निवृत्ताः’ (अमरु० ५०)। अनुकृतवती=पश्चात् (कालान्तरे) कृतवती।
- ‘अनुकारिणि पूर्वेषां युक्तरूपमिदं तव’ (शा० २।१७)। अनुकारिणि तत्सदृशव्यवहारिणि।
- ‘प्रियायाः किञ्चिदनुकारिणीषु लतासु दृष्टिं विलोभयामि’ (शा० ६)। उक्तोऽर्थः।
- ‘सुलभानुकारः खलु जगति वेधसो निर्माणसंनिवेशः’ (मालती० ९)। अनुकारः सादृश्यम्।
- ‘ननु कलभेन यूथपतेरनुकृतम्’ (माल० ५)।
- ‘न वयं प्रभवामस्त्वामनुकर्तुं महेश्वरि।’ अनुकर्तुम्=निष्कर्तुम्, प्रत्युपकर्तुम्।
- ‘अघशंसदुःशंसाभ्यां करेणानुकरेण च’ (अथर्व० १२।२।२)। करः सहायः। अनुकरः सहायस्य सहायः।
कृत्
- {अनुकृत्}
- कृत् (कृती छेदने)।
- ‘क्षत्रियाश्च भृगून् सर्वान् वधिष्यन्ति नगधिप। आगर्भादनुकृन्तन्तो दैवदण्डनिपीडिताः’ (भा० अनु ५६।३)॥ अनुकृन्तन्तः=शकलानि कुर्वन्तः।
कृष्
- {अनुकृष्}
- कृष् (कृष विलेखने)।
- ‘तदास्य शबलां राजा विश्वामित्रोऽन्वकर्षत’ (रा० १।५४।१)। स्वस्य पश्चादकर्षत् इत्युक्तं भवति।
- ‘अन्यथा चकारेण तृतीयानुकृष्येत’ (पा० २।३।७२ सूत्रवृत्तौ) । तृतीयाऽग्रिमसूत्रे नीयेतेत्यर्थः।
- ‘गृहस्थधर्मान् प्रयुञ्जान इमानि व्रतान्यनुकर्षेत्’ (गौ० ध० १।९।१)। आत्मानमनुप्रापयेदित्यर्थः।
- ‘दन्तच्छदं प्रियतमेन निपीतसारं दन्ताग्रभिन्नमनुकृष्य निरीक्षते च’ (ऋतु० ४।१३)। अनुकृष्य=वितत्य। अपकृष्येति पाठान्तरम्। स एवार्थः।
- ‘नायमनुकर्षणार्थश्चकारः’ (२।२।४ सूत्रे भाष्यम्)। अनुकर्षणम्=अग्रे नयनम्।
- ‘अनुकर्षणम् मन्त्रैर्देवतानामावाहनमपि भवति। चक्र युगं च तूणीरं ह्यनुकर्षं च सायकैः’ (भा० द्रो० ३८।६)। अनुकृष्यते स्वसम्बद्धेन चक्रणेत्यनुकर्षो रथतलम्। युद्धविमर्दे यस्य कस्यचिद् रथावयवस्य नष्टस्य प्रतिसमाधानार्थं यद् रथस्याधो दारु बध्यते तत्।
- ‘अनुकर्षो रथाधःस्थदारुणीति मेदिनीति नील०’ (भा० उ० १५५।३)।
- ‘अनुकर्षं च निष्कर्षं व्याधिपावकमूर्छनम्’ (भा० सभा० १३।१३)। दारिद्र्याद्राजकीयद्रव्यस्यातीतवर्षस्य धारणमनुकर्ष इति नील०।
कॄ
- {अनुकॄ}
- कॄ (कॄ विक्षेपे)।
- ‘यास्ते धाना अनुकिरामि’ (अथर्व० १८।३।६९)। अनुक्रमेण किरामि विक्षिपामि।
- ‘वणिग्भिश्चान्वकीर्यन्त नगराणि’ (भा० आदि० १०९।४)। व्याप्तान्यभूवन्नित्यर्थः।
- ‘मुस्ताप्ररोहकवलावयवानुकीर्णं’ (मार्गम्) (रघु ९।५९)। अनुकीर्णम्=व्याप्तम्।
- ‘अनुकीर्णानि रक्षोभिः’ (भा० वन० ९३।१३)। व्याप्तानि।
- ‘अनुकीर्णं महारण्यं ब्राह्मणैः समपद्यत’ (भा० वन० २६।१)। उक्तोऽर्थः।
- ‘नानापुष्पफलैर्वृक्षैरनुकीर्णं सहस्रशः’ (रा० ३।३५।११)। पूर्वोक्त एवार्थः।
कॄत्
- {अनुकॄत्}
- कॄत् (कॄत संशब्दने)।
- ‘वाचापि पुरुषानन्यान्सुव्रता नान्वकीर्तयत्’ (भा० आदि० ११०।१९)। नान्वकीर्तयत्=नोदाहरत्। तेषां कथां नाकरोत्।
- ‘दिशामभिजयं ब्रह्मन् विस्तरेणानुकीर्तय’ (भा० सभा० २६।१)। अनुकीर्तय=उपवर्णय।
- ‘असदाचरिते मार्गे कथं स्यादनुकीर्तनम्’ (भा० वन० १३३।१०)। अनुकीर्तनम्=प्रख्यापनम्=घोषणम्।
- ‘जानन् द्विजोऽमुना दग्ध इति दोषानुकीर्तनात्’ (कथा० ४।१२१)। उक्तोऽर्थः।
- ‘अलोभाच्छिद्यते सद्यो वेपमानोऽनुकीर्त्यते’ (हरि० ३।१९।४८)। अनुकीर्त्यते=वाच्यो निन्द्यो भवति।
क्लृप्
- {अनुक्लृप्}
- क्लृप् (कृपू सामर्थ्य)।
- ‘आहुतीरेवास्य कल्पयति ता अस्य कल्पमाना राष्ट्रमनुकल्पते’ (तै० सं० ३।४।८।३)। अनुसरतीत्याह।
- ‘देवविशं खलु वै कल्पमानं मनुष्यविशमनुकल्पते’ (तै० सं० ६।१।५।३)।
- ‘तथा सतां शाट्यायनिनः षडहविभक्तीरनुकल्पयन्ति’ (लाट्या० श्रौ० ४।५)। कल्पयन्ति विदधतीत्यर्थः।
- ‘प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्तते’ (मनु ११।३०)। अनुकल्पेन प्रतिनिधिना।
- ‘अभावे हि श्रुतस्यानुकल्पः प्रतिनिधिः’ (मी० ६।३।३५ सूत्रे शाबर०)।
क्रन्द्
- {अनुक्रन्द्}
- क्रन्द् (क्रदि आह्वाने रोदने च)।
- ‘यं क्षोणीरनु चक्रदे’ (ऋ० ८।३।१०)। प्रतिशब्दमकरोत्।
- ‘वीरुन्नीडकपोतकूजितमनुक्रन्दन्त्यमी कुक्कुटाः’ (मालती० ९।७)। क्रन्दनस्य पश्चात्क्रन्दन्तीत्यर्थः
क्रम्
- {अनुक्रम्}
- क्रम् (क्रमु पादविक्षेपे)।
- ‘अनु प्रत्नास आयवः पदं नवीयो अक्रमुः’ (ऋ० २५।२५)। अन्वक्रमुः=अनुजग्मुः।
- ‘श्रद्धा रतिर्भक्तिरनुक्रमिष्यति’ (भा० पु० ३।२५।२५)। अनुक्रमिष्यति=अनुवर्तिष्यते।
- ‘यच्चानुक्रान्तं यच्चानुक्रंस्यते’ (पा० १।१।७२ सूत्रे भाष्यम्)। यद्गणपाठमनुसृत्य क्रमेण चिन्तितं यच्चैवं चिन्तयिष्यत इत्याह।
- ‘स संहितां भागवतीं कृत्वाऽनुक्रम्य च’ (भा० पु० १।७।८)। अनुक्रम्य=अनुक्रमण्या संयोज्य। अनुक्रम्य=पुनरावर्त्येति तु श्रीधरः।
- ‘तथा चानुक्रान्तम्’ (ऋ० १।१०५ इत्यत्र भाष्ये सायणः)। अनुक्रमण्यां पठितमित्याह।
- ‘नाराचाभिहतः शीघ्रमात्मत्राणपरो मृगः। गिरिपादपसंबाधां सोन्वक्रामद् महाटवीम्’ (मार्क० २१।७)। अन्वक्रामत्=प्रातिष्ठत।
- ‘अनक्रामन्तश्च विकारान् व्याख्यास्यामः’ (सुश्रुते)। येन क्रमेण विकारा उद्दिष्टास्तं क्रममनतिहायेत्यर्थः।
- ‘महर्षिभिरनुक्रान्तं धर्मपन्थानमास्थितः’ (रा० ५।४७।६)। अनुक्रान्तमनुसृतमिति तीर्थः।
- ‘तीर्थयात्रामनुक्रामन्’ (भा०)। क्रमेण तानि तानि तीर्थानि यान् इत्यर्थः।
- ‘व्यवसायमनुक्रान्ता कान्ते त्वमतिशोभनम्’ (रा०)। अनुक्रान्ता=प्राप्ता।
- ‘प्रचक्रमे वक्तुमनुक्रमज्ञा’ (रघु० ६।७०)। अनुक्रमज्ञा=वाक्यपौर्वापर्याभिज्ञा।
- ‘आश्रमानुक्रमः पूर्वैः स्मर्यते न व्यतिक्रमः’ (कि० ११।७६)। आश्रमाणां पौर्वापर्येणाश्रयणमनुक्रमः।
- ‘मानेन रक्ष्यते धान्यमश्वान्रक्षत्यनुक्रमः’ (भा० उ० ३४।४०)। अनुक्रमो व्यायामशिक्षादिः (नील०)।
- ‘न तर्हीदानीमवगल्भाद्यनुक्रमणं कर्तव्यम्’ (पा० ३।१।११ सू० भा०)। अनुक्रमणम्=क्रमिकः पाठसंनिवेशः। परिगणनमिति तात्पर्यार्थः। अनुक्रमणी ऋगादिप्रतिपाद्यसूची।
- ‘उभे सन्ध्ये जपन्किञ्चित् सद्यो मुच्येत किल्बिषात्। अनुक्रमण्या यावत्स्यादह्ना रात्र्या च सञ्चितम्’ (भा० आदि० १।१।२६३)॥
- ‘द्रव्यस्य त्यागो न जातेः, अमूर्त्तत्वात्, प्रतिक्रमानुक्रमानुपपत्तेश्च’ (न्याभा० २।२।६२)। त्यागो दानम्। अनुक्रमः संश्लेषः संयोगः। प्रतिक्रमो विश्लेषो वियोग।
क्रीड्
- {अनुक्रीड्}
- क्रीड् (क्रीडृ विहारे)।
- ‘अनुक्रीडन्ते कुमाराः सम्बाधेस्मिन्गृहाङ्गने।’ अनुक्रमेण क्रीडन्तीत्यर्थः।
- ‘साध्वनुक्रीडमानानि पश्य वृन्दानि पक्षिणाम्’ (भट्टि० ८।१०)। अनुक्रीडमानानि विहरन्ति।
क्रुश्
- {अनुक्रुश्}
- क्रुश् (क्रुश आह्वाने रोदने च)।
- ‘उत स्मैनं वस्त्रमथिं न तायुमनु क्रोशन्ति क्षितयो भरेषु’ (ऋ० ४।३८।५)। अनुक्रोशन्ति=आक्रन्दन्ति।
- ‘किमनुक्रोश्य वैफल्यमुत्पादयसि मेऽनघ’ (भा० आश्व० ५।२३)।
- ‘तावदिमान् बालवृक्षानुदकप्रदानेन अनुक्रोशयिष्यामि’ (प्रतिमा० ५)। दयिष्ये।
- ‘अयि निरनुक्रोशस्य पुत्रौ मा चापलम्’ (कुन्द०)। निरनुक्रोशो निर्दयः।
क्षर्
- {अनुक्षर्}
- क्षर् (क्षर सञ्चलने)।
- ‘(सिन्धवः) अनुक्षरन्ति काकुदम्’ (ऋ० ८।५८।१२)। स्यन्दन्ते इत्यर्थः।
- ‘मधोर्धारामनुक्षर’ (ऋ० ९।१७।८)। अनुक्षर=सततं स्रावयेत्यर्थः।
क्षि
- {अनुक्षि}
- क्षि (क्षि निवासगत्योः, क्षि क्षये)।
- ‘यत्ते अन्नं भुवस्पते आक्षियति पृथिवीमनु’ (अथर्व १०।५।४५)। विद्यत इत्यर्थः।
- ‘आपृच्छ्यं क्रतुमाक्षेति पुष्यति’ (ऋ० १।६४।१३)। आक्षेति आप्नोति।
- ‘अनुक्षीयमाणविज्ञान’ (भा० पु० ५।१४।२१)। शनैः शनैः क्षयं गच्छदित्यर्थः।
- ‘येषां च पुत्रेष्वनुक्षियत्सु यो निर्विकारः स पितृदायं लभेत’ (कौ० अ० ५।१।५५)। अनुक्षियत्सु अतिजीवत्सु।
- ‘अपकारसमर्थाननुक्षियतो वा भर्तृविनाशम्’ (कौ० अ० ३।५।१७)। अनुक्षियतोऽनुशोचतः।
ख्या
- {अनुख्या}
- ख्या (ख्या प्रकथने)।
- ‘अनु पूर्वाणि चख्यथुर्युगानि’ (ऋ० ७।७०।४)। दूराद् ददृशुरित्यर्थः।
- ‘अन्वग्निरुषसामग्रमख्यत्’ (वा० सं० ११।१७)।
- ‘यदुत्तमामदितिं यजति यज्ञस्य प्रज्ञात्यै स्वर्गस्य लोकस्यानुख्यात्यै’ (ऐ० ब्रा० १।८)। अनुख्यातिः=सम्यगुपलम्भः (षड्गुरु०)। अनुक्रमेण प्रकाशनम् (भट्ट०)।
- ‘अन्वग्निरुषसामग्रमख्यत्’ (अथर्व० ७।८२।४)। अन्वख्यत् अनु पश्चात् प्रकाशते।
गम्
- {अनुगम्}
- गम् (गम्लृ गतौ)।
- ‘अनु स्वधामृभवो जग्मुरेताम्’ (ऋ० ४।३३।६)। अनुजग्मुः=पश्चात् प्रापुरित्यर्थः।
- ‘परायतीं मातरमन्वचष्ट न नानुगान्यनु नू गमानि’ (ऋ० ४।१८।३)। अनुगमानि=अनुगच्छानि। माधुर्यद्रवशैत्यादिजलधर्मास्तरङ्गके। अनुगम्याथ तन्निष्ठे फेने ह्यनुगता यथा॥ साक्षिस्थाः सच्चिदानन्दाः सम्बद्धा व्यावहारिके। तद्द्वारेणानुगच्छन्ति तथैव प्रातिभासिके (बालबो०)॥ अनुगच्छन्ति=आविशन्ति।**
- ‘आस्फालितं यत्प्रमदाकराग्रैर्मृदङ्गधीरध्वनिमन्वगच्छत्’ (अम्भः) (रघु० १६।१३)। ध्वनिमन्वगच्छत्=ध्वनिना सदृशमभूत्।
- ‘पूर्वैरयमभिप्रेतो गतो मार्गोऽनुगम्यते’ (रा० ३।३१।३६)। अनुगम्यते=अनुस्रियते, अनुपद्यते।
- ‘काननं वापि शैलं वा यं रामोऽनुगमिष्यति’ (रा०)। अनुक्रमेण प्राप्स्यति।
- ‘कृत्स्नां पृथिवीमनुगच्छत’ (रा०)। सीतान्वेषणार्थाय कृत्स्नां भुवं पर्यटत।
- ‘पशुं न नष्टं पदैरनुग्मन्’ (ऋ० १०।४६।२)। अन्वविन्दन्, पदैश्चिह्नैर्मार्गित्वाऽऽसादयन्नित्यर्थः।
- ‘(पथिभिः) एतैरनुगच्छेम यज्ञम्’ (अथर्व० ११।१।३६)। उक्तोऽर्थः।
- ‘भद्रासनं ततश्चित्रमृषिरन्वगमन्नवम्’ (भा० अनु० १०।३) भद्रासनं प्रति प्रासरद् इत्यर्थः।
- ‘अनभिज्ञो गुणानां यो न भृत्यैरनुगम्यते’ (पञ्चत० १।७३)। यद्वशंवदा भृत्या न भवन्तीत्यर्थः।
- ‘यदा वा अग्निरनुगच्छति वायुं तर्ह्यनूद्वाति’ (श० ब्रा० १०।३।३।८)।
- ‘अथात आहवनीयोऽनुगच्छेत्’ (श० ब्रा० ११।५।३।८)। उक्तोऽर्थः।
- ‘दुःखान्यसहती देवी मामेवानुगमिष्यति’ (रा० २।१२।८९)। अनुमरिष्यतीत्यर्थः। लक्ष्ये लक्षणमनुगमयति। व्याप्तिं दर्शयतीत्यर्थः।
- ‘शिवमिवानुगतं गजचर्मणा’ (कि ० ५।४)। अनुगतं पश्चाल्लम्बिना परिधानेनाच्छादितम्।
- ‘दिग्विजयप्रसङ्गेनानुगतो भूमिमिमाम्’ (का०)। अनुगतः क्रमेणागतः।
- ‘परितुष्टोऽस्मि यत्पितरमनुगतो वत्सः’ (माल० ५)। पितरमनुहरतीत्यर्थः।
- ‘सूत्रेणानुगतं भवति’ (वे० सू० शां० भा०)। सूत्रानुकूलं भवतीत्यर्थः।
- ‘प्रस्तावानुगतं पृष्टः’ (पञ्चत० ५)। प्रस्तावसदृशम् इत्यर्थः।
- ‘कालेनानुगतो ह्यसि’ (रा० ७।६८।६)। अनुगतः=आसादितः।
- ‘वर्षवरकलमूकानुगतेन परिजनेन’ (का०)। अनुगतेन=व्याप्तेन।
- ‘मद्यानुगतभोजनम्।’ (मनु० ११।७०)। अनुगतं मिश्रितं सहानीतमिति वा।
- ‘तैलंक्षीरानुगतम्’ (सुश्रुत० २।४३।११)। क्षीरेण सहितमित्यर्थः।
- ‘अनेकरोगानुगतो बहुरोगपुरोगमः’ (सुश्रुत० २।४४५।३)। अनेकरोगसम्बद्धः।
- ‘अनुगतमलिवृन्दैर्गण्डभित्तीर्विहाय’ (रघु० १२।१०२)। अनुगतम्=अनुद्रुतम्।
- ‘दारिद्र्येणाभिभूतेन त्वत्स्नेहानुगतेन च’ (मृच्छ० ४।५)। अनुगतेन=व्याप्तेन।
- ‘अग्नावनुगते’ (कौ० सू० ७२)। शान्त इत्यर्थः।
- ‘गार्हपत्येऽनुगते’ (का० श्रौ० १६।१७।३)। उक्तोऽर्थः।
- ‘तत्कार्यमनुगम्यान्तर्यथावदुपलभ्य च’ (रा० ३।३५।२)। अनुगम्य=उद्दिश्य।
- ‘अथैकेऽनुगमथ्यान्यं मन्थन्ति’ (श० ब्रा० १२।४।३।९)।
- ‘न चापि कादम्बरीं लक्ष्मीरनुगन्तुमलम्’ (का०)। सादृश्यमुपैतुं क्षमेत्याह।
- ‘रूढिरेषा यथाकथंचिदनुगन्तव्या’ (पा० ३।२।५९ सूत्रवृ०)। अनुगन्तव्या=बोद्धव्या।
- ‘तद्युवाभ्यां क्षत्रधर्मोऽनुगन्तव्यः’ (हितोप०)। अनुसर्तव्यः। आचरितव्यः।
- ‘तुजादिरपि स्वरूपतोऽनुगन्तव्यो न तु क्व चित्पठ्यते’ (पा० ६।१।७ सूत्रे क्वचिद् वृत्तौ पाठः)। अनुगन्तव्यो ज्ञेयः।
- ‘श्रुत्यनुगमाच्च’ (शा० भा०)। अनुगमात्=आनुकूल्यात्, संवादात्।
- ‘रसाद्यनुगमः’ (सा० द०)। रसाद्यनुभवः।
- ‘आगमानुगमं कृत्वा’ (भा० शां० ८५।२५)। बध्नीयान्मोक्षयीत वेति पाठ्यम्। आगमः प्राप्तिरधिगमः (लोप्त्रमिति शङ्कितस्य द्रव्यस्य)। तस्यानुगमः सद्धेतुकः सम्बन्धः, निश्चयः सन्देहान्तगमनम् इति तु वयम्। नीलकण्ठस्तु दूराधिरूढं कल्पयति। पित्रागमनस्य पर्यनुयोगं कृत्वा यावन्तं कालं पिता नायाति तावन्तं पुत्रं बध्नीयाद् इति नील०)। अनुगमनं मरणेन मृतस्यानुगमनम्। अत्रार्थे स्मृतिषु बहुलः प्रयोगः।
- ‘यदा वा अग्निरनुगच्छति’ (श० ब्रा० १०।३।३।८)। इदं धृतपूर्वं पुस्तके। अर्थस्तु न निरदेशि, स निर्दिश्यते। अनुगच्छति शाम्यति।
- ‘त्रींश्चानुगच्छति रसो लवणः कटुको द्वयम्’ (सुश्रुत० उत्तर० ६३।४)। अनुगच्छति अनुगतो भवति, सम्बद्धो भवतीत्यर्थः।
गर्ज्
- {अनुगर्ज्}
- गर्ज् (गर्ज शब्दे)।
- ‘सोऽनुगर्जन् धनुष्पाणिः’ (भा० ७।१७१४)। अनुगर्जन्=आक्रोशन्।
- ‘अनुगर्जितसन्दिग्धाः …मुरजस्वनाः’ (कु० ६।४०)। अनुगर्जितम्=प्रतिशब्दः।
गुप्
- {अनुगुप्}
- गुप् (गुपू रक्षणे)।
- ‘अवोचन्मां धृतराष्ट्रोऽनुगुप्तम्’ (भा० वन० ५।१२)। अनुगुप्तं रहः, निःशलाकम्।
- ‘भवता चानुगुप्तोऽसौ चरेत्तीर्थानि सर्वशः’ (भा० वन० ९२।५)। अनुः सर्वतो भावे। अनुगुप्तः=परिरक्षितः।
गॄ
- {अनुगॄ}
- गॄ (गॄ शब्दे)। ‘पीयति त्वो अनु त्वो गृणाति’ (ऋ० १।१४७।२, वा० सं० १२।४२)। अनुगृणाति=स्तौति। स्तुतिपूर्वमनुमन्यत इति वा।
- ‘प्रोत्साहनेर्थे होत्रेऽनुगृणातीति’ (पा० १।४।४१ सूत्रे वृत्तावुदाहरणम्)। शंसितुः प्रोत्साहनमनुगरः प्रतिगरश्चोच्यत इति भट्टि० ८।७७ इत्यत्र मल्लिः। इत्थमेव काशिका।
- ‘अनुगरः प्रतिगर इति हि शंसितुः (होतुः) प्रोत्साहने वर्तत इति’ (पा० १।४।४१ सूत्रे काशिका)। निगदव्याख्यातम्।
गै
- {अनुगै}
- गै (गै शब्दे)। ‘क्रीडन्तमनुगायन्तम्’ (भा० पु० ६।१।६०)। अनुगायन्तम्=गायन्तम्।
- ‘अनुगायति काचिदुदञ्चितपञ्चमरागम्’ (गीत० १।३९)। अनुगायति=पश्चाद् गायति।
- (उग्रसेनः) ‘अनुगीयमानो गन्धर्वैः’ (भा० आदि० २११।८)। अनुशब्दः सामीप्ये वर्तते। उपगीयमान इति पाठान्तरम्। गन्धर्वैः साक्षादुपगीयमान इत्यर्थः।
- ‘श्रूयतां पृथिवीपाल यथैषोर्थोऽनुगीयते’ (भा० शां० ११४।२)। अनुगीयते प्रकीर्त्यते।
- ‘अनुजगुरथ दिव्यं दुन्दुभिध्वानमाशाः’ (कि० ३।६०)। अनुजगुः=अनुरसितं चक्रुः।
- ‘अत्रायं क्षेमदर्शीय इतिहासोऽनुगीयते’ (भा० शां० १०४।२)। अनुगीयते=वर्ण्यते=वर्त्यते।
ग्रह्
- {अनुग्रह्}
- ग्रह् (ग्रह उपादाने)।
- ‘इयं वै प्रजा पराभवन्तीरनुगृह्णाति’ (तै० सं० १।७।२।३)। अनुगृह्णाति=रक्षति। तत्र शरण्या भवति।
- ‘सम्राडृतावोऽनु मा गृभाय’ (ऋ० २।२८।६)। अनुगृभाय=अनुगृहाण। सुकृतिनं भाग्यवन्तं मां कुर्वित्याह।
- ‘अन्यो अन्यमनु गृभ्णात्येनोः’ (ऋ० ७।१०।३।४)। एकोऽन्यस्यानुकूलं वदतीत्यर्थः।
- ‘दण्डेनोपनतं शत्रुमनुगृह्णाति यो नरः। स मृत्युमुपगृह्णीयात्’ (भा० आदि० १४०।८३)। अनुगृह्णाति शत्रुम्=शत्रुपक्षपाती भवति, शत्रुं परिपाति।
- ‘अभीक्ष्णमनुगृह्णासि धनधान्येन दुर्गतान्’ (भा० सभा० ५।७१)। अनुगृह्णासि=उपकरोषि, साह्यमाचरसि, सहायो भवसि।
- ‘आसनम् अनुगृह्णातु भवती’ (शा० ३)। अध्यासनेनासनमनुगृह्यताम्, परम्परयाऽहमेवानुग्राह्य इत्युक्तं भवति।
- ‘शिलातलैकदेशमनुगह्णातु वयस्यः’ (शा० ३)।
- ‘अयं विष्टरोऽनुगृह्यताम्’ (वि० ५)। उक्तोऽर्थः।
- ‘त्रिभिस्तीक्ष्णैर्महावेगैरन्वगृह्णाच्छिरः शरैः’ (भा० भीष्म० १२०।४५)। अवालम्बत, अवास्तभ्नात्, उपास्तभ्नात्।
- ‘क्षिप्रं गोपान् समासाद्य गृह्णन्तु विपुलं धनम्। वयमप्यनुगृह्णीमो द्विधा कृत्वा वरूथिनीम्’ (भा० वि० ३०।२३-२४)।
- ‘गोपान् गोग्रहीतॄननुसृत्य गृह्णीमः। आकृतिमनुगृह्णन्ति गुणाः’ (विद्ध० २)। आकृत्यनुरूपा भवन्तीत्याह।
- ‘अनुगृहीतोहमनया मघवतः संभावनया’ (शा० ७)। उपकृतोस्मीत्याह।
- ‘अग्निर्नित्यानुगृहीतः स्यात्’ (आश्व० गृ० १।९)। अनुगृहीतः=परिरक्षितः=समित्समिद्धः।
- ‘क्षात्रधर्मश्चानुगृहीतो भवति’ (उत्तर० ५)। अनुगृहीतोऽनुसृतः। आचरितः।
- ‘ज्योतिर्गणाः प्रकृतिपुरुषसंयोगानुगृहीताः’ (भा० पु० ५।२३।३)। अनुगृहीताः समर्थिताः।
- ‘यदद्राक्षं तदेवाहं स्पृशामीत्यादि प्रत्यभिज्ञानुगृहीतेन… प्रत्यनुमानेन’ (का० प्र० १।३५ इत्यत्र टीकाकृद्वचनम्)। उक्तोऽर्थः।
- ‘न वयमनुग्राह्याः प्रायो देवतानाम्’ (का० )। अनुग्रहभाजनं नेत्याह।
- ‘ये मानं मेऽनुगृह्णन्तो वीरवन्तमकर्त मा’ (शाङ्० श्रौ० १५।२७)। अनुगृह्णन्तः=रक्षन्तः।
- ‘आदित्यो ह वै बाह्यः प्राण उदयत्येष ह्येव चाक्षुषं प्राणमनुगृह्णानः’ (प्रश्नोप० ३।८)। अनुगृह्णानः=उपकुर्वाणः।
- ‘तिष्ठन् सव्येन पाणिनाऽनुगृह्याचार्य्यमाचामयेत्’ (आप० ध० ३।५।६)। अनुगृह्य (करकादि) अधस्ताद् गृहीत्वा, बुध्ने समादायेत्यर्थः।
- ‘भुक्त एव तु कौन्तेयो नास्यादन्यत्र वर्तते। हस्तस्तेजस्विनस्तस्य अनुग्रहणकारणात्’ (भा० आदि० १३२।२४) अनुग्रहणमभ्यासः।
- ‘ये मानं मे ऽनुगृह्णन्तो वीरवन्तमकर्त मा’ (ऐ० ब्रा० ७।१८)। अनुगृह्णन्त आनुकूल्येन गृह्णन्तः स्वीकुर्वन्तः। मानं मतमिति सायणीयं भाष्यम्।
घट्ट्
- {अनुघट्ट्}
- घट्ट् (घट्ट चलने)।
- ‘तृणाग्रं तुलेनानुघट्टयति’ (सि० कौ० ३।१।२५)।
घुष्
- {अनुघुष्}
- घुष् (घुषिर् अविशब्दने, घुषिर् शब्दे)।
- ‘परुष्परुरनुघुष्या वि शस्त’ (ऋ० १।१६२।१८)। उच्चैः शब्दं कृत्वेत्यर्थः।
चक्ष्
- {अनुचक्ष्}
- चक्ष् (चक्षिङ् व्यक्तायां वाचि)।
- ‘परायतीं मातरमन्वचष्ट’ (ऋ० ४।१८।३)। अन्वचष्ट=अदर्शत्। म्रियमाणां मातरं प्रति दृशं प्रैरयदित्यर्थः।
- ‘आदित्यो वा अनुख्याता’ (गो० ब्रा० उ० ४।९)। अनुख्याता=अनुद्रष्टा।
चर्
- {अनुचर्}
- चर् (चर गतिभक्षणयोः)।
- ‘इदमुभयतः परिच्छिन्नं रक्षोऽन्तरिक्षमनुचरति’ (श० ब्रा० ३।८।२।१५)। अनुचरति=संचरति।
- ‘यां मायाभिरन्वचरन्मनीषिणः’ (अथर्व० १२।१।८)। अन्वैच्छन्नित्यर्थः।
- ‘अनुचरति शशाङ्कं राहुदोषेपि तारा’ (प्रतिमा० १।२५)। अनुचरति=अनुगच्छति। तमनुव्रता भवतीति तात्पर्यार्थः।
- ‘तावत्तवाक्षया कीर्तिर्लोकाननचरिष्यति’ (भा० शां० ५४।२८)। अनुचरिष्यति=व्याप्स्यति।
- ‘शाश्वती खलु ते कीर्तिर्लोकाननुचरिष्यति’ (रा० २।८५।१३)। उक्तोऽर्थः।
- ‘ततः सर्वांस्तदा लोकान्ब्राह्मणोऽनुचचार ह’ (भा० शां० २७१।५३)। अनुचचार=विचचार=बभ्राम=पर्याट।
- ‘तमाश्रमं सोऽनुचचार धीरः’ (बुद्ध० ७।१०)। अनुचचार=अनुक्रमेण प्राप।
- ‘स्वस्ति पन्थामनुचरेम’ (ऋ० ५।५१।१५)। अनुचरेम=सततं गच्छेम। अनुः सातत्ये।
- ‘आपो अद्यान्वचारिषम्’ (ऋ० १०।९।९)।
- ‘अपोऽन्वचारिषम्’ (आप० श्रौ० ८।२।८।१८)।
- ‘सावित्र्यनुचचारैका यमलोकं तपस्विनी’ (भा० वि० २१।१५)। यमलोकमुद्दिश्य प्रतस्थे एकाकिनीत्याह।
- ‘पतिमन्वचरत्सीता महारण्यनिवासिनम्’ (भा० वि० २१।१२)।
- ‘अत्यर्थं वैद्यवेशेन श्लाघमाना विशिखान्तरमनुचरन्ति’ (चरक० सूत्र० २९।९)।
- ‘विकृताश्च विरूपाश्च लोकाननुचरन्त्विमान्’ (रा० १।५९।१९)। अनुचरन्तु=परिक्रामन्तु=परिभ्रमन्तु (कतकः)।
- ‘दिशः सर्वास्त्वनुचरन्स यथा पापकर्मकृत्’ (रा० २।३६।२५)। अनुचरन्=विचरन्।
- ‘पित्रोः पादाननुचरन्’ (का०)। अनुचरन्=सेवमानः।
- ‘अस्मिन्व्यालानुचरिते वने वसति दुर्मतिः’ (रा० ३।४९।१६)। व्यालाः सरीसृपाः, तैरनुचरिते आक्रान्ते व्याप्ते।
- ‘अयमेवाश्रमो राम…ऋषिसङ्घानुचरितः’ (रा० ३।७।१७)। अनुचरितः=व्याप्तः=आकीर्णः।
- ‘स प्रोक्षणीभ्यां काम्पीलशाखया निवेशनमनुचर्य’ (कौ० सू० ८३।१७)।
- ‘विद्याधरानुचरितं किन्नरीभिस्तथैव च’ (भा० वन० १५८।३९)। उक्तोऽर्थः।
- ‘यस्यैकापि गृहे नास्ति धेनुर्वत्सानुचारिणी’ (अत्रि० श्लो० २२०)।
- ‘तेनानुचरेण धेनोः’ (रघु० २।४)। अनुचरेण=अनुगेन।
- ‘तस्य व्रतान्यनु वश्चरामसि’ (ऋ० ८।२५।१६)। अनुचरामः कुर्मः।
- ‘गोदावरीमनुचरन् वनोद्देशांश्च पुष्पितान्’ (रा० १२६।३४)। अनुचरन् विचरन्, पर्यटन्, अटाट्यमानः।
- ‘सर्पव्यालानुचरिता मृगद्विजसमाकुला’ (पम्पा) (रा० ४।१।७)। अनुचरिता व्याप्ता।
चि
- {अनुचि}
- चि (चिञ् चयने)।
- ‘आ मूलाच्छाखाभिरनुचितः’ (ऐ० ब्रा० २।१)। अनुचितः=आचितः प्रचितः।
चिन्त्
- {अनुचिन्त्}
- चिन्त् (चिति स्मृत्याम्)।
- ‘धातुर्विभुत्वमनुचिन्त्य वपुश्च तस्याः’ (शा० २।१०)। अनुचिन्त्य=मनसि कृत्वा।
- ‘परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन्’ (गीता०)। उक्तोऽर्थः।
- ‘आसीनश्च शयानश्च गच्छंस्तिष्ठन्ननुव्रजन्। भुञ्जानोऽथ पिबन्वापि रुद्रमेवान्वचिन्तयत्’ (मात्स्य पु० १८०।७)। अन्वचिन्तयत् अनुक्रमेण सततमचिन्तयत्।
छद्
- {अनुच्छद्}
- छद् (छद अपवारणे)।
- तस्य वा एतस्य वाससः। अग्नेः पर्यासो भवति वायोरनुछादः’ (श० ब्रा० ३।१।२।१८)। अनुछादः=वानम्। परिधानस्य शाटकादेरेकदेशो यः कटिमारभ्यापादमवस्रस्यते पुरस्तात्सोऽनुच्छाद इत्याभिधानिकाः।
जन्
- {अनुजन्}
- जन् (जनी प्रादुर्भावे)।
- ‘पुत्रिकायां कृतायां तु यदि पुत्रोऽनुजायते’ (मनु० ९।१३४)। अनुजायते=पश्चाज्जायते।
- ‘अनुजातो हि मां सर्वैर्गुणः श्रेष्ठो ममात्मजः’ (रा० २।२।११)।
- ‘एकस्त्वमनुजातोसि पितरं बलवत्तरम्’ (रा० ६।७६।७२)। पितरमनुजातः=पितृसदृशो जातोसीत्याह। अनुरुपसर्गः, न कर्मप्रवचनीय इति व्याकरणचन्द्रोदये प्रथमे खण्डे साधितम्।
- ‘असौ कुमारस्तमजोऽनुजात’ (रघु० ६।७८)। तमनुजातः=तस्माज्जातः। तज्जातोपि तदनुजातः, जन्यजनकयोरानन्तर्यात्। पुमांसमनुरुध्य जाता पुमनुजा। अनोः कर्मणि (पा० ३।२।१००) इत्यत्र वृत्तिः।
- ‘दन्तजातेऽनुजाते च कृतचूडे च संस्थिते। अशुद्धा बान्धवाः सर्वे सूतके च तथोच्यते’ (मनु० ५।५८)॥ अनुजाते=जातदन्तानन्तरे। अजातदन्तोऽनुजातो भवतीति केचित्।
- ‘एकाधिकं हरेज्ज्येष्ठः पुत्रोऽध्यर्धं ततोऽनुजः’ (मनु० ९।११७)।
जागृ
- {अनुजागृ}
- जागृ (जागृ निद्राक्षये)।
- ‘अन्वजागस्ततो रामम्’ (रा० २।५०।३६)। रामसमीपेऽजाग इत्यर्थः।
जीव्
- {अनुजीव्}
- जीव् (जीव प्राणधारणे)।
- ‘ये च त्वामनुजीवन्ति नाहं तेषां न ते मम’ (रा० २। )। **त्वामनुजीवन्ति त्वामाश्रित्य जीवन्ति।
- ‘स तु तस्याः पाणिग्राहकमनुजीविष्यति’ (दशकु०)। तदायत्तवृत्तिर्भविष्यतीत्याह।
- ‘यां तां श्रियमसूयामः पुरा दृष्ट्वा युधिष्ठिरे। अद्य तामनुजीवामो भीष्मद्रोणवधेन ह’ (भा० द्रोण ० ११।४७)॥ **असूयाराहित्येन पश्याम इत्यापटेः कोषकारः। दद्मः इति तु नील०।
- ‘इति व्यवस्था भूतानां पुरस्तान्मनुना कृता। सर्वे तथाऽनुजीवेयुः …’ (भा० शां० ८८।१६-१७)। अनुजीवेयुः=जीवेयुः। व्यवस्थाया आनुकूल्येन जीवेयुरित्यर्थो न, तदर्थस्य तथाशब्देनोक्तत्वात्।
- ‘आचार्यो गुरवो वृद्धा वृथा वां पर्युपासिताः। सारं यद्राजशास्त्राणामनुजीव्यं न गृह्यते’ (रा० ६।२९।९)॥ अनुजीव्यम्=यदनुवृत्त्य जीवनीयम्।
- ‘प्रेमदत्तवदनानिलः पिबन्नन्वजीवदमरालकेश्वरौ’ (रघु० १९।१५)। अन्वजीवत्=अनुकृत्याजीवत्। अत्यजीवदिति पाठान्तरम्।
- ‘तस्मात्समानोदर्या स्वसाऽन्योदर्यायै जायाया अनुजीविनी जीवति’ (ऐ० ब्रा० ३।३७)। अनुजीविनी=अनुसृत्य भुञ्जाना।
ज्ञा
- {अनुज्ञा}
- ज्ञा (ज्ञा अवबोधने)।
- ‘अनुजानीहि मां गमनाय। गम्यतां पुनर्दर्शनाय।’ मम गमनमनुमन्यस्वेस्यर्थः।
- ‘यत्किञ्चानुजानात्योमित्येवाह’ (छां० उ० १।१।८)।
- ‘यदि मां नानुजानासि’ (रा० २।)।
- ‘विश्वेदेवा अनु तद् वामजानन्’ (अथर्व० १४।१।१५)।
- ‘मन्त्रिणो वसिष्ठवाक्यमनुजानन्ति’ (रा० २।६८।८) इत्यत्र तिलकः। अनुजानन्ति=अनुमन्यन्ते=अनुमोदन्ते। उक्तोऽर्थः।
- ‘विभीषणं च पौलस्त्यमन्वजानाद् गृहान् प्रति’ (भा० वन० २९१।६७)। गमनायानुज्ञामकरोदित्यर्थः।
- ‘तुभ्यं देवा अनुजानन्तु विश्वे’ (अथर्व० ६।११२।१)।
- ‘तं नो देवासोऽनुजानन्तु कामम्’ (तै० ब्रा० ३।१।१।१३)। **वितरन्तु, प्रदिशन्त्वित्यर्थः। यत्त्विदं भवता किंचित् प्रीत्या समुपकल्पितम्।
- ‘सर्वं तदनुजानामि नहि वर्ते प्रतिग्रहे’ (रा० २।५०।४३)॥ अनुजानामि=अङ्गीकृत्य ददामि।
- ‘अगृह्णां यच्च ते पाणिमग्निं पर्यणयं च यत्। अनुजानामि तत् सर्वमस्मिँल्लोके परत्र च’ (रा० २।४२।८)॥ अनुजानामि=त्यजामि।
- ‘त्वां साहमनुजानामि न गन्तव्यमितो वनम्’ (रा० २।२१।२५)। अनुजानामि=प्रार्थये।
- ‘मां जातमात्रामत्रत्यायैव कस्मै चिदिभ्यकुमारायान्वजानाद् भार्यां मे पिता’ (दशकु०)। अन्वजानात्=दातुमन्वमन्यत प्रत्यशृणोदित्यर्थः।
- ‘अनुप्रवेशे यद्वीर कृतवांस्त्वं ममाप्रियम्। सर्वं तदनुजानामि’ (भा०)। अनुजानामि=क्षमे।
- ‘कश्मलं प्राविशन्घोरं नान्वजानन् परस्परम्’ (भा० द्रोण० १४६।८५)। अन्वजानन्=प्राजानन्।
- ‘सर्वाण्येवानुजानामि चीराण्येवानयन्तु मे’ (रा० २।३७।४)। अनुजानामि=ददामि।
- ‘धर्मराजश्च पुत्रस्ते राज्यं प्राणान् धनानि च। अनुजानाति राजर्षे’ (भा० आश्रम० १३।४)। ददातीत्याह।
- ‘नवे सस्ये प्राप्ते पुराणमनुजानीयात्’ (आप० ध० २।९।२२।२४)। अनुजानीयात्=त्यजेत्।
- ‘न चानुजानाति भृशं च तप्यते’ (भा० उ० २४।४)। सन्धिं नानुमोदत इत्यर्थः।
- ‘इति पश्चान्मया ज्ञातं योगान्नास्ति परं सुखम्। इति त्वमनुजानीहि राम मा क्षत्रियाञ्जहि’ (भा० आश्व० ३०।३१-३२)। अस्मदुपदेशं साक्षात्कुरु योगबलेनेत्याह।
- ‘ते मां वीर्येण यशसा तेजसा च बलेन च। अस्त्रैश्चाप्यन्वजानन्त सङ्ग्रामे विजयेन च’ (भा० वन० १६८।५४)॥ वीर्यादिमान् भवेत्याद्याशीर्वादान्ददुरित्यर्थः।
- ‘एते वा मामहं वैनाननुजानीहि पार्थिव’ (भा० उ० १३०।२५)। अनुजानीहि=जानीहि। नार्थोऽनुना।
- ‘अन्वजानात् स धर्मज्ञो मुनिर्दिव्येन चक्षुषा। आस्यतामिति चाब्रवीत्’ (भा० ३।११६३१)। इहाप्यनु र्विशेषकृन्न। अजानादित्येवार्थः।
- ‘येनार्थिनो हि मे यूयं तन्माऽनुज्ञातुमर्हथ’ (वामन पु० ५२।२९)। अनुज्ञातुम्=ज्ञापयितुम्। जानातिरिहान्तर्भूतण्यर्थकः। अनुश्चानर्थकः।
- ‘व्यलीकं वः सुतैर्मम। यदन्येन मदीयेन तदनुज्ञातुमर्हथ’ (भा० आश्रम० ९।१६)। अनुज्ञातुम्=क्षन्तुम्।**
- ‘अभिप्रेतांस्तु मे कामांस्त्वमनुज्ञातुमर्हसि’ (भा० वन० ११०।५६)। कामितार्थवितरणमनुमन्तुमर्हसीत्याह।
- ‘स माधवमनुज्ञाय कुरुष्वेति धनञ्जयः’ (भा० द्रोण० १८६।७)। कुरुष्वेत्याज्ञां लब्ध्वा।
- ‘तन्मया प्रीतिमता युवयोरनुज्ञातम्’ (शा० ५)। अनुज्ञातम्=अनुमोदितम्, अनुमतम्।
- ‘अनुज्ञातश्च रामेण मत्समोसीति भारत’ (भा० उ० ५५।५४)। अनुज्ञातः=अभ्युपेतः।
- ‘योऽन्वेव ज्ञातस्तस्मै ब्रूयादथ योऽनूचानः…’ (शा० ब्रा०)। अनुज्ञातः=परिचितः।
- ‘शिष्याणामखिलं कृत्स्नमनुज्ञातं ससङ्ग्रहम्’ (भा० शां० ३१८।२४)। अनुज्ञातम्=शिक्षितम्।
- ‘स मातरमनुज्ञाप्य तपस्येव मनोदधे’ (भा०)। अनुज्ञाप्य=अनुमान्य, तदनुमतिं लब्ध्वा।
- ‘तं चक्रधरमनुज्ञाप्य स्वगृहं गतः’ (पञ्चम० ४)। अनुजिज्ञासतेवाथ लङ्कादर्शनमिन्दुना।
- ‘…पूर्वस्यां दिश्युदैयत’ (भट्टि० ८।३५)॥ अनुज्ञातुमिच्छतेत्याह।
- ‘न चायं विद्यमानं सत् किंचिदनुजानाति’ (न्याभा० २।१।४३)। अनुजानाति अभ्युपैति।
- ‘कृतकार्यो गास्तास्तु नानुजानाति मे गुरुः’ (हरि० १।५५।२४)। नानुजानाति न प्रत्यर्पयति।
- ‘प्रसिद्धे प्रयोगे वक्तुर्यथाभिप्रायं शब्दार्थयोरनुज्ञा प्रतिषेधो वा न च्छन्दतः’ (न्याभा० १।२।२४)। अनुज्ञा स्वीकारः।
तन्
- {अनुतन्}
- तन् (तनु विस्तारे)।
- ‘या हृदयमुपर्षन्त्यनुतन्वन्ति कीकसाः’ (अथर्व० ९।८।१४)। अनुतन्वन्ति=सन्तायन्ते।
- ‘केनापो अन्वतनुत’ (अथर्व० १०।२।१६)। अन्वतनुत अनुतताः सन्तता व्याप्ता अकुरुतेत्याह।
- ‘ततोऽसि तन्तुरस्य नु मा तनुहि’ (का० श्रौ० ३।८।२५)। माऽनुतनुहि=मा सन्तन्वित्याह।
- ‘धर्ममेवानुतन्वती’ (भा० ३।१२६८१)। अनन्तरायं धर्ममनुतिष्ठन्तीत्यर्थः।
तप्
- {अनुतप्}
- तप् (तप सन्तापे)।
- ‘कुम्भीमनुतप्ताम्’ (सुश्रुत० २।१८१।१४)। अनुतप्ताम्=सन्तप्ताम्।
- ‘अनुतप्ये भृशं तात तव घोरेण कर्मणा’ (भा० वन० १३७२०)। अनुतप्ये=शोचामि, दुःख्यामि, दूये।
- ‘यस्त्वां…वनं प्रस्थाप्य दुष्टात्मा नान्वतप्यत दुर्मतिः’ (भा० ३।९९२)। नान्वतप्यत=अनुतापं पश्चात्तापं नान्वभूत्, नान्वशेत।
- ‘तेनानिमित्तेन तथा न पार्थस्तयोर्यथा रिक्ततयाऽनतेपे’ (कि० १७।४०)। उक्तोऽर्थः।
- ‘यानग्नयोन्वतप्यन्त धिष्ण्याः’ (अथर्व० २।३५।१)। अन्वतप्यन्त=अस्पृहयन्त।
- ‘मा पुत्रमनुतप्यथाः’ (भा० ७)। मा काङ्क्षीरित्यर्थः।
- ‘विरहः किमिवानुतापयेद्वद बाह्यैर्विषयैर्विपश्चितम्’ (रघु० ८।८९)। अनुतापयेत्=क्लिश्नीयात्।
तर्क्
- {अनुतर्क्}
- तर्क् (तर्क भाषार्थः)।
- ‘देवमेषान्वतर्कयत्’ (भा० ३।१७२२)। अचिन्तयदित्यर्थः।
तृद्
- {अनुतृद्}
- तृद् (तृदिर् हिंसानादरयोः)।
- ‘ऋतस्य धारा अनुतृन्धि पूर्वीः’ (ऋ० ५।१२।२)। अपोर्णुहीत्यर्थः।
- ‘अन्वपां खान्यतृन्तम्’ (ऋ० ७।८२।३)। उक्तोऽर्थः।
तृप्
- {अनुतृप्}
- तृप् (तृप प्रीणने, प्रीणनं तृप्तिः)।
- ‘ब्राह्मणेभ्योऽनुतृप्यन्ते पितरो देवतास्तथा’ (भा० अनु० २९।१०)। अनुतृप्यन्ते=अनुतृप्यन्ति=पश्चात् तृप्यन्ति।
तृष्
- {अनुतृष्}
- तृष् (ञितृषा पिपासायाम्)। अनुतर्षः=चषक=पानपात्रम्।
तॄ
- {अनुतॄ}
- तॄ (तॄ प्लवनतरणयोः)।
- ‘ततं तन्तुमन्वेके तरन्ति’ (अथर्व० ६।१२२।२)। अनुतरन्ति=अन्तं यावदनुगच्छन्तीत्याह।
- ‘ते बाध्यमानाः समरे भारद्वाजेन पार्थिवाः। मेदिन्यामन्वतीर्यन्त वातनुन्ना इव द्रुमाः’ (भा० ७)॥ अन्वतीर्यन्त=शरीरायामलक्षिता भूमिमवर्धयन्नित्यर्थः।
दा
- {अनुदा}
- दा (डुदाञ् दाने)।
- ‘तुभ्यं देवा अनु विश्वे अददुः सोमपेयम्’ (ऋ० ५।२९।५)। अन्वददुः=प्रादिशन्, भागधेयमकल्पयन्।
- ‘तदद्याप्सरसावनुदत्तामृणं नः’ (अथर्व० ६।११८।१)। आनुकूल्येन प्रयच्छतामिति सायणः। यथास्मान्न बाधते तथा ऋणान्मुञ्चतामिति तात्पर्यम्। ते अप्सरसौ प्रत्यनृणाः स्यामेत्युक्तं भवति।
- ‘यदक्षवृत्तमनुदत्तं न एतत्। यः शर्धते नानुददाति शृध्याम्’ (अथर्व० २०।३४।१)।
- ‘शुध्यामुत्साहनीयं कर्म नानुददाति नानुजानाति। सूरश्चिदस्मा अनुदादपस्याम्’ (ऋ० ७।४५।२)। अनुदात्=अन्वदात्=अतिरिक्तां ददात्वित्यर्थः।
- ‘अग्रतो लक्षये यान्तं पुरुषं पावकप्रभम्॥ तेन भग्नानरीन्सर्वान्मद्भग्नान्मन्यते जनः। तेन भग्नानि सैन्यानि पृष्ठतोऽनुददाम्यहम्’ (भा० द्रोण० २०२।६)॥ पृष्ठतोऽनुददामि=पृष्ठतो यामि। अनुव्रजामीति पाठान्तरम्।
- ‘न दूढ्ये अनुददाति वामम्’ (ऋ० १।१९०।५)। अनुददाति=ददाति।
दिश्
- {अनुदिश्}
- दिश् (दिश अतिसर्जने)।
- ‘यज्ञं देवेभ्योऽनुदिशति’ (तै० सं० १।५।४।३)। अनुदिशति=निर्दिशति।
- ‘गौरमारण्यमनु ते दिशामि’ (वा० सं० १३।४८)। अनुदिशामि=ददामि।
- ‘वायवे त्वा इति नष्टामनुदिशति’ (आप० श्रौ० १०।६।१८।८)। मन्त्रसमवेतं देवतार्थतया सङ्कल्पनमनुदेशः।
- ‘अन्यदन्यमनुदिशत्यन्नम्’ (आश्व० गृ० ४।८)। अनुददाति=पश्चाद् ददाति।
- ‘रामश्चाप्यनुदिश्यताम्’ (रा० ६।८९।३१)।
- ‘तामु धीरासो अनुदिश्य यजन्ते’ (वा० सं० १।५८)। अनुदिश्य=उद्दिश्य।
- ‘नानदेश्यं भुञ्जीत’ (आप० ध० १।१।२।२२)। अनदेश्यम् श्राद्धार्थं देवतार्थं वोद्दिष्टम्।
- ‘यथासंख्यमनुदेशः समानाम्’ (पा० १।३।१०)। अनुदिश्यत इत्यनुदेशः। पश्चादुच्चार्यत इत्यर्थः।
- ‘यथादेवतमेवैनाः प्रतिगृह्णाति वायवे त्वा वरुणाय त्वेति यदेवमेता नानुदिशेत्’ (तै० सं० ६।१।४।३०)। अनुदिशेत् अनुक्रमेण कीर्तयेत्।
दुष्
- {अनुदुष्}
- दुष् (दुष वैकृत्ये)।
- ‘अनुदुष्येयुरपरे पश्यन्तस्तव पौरुषम्’ (भा० उ० १३४।५)। अनुदुष्येयुः=विकारं भजेरन्। भग्नोत्साहा जायेरन्, आत्मलाघवमनुभवेयुरित्यर्थः।
दृभ्
- {अनुदृभ्}
- दृभ् (दृभी ग्रन्थे)।
- ‘द्व्यङ्गुलं समिधोऽतिहृत्यानुदृभन्निवाभिजुहोति’ (शां० ब्रा० २।२)। अनुदृभन्=गुच्छकान् शृङ्खला वा निर्मिमाणः।
दृश्
- {अनुदृश्}
- दृश् (दृशिर् प्रेक्षणे)।
- ‘न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे’ (गीता० १।३१)। नानुपश्यामि=आयत्यां न पश्यामि।
- ‘रथे विलग्नाविव चन्द्रसूर्यौ धनान्तरेणानुददर्श लोकः’ (भा० वि० ५४।३०)। अनुददर्श=स्वल्पं ददर्श, कथं चिदवलुलोके।
- ‘न संसारोत्पन्नं चरितमनुपश्यामि कुशलम्’ (भर्तृ० ३।३)। अनुर्व्याप्तौ। अनुपश्यामि=कार्त्स्न्येन पश्यामि।**
- ‘आददानं महेष्वासं सन्दधानं च सायकम्। विसजन्तं च कौन्तेयं नानपश्याम वै तदा’ (भा० द्रोण ० १४६।४६-४७)। नानुपश्याम=नान्वपश्याम। अनुक्रमेण नादर्शाम।
- ‘सेनापतिः पुत्रमग्निमित्रं परिष्वज्यानुदर्शयति’ (माल० ५)। अनुदर्शयति=वेदयति।
- ‘(महीं) स्फीतां राष्ट्रावृतां रामो वैदेहीमन्वदर्शयत्’ (रा० २।४९।१२)। अनुक्रमेणादर्शयदित्यर्थ:।
- ‘सौभ्रात्रमनुदर्शयन्।’ (सुमित्रानन्दवर्धनः) (रा० १।१।२५)। अनुदर्शयन्=विवृण्वन्, आविर्भावयन्।
- ‘पूर्वेषां पन्थानमनुदृश्य धीराः’ (ऋ० १०।१३०।७)। अनुदृश्य=अन्वीक्ष्य। अनुशब्दः पथोऽतिक्रान्ततामाह।
- ‘इदं महर्षेर्वचनं महात्मनो यथावदुक्तं मनसाऽनुदृश्य च’ (भा० शां २४०।३६)। अनुदृश्य=पर्यालोच्य।
- ‘अनसूयुरनद्रष्टा सत्कृतस्ते पुरोहितः’ (रा० २।१००।११)। अनुद्रष्टा=उपकारकः।
- ‘जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम्’ (गीता १३।८)। अनुदर्शनम्=साकल्येन दर्शनम्।**
दॄ
- {अनुदॄ}
- दॄ (दॄ विदारणे)।
- ‘आपस्तस्तम्भिरे चास्य (नृपस्य) समुद्रमभियास्यतः। सरितश्चान्वदीर्यन्त ध्वजभङ्गश्च नाभवत्’ (भा० शां० २९।१४२)॥ अन्वदीर्यन्त=स्वयमेव बिभिदिरे आसां धाराः, येन ताः सुप्रतरा बभूवुः।
- ‘(सेनां) तां दीर्णामनुदीर्यन्ते योधाः शूरतरा अपि’ (भा० भीष्म० ३।७६)। अनुदीर्यन्ते=विकीर्यन्ते।
द्रु
- {अनुद्रु}
- द्रु (द्रु गतौ)।
- ‘अन्वद्रवन्त तं पश्चाद् राजानः’ (भा० उ० १५०।२)। अन्वधावन्नित्यर्थः।
- ‘ताभिः स बलवान्नादः क्रोशन्तीभिरनुद्रुतः। येन स्फीतीकृतो भूयस्तद्गृहं समनादयत्’ (रा० २।६५।२६)॥ अनुद्रुतः=अनुसृतः=आवर्तितः।
- ‘अश्वेति विद्रुतमनुद्रवताऽश्वमन्यम्’ (शिशु० ५।५९)। अनुद्रवता=अनुसरता=अनुधावता।
- ‘पञ्चहोतारं मनसाऽनुद्रुत्य’ (भा० श्रौ० ८।१।१)। मनसाऽनुद्रुत्य मनसा जपित्वा।
- ‘पित्र्यमन्त्रानुद्रवणे आत्मालम्भेऽधमेक्षणे’ (गो० गृ० १।३।१२) सूत्रटीकायां मुकुन्दशर्मकृतायां स्मृतिवचनम् । तत्रानुद्रवणमुच्चरणम् इति मुकुन्द०।
- ‘अथोत्तरमर्धर्चमनुद्रुत्य स्वाहा करोति’ (श० ब्रा० ७।४।२।२६)। अनुद्रुत्य अनुक्रम्य उच्चार्य।
धा
- {अनुधा}
- धा (डुधाञ् धारणपोषणयोः)।
- ‘अथान्यान् (तण्डुलान्) हुतास्वाश्वत्थीषु (समित्सु) अनुदधीरन्’ (लाट्या० श्रौ० ४।९।१४)। अनुशब्दः पश्चादर्थे।
- ‘अनु प्र येजे जन ओजो अस्य सत्रा दधिरे अनु वीर्याय’ (ऋ० ६।३६।२)। अनुदधिरे=समीरयामासुः।
धाव्
- {अनुधाव्}
- धाव् (धावु गतिशुद्ध्योः)।
- ‘अन्वेकं धावसि पूयमानः’ (ऋ० ९।९७। ५५)। अनुधावसि=अनुस्यन्दसे।
- ‘कच्चित्ते मन्त्रितो मन्त्रो न राष्ट्रमनुधावति’ (रा० २।१०९।१३)। निर्भिन्नः सन् सर्वासु दिक्षु न प्रसरति, सर्वस्य विदितो न भवतीत्यर्थः।
- ‘रक्षांस्यमित्राननुधावत’ (अथर्व० ११।१०।१)। शत्रूननुसरतोत्सारणायेत्याह।
- ‘ऋषीणां पुनराद्यानां वाचमर्थोऽनुधावति’ (उत्तर० १।१०)। ऋषिभिराद्यैरुदितां वाचमनुरुध्यार्थास्त्वरितं सत्तां लभन्ते इत्युक्तं भवति। अनुसरति शैघ्र्येणेत्यक्षरार्थः।
- ‘वत्सलत्वाद्यथा धेनुः स्वपुत्रमनुधावति’ (रा० २।२५।८)। पुत्रम् प्रति त्वरत इत्यर्थः।
- ‘मामिह वने ग्रस्यमानां… ग्रहेणानेन विजने किमर्थं नानुधावसि’ (भा० वन० ६३।२३)। परित्राणार्थं किं नाभित्वरस इत्याह।
धी
- {अनुधी}
- धी (धीङ् आधारे)।
- ‘वनस्थमपि तापस्ये यस्त्वामनुविधीयते’ (रा० ३।१६।३३)। अनुविधीयते=अनुकरोति।
ध्मा
- {अनुध्मा}
- ध्मा (ध्मा शब्दाग्निसंयोगयोः)।
- ‘ये द्रप्सा इव रोदसी धमन्त्यनु वृष्टिभिः’ (ऋ० ८।७।१६)। अनुधमन्ति अभिवर्षन्तीत्यनर्थान्तरम्।
ध्यै
- {अनुध्यै}
- ध्यै (ध्यै चिन्तायाम्)।
- ‘नानुध्यायाद् बहूञ् छब्दान् वाचो विग्लापनं हि तत्’ (श० ब्रा० १४।७।२।२३)। नानुध्यायात्=नानुध्यायेत्=नानुचिन्तयेत्।
- ‘मामनुध्याय भावेन’ (भा० आदि० ८५।२९)। मां हृदयेन संततं चिन्तयेत्याह।
- ‘(पशव:) एतमालभ्यमानमनुध्यायन्ति’ (काठसं० ३०।९)। कृपयन्ते, दयन्ते, अनुशोचन्तीति वार्थः।
- ‘अप वा अस्यैष धिष्णियो हीयते सोऽनध्यायति’ (तै० सं० ३।१।३।६)। अनुध्यायति=कुप्यति, कोपस्तमाविशति।
- ‘प्रजानिषेकं मयि वर्तमानं सूनोरनुध्यायत चेतसेति’ (रघु० १४।७०)। शिवमस्त्विति चिन्तयतेत्यर्थः।
- ‘अनुदध्युरनुध्येयम्’ (रघु० १७।३६)। अनुध्यानमनुग्रह इत्युत्पलमाला।
- ‘या नः प्रीतिर्विरूपाक्ष त्वदनुध्यानसम्भवा’ (कु० ६।२१)। अनुरत्र विशेषकृन्न।
- ‘सा त्वमम्ब स्नुषायामरुन्धतीव शिवानुध्यानपरा भव’ (उत्तर० १)। इहापि तथैव।
- ‘नहि कार्यमनुध्याति नारी पुत्रवती सती’ (भा० आदि० २३३।३१)। अनध्याति=अनुध्यायति=मनसि करोति।
- ‘अननध्यायिनं लोकं जयति’ (ऐ० ब्रा० ३।४७)। अनुध्यायी=चिन्तितार्थप्रदायी, तस्य निषेधः, अननुध्यायी।
- ‘प्रेतो यन्तु व्याध्यः प्रानुध्याः प्रो अशस्तयः’ (अथर्व० ७।११४।२)। अनुध्याः=अनुध्यानानि। इहानु शब्दो वैपरीत्ये प्रातिकूल्ये सामर्थ्याद् वर्तते। अनुध्यानमनिष्टचिन्तनम्।
- ‘वनवासमनुध्याय गृहाय प्रतिनेष्यति’ (रा० २।९७।२२) अनुध्याय=विचिन्त्य।
- ‘कुपितो गार्हपत्य एनं यजमानं हिंसितुमनुध्यायति’ (तै० ब्रा० २।१।४।३)। अनुध्यायति कामयते।
- ‘ततः स्वविद्यानुध्यानाद् यथावृत्तमवेत्य तत्’ (कथा० ९०।१५७)। अनुध्यानं चिन्तनम्।
नद्
- {अनुनद्}
- नद् (णद अव्यक्ते शब्दे)।
- ‘तथा च तेषां रुदतां महात्मनां दिशं च खं चानुननाद निःस्वनः’ (रा० गोरेसिओ सं० २।१११।५३)। अनुननाद=व्याप। शब्दनक्रियाया निःस्वनेनैवोक्तत्वादनुना व्याप्तिरुच्यते।
- ‘पृथिवीं चान्तरिक्षं च सागरांश्चानुनादयन्’ (भा० उ० १५१।७१)। अनुनादयन्=प्रतिध्वनयन्।
- ‘गुरुतरकलनूपुरानुनादम्’ (शिशु० ७।१८)। अनुनादः प्रतिशब्दः प्रतिश्रुत्।
नम्
- {अनुनम्}
- नम् (णम प्रह्वत्वे शब्दे च)।
- ‘अनु स्वधाव्ने क्षितयो नमन्त’ (ऋ० ५।३२।१०)। स्वधावानमिन्द्रं प्रति प्रह्वीभूताः।
नाथ्
- {अनुनाथ्}
- नाथ् (नाथृ नाधृ याच्ञोपतापैश्वर्याशीःषु)।
- ‘देव हंसावती राजसुता त्वामनुनाथति’ (कथा० ७४।२२४)। अनुनाथति प्रार्थयते।
नी
- {अनुनी}
- नी (णीञ् प्रापणे)।
- ‘मान्यान् मानय विद्विषोप्यनुनय’ (भर्तृ० २।७७)। विद्विट्स्वपि प्रीयस्व, तत्रापि प्रीतिमान् भवेत्याह।
- ‘अनुनेष्याम्यहं विद्यां स्वयं तुभ्यं व्रते कृते’ (भा० आदि० १७०।४६)। अनुनेष्यामि=पश्चात् प्रापयिष्यामि। वितरीष्यामीत्यर्थः।
- ‘अनुनयति समर्थः खड्गदीर्घः करोयम्’ (चारु० १।१४)। अनुनयति=प्रसादयति।
- ‘भवतोऽनुनयाम्येवं पुरू राज्येऽभिषिच्यताम्’ (भा० १।३५२८)। अनुनयामि=सम्प्रार्थये।
- ‘प्रसीदन्तु भवन्तः पुरुं राज्येभिषिञ्चन्त्विति। न गच्छेम ऋषेर्भीता अनुनेष्यन्ति तं नृपम्’ (रा० १।८।२०)।
- ‘अनु द्वा जहिता नयोऽन्धं श्रोणं च वृत्रहन्’ (ऋ० ४।३०।१९)। अन्वनयः=अन्वगच्छः=सहचरोऽभूः।
- ‘तं रजिष्ठमनु नेषि पन्थाम्’ (ऋ० १।९१।१)। रजिष्ठम्=ऋजिष्ठम्। ऋजुतमेन पथा नयसीत्यर्थः।
- ‘गङ्गां चानुनयन्ति स्म दुहितृत्वे महात्मनः’ (रा० १।४३।३७)। अनुनयन्ति=प्रापयन्ति। गङ्गां चापि नयन्तीति पाठान्तरम्।
- ‘अनुनीयमानो दुर्बुद्धिरनुनेतुं न शक्यते’ (हरि० १।२०।६६)। अनुनीयमानः=प्रसाद्यमानः।
- ‘विग्रहाच्च शयने पराङ्मुखीर्नानुनेतुमबलाः स तत्त्वरे’ (रघु० १९।३८)। उक्तोऽर्थः।
- ‘अनुनीता त्वमस्माभिश्चिरं सान्त्वेन मैथिलि। न च नः कुरुषे वाक्यम्’ (रा० ५।२५।३५)। अनुनीता=आनुकूल्याय प्रेरिता।
- ‘पादास्त एव शशिनः सुखयन्ति गात्रं संरम्भरूक्षमिव सुन्दरि यद् यदासीत्। त्वत्सङ्गमेन तत्तदिवानुनीतम्’ (विक्रम० ३।२०)।
- ‘ततः प्राचेतसोऽसिक्न्यामनुनीतः स्वयम्भुवा।’ (भा० पु० ६।६।१)। अनुनीतः=आनुकूल्यं नीतः।
- ‘स चानुनीतः प्रणतेन पश्चात्’ (रघु० ५।५४)। अनुनीतः=शमितः, समाहितः।
- ‘अनुनीता हि भीष्मेण द्रोणेन विदुरेण च। न व्यवस्यन्ति पाण्डूनां प्रदातुं पैतृकं वसु’ (भा० वि० ३।११)॥ अनुनीताः=सामवचनैः प्रयुक्ताः।
- ‘कथं नु शक्योऽनुनयो महर्षेर्विश्राणनादन्यपयस्विनीनाम्’ (रघु० २।५४)। अनुनयः क्रोधापनयः।
- ‘प्रकृतिवक्रः स कस्यानुनयं ग्रहीष्यति’ (शा० ४)। अनुनयः क्षमाप्रार्थना।
- ‘विविधैरनुतप्यन्ते दयितानुनयैर्मनस्विन्यः।’ (विक्रम० ३।५)। अनुनयैः प्रसादनयत्नैः, सामप्रयोगैः।
- ‘भद्र प्रियं नः किन्तु त्वदभिप्रायापरिज्ञानान्तरितोऽयमस्मदनुनयः’ (मुद्रा० २)। अनुनयः=प्रणयः, याच्ञा।
- ‘तुल्यदुःखोऽब्रवीद्भ्राता लक्ष्मणोऽनुनयं वचः’ (रा० ४।२७।३३)। अनुनयमानुकूल्यसम्पादकम्, अनुनेतृवचनम्। कर्तर्यच्।
- ‘अदत्तानुनयो युद्धे यदि त्वं पितृभिर्मम’ (भा० आश्व० ८२।७)। अनुनयः शिक्षा। अनुशब्दो वेरर्थे। अनुनयो विनय इत्यनर्थान्तरम्।
- ‘इति ते दर्शनं यच्च तत्राप्यनुनयं शृणु’ (भा० वन० १८३।७)। अनुनयः सिद्धान्त इति नीलकण्ठः। भजते कुपितो प्युदारधीरनुनीतिं नतिमात्रकेण सः। अनुनीतिं भजते प्रसादाभिमुखो भवतीत्यर्थः।
- ‘अनुनेयानि जल्पन्तमनयान्नान्वपद्यत’ (भा० द्रोण ८५।२५)। अनुनेयानि वचनानि=अनुकूलयितुं प्रवृत्तानि वचांसि।
- ‘अहं तु तान् शितैर्बाणैरनुनीय रणे बलात्’ (भा० उ० ३।१२)। अनुनीय=अनुकूलान्सम्पाद्य। वशे कृत्वेत्यर्थः।
- ‘उरुं नो लोकमनुनेषि विद्वान्’ (शां० ब्रा० २५।७)। बृहन्तं लोकं नो नयेत्याह। अनुशब्दो नार्थे विशेषं करोति।
- ‘स्त्रियमनुनयतीत्थं व्रीडमानां विलासी’ (शिशु० ११।३७)। अनुनयति अङ्गीकारयति।
- ‘उवाच रामः परवीरहन्ता स्ववेक्षितं सानुनयं च वाक्यम्’ (रा० ४।३१।५)। सानुनयं सप्रसादम् इति रामानुजीयम्।
नु
- {अनुनु}
- नु (णु स्तुतौ)।
- ‘शतैनमन्वनोनवुः’ (ऋ० १।८०।९)। अन्वनोनवुः=अनुक्रमेण पुनः पुनरस्तुवन्।
- ‘त्वामिद्धि त्वायवोऽनुनोनुवतश्चरान् सखाय इन्द्र कारवः’ (ऋ० ८।९२।३३)। अनुनोनुवतः=अनुक्रमेण पुनः पुनः स्तुवन्तः। अनुपूर्वान्नौते र्यङ्लुगन्ताच्छतरि रूपम्। चरान् इति लेटि। परिचरन्त्वित्यर्थः।
नृत्
- {अनुनृत्}
- नृत् (नृती गात्रविक्षेपे)।
- ‘पश्य लक्ष्मण नृत्यन्तं मयूरमनुनृत्यति। मयूरी’ (रा० ३।७९।१५)। अनुनर्तनं पश्चान्नर्तनम्।
- ‘तथैनमन्वनृत्यन्त देवकन्याः’ (भा० शल्य० ४४।१९)। एनमन्वनृत्यन्त=अस्य पुरोऽनृत्यन्।
पच्
- {अनुपच्}
- पच् (डुपचष् पाके)।
- ‘अन्तः समुद्रेऽनुपचन् स्वधातून्’ (भा० पु० ८।५।३५)। अनुपचन्=अनुक्रमेण (मन्दमन्दम्) पचन्।
- ‘शुभानामशुभानां च नेह नाशोस्ति कर्मणाम्। प्राप्य प्राप्यानुपच्यन्ते क्षेत्रं क्षेत्रं तथा तथा’ (भा० आश्व० १८।१)॥ अनुपच्यन्ते=अनुक्रमेण फलानि प्रसुवते। शनैर्विपच्यन्त इत्यर्थः।
पठ्
- {अनुपठ्}
- पठ् (पठ व्यक्तायां वाचि)।
- ‘कृतानुपाठाः स्वापत्यैः प्राह्णे लोकानहासयन्’ (राज० ८।१०१)। अनुपाठः स्वाध्यायः।
- ‘आत्मनाऽनुपठेत्’ (सुश्रुत० १।१३।४)। अनुपठेत्=पाठमावर्तयेत्।
- ‘यत्तत्र गुरुणा प्रोक्तं शुश्रुवेऽनुपपाठ च’ (भा० पु० ७।५।३)। गुरुमनुकुर्वन्पश्चात्पपाठेत्यर्थः।
- ‘श्रुतोऽनुपठितो ध्यातः’ (भा० पु० ११।२।१२)। अनुपठितोऽसकृत् पठितः।
पत्
- {अनुपत्}
- पत् (पत्लृ गतौ)।
- ‘न यत्र प्रत्याशामनुपतति नो वा विरहयति (चेतः)’। (मालती० ८।९)। अनुपतति=अनुबध्नाति।
- ‘अनुपतति रजनीं पूर्वसन्ध्या’ (शिशु० ११।४०)। अनुयातीत्यर्थः।
- ‘रजश्चाश्वोद्धूतं पतति नानुपतति’ (प्रतिमा० ३।२)। नानुपतति=पृष्ठतो न पतति।
- ‘धर्ममन्वपतद् द्रुतम्’ (कथा० ७।८९)। अन्वपतत्=अन्वसरत्=अन्वतिष्ठत्।**
- ‘खमेवानुपतन्’ (भा० पु० ३।११।५)। खमुत्पतन्निति विवक्षति।
- ‘मुहुरनुपतति स्यन्दने दत्तदृष्टिः’ (शा० १।७)। अनुपतति=अनुसारं कुर्वति (स्यन्दने)।
- ‘कथमनुपतत एव प्रयत्नप्रेक्षणीयः संवृत्तः’ (शा० १)। अनुपततः=(मम)।
- ‘मदनुपातिनामेष पन्थाः’ (दशकु०)। ममास्कन्तॄणाम्, मदाक्रमणकारिणाम् इत्याह।
- ‘प्राग्वीराननुपत्य’ (मालती० ८।९)। अनुपत्य=आक्रम्य।
- ‘सर्पव्यालत्रासनार्थं गोचरानुपातज्ञानार्थं च त्रस्नूनां घण्टातूर्यं च बध्नीयुः’ (कौ० अ० २।२९।२२)। अनुपातः संचारः।
- ‘पृष्ठतो भग्नरक्षा भग्नानुपातः’ (कौ० अ० १०।५।५३)। अनुपातः=अनुसारः।
पद्
- {अनुपद्}
- पद् (पद गतौ)।
- ‘तं तु विश्वामित्रोऽन्वपद्यत’ (भा० आदि० १७६।१५)। अन्वपद्यत। उपैदित्यर्थ इत्यधिकं पाठ्यम्।
- ‘वल्मीकभूतं शाम्यन्तमन्वपद्यत भामिनी’ (भा० विराट० २१।१०)। अनुसृतवतीत्याह।
- ‘वसुधामन्वपद्येतां वातनुन्नाविव द्रुमौ’ (भा० द्रोण० ९३।२४)। भूमिमगच्छताम्, भूमौ न्यपतताम्।
- ‘अन्वपद्यन्त सहसा पुरुषा देवदर्शिनः।’ अन्वपद्यन्त=अन्वगच्छन्।
- ‘हत्वा श्रुतायुधं वीरं धरणीमन्वपद्यत’ (भा० द्रोण० ९२।५५)। अन्वपद्यत=अपतत्, न्यपतत्, अवापतत्।
- ‘अहमक्षानन्वपद्यं जिहीर्षन्राज्यं सराष्ट्रं धृतराष्ट्रस्य पुत्रात्’ (भा० वन० ३४।३)। अक्षानन्वपद्यम्=अक्षेषु प्रावर्ते।
- ‘अन्वपद्यत तद्वाक्यं भ्रातुर्ज्येष्ठस्य धीमतः’ (भा० महाप्र० १।४)। अन्वपद्यत=अन्वरुध्यत=अन्वमन्यत।
- ‘अन्वपद्यन्त ते सर्वे भोजवॄष्ण्यन्धकास्तदा’ (भा० आदि० २२०।३२)। अनुमोदितवन्त इत्यर्थः।
- ‘ते मां शरणमापन्नां नान्वपद्यन्त पाण्डवाः’ (भा० वन० १२।७१)। नान्वपद्यन्त=नान्वगृह्णन्।
- ‘पुत्रौ दृष्ट्वा सुसंभ्रान्ता नान्वपद्यत किंचन’ (भा० आदि० १३६।२९)। नान्वपद्यत=न प्रत्यपद्यत, नाचरत्।
- ‘उतथ्यस्य यवीयांस्तु ममतामन्वपद्यत’ (भा० आदि० १०४।१०)। तत्रान्वरज्यत, तामकामयत।
- ‘हिमवान् वा महाशैलः समुद्रो वा महोदधिः। महत्त्वान्नान्वपद्येतां नभसो नान्तरं तथा’ (भा० शां० १२६।१३)। अन्वपद्येताम्=अभ्रंशेताम्। पदिरिह पतने वर्तते।
- ‘जितमित्येव तानक्षान् पुनरेवान्वपद्यत’ (भा० सभा० ६५।४५)। अन्वपद्यत=आसेवत, उपाचरत्, व्यवाहरत्।
पा
- {अनुपा}
- पा (पा पाने)।
- ‘उष्णोदकं वा मद्यं वा शृतं वाऽनुपिबेत् पयः’ (का० सं० कल्प० लशुन० श्लो० ५१)। अनुपिबेत्=औषधसेवनादनन्तरं पिबेत्।
- ‘एताभिर्वा इन्द्रस्तृतीयसवनमन्वपिबत्’ (ऐ० ब्रा० ३।३८)।
- ‘कल्माषान्भक्षयेन्मधु चानुपिबेत्’ (सुश्रुत० ३।७७।४)।
- ‘मधु पीत्वा रसवत् कथं नु मे। अनुपास्यसि बाष्पदूषितं परलोकोपनतं जलाञ्जलिम्’ (रघु० ८।६७)। उक्तोऽर्थः। भेषजेन सह पश्चाद्वा यत्किंचिन्मधुरादि पीयते तदनुपानम्। हन्तानुपानम्।
- ‘इत्यु्च्छिष्टं वै मे पीतं स्यात्’ (छां० उ० १।१०।३)। इह संनिहितं पानीयमनुपानशब्देनोच्यते।
पाल्
- {अनुपाल्}
- पाल् (पा+लुक् चुरादिः)।
- ‘बालदायादिकं रिक्थं तावद्राजाऽनुपालयेत्’ (मनु० ८।२७)। अनुपालयेत्=सततं रक्षेत्, स्वसकाशे रक्षितं स्थापयेत्।
पुष्
- {अनुपुष्}
- पुष् (पुष पुष्टौ)।
- ‘अनु वीरैरनु पुष्यास्म गोभिरन्वश्वैरनु सर्वेण पुष्टैः’ (वा० सं० २६।१९)। अनुशब्दो व्याप्तिवचन इह पोषणक्रियाया अविच्छेदमाह।
- ‘सुग्रीवस्य नदीनां च प्रसादमनुपालयन्’ (रा० ४।२८।६३)। अनुपालयन् प्रतिपालयन्।
पृच्
- {अनुपृच्}
- पृच् (पृची सम्पर्के)।
- ‘गात्रानुपृक्तेन शुकप्रभेण नारीव लाक्षोक्षितकम्बलेन’ (रा० ४।२८।२४)। अनुपृक्तेन सम्पृक्तेन।
प्लु
- {अनुप्लु}
- प्लु (प्लुङ् गतौ)।
- ‘इदमन्यतो वानरद्वयमार्यस्य पाणिग्राहमिव संश्रयादनुप्लवते’ ( )। अनुगच्छति, अनुधावतीत्याह।
- ‘अनुगा वायवो वान्ति तथाभ्राणि वयांसि च। अनुप्लवन्ति मेघाश्च तथैवेन्द्रधनूंषि च’ (भा० भीष्म० ३।७३)॥ आनुकूल्येन संचरन्तीत्यर्थः।
- ‘तं… त्रिपर्वाणस्तापा अनुप्लवन्ते (यो० भा० २।१५)। अनुप्लवन्ते=अनुगच्छन्ति, अनुबध्नन्ति।
- ‘अनुप्लवन्तो मेघाश्च तथादित्यरश्मयः’ (भा० शां० १०२।६)। अनुप्लवन्तः=अनुगच्छन्तः=आनुकूल्येन वर्तमानाः।
- ‘यश्चाधर्मं चरेल्लोभात्कामक्रोधावनुप्लवन्’ (भा० शां० २१२।७)। अनुप्लवन्=अनुप्लवमानः=अनुगच्छन्। वश्यो भवन्। कामक्रोधवक्तव्यः सन् इत्यर्थः।
- ‘जिघांसवः शीघ्रमनुप्लुतास्तम् (पाण्डवविजये)। अनुप्लुताः=अनुद्रुताः=अनुधाविताः।
- ‘सानुप्लवः प्रभुरपि क्षणदाचराणाम्’ (रघु० १३।७५)। अनुप्लवः सहायो वा भवत्यनुगो वा।
- ‘सानुप्लवाः क्वापि यातास्त्रिमूर्धखरदूषणाः’ (महावीर० ७।१९)। उक्तोऽर्थः।
- ‘समुह्यानुप्लवैरुह्यमानाः प्राणावनार्थिनः।’ (१४।३२)।
- ‘इतरं तु …बाह्याध्यात्मिकोभयनिमित्तास् त्रिपर्वाणस्तापा अनुप्लवन्ते’ (यो० सू० २।१५ भा०)। अनुप्लवन्ते व्याप्नुवन्ति।
बन्ध्
- {अनुबन्ध्}
- बन्ध् (बन्ध बन्धने)।
- ‘यां मृतायानुबध्नन्ति कूद्यं पदयोपनीम्’ (अथर्व० ५।१९।१२)।
- ‘राष्ट्र एव विशमनुबध्नाति’ (तै० ब्रा० १।८।३।२)। उभयत्रानुशब्दो धात्वर्थे विशेषं न करोति।
- ‘उभयोरपि राजेन्द्र सम्बन्धेनानुबध्यताम्। इक्ष्वाकुकुलम्…’ (रा० १।७२।८)। इहापि तथैव।
- ‘सीमन्तं निजमनुबध्नती कराभ्याम्’ (शिशु० ८।६९)। अनुबध्नती=बध्नती। अनुशब्दो धात्वर्थानुवादी।
- ‘तथा ते वृषल विक्षेपो भूयाद्यथा हिंसामनुबध्नातीति हिंसायां प्रतेश्च’ (६।१।१४१) सूत्रे प्रतिस्कीर्णं हं ते वृषल भूयादित्युदाहरणं व्याचक्षाणस्य वृत्तिकारस्य वचनम्। अनुबध्नातिरत्र जननेन समानाभिधेयः।
- भारतेप्यत्रार्थे प्रयोगः- ‘अहो ममोपरि विधेः संरम्भो दारुणो महान्। नानुबध्नाति कुशलं कस्येदं कर्मणः फलम्’ (भा० वन० ६५।३१)॥
- ‘न शिष्याननुबध्नीत’ (भा० पु०)।
- ‘तथा चानुबध्यमानस्तां बकुलमालामात्मनः कण्ठादवतार्य दत्तवान्’ (मालती० प्रथमाङ्के माधवोक्तिः)। अनुबध्यमानः साग्रहं प्रार्थ्यमानः।
- ‘भूयो भूयश्चानुबध्यमाना दुःखेन कथं कथमप्याचक्षते’ (हर्ष० पञ्चमे उच्छ्वासे)। प्रेर्यमाणा अनुयुज्यमाना इत्यर्थः।
- ‘मनुष्येण शौटीर्यमनुबध्नता’ (रा० ५।७१।६)। दर्पं शौर्यं वाऽऽविष्कुर्वतेत्याह।
- ‘पुनः पुनश्चानुबध्यमाना’ (का०)। सनिर्बन्धं पृच्छ्यमाना। सत्योऽयमाभाणकः सम्पत्सम्पदमनुबध्नाति विपद्विपदम्। नैरन्तर्येणानुसरतीत्यर्थः।
- ‘ते च विकाराः परस्परमनुवर्तमानाः कदाचिदनुबध्नन्ति कामादयो ज्वरादयश्च’ (चरक० वि० ६।८)। अनुबध्नन्ति=सम्बध्यन्ते अनुगच्छन्ति।
- ‘न तत्सुनीतं हि वदन्ति तज्ज्ञा यन्नानुबध्नन्ति यशःसुखार्थाः’ (अवदा० सुतजा० श्लो० ५५)। यत्सुनीतं सुनयं यशःसुखार्थाः फलमिति नानुसरन्तीत्याह।
- ‘भङ्गेऽपि हि मृणालानामनुबध्नन्ति तन्तवः’ (हितोप० १।९१)। संलग्ना भवन्तीत्यर्थः।
- ‘तेषु किं भवतः स्नेहमनुबध्नाति मानसम्’ (मार्क० पु०)। अनुबध्नाति=धत्ते।
- ‘को नु खल्वयमनुबध्यमानस्तपस्विनीभ्यामबालसत्त्वो बालः’ (शा० ७)। अनुबध्यमानः=अव्यवहितमनुस्रियमाणः।
- ‘मधुकरैः फलेरनुबध्यमानम्।’ (का०)।
- ‘दिष्ट्या तावदयमनङ्गो मामिव तमप्यनुबध्नाति’ (का०)।
- ‘अनुबध्नता तुरगमुखमिथुनम्’ (का०)। अनुबध्नता=आसादयितुमनुसरता।
- ‘अथान्वबध्नान्मां वेगात् पटुश्वसितसन्ततिः’ (बृ० श्लो० सं० ६।१९)। अन्वबध्नात् अन्वसरत्।
- ‘प्रातरारभ्य मामनुबध्नन् किष्किन्धायाः प्रस्थाप्य प्रतिनिवृत्तः’ (महावीर० ५)। तदेवानुबध्यतां तपः। सन्तायताम्, अविच्छेदेन चर्यतामित्यर्थः।
- ‘चक्षुरसीत्यनुबध्नीयात्’ (गो० गृ० ३।४४।२२)। चक्षुरसीति मन्त्रं पश्चादुच्चारयेदित्यर्थः।
- ‘चिकित्सेदनुबन्धे तु सति हेतुविपर्ययम्’ (अ० हृ० सूत्र० ८।२३)। अनुबन्धः सातत्यं नैरन्तर्यम्।
- ‘शृङ्गारस्याङ्गिनो यत्नादेकरूपानुबन्धवान्’ (ध्वन्या २।१४)। उक्तोऽर्थः।
- ‘बाष्पं कुरु स्थिरतया विरतानुबन्धम्’ (शा० ४)। अनुबन्धः प्रवाहः।
- ‘मुच्यतां देवि शोकानुबन्धः’ (का०)। अनुबद्धः सन्ततः शोक इत्यर्थः।
- ‘विरम विरम वह्ने मुञ्च धूमानुबन्धम्’ (रत्ना० ४।१६)।
- ‘सानुबन्धाः कथं न स्युः सम्पदो मे निरापदः’ (रघु० १।६४)। सानुबन्धाः=निरन्तराः=अव्यवहिताः=सानुस्यूतयः।
- ‘अयं सोऽर्थोऽनर्थानुबन्धः संवृत्तः’ (विक्रम० ५)। अनिष्टपरम्परागामीत्यर्थः।
- ‘रामं स्थापयता राज्ये सानुबन्धा हता ह्यसि’ (रा० २।७।२९)। अनुबन्धः पुत्त्रादिपरिकरः।
- ‘सानुबन्धो विनङ्क्ष्यसि’ (भा० पु० ८।१५।३१)। सानुबन्धः=सान्वयः। अनुबन्धो वंशसन्तानः।
- ‘तेन पापानुबन्धेन वचनं न प्रतीच्छता’ (रा० १।३३।४)। **अनुबन्धोऽभिनिवेशः। पापानुबन्धेन=अधर्माभिनिविष्टेन चित्तेन। **
- ‘एतस्येदशेन दर्शनेन मे कीदृशो हृदयानुबन्धः’ (शा०)। हृदयानुबन्धः=हृदयसमवस्था। विषयप्रयोजनाधिकारिसम्बन्धा अनुबन्धाः। इदमेवानुबन्धचतुष्टयमित्याख्यया प्रथते। प्रकृतिप्रत्ययादिषु वर्तमान इत्संज्ञको वर्णो व्याकरणशास्त्रेऽनुबन्ध इति व्यपदेशं भजते। स च परिनिष्ठिते प्रयोगार्हे शब्दे न श्रूयते। कार्यविशेषायोपात्तः सद्यो लुप्यते।
- ‘रिपुराप पराभवाय मध्यं प्रकृतिप्रत्यययोरिवानुबन्धः’ (किरात० १३।१९)। पराभवो नाशः।
- मुख्यानुयायिनमप्रधानमप्यर्थमनुबन्धशब्दो वक्ति-यथा ‘खे यथा निपतत्युल्का उत्तरान्ताद् विनिःसृता। दृश्यते सानुबन्धा च’ (रा० ५।१।६३)। इत्यत्र।
- ‘मूर्च्छानुबन्धा विषमज्वराः’ (सुश्रुते)। विषमज्वरेषु मूर्छा सहचारिणी भवतीत्याह।
- ‘सानुबन्धा विनङ्क्ष्यन्ति पौराश्चैवेति नः श्रुतम्’ (भा० आदि० १२८।१०)। उक्तोऽर्थः।
- ‘भूमेः सुतां भूमिभृतोऽनुबन्धात्’ (विश्वगुणा०)। अनुबन्धः सम्बन्धः।
- ‘आत्मदोषानुबन्धेन’ (का०)। अनुबन्धः फलम्।
- ‘अनुबन्धमजानन्तः कर्मणामविचक्षणाः’ (रा० ३।५१।२६)। अनन्तरोदीरित एवार्थः।
- ‘नार्थानां प्रकृतिं वेत्सि नानुबन्धमवेक्षसे’ (भा० वि० ४९।१)
- ‘अर्थानारभते बालो नानुबन्धमवेक्षते’ (भा० सभा० १५।१४)।
- ‘निहत्य च मुदा युक्तः सोऽनुबन्धं न दृष्टवान्’ (भा० शां० १७२।३)।
- ‘त्रिवर्गे त्रिविधा पीडा ह्यनुबन्धस्तथैव च’ (भा० आदि० १४०।६९)। अनुबन्धः फलम्।
- ‘केवलं वीर्यमत्तेन नानुबन्धो विचारितः’ (रा० ६।४०।४)। परिणतिविधारितेत्याह।
- ‘अनुबन्धानपेक्षेत सानुबन्धेषु कर्मसु’ (भा० उ० ३४।८)। सानुबन्धानि कर्माणि=साभिप्रायाणि=साभिसन्धि कृतानि।
- ‘अनुबन्धं च सम्प्रेक्ष्य विपाकं चैव कर्मणाम्’ (भा० उ० ३४।८)। उक्तोऽर्थः।
- ‘अनुबन्धं परिज्ञाय देशकालौ च तत्त्वतः’ (मनु० ८।१२६)। अनुबन्धोभिप्राय इति वर्तमाना अचिरातीता वा सम्प्रदायानभिज्ञा विवरीतारः। कुल्लूकस्त्वाह-पुनः पुनरिच्छातोऽपराधकरणमनुबन्ध इति।
- ‘पुरुषशक्त्यपराधानुबन्धविज्ञानाद् दण्डनियोगः’ (गौ० ध० सू० २।४।४८)। अनुबन्धोऽभ्यास इति हरदत्तः। एतेन कुल्लूकोक्तं समर्थनां लभते।
- ‘यदग्रे चानुबन्धे च सुखम्’ (गीता १८।३९)। अनुबन्धे पर्यन्ते।
- ‘विरात्रे चागतं कस्मात्कोऽनुबन्धश्च तेऽभवत्’ (भा० सावित्री०)। अनुबन्धः=प्रतिबन्धः।
- ‘अनुबन्धेन पुष्पाणाम्’ (रा० ५।३।४३-४४)। अनुबन्ध उद्गमः।
- ‘न बन्धुष्वनुबन्धस्ते’ (भा० शां० ३२६।४९)। अनुबन्ध आसक्तिः।
- ‘तेनानुबन्धं मन्यते धार्तराष्ट्रः शक्यं हर्तुं पाण्डवानां ममत्वम्’ (भा० उ० २६।२४)। बध्नातीति बन्धो राज्यादिः, तमनुसत्य वर्तमानं पाण्डवानां ममत्वम् इत्येवं विवृणुते नीलकण्ठः।
- ‘अथानुबन्धं कुर्वीत स रोगी च बली भवेत्’ (का० सं० चि० मदा० श्लो० ४९)।
- ‘अनुबन्धपरे जन्तावसंसक्तेन चेतसा’ (यो० वा० ५।७७।१३)। अनुबन्ध आनुलोम्यम्। मुख्यानुयायी शिशुरप्यनुबन्ध इत्याभिधानिकाः। अनुबन्धी तु हिक्कायां तृष्णायामपि योषिति इति मेदिनी। अनुबन्धिका गात्रसन्धिपीडा भवति, तथा च हर्षचरिते चतुर्थे उच्छ्वासे कवेः प्रयोगः-अनुबद्धमनुबन्धिकाभिः।
- ‘अपि त्वदर्पितवारिसंभृतं प्रवालमासामनुबन्धि वीरुधाम्’ (कु० ५।३४)। अनुबन्धोऽस्यास्तीत्यनुबन्धी नैरन्तर्यवान्। अविघ्न इत्यर्थः।
- ‘आर्यासहायमहमद्य गुरु दिदृक्षुः प्राप्तोस्मि तुष्टहृदयः स्वजनानुबद्धः’ (प्रतिमा० ७।३)। अनुबद्धोऽनुगतः।
- ‘अनुबद्धमनुबन्धिकाभिः’ (हर्ष ० ५)। अनुबद्धमनुगतं व्याप्तम्।
- ‘रामवित्रासितान्सर्वाननुबद्धानिवेषुभिः’ (रा० ४।१९।७)। अनुबद्धान्=अनुसृतान्।
- ‘सखीजनानुबद्धां कथाम्’ (दशकु०)। सखीसक्तां सखीसम्बद्धाम्।
- ‘अनुबद्धमुग्धकाकलीहसितम्।’ (उत्तर० ३)।
- ‘अनुबद्धदिवसयुद्धपरिश्रान्तः’ (प्रतिज्ञा० १)। अनुबद्धमविरतम्।
- ‘भर्ता शङ्कितो देवीं पुनरप्यनुबन्द्धुं प्रवृत्तः’ (मालविका १)। निर्बन्धेन प्रष्टुमित्यर्थः। गौरनुबन्ध्योऽजोऽग्नीषोमीयः। वधार्थं बन्ध्योऽनुबन्ध्यः। कर्मणि ण्यत्।
- ‘अनुबन्ध्येति स्त्रियां टाबन्तस्तल्लक्षणां गामाह—यथा नियोगधर्मो नानुबन्ध्यावधोपि वा इति याज्ञवल्क्ये (२।११७)। मिताक्षरायामुद्धृतमन्यदीयं वचः। अनुबन्ध्यो मुख्यः, यथानु्बन्ध्यो रोगो धातुर्वा।**
- ‘विषयेच्छानुबन्धिन्यो निसर्गात्प्राणिनां धियः’ (वा० कामसू० टी०)। विषयाप्त्यभिलाषानुसारिण्य इत्यर्थः।
- ‘दुःखं दुःखानुबन्धि’ (विक्रम० ४)। दुःखेन संसक्तं दुःखान्तरमित्यर्थः।
- ‘गुणा गुणानुबन्धित्वात्तस्य सप्रसवा इव’ (रघु० १।२२)। अनुबन्धित्वात् सहचारित्वात्। गुणा गुणान्तरैः (विरुद्धैः) संसृज्यन्त इत्यत इत्यर्थः।
- ‘नीलकण्ठकेकानुबन्धिना मन्द्रहुङ्कृतेन मामनुमन्यते’ (मालती० ९)। केकानुबन्धिना=केकामिश्रितेन।
- ‘सुखानुबन्धी’ (सुश्रुत० १।४७।८)। सुखसंवित्तिजनकः।
- ‘रोग एष सुदुस्तरो वर्षगणानुबन्धी’ (सुश्रुत० १।२८७।१६)। बहुवर्षाणि भावीत्याह। वर्षपूगमभिव्याप्य स्थातेत्यर्थः।
- ‘प्रविशन्त्यपि हि स्त्रियश्चितामनुबध्नन्त्यपि मुक्तजीविताः’ (सौन्दर० ८।४२)। अनुबध्नन्ति अनुसरन्ति।
- ‘साधु वादिनी सती किमिदमशोभनमभिधत्स इति कथामनुबध्नाति’ (का० सू० ५।४।२६)। अनुबध्नाति, अनुसन्तनोति, प्रवर्तयति।
- ‘प्रतिस्कीर्णं हं ते वृषल भूयात्, तथा ते वृषल विक्षेपो भूयाद्यथा हिंसामनुबध्नाति’ (पा० ६।१।१४ सूत्रे वृत्तौ)। हिंसां फलतीत्याह।
- ‘अनुबन्धः खलु सः। यः कर्तारमवश्यमनुबध्नाति कार्यादुत्तरकालं कार्यनिमित्तः शुभो वाप्यशुभो वा भावः’ (चरक० वि० ८।६)। अनुबध्नाति उपतिष्ठति, उपैति। अनुबन्धस्त्वायतीयं फलम्।
- ‘शान्तज्वरोपि शोध्यः स्यादनुबन्धभयान्नरः’ (सुश्रुत० उत्तर० ३९।७१)। अनुबन्धः पुनरुपद्रवः।
- ‘गण्डादुत्पाट्य मांसेन सानुबन्धेन जीवता’ (सुश्रुत० १।१६।१३)। सानुबन्धेन अनुबद्धेन गण्डप्रदेशलग्नेन। जीवता शोणितसहितेन।
- ‘अनुबन्धश्च पापोऽत्र शेषश्चाप्यवशिष्यते’ (भा० उ० ७२।५८)। अनुबन्धो दोषोत्पादः।
- ‘इत्ययाचत तां सोऽथ बालत्वादनुबन्धतः’ (कथा० ६५।७६)। अनुबन्धो निर्बन्धः। अनुबन्ध्यः प्रधानम्, अनुबन्धोऽप्रधानम्।
- ‘स्वतन्त्रो व्यक्तलिङ्गो यथोक्तसमुत्थानोपशमो भवत्यनुबन्ध्यः, तद्विपरीतलक्षणस्त्वनुबन्धः ’ (चरक० चि० अ० ६)।
- ‘तत्रानुबन्धं प्रकृतिं च सम्यग् ज्ञात्वा ततः कर्म समारभेत’ (चरक० सूत्र० १९।१८)। अनुबन्धः पश्चात्कालजातो रोगः।
- ‘साकं यन्तुः संमदेनानुबन्धी दूनोऽभीक्ष्णं वारणः प्रत्यरोधि’ (शिशु० १८।३९)। अनुबध्नातीत्यनुबन्धी अनुसरणशीलः।
- ‘अनुबन्धः सरूपप्रजननसन्तानः’ (न्याभा० २।२।६२)।
बुध्
- {अनुबुध्}
- बुध् (बुध अवगमने)।
- ‘सर्वो हि कृतमनुबुध्यते’ (श० ब्रा० २।२।३।१७)। कृते जागर्ति, कृतं सम्यगनुभवति, संवेत्ति।
- ‘यस्य वीर्यं प्रथमस्यानुबुद्धम्’ (अथर्व० ४।२४।६)। अनुबुद्धम्=प्रतीतम्, अवगतम्=विदितम्। सार्वलौकिकमित्यर्थः।
- ‘नान्वबुध्यत संसुप्तमुत्सङ्गे स्वे वृकोदरम्’ (भा० आदि० १३३।१७)। नान्वबुध्यत=नाजानात्। अनुशब्दोऽकिञ्चित्करः।
- ‘अये सम्यगनुबोधितोस्मि’ (शा० १)। स्मारितोस्मीत्याह। अथ प्रबोधनमनुबोध इत्यमरः। स्नानादिना गतस्य गन्धस्य यत्नेनोद्बोधनमनुबोध उच्यते।
- ‘तद्धोभये देवासुरा अनुबुबुधिरे’ (छां० उ० ८।७।२)। तत् प्रजापतेर्वचः कर्णाकर्णि श्रुतवन्त इत्यर्थः। अनुशब्दः पारम्पर्ये।
ब्रू
- {अनुब्रू}
- ब्रू (ब्रूञ् व्यक्तायां वाचि)।
- ‘अथ यदेवानुब्रुवीत तेनर्षिभ्य ऋणं जायते’ (श० ब्रा० ५।१।७।२)। अनुब्रुवीत=अधीयीत (वेदमिति शेषः)।
- ‘ता एता नवानन्तरायमन्वाह’ (ऐ० ब्रा० २।२०)। अनुवचनमध्ययनमुच्चारणं भवति। अनुशब्दोऽनुक्रममावृत्तिं वाऽऽह।
- ‘यो जुष्टं देवेभ्योऽनुब्रवत्’ (श० ब्रा० १।५।१।१८)। अनुब्रवत्=स्वाध्यायमधीयीत।
- ‘यो वेदमनुब्रूते (शिष्येभ्यः)’ (शां० श्रौ० १५।१६।६)। अध्यापयतीत्यर्थः।
- ‘इन्द्राग्निभ्यां पुरोडाशस्यानुब्रूहि’ (का० श्रौ० ६।७।१९)। अनुब्रूहि=आवह।
- ‘अनुब्रुवाणो अध्येति न स्वपन्’ (ऋ० ५।४४।१३) गुरुमुखाच्छ्रुत्वा पश्चाद् ब्रुवाणः, कण्ठतः शिक्षमाण इत्याह।
- ‘एकः शास्ता न द्वितीयोस्ति शास्ता यो हृच्छ्यस्तमहमनुब्रवीमि’ (भा० आश्व० २६।१)। अनुब्रवीमि=इति स्वं मतमुदाहरामि।
- ‘अथ यदनुब्रूते तेन ऋषीणाम्’ (बृह० उ० १।४।१६)। अनुब्रूते स्वाध्यामधीते। अनुवचनमिति स्वाध्यायार्थे प्रसिध्यति।
भाष्
- {अनुभाष्}
- भाष् (भाष व्यक्तायां वाचि)।
- ‘यथा यथा नरोऽधर्मं स्वयं कृत्वानुभाषते’ (मनु० ११।२२८)। अनुभाषते ख्यापयतीत्यनर्थान्तरम्।
- ‘यथा यथा नरः सम्यगधर्ममनुभाषते’ (भा० अनु ११२।७)। अनुभाषते पुनः पुनः सनिन्दं वक्ति।
- ‘सहोभौ चरतां धर्ममिति वाचाऽनुभाष्य च’ (मनु० ३।३०)। नियम्येति कुल्लूकः।
- ‘अनुभाष्य महाराज पुनः पप्रच्छ सञ्जयम्’ (भा० उ० ५८।२९)। पुनरुक्त्वेत्यर्थः। अनुभाषाऽनुलापो भवति।
- ‘दूताः किमपराध्यन्ते यथोक्तस्यानुभाषिणः’ (भा० उ० १६२।३९)। अनुभाषिणः=अनुदेष्टारः, परप्रणीतानि वचांस्युदाहरन्तः।
- ‘अस्मान्वेत्थ परान्वेत्थ वेत्थार्थाननुभाषितुम्। यद्यदस्मद्धितं कृष्ण तत्तद्वाच्यः सुयोधनः’ (भा० उ० ७२।९२)॥ अनुभाषितुम्=अन्वाख्यातुम्, पौर्वापर्येण यथावद् भाषितुम्।
भुज्
- {अनुभुज्}
- भुज् (भुज पालनाभ्यवहारयोः)।
- ‘मेघमुक्तविशदां स चन्द्रिकामन्वभुङ्क्त’ (रघु० १९।३९)। क्रमेणाभुक्तेत्याह।
- ‘सा मण्डनान्मण्डनमन्वभुङ्क्त (कु० ७।५)। उक्तोऽर्थः।
भू
- {अनुभू}
- भू (भू सत्तायाम्)।
- ‘उभे यत्त्वा भवतो रोदसी अनु’ (ऋ० १०।१४७।१)। त्वाऽनुभवतः=त्वदभिमुखीभवतः।
- ‘न ते महित्वमनु भूदध द्यौर्यदन्यया स्फिग्या क्षामवस्थाः’ (ऋ० ३।३२।११)। तव महिम्नः पारमयादित्याह।
- ‘यथा वै द्वे वामलके द्वे वा कोले द्वौ वाक्षौ मुष्टिरनुभवत्येवं वाचं च नाम च मनोऽनुभवति’ (छां० उ० ७।३।१)। अनुभवति=अन्तर्भावयति=संभवति=समावेशयति।
- ‘य एवैतमनुभवति यो वै तमनु भार्यान्बुभूर्षति’ (बृह० उ० १।३।१८)। अनुभवति=साध्वाचरति, तस्मिन्सद् व्यवहरति।
- ‘अथो व उशती कीर्तिर्लोकाननुभविष्यति’ (भा० पु० ४।३०।११)। आ लोकानां स्थितेः स्थास्यति, लोकानभिव्याप्स्यतीति वार्थः। (पा० ५।२।१०) सूत्रं व्याचक्षाणो वृत्तिकारः पुत्रपौत्रीणा लक्ष्मीरिति उदाहरति व्याख्याति च पुत्त्रान्पौत्रांश्चानुभवतीति। तत्रानुभवतिर्व्याप्त्यर्थ इति स्पष्टम्।
- ‘वेदान्नानुभवसि’ (छां० उ० ६।७।३)। अनुभवसि=स्मरसि, अवगच्छसि।
- ‘अनुभूयतामयं वीराः स्वयंवर इति प्रभो’ (भा० वन० ५४।९)। साक्षात्क्रियताम् इत्याह।
- ‘वक्तव्याश्चापि राजानः सर्वे सहसुहृज्जनैः… युधिष्ठिरस्याश्वमेधो भवद्भिरनुभूयताम्’ (भा० आश्व० ७६।२३)॥ उक्तोऽर्थः।
- ‘करसादोऽम्बरत्यागस्तेजोहानिः सरागता। वारुणीसङ्गजावस्था भानुनाप्यनुभूयते॥ अनुभवति हि मूर्ध्ना पादपस्तीव्रमुष्णम्’ (शा० ५।७)। अनुभवति=सहते।**
- ‘न त्वं तेनान्वभाविष्ठा नान्वभावि त्वयाऽप्यसौ। अनुभूता मया चासौ तेन चान्वभविष्यहम्’ (भट्टि० ५।३५)। अत्रानुभूतिः परीक्षणार्थकः। आमोदो नहि कस्तूर्याः शपथेनानुभाव्यते। अनुभाव्यते=अनुमीयते।
- ‘तस्मात्परोक्षवृत्तीनां फलैः कर्मानुभाव्यते’ (हितोप० ४।१०१)। अनुमीयते, उन्नीयते, तर्क्यत इत्यर्थः। मनसा तमेव वृत्तान्तमन्वभावयत्। अचिन्तयदित्यर्थः।
- ‘अनुभाविनां च परिवापनम्’ (आप० ध० सू० १।३।१०।६)। अनुभाविनां शावं दुःखमनुभवताम्।
- ‘मृतमपेक्ष्य पश्चाज्जातानामवरवयसामित्येके। अनुभावविशेषात्तु सेनापरिवृताविव’ (रघु० १।३८)। अनुभावविशेषात्=तेजःप्रकर्षात्।
- ‘संभावनीयानुभावाऽस्याकृतिः’ (शा० ७)। अनुभावः प्रभावः, अधिकारः। भावस्य बहिः प्रकाशनमनुभावः। भावं मनोगतं साक्षात्स्वगतं व्यञ्जयन्ति ये। तेऽनुभावा इति ख्याताः…॥ अनुभावः प्रभावे स्यात् सतां च मतिनिश्चये इत्यमरः। अनुभावो निश्चये स्यादिति विश्वप्रकाश: पठति।
- ‘अनुभावांश्च जानासि ब्राह्मणानां न संशयः। प्रभावांश्चैव वेत्थ त्वं सर्वेषामेव पार्थिव’ (भा० वन० २४।८)। अनुभावस्तेजो निश्चयो वा। कर्तव्याकर्तव्यविषयकान्निश्चयानिति नीलकण्ठः। गर्भमाधत्त राज्ञी।
- ‘गुरुभिरभिनिविष्टं लोकपालानुभावैः’ (रघु० २।७५)। अनुभावैस्तेजोभिरिति मल्लिः। लक्ष्मभिरित्यपरे।
- ‘अनुभावात्तु जानामि महर्षेर्भावितात्मनः’ (रा० ४।६३।२०)। अनुभावः प्रभावः।
- ‘आश्चर्यमपरित्याज्यो दृष्टनष्टापदामपि। अविवेकान्धबुद्धीनां स्वानुभावो दुरात्मनाम्’ (कथा० ३।३७)॥ अनुभावो मनोवृत्तिः, अभिनिवेशो विस्रम्भो वा। महानुभावः पुरुषः, महनीयाकृतिः, महाप्रतापो वा।
- ‘जनार्दनस्मरणानुभावः’ (वि० पु० १।१७।४४)।
- ‘अप्रयच्छंस्तथा शुल्कमनुभूय पुमान् स्त्रियम्’ (याज्ञ० २।२९२ इत्यत्र मिताक्षरायां नारदवचनम्)। अनुभूय=उपभुज्य।
- ‘संवत्सरमात्रं प्रेष्यभावमनुभूय’ (माल०)। अनुभूय=निर्विश्य, निषेव्य। यावदहं स्नानभोजने अनुभूय सज्जो भवामि गन्तुम्, तावत्प्रतिपालय। अनुभूय=कृत्वा=निर्वर्त्य।
- ‘अनुभूता भविष्यामि यच्छ कोपं महाद्युते’ (हरि० १।५।५४)।
- ‘ब्रह्मणि एकभक्त्यनुभाविते’ (भा० पु० ३।१४।४३)। अनुभाविते=अपरोक्षीकृते।
- ‘स्नानभोजनादिकमनुभावितोस्मि’ (दशकु०)। कारितोस्मीत्यर्थः।
- ‘वयं च सर्वे भवताऽनुभाविताः’ (भा० पु० १०।६२।३७)। रक्षिता इत्यर्थः।
- ‘अनुभावी तु यः कश्चित्कुर्यात्साक्ष्यं विवादिनाम्’ (मनु० ८।६९)। अनुभावी प्रत्यक्षदर्शी, साक्षाद् द्रष्टा।
- ‘अयमत्र भवतो दशमः संवत्सरो विद्यागृहमधिवसतः। प्रविष्टोसि षष्ठवर्षमनुभवन्’ (काद० चन्द्रापीडोद्देश्यकोक्तिः)।
- ‘मरुतस्तत्सुतोऽपुत्रः पुत्रं पौरवमन्वभूत्’ (भा० पु० ९।२३।१७)। पुत्रमिवाचरदित्यर्थः।
मद्
- {अनुमद्}
- मद् (मदी हर्षे)।
- ‘वागु हैवानुममाद प्रहर जहीति’ (श० ब्रा० २।५।४।६)।
मन्
- {अनुमन्}
- मन् (मन ज्ञाने, मनु अवबोधने)।
- ‘तत्र नाहमनुमन्तुमुत्सहे मोघवृत्ति कलभस्य चेष्टितम्’ (रघु० ११।३९)। अनुमन्तुम्=अनुज्ञातुम्।
- ‘इमां स्वसारं च यवीयसीं मे कुमुद्वतीं नार्हसि नानुमन्तुम्’ (रघु० १६।८५)। अनुमन्तुमभ्युपगन्तुम्। न नार्हसि=अर्हस्येव।
- ‘अनुमान्यतां महाराजः’ (विक्रम० २)। तदनुज्ञालाभः क्रियतामित्याह।
- ‘भूयोपि सखीजनमनुमानयिष्यामि’ (शा० ३)। सखीजनमनुमानयितुमनुज्ञापयितुं यतिष्य इत्युक्तं भवति।
- ‘अन्नमादाय तृप्ताः स्थ शेषं चैवानुमान्य च’ (याज्ञ० १।२४१)। शेषमनुमान्य=शेषोपभोगेऽनुमतिं प्राप्य।
- ‘धर्मार्थावभिसन्त्यज्य संरम्भं योऽनुमन्यते’ (भा०)। अभ्युपैति सेवत इति वार्थः।
- ‘द्वारे नियुक्तपुरुषानुमतप्रवेशः’ (माल० १।१२)। अनुमतोऽनुज्ञातः।
- ‘कृतमनुमतं दृष्टं वा यैरिदं गुरुपातकम्’ (वेणी० ३।२४)। अनुमतमनुमोदितम्।
- ‘प्रथमं कस्यानुमते चोरितमेतत् त्वया हृदयम्’ (विक्रम० ३।१७)। कस्यानुमते=कस्यानुमत्या, केनानुज्ञातः, कस्यानुरोधेन।
- ‘उभे सन्ध्ये शयानस्य यत्पापं परिकल्प्यते। तच्च पापं भवेत्तस्य यस्यार्योऽनुमते गतः’ (रा० २।७५।४४)।
- ‘परमतमप्रतिषिद्धमनुमतं भवति।’ अनुमतमनुज्ञातमभ्युपगतम्।
- ‘तेषामपि हि सर्वेषामनुमानमुपागतम्। गच्छाम प्रविशामेति…’ (रा० ४।५२।१३)॥ अनुमानमङ्गीकरणमिति भूषणम्।
मन्त्र्
- {अनुमन्त्र्}
- मन्त्र् (मत्रि गुप्तपरिभाषणे)।
- ‘विसृष्टश्च वामदेवानुमन्त्रितोऽश्वः’ (उत्तर० २)। अनुमन्त्रितः=अभिमन्त्रितः=मन्त्रैः संस्कृतः।
- ‘मन्त्रमुच्चारयन्नेव मन्त्रार्थत्वेन संस्मरेत्। शेषिणं तन्मना भूत्वा स्यादेतदनुमन्त्रणम्॥ इति शौनकेन स्मर्यत इति’ (ऐ० ब्रा० २।२१) षडगुरुशिष्यः।
- ‘प्रान्याभिर्यच्छत्यन्वन्यै र्मन्त्रयते’ (तै० सं० ५।१।६।३४)। अनुमन्त्रयते=अभिमन्त्रयते।
मा
- {अनुमा}
- मा (मा माने, माङ् माने)।
- ‘अनु ते द्यौर्बृहती वीर्यं ममे’ (अथर्व० २०।१५।५)। अनुममे=अनुक्रमेण परिमाति मिमीते परिच्छिनत्ति।
- ‘अलिङ्गां प्रकृतिं त्वां लिङ्गैरनुमिमीमहे’ (भा०)। अनुमितिविषयतामुपनयामः। नहि करिणि दृष्ट चीत्कारेण तमनुमिमतेऽनुमातारः। प्रत्यक्षदृष्टोऽर्थोऽविषयोऽनुमानस्येत्यर्थः।
- ‘पर्याकुलत्वान्मरुतां वेगभङ्गोऽनुमीयते’ (कु० २।२५)। अनुमीयते=तर्क्यते, उन्नीयते।
- ‘आकृतिरेवानुमापयत्यमानुषताम्’ (का०)। अमानुषताया अनुमां जनयति।
- ‘आत्मनो हृदयानुमानेन प्रेक्षसे’ (शा० ५)। हृदयसादृश्येनेत्याह।
- ‘स्वानुमानात् कादम्बरीमुत्प्रेक्ष्य’ (का०)। उक्तोऽर्थः।
- ‘मर्तव्यमिति यद् दुःखं पुरुषस्योपजायते। शक्यस्तेनानुमानेन परोपि परिरक्षितुम्’ (हितोप० १।६१)॥ अनुमानेन=सादृश्यानुमानेन।
मुद्
- {अनुमुद्}
- मुद् (मुद हर्षे)।
- ‘यं प्रजा अन्वमोदन्त पिता पुत्रानिवौरसान्’ (भा० द्रोण० ५९।५)। अन्वमोदन्त=प्रत्यनन्दन्, दृष्ट्वा प्राहृष्यन् इत्यर्थः।
- ‘नैतत्पूर्वे जनाश्चक्रुर्न करिष्यन्ति चापरे। इत्यम्बरीषं नाभागिमन्वमोदन्त दक्षिणाः’ (भा० शां० २९।१०२)। अन्वमोदन्त=अस्तुवन्। दक्षिणा विचक्षणा दाक्ष्ययुक्ता लोकाः।
- ‘अनुमोदस्व मामरण्यगमनाय’ (महावीर० ४)। अनुमोदस्व=अनुजानीहि।
- ‘न कश्चन भ्रातृषु तेषु शक्तो निषेद्धुमासीदनुमोदितुं वा’ (रघु० १४।४३)। अनुमोदितुम्=साध्विदमनुष्ठीयतामित्यनुमतिवचनेन स्वं हर्षं व्यङ्क्तुम्।
- ‘तदेव राममातृभिश्चानुमोदितम् (उत्तर० २)। प्रतिनन्दितम्, अभिनन्दितम्, सहर्षमभ्युपेतम् इत्यर्थः।
मृ
- {अनुमृ}
- मृ (मृङ् प्राणत्यागे)।
- ‘न चेदेनमनुम्रिये’ (कथा० ८८।३५)।
मृज्
- {अनुमृज्}
- मृज् (मृजू शुद्धौ)।
- ‘लोमान्यनुमार्ष्टि अनुलोमयति। अपि वा इषे त्वेत्याच्छिनत्त्यूर्जे त्वेति सन्नमयन्ननुमार्ष्टि वा’ (आप० श्रौ० १।१।११)। मूलादारभ्याऽऽग्रात्स्पर्शनमनुमार्जनमिति धूर्तस्वामी भाष्यकारः।
- ‘विष्णोः स्तूपोऽसीति कर्षन्निवाहवनीयं प्रति प्रस्तरमपादत्ते न प्रतिमार्ष्टि नानुमार्ष्टि’ (आप० श्रौ० २।३।८।५)। उक्तोऽर्थः।
- ‘जिह्वामुद्धर सर्वेषां परिमृज्यानुमृज्य च’ (भा० शां० ८१।१९)। अनुमृज्य प्रीतिगुणमाधाय।
मृश्
- {अनुमृश्}
- मृश् (मृश आमर्शने, आमर्शनं स्पर्शः)।
- ‘भद्रे हृदयमप्येतदनुमृश्योद्धरस्व मे’ (रा० २।११।९)। अनुचिन्त्य, अनुमायेत्यर्थः।
यज्
- {अनुयज्}
- यज् (यज देवपूजासंगतिकरणदानेषु)।
- ‘तमग्निष्टोमेनानुयजति’ (का० श्रौ० १६।१४ इत्यत्र टीकाकृतो वचनम्)। अनुयजति=अन्वर्चति।
यत्
- {अनुयत्}
- यत् (यती प्रयत्ने)।
- ‘अनु जनान् यतते पञ्च धीरः’ (ऋ० ९।९२।३)। जनाननुयतते=जनार्थं यतते चेष्टते।
यम्
- {अनुयम्}
- यम् (यम उपरमे)।
- ‘मनः पश्चादनु यच्छन्ति रश्मयः’ (ऋ० ६।७५।६)। रथस्य पृष्ठभागे वर्तमाना रश्मयः पुरतो वर्तमानान् वाजिनः सारथेर्मनोऽनुकूलं नियच्छन्तीत्याह।
- ‘तां (सीताम्) पूषानुयच्छतु’ (ऋ० ४।५७।७)। अनुयच्छतु=नियमयतु।
- ‘क्षुभा मर्तमनुयतं वधस्नैः’ (ऋ० ५।४१।१३)। त्वरयाऽनुक्रान्तमायुधैरित्युक्तं भवति।
- ‘पितॄणां शक्तीरनुयच्छमानाः’ (ऋ० १।१०९।३)। अनुयच्छमानाः स्वस्मिन्दधतः।
या
- {अनुया}
- या (या प्रापणे)।
- ‘तिष्ठन्तमनुतिष्ठन्ति यान्तं यान्ति दिवौकसः’ (मार्क ० पु० १८।२४)। अनुयान्ति=अनुचलन्ति।
- ‘एक एव सुहृद्धर्मो निधनेऽप्यनुयाति यः’ (हितोप०)।
- ‘गङ्गां चैवानुयास्यामः’ (भा० आदि० १२८।३६)। उपैष्याम इत्यर्थः।
- ‘न किलानुययुस्तस्य राजानो रक्षितुर्यशः’ (रघु० १।२७)। न प्रापुरित्यर्थः। नानुचक्रुः, न तुलयामासुरिति तात्पर्यम्।
- ‘अस्य वीर्यवतो वीर्यं नानुयास्यन्ति पार्थिवाः’ (भा० सभा १९।७)।
- ‘तेषां कश्चरितं शक्तस्त्वनुयातुम्’ (मार्क० १३३।९)। उक्तोऽर्थः।
- ‘अनुयातः स्ववीर्येण वासुदेवम्’ (भा० वन० १४१।२०)। अनुयातः=तुल्यतां गतः।
याच्
- {अनुयाच्}
- याच् (टुयाचृ याच्ञायाम्)।
- ‘अदित्या देवतानां च मम चैवानुयाचितम्’ (रा० १।२९।१५)। अनुयाचितं क्रमेण याचितम् (वरम्)।
युज्
- {अनुयुज्}
- युज् (युजिर् योगे)।
- ‘नैव प्राज्ञा गतश्रीकं भर्तारमुपयुञ्जते । युञ्जानमनुयुञ्जीत न श्रियः संक्षये वसेत्’ (भा० वन० २६७।१८)॥ अनुयुञ्जीत=तेन योगं सम्बन्धं भजेत्।
- ‘प्राड्विवाकोऽनुयुञ्जीत विधिना तेन सान्त्वयन्’ (मनु० ८। ७९)। अनुयुञ्जीत=पृच्छेत्।
- ‘शकुने वयं स्म देवा वै साध्यास्त्वामनुयुङ्क्ष्महे’ (भा० शां० २९९।४)। उक्तोऽर्थः।
- ‘किं वस्तु विद्वन्गुरवे प्रदेयं त्वया कियद्वेति तमन्वयुङ्क्त’ (रघु० ५।१८)।
- ‘ता त्वया नानुयोक्तव्या कासि कस्यासि चाङ्गने’ (भा० आदि० ९७।२२)।
- ‘यद्वै राजन्यात्पराग्भवति रथेन वैतदनुयुङ्क्ते’ (श० ब्रा० ५।४।३।२)। तदनुयुङ्क्ते=तदवाप्नोति, तद् गृह्णाति।
- ‘वसुन्धरायाः साह्यार्थमंशं स्वं नानुयुञ्जसे (=नानुयुङ्क्षे) ’ (हरि० १।५४।१७)। नानुयुञ्जसे=न नियोजयसि।
- ‘यथैषां वक्तुमिच्छन्ति नैर्गुण्यमनुयुञ्जकाः’ (भा० शां० २९९।२३)। अनुयुञ्जकाः-सासूया लोकाः। मत्सरिण इत्यर्थः। स्पर्धावन्त इति तु नीलकण्ठः।
- ‘अनुयोक्ता च यो विप्रोऽनुयुक्तश्च भारत’ (भा० अनु० २३।१७)। अनुयोक्ता भृतकाध्यापकः। अनुयुक्तो भृतकाध्यापित इति नीलकण्ठः।
- ‘यास्मि सास्म्यनुयोगो मे न कर्तव्यः कथंचन’ (भा० अनु० ९३।८२)। अनुयोगः प्रश्नः।
- ‘अनियन्त्रणानुयोगस्तपस्विजनो नाम’ (शा० १)। उक्तोऽर्थः।
- ‘नानुयोगा ब्राह्मणानां भवन्ति’ (भा० वन० १९२।५६)। अनुयोगो धिक्कारो दण्डो वा।
- ‘अनुयोगं विना तैलं तिलानां नोपजायते’ (पञ्चत० २।१४०)। अनुयोगोभियोगो यत्नः।
- ‘पूर्ववैरानुयोगेन स्नेहयोगेन वै पुनः’ (देवीभा० ४।२।११)। अनुयोगेन=अनुबन्धेन।
- ‘तदा तप्स्यस्यर्जुनस्यानुयोगात्’ (भा० कर्ण० ३९।१४)। अनुयोगः पार्थविषया पृच्छा क्वासाविति।
- ‘त्वां नैते ह्यनुयुञ्जेयुः प्रत्यक्षं प्रवदामि ते’ (रा० ४।५४।१०)। अनुयुञ्जेयुः=अनुयुञ्जीरन्=अनुवर्तेरन्।
- ‘नैर्गुण्यमेव पश्यन्ति न गुणाननुयुञ्जते’ (भा० शां० १??९।५४)। न गुणाननुयुञ्जते ज्ञानैश्वर्यादीन् गुणानात्मनि संवेद्यतामापाद्य परेषु न योजयन्ति।
- ‘विंशतिवर्षीपेक्षितमनवसितं वास्तु नानुयुञ्जीत’ (कौ० अ० ३।१६।३१)। नानुयुञ्जीत न प्रार्थयेत, ममेदमिति नाभियुञ्जीत।
- ‘मृगलिप्सुरहं भद्रे पानीयार्थमुपागतः। बहुधाप्यनुयुक्तोस्मि तदनुज्ञातुमर्हसि’ (भा० आदि० ८१।१६)॥ बहुधाऽनुयुक्तः कृतबह्वनुसरणः। पलायिते मृगे श्रान्त इत्यर्थः।
- ‘वैषम्ये सर्वत्रानुयोगं दद्यात्’ (कौ० अ० २।८।२७)। एकदेशेनाभ्युपगमे सति सर्वेष्वभियोगेषु परीक्ष्यः स्यादित्यर्थः।
- ‘एतेषामनुयोगेन कृतं ते स्वापनं महत्’ (कौ० अ० १४।३।२०)। अनयोगः प्रतिविधानोपदेशः।
रक्ष्
- {अनुरक्ष्}
- रक्ष् (रक्ष पालने)।
- ‘के पृष्ठतोऽन्वरक्षन्त’ (भा० द्रोण० १५५।५)। के चास्य पृष्ठतोऽगच्छन् इति पाठान्तरम्। अनुशब्दो व्याप्तौ। शाखायनश्रौतसूत्रे (१६।१०।११) ऽनुरक्षे रिरक्षिषयाऽनुसरणेऽर्थे प्रयोगः।
रञ्ज्
- {अनुरञ्ज्}
- रञ्ज् (रञ्ज रागे)।
- ‘अन्वरज्यदतुषारकरः’ (शिशु० ९।७)। रक्तोऽभवदित्यर्थः। अनुशब्दः सादृश्ये।
- ‘सन्ध्यानुरक्ते नभसि’ (व० बृ० सं २४।१८)। उक्तोर्थः।
- ‘यथेयमनुरज्यते प्राची दिक्, विध्वंसते च तम इति निरुक्ते’ (१।५।४) दुर्गः। अनुरज्यते=रक्ता भवति। नार्थोऽनुना।
- ‘तापानुरक्तमधुना कमलं ध्रुवमीहते जेतुम्’ (नागा० ३।१०)। उक्तोऽर्थः।
- ‘समस्थमनुरज्यन्ति विषमस्थं त्यजन्ति च’ (रा० ३।९।१६)। अनुरज्यन्ति=अनुरक्ताः प्रीतिमत्यो भवन्ति।
- ‘भ्रातुर्मृतस्य भार्यायां योऽनुरज्येत कामतः’ (मनु० ३।१७३)। अनुरज्येत=कामप्रवेदनीं चेष्टामाविष्कुर्यात्।
- ‘तव प्रकीर्त्या जगत् प्रहृष्यत्यनुरज्यते च’ (गीता ११।३६)। भक्तिमान् भवतीत्यर्थः।
- ‘पित्रापरञ्जितास्तस्य प्रजास्तेनानुरञ्जिताः’ (हरि० १।५।३०)। अनुरञ्जिताः=स्वस्मिन्ननुरक्ताः कृताः।
- ‘सर्वलोकोऽनुरज्येत कथ त्वनेन कर्मणा’ (रा० २।५८।२८)। अनुरज्येत=प्रसीदेत्।
- ‘कष्टं जनः कुलधनैरनुरञ्जनीयः’ (उत्तर० १।१४)। उक्तोऽर्थः।
रम्
- {अनुरम्}
- रम् (रमु क्रीडायाम्)।
- ‘क्षत्रधर्मेष्वनुरतः’ (रा० ३।४।६)। क्षत्रधर्मेषु प्रहृष्टः।
राज्
- {अनुराज्}
- राज् (राजृ दीप्तौ)।
- ‘उभे वाचौ वदति सामगा इव गायत्रं च त्रैष्टुभं चानुराजति’ (ऋ० २।४३।१)। अनुराजति=अनुकरोति।
- ‘सोमो विराजमनु राजति ष्टुप्’ (ऋ० ९।९६।१८)। उक्तोऽर्थः।
राध्
- {अनुराध्}
- राध् (राध साध संसिद्धौ)।
- ‘अन्वेषामरात्स्म’ (तै० ब्रा० १।५।२।८)। राद्धा इमेऽस्माभिरित्युक्तं भवति।
री
- {अनुरी}
- री (रीङ् स्रवणे)।
- ‘वर्त्मान्येषामनु रीयते घृतम्’ (ऋ० १।८५।३)। अनुप्रवहतीत्यर्थः।
- ‘अहिं बुध्न्यमनुरीयमाणः’ (वा० सं० १०।१९)। उक्तोऽर्थः।
रु
- {अनुरु}
- रु (रु शब्दे)।
- ‘चकोरक्रौञ्चचक्राह्वभारद्वाजांश्च बर्हिणः। अनुरौति स्म’ (भा० पु० १०।१५।१३)। अनुरौति स्म तेषां रुतमनुकरोति स्म।
रुद्
- {अनुरुद्}
- रुद् (रुदिर् अश्रुविमोचने)।
- ‘गुरुशोकामनुरोदितीव माम्’ (कु० ४।१५)। अनुशोचतीवेत्यर्थः।
रुध्
- {अनुरुध्}
- रुध् (रुधिर् आवरणे, अनो रुध कामे)।
- ‘शिलाभिः शकुभिर्वापि श्वभ्रैर्वा भरतर्षभ। ये मार्गमनुरुन्धन्ति’ (भा० अनु० २३।७७)। **अनुरुन्धन्ति=रुन्धन्ति=उपरुन्धन्ति। अनुशब्दोऽस्थाने। **
- ‘…आर्षेण वर्त्मना प्रस्थिता नानुरुन्धन्ति श्रोतृचित्तानुवर्तनम्’ (राज० ३।९५)। अनुरुन्धन्ति=अनुसरन्ति।
- ‘यत्त्वमद्यापि राममेवानुरुध्यसे’ (भा० वन० २८१।२८-२९)। अनुरुध्यसे=कामयसे।
- ‘नानुरुध्ये विरुध्ये वा न द्वेष्मि न च कामये’ (भा० शां० २६२।१०)। अनुरुध्ये=अनुकूलमाचरामि।
- ‘नानुरोत्स्ये जगल्लक्ष्मीम्’ (भट्टि० १६।२३)। न कामयिष्ये, नैषिष्यामि।
- ‘श्रुतवानसि यत्कर्म कृतवानसि भार्गव। अनुरुध्यामहे ब्रह्मन् पितुरानृण्यमास्थितम्’ (रा० १।७६।२)॥ अनुरुध्यामहे=अङ्गीकुर्मः, आद्रियामह इति तिलककारो रामः।
- ‘इष्टान् भोगान्नानुरुध्येत् सुखं वा’ (भा० शां० २८६।१३)। अनुरुध्येत्=अनुरुध्येत=कामयेत।
- ‘समस्थमनुरुध्यन्ते विषमस्थं त्यजन्ति च’ (रा० ३।९।१६)। अनुरुध्यस्व भगवतो वसिष्ठस्यादेशम्। अनुरुध्यस्व=अनुवर्तस्व=अनुतिष्ठ।
- ‘अप्स्वग्ने सधिष्टव सौषधीरनु रुध्यसे’ (ऋ० ८।४३।९)। अनुरुध्यसे=स्वस्मिन्नन्तर्धत्से।
- ‘अनुरुन्ध्यादघं त्र्यहम्’ (मन० ५।६३)। त्रीण्यहान्यघमनुगतः स्यात्। अर्वाग् दिवसत्रयान्नाशौचान्मुच्यत इत्यर्थः।
- ‘धर्मार्थावनुरुध्यन्ते त्रिवर्गासम्भवे नराः’ (भा० उ० १२४।३४)। अनुरुध्यन्ते=अनुसरन्ति=सेवन्ते।
- ‘इमाममूलां गोविन्दराजोक्तिं नानुरुन्ध्महे’ (मनु० ४।७) इत्यत्र कुल्लूकवचनम्। नानुमन्यामहे=नाभिनन्दामः, नाभ्युपेमः।
- ‘नियतिं लोक इवानुरुध्यते’ (कि० २।१२)। अनुरुध्यते=अनुसरति।
- ‘यदि भवाननुरुध्यते’ (महावीर० ४)। अनुमन्यत इत्यर्थः।
- ‘हन्त तिर्यञ्चोपि परिचयमनुरुध्यन्ते’ (उत्तर० ३)। परिचयस्यानुकूलमाचरन्तीत्यर्थः।
- ‘यदि गुरुष्वनुरुध्यसे’ (महावीर० ३)। यदि गुरूनाद्रियस इत्याह।
- ‘इत्यादिभिः प्रियशतैरनुरुध्य मुग्धाम्’ (उत्तर० ३।२६) अनुरुध्य=उपच्छन्द्य, अनुनीय, प्रसाद्य।
- ‘शक्तिर्गुणाश्रया तत्र प्रधानमनुरुध्यते’ (वा० प० ३।३२९)। अनुरुध्यते=अनुसरति।
- ‘विशेषणं गुणत्वाद्विशेष्यकालमनुरुध्यते’ (पा० ३।४।१ इत्यत्र काशिका)। उक्तोऽर्थः।
- ‘भूयोऽर्थं नानुरुध्यत् स (मुनिरत्रिः) धर्मव्यक्तिनिदर्शनात्’ (भा० वन० १८५।२)। फलाभिव्यक्तेर्दर्शनात् फलेन हि धर्मो नश्यतीति दृष्ट्वा भूयोऽत्यन्तमर्थं नाकामयतेत्याह। निजप्रतिज्ञामनुरुध्यमाना महोद्यमाः कर्म समारभन्ते। अत्रानुरोधोऽनुसरणमाह।
- ‘आश्रमे वासमनुरुध्य’ (रा० ७।४८।५)। आश्रमवासे सुखं निर्विश्येत्यर्थः।
- ‘तया चाहमनुरुध्यमानस्तां बकुलमालां दत्तवान्’ (मालती० १)। अनुरुध्यमानः-सम्प्रार्थ्यमानः प्रचोद्यमानः। अनुबध्यमान इति पाठान्तरम्।
- ‘न पिताऽप्यनुरोद्धव्यः स्वामिसेवापरात्मभिः’ (शि० भा० ११।३३)। अनुरोद्धव्यः=अनुसर्तव्यः=अनुवर्तितव्यः।
- ‘मनोऽनुरुन्धती भर्तुरिति मां विद्ध्यरुन्धतीम्’ (भा० अनु० ९३।१००)। अनुरुन्धती=आद्रियमाणा।
- ‘लोकगाथामनुरुन्धानः’ (सर्वद० २,१)। उक्तोऽर्थः।
- ‘अनुरोधविरोधाभ्यां समः स्यादचलो ध्रुवः’ (भा० शां० २७८।१४)। अनुरोध आनुकूल्यम्।
- ‘धर्मानुरोधात्’ (का०)। अनुरोधः=अनुसारः।
- ‘कविश्रमानुरोधाद्वा’ (वेणी० १)। अनुरोध आदरः, संभावना।
- ‘दत्तोत्सेकः प्रलपति मया याज्ञवल्क्यानुरोधात्’ (महावीर० ३।२८)।
- ‘नानुरोधोस्त्यनध्याये होममन्त्रेषु चैव हि’ (मनु० २।१०५)। अनुरोध आदरः।
- ‘गुरुवृत्त्यनुरोधेन न किञ्चिदपि दुर्लभम्’ (रा० २।३०।३६)। गुरुशुश्रूषानुसरणेनेत्याह। अनुरोधोऽनुसरणम्।
- ‘वदेद् विपश्चिद् महतोऽनुरोधात्’ (पञ्चत० १।११३)। महतोऽनुरोधात्=महत्या प्रत्यवेक्षया। अदभ्रेण प्राक्चिन्तनेन।
- ‘को विनतेऽनुरोधः’ (पा० ८।३।६१ इत्यत्र काशिकायाम्)। अनुरुध्यत आनुकूल्येन प्राप्यत इत्यनुरोधः प्रयोजनम् इति पदमञ्जरी।
- ‘विनाऽनुरोधात्स्वहितेच्छयैव’ (शिशु० २०।८१)। अनुरोधः प्रार्थना।
- ‘चापल्यादनुरुन्धते तदितरं पन्थानमन्धा नराः’ (विश्व० च० २२।२९४)। अनुरुन्धते अनुसरन्ति।
रुध्
- {अनुरुध्}
- रुध् (अनोरुध कामे)।
- ‘नानुरोत्स्ये जगल्लक्ष्मीम्’ (भट्टि० १६।२३)। अनुरोत्स्ये कामयिष्ये।
- ‘पुराहमाश्रमे वासं रामपादानुवर्तिनी। अनुरुध्यापि सौमित्रे…’ (रा० ७।४८।५)॥ अनुरुध्य कामयित्वा।
- ‘न मे ऽनुरोधोस्ति कुतो विरोधः’ (सौन्दर० १७।६७)। अनुरोध आनुकूल्यमनुरागः।
लप्
- {अनुलप्}
- लप् (लप व्यक्तायां वाचि)।
- ‘मिथ्यानुलापिना नित्यं निजच्छद्मापलापिना’ (शि० भा० २३।३७)। अनुलापो मुहुर्भाषा (अमरः)। तेनानुलपता वावद्यमानेनेत्युक्तं भवति।
लभ्
- {अनुलभ्}
- लभ् (डुलभष् प्राप्तौ)।
- ‘पराञ्चं धावन्तमनुलिप्सेत’ (श० ब्रा० ३।२।१।३६)। पराङ्मुखं धावन्तमासादयितुमिच्छेदित्यर्थः।
लिप्
- {अनुलिप्}
- लिप् (लिप उपदेहे)।
- ‘हरिभिरचिरभासां तेजसा चानुलिप्तैः।’ (शा० ७।७) अनुलिप्तैरुपदिग्धैः। स्नातानुलिप्तः।
- ‘पूर्वं स्नातः पश्चात् कृतचन्दनादिलेपः’ (पा० २।१।४९ इत्यत्र काशिकायामुदाहरणम्)।
- ‘स्नापयित्वाऽनुलिप्य च’ (कथा० ९२।३९)। उक्तोऽर्थः।
- ‘चन्दनानुलिप्ता ब्राह्मणी’ (पा० ४।१।५१ इत्यत्र काशिकायां प्रत्युदाहरणम्)। अनुशब्दो व्याप्तौ सर्वतो भावे। गात्रानुलेपनी वर्तिः (अमरे)।
वच्
- {अनुवच्}
- वच् (वच व्यक्तायां वाचि, ब्रूञ आदेशो वा)।
- ‘एतद्वा एतैस्त्रिभिरायुर्भिरन्ववोचथाः’ (काठक-संहिता)। अधीतवानसीत्यर्थः।
- ‘दधन्वे वा यदीमनु वोचद् ब्रह्माणि’ (ऋ० २।५।३)। अनुवोचत्=अनुवक्ति। शस्त्राणि शंसतीत्यर्थः।
- ‘तदु हैतदेवारुणये ब्रह्मवर्चसकामाय तक्षानूवाच’ (श० ब्रा० २।३।१।३१)। अनूवाच=प्रोक्तवान्=व्याख्यातवान्।
- ‘येषां द्विजानां सावित्रीं नानूच्येत यथाविधि’ (मनु० ११।१९१)। उपनयननिमित्तं। नोच्चार्येतेत्याह।
- ‘सर्वेभ्यो वै वेदेभ्यः सावित्र्यनूच्यते’ (आप० ध० १।१।१।१०)। प्रतिवेदं पादं पादमुदुह्य समुदिता गायत्री पठ्यत इत्यर्थः।
- ‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति ब्रह्मचर्येण तपसाऽनाशकेन’ (बृ० उ० ४।४।२२)। वेदानुवचनेन=वेदाध्ययनेन।
- ‘वेदानुवचनाच्च’ (गौ० ध० १।१।११)। अनुवचनमध्यापनम्।
- ‘अहं ते नानुवक्तव्यो विशेषेण कदाचन’ (रा० २।२६।२६)। अनुवक्तव्यः=स्तोतव्यः।
- ‘अनूच्यमानास्तु पुनस्ते मन्यन्तु महाजनात्। गुणवत्तरमात्मानम्…॥’ (भा० शां० २८७।२७)। अनूच्यमानाः शिक्ष्यमाणाः।
- ‘यो ब्राह्मणो विद्यामनूच्य न विरोचते’ (त० सं० २।१।२।८)। अनूच्य=अधीत्य।
- ‘वेदमनूच्याचार्योऽन्तेवासिनमनुशास्ति’ (तै० उ० १।१०)। अनूच्य=अध्याप्य।
- ‘योऽनूचानः स नो महान्’ (मनु० २।१५४)।
- ‘यं वाकेष्वनुवाकेषु निषत्सूपनिषत्सु च। गृणन्ति सत्यकर्माणम्…’ (भा० शां० ४७।२६)। अनुवाकेषु मन्त्रार्थविवरणभूतेषु ब्राह्मणवाक्येषु इति नीलकण्ठः।
- ‘अनुवाचय तावत्। यद्यविरुद्ध श्रोष्यामि’ (मुद्रा० १)। आत्मानं प्रति वाचयेत्याह। अनुच्चैरात्मानं श्रावयन्पठेत्यर्थः।
- ‘अनुवाचितलेखममात्यमवलोक्य’ (मुद्रा० १)। उक्तोऽर्थः।
- ‘उभे नाम मुद्राक्षराण्यनुवाच्य परस्परमवलोकयतः’ (शा० १)।
- ‘स यावदस्य वचः स्यात्। एवमेवानुविवक्षेत्’ (श० ब्रा० १।३।५१४)। अनुविवक्षेत्=सततं ब्रूयात्।
वद्
- {अनुवद्}
- वद् (वद व्यक्तायां वाचि)।
- ‘अनुवदते कठः कलापस्य’ (पा० १।३।४९)। यथा कलापोऽधीयानो वदति तथा कठ इत्यर्थः। अनुः सादृश्ये। अनूवदति वीणा गायकस्य (वृत्तौ प्रत्युदाहरणम्)=गाथकस्य स्वरमनुकरोति, अनुहरति।
- ‘चित्तं वा इदं मनो वागनुवदति’ (श० ब्रा० ३।२।४।१६)। उक्तोऽर्थः।
- ‘अनुवदति शुकस्ते मञ्जुवाक् पञ्जरस्थः’ (रघु० ५।७४)।
- ‘पूर्वमेवोदितमनुवदति’ (ऐ० ब्रा० २।४० इत्यत्र सायणः)। अनवदति=पुनर्वक्ति।
- ‘परिम्लानप्रायामनुवदति दृष्टिः कमलिनीम्’ (भोज० १।७२)। तथा संवदतीत्यर्थः।
- ‘अवान्तरप्रलयानन्तरं तु मनःप्रभृतिसृष्टावभिधानक्रमेणैव प्राथम्यप्राप्तिरित्येषा सृष्टिरादित इति निष्प्रयोजनोऽनुवादः स्यात्’ (मनु० १।७४ इत्यत्र कुल्लूकः)। अनुवादः पुनर्वचनम्।
- ‘अनुवादे चरणानाम्’ (पा० २।४।३)। प्रमाणान्तरावगतस्यार्थस्य शब्देन संकीर्तनमात्रमनुवादः (काशिका)।
- ‘ये त्वाऽनुवादेऽयुरवृत्तिकर्शिताः’ (भा० वि० ८।१७)। अनुवादे इति निमित्ते सप्तमी। अनुवादनिमित्तमित्यर्थः। पूर्वं देहीत्युक्त्वादत्तस्यैव क्षेत्रारामादेः प्रतिवर्षं पुनर्देहीति राजवचनं यदधिकारिणं प्रति तदनुवाद इति नीलकण्ठः। विधिविहितस्यानुवचनमनुवादः।
- ‘नानुवादपुनरुक्तयोर्विशेषः शब्दाभ्यासोपपत्तेः’ (न्याय० २।६५।६६)।
- ‘कालानुवादं परीत्य’ (नि० १२।१३)।
- ‘विनानुवादं न च तन्मनीषितं सम्यग्यतस्त्यक्तमुपाददात्पुमान्’ (भा० पु०)। अनुवादः=वचनोपक्रमः।
- ‘आरम्भश्च साहसानुवादी’ (दशकु०)। उपक्रमः (आरम्भे चेष्टा) साहससदृशो भवति भविष्यत् साहसमनुमापयति।
- ‘सदृक्सदृशसंवादिसजातीयानुवादिनः’ (काव्यादर्शे २।५८)। एते पर्यायाः।
- ‘गीतं शङ्खवादानुवादि’ (पञ्चत०)। शङ्खनादसदृशम् इत्यर्थः।
- ‘प्रियवचनशतानुवादिनः’ (रा० ४।६२।२५)। प्रियवचनशतानां पुनः पुनर्वक्तार इत्यर्थः। अनुवाद्यमनुक्त्वैव न विधेयमुदीरयेत्। अनुवाद्यमुद्देश्यम्।
- ‘अन्वेको वदति यद् ददाति तत्’ (ऋ० २।१३।३)। यजमानो यद्धविर्ददाति होता तद् याज्यानुवाक्याभ्यां देवताः स्मारयति (इति सायणः)।
- ‘पूर्वमु चैव तद्रूपमपरेण रूपेणानुवदति’ (पञ्च० ब्रा० १३।१।९)। अनुवदति संवदति।
वप्
- {अनुवप्}
- वप् (डुवप् बीजसन्ताने)। (बीजसन्तानं क्षेत्रे विकिरणं गर्भाधानं च)।
- अनूपा अनुवपन्ति लोकान्स्वेन स्वेन कर्मणा’ (नि० २।२२।१)। अनुगृह्णन्तीत्यर्थः। अयमपीतरोऽनूप एतस्मादेवाऽनूप्यत उदकेन। अनूप्रकीर्यतेऽभिषिच्यत इत्यर्थः।
वस्
- {अनुवस्}
- वस् (वस निवासे)।
- ‘युद्धार्थिनश्चानुवसन्ति पार्थान्’ (भा० उ० २२।२०)। अनुसरन्तीत्यर्थः।
वह्
- {अनुवह्}
- वह् (वह प्रापणे)।
- ‘तां वहन्त्वगतस्यानुपन्थाम्’ (अथर्व० १४।२।७४)। पन्थां पन्थानमनुवहन्तु=पथा प्रापयन्तु।
वा
- {अनुवा}
- वा (वा गतिगन्धनयोः)।
- ‘पर्णं न वेरनु वाति (रथः)’ (वा० सं० ९।१५)। अनुवाति=अनुक्रमेण वाति। अनुवृत्तगतिर्भवतीत्यर्थः।
- ‘आदस्य वातो अनु वाति शोचिरस्तुर्न शर्यामसनामनु द्यून्’ (ऋ० १।१४८।४)। अस्याग्नेः शोचिरर्चिरनुवाति अनुप्रविश्य वाति।
- ‘वातस्य प्रवामुपवामनुवात्यर्चिः’ (का० श्रौ० १२।१३)। वातस्य प्रवामनुसरन्गच्छत्यग्नेरर्चिरित्यर्थः।
- ‘अनुवाति शुभो वायुः सेनाम्’ (रा० ५।७३।५२)। सेनामनुवाति=सेनायां वाति।
वाश्
- {अनुवाश्}
- वाश् (वाशृ शब्दे)।
- ‘वामे वशित्वाऽऽदौ दक्षिणपार्श्वेऽनुवाशते यातुः’ (व० बृ० सं० ९५।२६)। पश्चाच्छब्दायत इत्यर्थः।
- ‘हस्त्यश्वश्वादयोऽनुवाशन्ते’ (व० बृ० सं० ५३।१०७)। उक्तोऽर्थः।
वास्
- {अनुवास्}
- वास् (वास उपसेवायाम्)।
- ‘अवश्यं स्थापनीयाश्च नानुवास्याः कथं चन’ (सुश्रुते)। द्विधा वस्तिः परिज्ञेयो निरूहश्चानुवासनम्।
- ‘कषायाद्यैर्निरूहः स्यात्स्नेहाद्यैरनुवासनम्’ (सुश्रुते)।
- ‘पारिजातपुष्पस्य संस्पर्शेनानुवासितः’ (हरि० २।६६।१५)। अनुवासित उपसेवितः, सुरभीकृतः, सौरभयुक्तः कृतः।
- ‘अनुवासनं च मतिमान् इति शास्त्रविनिश्चयः’ (का० सं० खिल० अन्तर्वत्नी० श्लो० २७)।
- ‘स्नेहविरेचनास्थापनानुवासनैश्चैनं दशरात्राहृतवेगमुपक्रमेत्’ (सुश्रुत० चि० ५।२७)। अनुवासनं स्नेहादियुता वस्तिः।
विद्
- {अनुविद्}
- विद् (विद ज्ञाने)।
- ‘गर्भेनु सन्नन्वेषामवेदमहं देवानां जनिमानि विश्वा’ (ऋ० ४।२७।१)। अन्ववेदम्=साकल्येनाजानाम्।
- ‘यस्तमात्मानमनुविद्य विजानाति’ (छां० उ० ८।७।१)। अनुविद्य=अन्विष्य।
- ‘पूषेमा आशा अनुवेद सर्वाः’ (ऋ० १०।१७।५)।
- ‘यद्यप्येकोऽनुवेत्त्येषां भावानां चैव संस्थितिम्’ (याज्ञ० ३।१०४)। उक्तोऽर्थः।
विद्
- {अनुविद्}
- विद् (विद् सत्तायाम्)।
- ‘तस्मात् त्रयोदशो मासो नानुविद्यते’ (ऐ० ब्रा० ३।१)। नानुविद्यते शुभकर्मानुकूलो नास्तीत्यर्थ इति सायणः।
विद्
- {अनुविद्}
- विद् (विद्लृ लाभे)।
- ‘अत्रयस्तमन्वविन्दन् न ह्यन्ये अशक्नुवन्’ (ऋ० ५।४०।९)। अन्वविन्दन्=अन्विष्याविन्दन्।
- ‘सुपर्णस्त्वाऽन्वविन्दत्’ (अथर्व० २।२७।२)। उक्तोऽर्थः।
- ‘पदं ध्रुवं चाव्यभिचारि सद्गुणम्। त्रैविष्टपेयादिषु नान्वविन्दत’ (भा० पु० ८।८।१९)। अनन्तरोदीरित एवार्थः।
- ‘अनु स्वर्गं लोकं वेत्स्यसि’ (तै० ब्रा० ३।१२।२।२)। अन्विष्य लप्स्यसेऽधिकरिष्यसि वा।
- ‘तदाहुर्न चातुर्मास्ययाजिनमनुविन्दन्ति’ (श० ब्रा० २।६।४।९)। अनुविन्दन्ति, अनुप्राप्नुवन्ति, तत्साम्यमश्नुवते, तेन समानकक्षतां भजन्त इत्यर्थः।
- ‘यस्यानुवित्तः प्रतिबुद्ध आत्मा’ (श० ब्रा० १४।७।२।१७)। अनुवित्तः प्राप्तः।
- ‘अयं पन्था अनुवित्तः पुराणः’ (ऋ० ४।१८।१)। अनुवित्तः=सुप्रथितः।
- ‘अन्नादिनीं ते सरमे प्रजां करोमि या नो गा अन्वविन्दः’ (जै० ब्रा० २।४४०)। अन्वविन्दः=अन्विष्यालभथाः।
विश्
- {अनुविश्}
- विश् (विश प्रवेशने)।
- ‘यवीयसोऽनुवेशो हि ज्येष्ठस्य विधिलोपकः’ (भा०)। ज्येष्ठातिक्रमेण कनिष्ठस्य विवाहोऽनुवेशः। अन्तर्भावितो बुद्ध्यानुवेशितो ण्यर्थः प्रयोज्यप्रयोजकभावो यस्येति उपाच्च’ (१।३।८४) सूत्रे न्यासः।
वृ
- {अनुवृ}
- वृ (वृञ् वरणे)।
- ‘तानसुरा रक्षांस्यन्ववारयन्त’ (ऐ० ब्रा० ५।१)। अनुद्रुत्यारुधन्नित्यर्थः।
- ‘अनुवृतः पलाशैः’ (शां० ब्रा० १०।२)। अनुशब्दः सर्वतो भावे।
- ‘शरैर्धोरैस्तमेकमनुवव्रिरे’ (भीष्म० ७७।१३)। अनुवव्रिरे=आचकरिरे।
- ‘ताः कृष्णमनुवव्रिरे’ (हरि० २।२०।३०)। परिजग्मुः, परिवेष्टयामासुरित्यर्थः।
वृत्
- {अनुवृत्}
- वृत् (वृतु वर्तने)।
- ‘मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः’ (गीता ४।११)। अनुर्तन्ते=अनुसरन्ति।
- ‘लौकिकानां हि साधूनामर्थं वागनुवर्तते’ (उत्तर० ११।१०)। अनुवर्तते=अनुगच्छति। भूतार्थं न व्यभिचरति। नित्यं सत्यमेवोपन्यस्यति नासत्यम्।
- ‘पञ्चवर्षसहस्राणि सूर्यमेवान्ववर्तत’ (रा० ७।१०।८)। अन्ववर्तत=असेविष्ट। आर्चत्।
- ‘एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः’ (गीता ३।१६)। अनुवर्तयति=अविच्छेदेन प्रवर्तयति। अनुः सातत्ये। एवं सत्त्वरजस्तमांसि मिथो विरुद्धान्यप्यनुवर्त्स्यन्ति। आनुगुण्यं सहकारितां करिष्यन्तीत्याह।
- ‘बलं धर्मोऽनुवर्तते’ (भा० शां० १३४।७)। धर्मो बलमन्वायत्तो भवतीत्यर्थः।
- ‘सत्रा ते अनु कृष्टयो विश्वा चक्रेव वावृतुः’ (ऋ० ४।३०।२)। अनुवावृतुः=परिवर्तन्ते।
- ‘कृतः पुरुषकारस्तु दैवमेवानुवर्तते’ (भा० अनु० ६।२२)। फलप्रसवे दैवायत्तो भवतीति तात्पर्यम्।
- ‘अनिर्वेदो हि सततं सर्वार्थेष्वनुवर्तते’ (रा० ५।१२।११)। अनुवृत्तोऽनुस्यूतो भवतीत्यर्थः। सर्वार्थेषु प्रवर्तक इति पाठान्तरम्।
- ‘शैथिल्याद्देहधातूनां ज्वरो जीर्णोऽनुवर्तते’ (चरक० चि० ३।२९१)। अविच्छेदेन वर्तत इत्याह। तैत्तिरीयब्राह्मणे (१।५।५।१) केशानामनुवर्तनमित्यानुलोम्येन मर्दनमाह।
- ‘केचिद् विजायत इति नानुवर्तयन्ति’ (पा० ५।२।१३ इत्यत्र काशिका)। पूर्वसूत्रान्नानुकर्षन्ति।
- ‘क्रव्यादानुवर्तयन्मृत्युना च पुरोहितम्’ (अथर्व० ११।९।१८)। अनुवृतिमनुसारं कारयन्नित्यर्थः।
- ‘वनवासकृता बुद्धिर्मम धर्म्यानुवर्त्यताम्’ (रा० २।२१।४९)। अनुवर्त्यताम् अनुमन्यताम्, प्रतिनन्द्यताम्।
- ‘यद् यद् भर्ताऽनुयुञ्जीत तत्तदेवानुवर्तयेत्’ (भा० ४।१०५)। अनुवर्तयेत् प्रतिब्रुवीत=उत्तरयेत्।
- ‘व्याहृतीः सर्पराज्ञी धर्मशिरांसीति सर्वेष्वाधानेषु यजमानोऽनुवर्तयते’ (आप० श्रौ० ५।४।१६।२)। अनुकूलाभिः कथाभिरनुवर्तमानः। सेवमान इत्यर्थः। अनुरोधोऽनुवर्तनम् (अमरे)।
- ‘तमपराधमनुवृत्त्या प्रमार्ष्टुमागतः’ (दशकु०)। अनुवृत्तिः सेवा।
- ‘तत्र किमनवृत्तिर्न फलति’ (महिम्नः स्तोत्रे १०)। उक्तोऽर्थः।
- ‘वाचानुवृत्तिः खल्वतिथिसत्कारः’ (प्रतिमा० ५)।
- ‘आसेदुषां गोत्रभिदोऽनुवृत्त्या’ (कि० १८।१८)।
- ‘अनुवृत्तस्त्वया भगीरथगृहे प्रसादः’ (उत्तर० ७)। सानुबन्धमनुग्रहो दर्शित इत्याह।
- ‘स मेरुमनुवृत्तः सन्पुनर्गच्छति पाण्डव’ (भा० वन० १६३।३१)। अनुवृत्तः=वचने स्थितः।
- ‘सुपत्रमनुवृत्ताङ्गं सुपर्वाणं सुसंस्थितम्’ (रा० ६।९०।६५)। अनुवृत्तं क्रमशो वर्तुलाकारम्।
- ‘अनुवर्तितुमिच्छन्ति मातरं सततं सुताः’ (रा० ४।१९।२५)।
- ‘चित्तज्ञानानुवर्तिनोऽनर्था अपि प्रियाः स्युः’ (दशकु०)। अनर्था अनिष्टा दुर्जनाः। चित्तज्ञानानुरूप्येणाचरन्त इत्यर्थः।
- ‘इह नेता च विगुणः सहायाश्चानुवर्तिनः’ (रा० ५।८६।१६)। अनुवर्तिनः=तादृशाः। तत्समाना इत्यर्थः।
- ‘अनुवर्तिनि कलत्रे’ (पञ्चत० १।१०१)। अनुवर्तिनि=वशंवदे वचनकरे।
- ‘भृत्यानामनुवर्तिनाम्’ (पञ्चत०)। उक्तोऽर्थः।
- ‘राक्षसेनानुवृत्ताया मैथिल्याश्च पदान्यथ’ (रा० ३।६४।३८)। अनुवृत्ताया अनुसृतायाः।
- ‘धीमता तदनुष्ठेयं स्वास्थ्यं येनानुवर्तते’ (वृन्दमाधवे)। अनुवर्ततेऽविच्छिन्नं स्थिरं भवति।
वृध्
- {अनुवृध्}
- वृध् (वृधु वृद्धौ)।
- ‘आशुं जयन्तमनु यासु वर्धसे’ (ऋ० ५।४४।१)। पश्चाद् वृद्धिमुपैषीत्यर्थः।
- ‘न वै जातं गर्भं योनिरनुवर्धते’ (श० ब्रा० १०।२।३।६)। अनुवर्धते=मन्दमन्दं वर्धते।
वृष्
- {अनुवृष्}
- वृष् (वृषु सेचने)।
- ‘सर्गा वर्षस्य वर्षतो वर्षन्तु पृथिवीमनु’ (अथर्व० ४।१५।४)। अनुवर्षन्तु=अनुषिञ्चन्तु।
वेष्ट्
- {अनुवेष्ट्}
- वेष्ट् (वेष्ट वेष्टने)।
- ‘भित्त्यादिकमननुवेष्ट्योपविष्ट आसीत’ (मनु० ११।११० इत्यत्र कुल्लूकवचनम्)। भित्तिः कटः। अननुवेष्ट्य=अनास्तीर्य।
व्यध्
- {अनुव्यध्}
- व्यध् (व्यध ताडने)।
- ‘नश्यतीषुर्यथाऽऽविद्धः खे विद्धमनुविध्यतः’ (मनु० ९।४३)। अनुविध्यतः=पश्चाद् विध्यतः। शत्रन्तात्षष्ठी।
- ‘मृत्तिका तद्रसेनानुविध्यमाना’ (भा० पु० ५।१६।२१)। अनुविध्यमाना=संगम्यमाना=सन्नीयमाना=सम्पृच्यमाना।
- ‘सरसिजमनुविद्धं शैवलेनापि रम्यम्’ (शा० १।१८)। शैवलेन जम्बालेनानुगतं वेष्टितम्।
- ‘न तत्सत्यं यच्छलेनानुविद्धम्’ (भा० उ० ३५।५८)। अनुविद्धम्=युक्तम्=व्यामिश्रम्। यच्छलेनाभ्युपेतम् इति पाठान्तरम्।
- ‘रत्नाङ्गुलीयकप्रभयानुविद्धान्… अक्षान्’ (रघु० ६।१८)। अनुविद्धान्=व्याप्तान्।
- ‘न सोस्ति प्रत्ययो लोके यः शब्दानुगमादृते। अनुविद्धमिव ज्ञानं सर्वं शब्देन भासते’ (वा० प० १।१२४)॥ अनुविद्धम्=अनुस्यूतम्।
- ‘क्वचित् प्रभालेपिभिरिन्द्रनीलैर्मुक्तामयी यष्टिरिवानुविद्धा’ (रघु० १३।५४)। अनुविद्धा=सहगुम्फिता।
- ‘देशवार्तानुविद्धा संकथा’ (दशकु०)। अनुविद्धा=सम्बद्धा।
- ‘उद्गूर्णलोष्टलगुडैः परितोऽनुविद्धम्’ (शिशु० ५।२५)। अनुविद्धम्=आसादयितुमनुसृतम्।
- ‘कोपानुविद्धां चिन्तां नाटयन्’ (मुद्रा० ३)। कोपानुविद्धाम्=कोपसमन्विताम्।
- ‘न हि कीटानुवेधादयो रत्नस्य रत्नत्वं व्याहन्तुमीशाः’ (सा० द० १)। अनुवेधः समुत्कीर्णता।
- ‘मुखामोदं मदिरया कृतानुव्याधमुद्वमन्’ (शिशु० २)। अनुवेधार्थकोऽनुव्याधशब्दः सम्मतः पाणिनेः। अनुवेधस्तु दुःसमाधानः। इहानुव्याध इति संस्पर्शमात्रमाह।
- ‘यथाग्निरिद्धः पवनानुविद्धो वज्रं यथा सुरराजमुक्तम्। रोगास्तथैते खलु दुर्निवाराः…।’ (सुश्रुत० उत्तर० ५१।३९)॥ अनुविद्धः संहितः संगतोऽनुगतः।
व्रज्
- {अनुव्रज्}
- व्रज् (वज व्रज गतौ)।
- ‘यमिच्छेत्पुनरायान्तं नैनं दूरमनुव्रजेत्’ (रा० २।४०।४८)। अनुव्रजेत् पृष्ठतो गच्छेत्। ओदकान्तादा वनान्तात् प्रियं प्रोष्यमनुव्रजेत्। उक्तोऽर्थः।
- ‘आसनावसथौ शय्यामनुव्रज्यामुपासनम्’ (मनु० ३।१०७)। अनुव्रज्या गच्छतोऽनुगमनम्।
शक्
- {अनुशक्}
- शक् (शक्लृ शक्तौ)।
- ‘न तत्ते अन्यो अनुवीर्यं शकत्’ (ऋ० १०।४३।५)। अनुकर्तुं शक्नोतीत्यर्थः।
शास्
- {अनुशास्}
- शास् (शासु अनुशिष्टौ)।
- ‘राजपत्नीनियोगस्थमनुशाधि पुरीजनम्’ (भट्टि० २०।१७)। अनुशाधि=विधेयीकुरु।
- ‘यस्ते शरीरे हृदयं दुनोति कामः कुरूनसपत्नोऽनुशिष्याम्’ (भा० उ० ३०।४८)। अनुशिष्याम्=कुरूणां शासनं कुर्याम्, तान् प्रशिष्याम्, तांस्तन्त्रयेय।
- ‘मैवं मामनुशाधि हि’ (रा० २।९०।१५)। मैवं कठोरं ब्रूहीत्याह।
- ‘स प्रैति क्षेत्रविदानुशिष्टः’ (ऋ० १०।३२।७)। अनुशिष्टः=उपदिष्टः।
- ‘तस्मात्पुत्रमनुशिष्टं लोक्यमाहुः’ (बृ० उ० १।४।१७)। अनुशिष्टम्=उपात्तविद्यम्=गृहीतशास्त्रम्।
- ‘इति तेनानुशिष्टस्तु वाचं मन्दमुदीरयत्’ (रा० ६।३०।४)। अनुशिष्टः=पृष्टः।
- ‘इति ध्रुवेच्छामनुशासती सुतां शशाक मेना न नियन्तुमुद्यमात्’ (कु० ५।५)। अनुशासती, उपदिशती, प्रयुञ्जाना।
- ‘इयमेव तावत् प्रथममनुशासनीया’ (वेणी० २)। दण्डनीयेत्यर्थः।
- ‘अरिकुलमनुशासनीयम्’ (वेणी० ३)। उक्तोऽर्थः।
- ‘न ह्यनिष्टोऽनुशिष्यते’ (रा० ३।१०।२१)। अनुशिष्यते उपदिश्यते।
शी
- {अनुशी}
- शी (शीङ् शये)।
- ‘सूतिका अनुशेरते’ (अथर्व० ८।६।१९)। ये रक्षःपिशाचाद्या अभिनवप्रसवा योषितो भूत्वा स्वयमपि (तदन्तिके) शेरत इति सायणभाष्यम्।
- ‘भूमौ निपतितं वीरमनुशेते मृतं पतिम्’ (भा० आश्व० ८०।२१)। समीपे शेत इत्यर्थः।
- ‘श्वो युद्धमिति कृतोपवासः शस्त्रवाहनं चानुशयीत’ (कौ० अ० १०।३।३४)। उक्तोऽर्थः।
- ‘भर्तारं द्विषती स्त्री… भर्तारमन्यया सह शयानमनुशयीत’ (कौ० अ० ३।३।१२)। सानुशयं सपश्चात्तापं शयीत उपतिष्ठेतेति गणपतिः। अनुजानीयादित्यन्ये। तज्ज्यायः।
- ‘यदविद्यया वस्त्वाकार्यते तदेवानुशेरते’ (क्लेशाः) (यो० सूत्र २।४ भाष्ये)।
- ‘यज्जातीयस्य कर्म्मणो यो विपाकस्तस्यानुगुणा या वासनास्ताः कर्मविपाकमनुशेरते’ (यो० सू० ४।८ भाष्ये)। उभयत्रानुशेरत इत्यस्य ‘अनुगता भवन्ति, अनुकुर्वन्ती’त्यर्थः।
- ‘अजो ह्येको जुषमाणोऽनुशेते’ (श्वेता० उ० ४।५)। अनुशेते=तत्तादात्म्यापन्नो भवति। अपि वा शिर आदित्यो भवति।
- ‘यदनुशेते सर्वाणि भूतानि’ (नि० ४।२।१३)। अनुशेते=अनुप्रविश्यास्ते।
- ‘यच्च यच्चानुशेतेऽस्य तत्तदेवोपचारयेत्’ (का० सं० चि० मदात्यय० श्लो० ३७)। अनुशेते=उपशेते=सात्म्यं भवति।
- ‘दत्तमिष्टमपि नान्वशेत सः’ (शिशु० १४।४५)। दत्तेर्थे इष्टे च नान्वतप्यतेत्यर्थः।
- ‘पुरानुशेते तव चञ्चलं मनः’ (कि० ७।८)। पुराऽनुशेते=अचिरादेव सानुशयं सानुतापं भविष्यतीत्यर्थः।
- ‘नन्वनुशयस्थानमेतत्’ (मालती० ८)। अनुशयः=अनुतापः=अनुशोकः।
- ‘कुतस्तेऽनुशयः’ (मालती० ३) उक्तोऽर्थः।
- ‘शिशुपालोऽनुशयं परं गतः’ (शिशु० १६।२)। अनुशयो वैरम्। अथानुशयो दीर्घद्वेषानुतापयोः (अमरे)।
- ‘यस्मिन्नमुक्तानुशया सदैव जागर्ति भुजङ्गी’ (मालती० ६।१)। उक्तोऽर्थः।
- ‘अयं त्वन्यो गुणः श्रेष्ठश्च्युतानां स्वर्गतो मुने। शुभानुशययोगेन मनुष्येषूपजायते’ (भा० वन० २६१।३३) अनुशयः पक्षपातः=आदरविशेषः=सङ्गप्रकर्षः।
- ‘शुभानुशयबुद्धिः’ (भा० वन० २५९।२६)। शुभमनुशेते शुभपक्षपातिनी बुद्धिर्यस्य सः। स्वर्गार्थकर्म्मणो भुक्तफलस्यावशेषः कश्चिदनुशयो नाम भाण्डानुसारिस्नेहवदिति वेदान्तशास्त्रे।
- ‘अशक्तः कुत्सिते कर्मणि व्यसने वा अनुशयं लभेत, परेण वा कारयितुम्’ (कौ० अ० ३।१४।३)।
- ‘विक्रेत्रा च महार्घनिबन्धनं पण्यक्षयमपश्यता नानुशयितव्यम्’ (याज्ञ० २।२५८ इत्यत्र मिताक्षरायाम्)। मया न साधु विक्रीतमिति नानुतप्तव्यम्।
- ‘क्रयविक्रयानुशयः’ (मनु० ८।५)। क्रयविक्रये कृते पश्चात्तापाद् विप्रतिपत्तिरनुशय इति कुल्लूकः।
- ‘यस्मिन्यस्मिन् कृते कार्ये यस्येहानुशयो भवेत्’ (मनु० ८।२२८)। अनुशयः पश्चात्तापः।
- ‘उद्दिश्य किं वदति कोऽनुशयोऽस्य’ (तन्त्रा० कथामुखे श्लो० ४)। उक्तोऽर्थः।
- ‘त्यक्तकामानुशयरसानां वीतरागाणाम्’ (तन्त्रा० प्रथमतन्त्रोपक्रमे)। अनुशयः सङ्गः पक्षपातो वा।
- ‘दायादा निहता सर्वे वीरद्वेषानुशायिना’ (हरि० २।३९।५२)। द्वेषमेवानुशेतेऽनुरुध्यत इति द्वेषानुशायी, तेन।
- ‘रुदितानुशयो नार्या जीवन्त्याः परिदेवनम्’ (हरि० २।३१।३७)। रुदितानुशय इति। रुदितेऽनुशय आशयोऽन्त करणम्।
शुच्
- {अनुशुच्}
- शुच् (शुच शोके)।
- ‘असौ मामनुशोचतु’ (अथर्व० ६।१३०।१)। मामनुस्मृत्य शोकयुक्ता भवत्वित्याह।
शुष्
- {अनुशुष्}
- शुष् (शुष शोषणे)।
- ‘वृक्ष इव विद्युता हत आमूलादनुशुष्यतु’ (अथर्व० ७।६१।१) अनुक्रमेण शुष्यत्वित्यर्थः।
शंस्
- {अनुशंस्}
- शंस् (शंसु स्तुतौ)।
- ‘तदाहुः कस्मात्स्तुतमनुशस्यते कस्मात्स्तोममति शंसन्ति’ (शां० ब्रा० २८।१०)।
श्रु
- {अनुश्रु}
- श्रु (श्रु श्रवणे)।
- ‘न सप्तमस्य सुप्तेष्वनुशुश्राव कश्चन’ (अथर्व० ११।४।२५)। अनुशब्दः पारम्पर्ये। श्रुतमेवार्थमनुशृणोति। भूयः शृणोतीत्यर्थः। अनुश्रवो वेदः। अनुश्रूयते परम्परया गुरुशिष्यानुक्रमेण श्रूयत इति।
षञ्ज्
- {अनुषञ्ज्}
- षञ्ज् (सञ्ज् सङ्गे)।
- ‘इयं नारीति सर्वत्रानुषजति’ (लौ० गृ० २५।२८)। अनुषजति=अनुषज्यते=सम्बध्यते। इह सजतिरकर्मकः।
- ‘देवता वर्धय त्वमिति सर्वत्रानुषजति’ (आप० श्रौ० ३।६।१९।४)। उक्तं वक्तव्यम्।
- ‘धर्मपूते च मनसि नभसीव न जातु रजोऽनुषज्यते’ (दशकु०)। इह धातुः सकर्मकः। इदं पदमत्रानुषञ्जनीयम्। अनुवर्तनीयम् इत्यर्थः।
- ‘इति भूतानि सम्पश्यन्ननुषक्तानि मृत्युना’ (भा० शां० १७९।१८)। अनुषक्तानि सम्बद्धानि=आक्रान्तानि। छाययेवायं पुरुषः।
- ‘पाप्मनाऽनुषक्तः (श० ब्रा० २।२।३।१०)। उक्तोऽर्थः।
- ‘तस्य वैरानुषक्तस्य गन्तास्म्यन्तं सुदुर्गमम्’ (भा० उ० १६२।३५)। अनुषङ्गोऽनुबन्धः। इत्यनुषङ्गः=इत्यन्वयः।
- ‘सानुषङ्गाणि कल्याणानि’ (उत्तर० ७)। सानुषङ्गाणि=सानुबन्धानि=निरन्तराणि। एकत्रान्वितस्य पदस्याऽन्यत्रान्वयोऽनुषङ्गः। यथा कोषो जलं चोपहृतमित्यादौ बलान्वितोपहृतस्य कोषेऽन्वयः (शब्दकल्पद्रुमे)।
- ‘सप्तकस्य वर्गस्य सर्वत्रैवानुषङ्गिणः’ (मनु० ७।५२)। पानादेर् व्यसनसप्तकस्य सर्वत्रैव राजमण्डलेऽवस्थितस्येत्यर्थः।
- ‘विभुतानुषङ्गि भयमेति जनः’ (कि० ६।३५)। प्रभुतासम्बद्धम्, ऐश्वर्यान्वयि।
सच्
- {अनुसच्}
- सच् (षच समवाये)।
- ‘अङ्गिरसः स्वर्गं लोकं यतो रक्षांस्यन्वसचन्त’ (पञ्च० ब्रा० ८।९।५)। अन्वसचन्त=अन्वगच्छन्। अङ्गिरस इति द्वितीयाबहुवचनं यत इति च।
- ‘रक्षांसि योषितमनुसचन्ते’ (श० ब्रा० ३।२।१।४०)। अनुसचन्ते संगच्छन्ति अनुसरन्ति।
सञ्ज्
- {अनुसञ्ज्}
- सञ्ज् (षञ्ज सङ्गे)।
- ‘मस्जेरन्त्यात्पूर्वं नुममिच्छन्त्यनुषङ्गसंयोगादिलोपार्थम्’ (पा० १।१।४७ सूत्रे वृत्तौ)। नकारस्योपधाया अनुषङ्ग इति पूर्वाचार्यैः संज्ञा कृता।
सस्ज्
- {अनुसस्ज्}
- सस्ज् (षस्ज सङ्गे)।
- ‘न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते’ (गीता १८।१०)। कुशले मिष्टान्नभिक्षादौ नानुषज्जते न सङगं काकवत् प्रीतिं करोतीति तात्पर्यार्थः।
सू
- {अनुसू}
- सू (षू प्रेरणे)।
- ‘उल्कया ह स नखिन्या पशूननुषुवति’ (श० ब्रा० ५।५।४।१९)। अनुषुवति=प्राजति=प्रेरयति।
सृ
- {अनुसृ}
- सृ (सृ गतौ)।
- ‘पूर्वोद्दिष्टामनुसर पुरीम्’ (मेध० ३०)। याहीत्याह। लक्ष्यीकृत्य याहीति वा।
- ‘वायुरनु सारयतीव माम्’ (रा०)। परतः प्रेरयति प्रणुदति।
- ‘जितां भूमिं रक्षेत भग्नान्नात्यनुसारयेत्’ (भा० शां० ९९।१२)। नात्यनुसारयेत् नातिद्रावयेत् (परावृत्तिभयात्)।
- ‘गुप्तैश्चारैरनुमतैः पृथिवीमनुसारयेत्’ (भा० शां० ८९।१५)। अनुसारयेद्=विचिनुयात्, शोधयेत्।
- ‘अप्रविश्य पुरीं दर्पादनुसारं करिष्यति’ (हरि० २।३९।१२)। पृष्ठतो धाविष्यत्यासादयितुकाम इत्यर्थः। शब्दानुसारेणावलोक्य यतः शब्दः श्रूयते तत्र दिशि दृष्टिं प्रेर्य।
- ‘अनुसारभयाद् भीताः प्राङ्मुखाः प्राद्रवन्पुनः’ (भा० सौप्तिक० १।५)।
- ‘व्याघ्रानुसारचकिता हरिणीव यासि’ (चारु० १।९)। उभयत्र पृष्ठतो गमनमित्यर्थः।
- ‘कपटानुसारकुशलः’ (मृच्छ० ९।५)। छलान्वेषणे निपुण इत्यर्थः।
- ‘अनुसारादधिका वृद्धिः’ (मनु० ८।१५२)। अनुसारः शास्त्रव्यवस्था लोकव्यवस्था वा।
- ‘इन्दोः…त्वदनुसरणक्लिष्टकान्तेः’ (मेघ०)। तवानुसरणं त्वया कृतमनुसरणमनुगमनमाच्छादनम्।
- ‘कनकसूत्रानुसरणप्रवृत्तै राजपुरुषैः’ (हितोप०)। इहानुसरणमनुगमनं विचयनार्थमिति विचयनार्थमाह।
- ‘उष्णार्दितां सानुसृतास्रकण्ठीम्’ (सीताम्) (रा० ५।५।२५)। अनुसृतमनुसरणम्। भावे क्तः अनुसरणं चेह स्यन्दनमभिप्रेतम्। तेन ‘सानुसृतान्यस्त्राणि’ इत्यनेन स्यन्दमानान्यश्रूण्युच्यन्ते। अपि वाऽनुसृतमिति गत्यर्थत्वात्कर्तरि क्तान्तम्। अनुसृतिः कुलटामाह। अनुसरति कुलान्तरमिति व्युत्पत्तेः।
- ‘नित्यं छिद्रानुसार्यरेः’ (मनु० ७।१०२)। छिद्रान्वेषीत्यर्थः।
- ‘तद्वृक्षविवरानुसारी’ (तन्त्रा० १।४)। तद्वृक्षकोटरान्वेषीत्यर्थः।
- ‘कृपणानुसारि च धनम्’ (पञ्चत० १।२७८)। कृपणं कदर्यं भोग्यत्वेनानुगच्छतीत्याह।
- ‘सर्वान्धर्माननुसृत्यैतदुक्तम्’ (भा० शां० १०८।३३)। अनुसृत्य एकीकृत्य।
- ‘सारबलमग्रतः कृत्वा कोटीष्वनुसारं कुर्यात्’ (कौ० अ० १०।५।४६)। सारमुत्तमम्। अनुसारं सारोपमम्। सारादूनं किञ्चिदपकृष्टम्।
सृज्
- {अनुसृज्}
- सृज् (सृज विसर्गे)।
- ‘अनुसृष्टं सुरैरेकं त्र्यम्बकाय युयुत्सवे’ (रा० १।७५।१२)। अनुसृष्टं=पश्चात् सृष्टम्।
सेव्
- {अनुसेव्}
- सेव् (षेवृ सेवने)।
- ‘अनुसेवां चरन्तीमाः कुशला नृत्यसामसु’ (भा०)। अनुसेवा=पुनः पुनः सेवा। अनुः कर्मप्रवचनीय इति तु नीलकण्ठः।
- ‘स्वर्धुन्यापोऽनुसेवया’ (भा० पु० १।३।१५)। उक्तोऽर्थः।
स्तॄ
- {अनुस्तॄ}
- स्तॄ (स्तॄञ् आच्छादने)।
- ‘तस्यैतामनुस्तरणीं कुर्वन्ति यत्सौम्यः’ (ऐ० ब्रा० ३।३२)। गौरनुस्तरणी ज्ञेया पितृमेघेषु कीर्तिता। मृतस्य यजमानस्य छाद्यतेऽङ्गं यदङ्गकैः (तत्रैव षड्गुरुशिष्यः)॥
- ‘अनुस्तरण्या वपामुत्खिद्य शिरोमुखं प्रच्छादयेत्’ (आश्व० श्रौ०)।
स्था
- {अनुस्था}
- स्था (ष्ठा गतिनिवृत्तौ)।
- ‘ये रात्रिमनुतिष्ठन्ति ये च भूतेषु जाग्रति’ (अथर्व० १९।४८।५)। रात्रिविषयं कर्मार्चनजपोपासनरूपं कुर्वन्तीत्यर्थः।
- ‘कच्चिदेकः शिबीनाढ्यान्सौवीरान् सह सिन्धुभिः। अनुतिष्ठसि धर्मेण…’ (भा० वन० २६७।११)॥ अन्यत्र क्रियासामान्ये वर्तमानोऽनुतिष्ठतिरिह क्रियाविशेषे पालने वर्तते।
- ‘अनुतिष्ठस्व तद् राजन् पितृपैतामहं पदम्’ (भा० शां० ३२।३)। अध्यास्स्वेत्यर्थः।
- ‘अनुष्ठास्यति रामस्य सीता प्रकृतमासनम्’ (रा० २।३७।२३)। अधिष्ठास्यति, अध्यासिष्यत इत्यर्थः। तं योऽनुतिष्ठेत्सर्वत्र प्राध्वं चास्य सदाचरेत्। अनुतिष्ठत्=वचनमनुरुध्येत, वचने स्थितः स्यात्।
- ‘अनुतिष्ठन्ति पूर्वाह्णे नित्यमायव्ययं तव’ (भा० सभा० ५।७२)। अनुतिष्ठन्ति=निवेदयन्ति।
- ‘एष दात्यूहको हृष्टः…। प्रवदन् मन्मथाविष्टः स्वकान्तामनुतिष्ठति’ (संस्कृतशार्मण्यकोषे धृतो रामायणीयः पाठः ४।१२४)॥ उपच्छन्दयतीत्यर्थो भाति। अनुगच्छतीति वा।
- ‘अचलं चलनिकेतं येऽनुतिष्ठन्ति तेऽमृताः’ (आप० ध० १।८।२२।४)। अनुतिष्ठन्ति=उपासत इत्युज्ज्वलायां हरदत्तः। ममात्मेति साक्षात्प्रतिपद्यन्त इति शङ्करकृतं विवरणम्।
- ‘ये चैताननुतिष्ठन्ति ते के पुरुषा इति’ (बृ० श्लो० सं० ४।५०)। अनुतिष्ठन्ति=समीपे तिष्ठन्ति।
- ‘अतन्द्रो ब्रह्मणा धीरः प्राणो माऽनु तिष्ठतु’ (अथर्व० ११।४।२४)। अनुतिष्ठतु=अनुवर्तताम्।
- ‘चरान्मन्त्रं च कोषं च दण्डं चैव विशेषतः। अनुतिष्ठेत् स्वयं राजा…’ (भा० शां० ८६।२०)॥ अनुतिष्ठेत्=आलोचयेत्।
- ‘आत्मानमनुतिष्ठ त्वम्’ (रा० २।१०५।४१)। अनुतिष्ठ=चिन्तय।
- ‘सा क्रीडमाना सुश्रोणी सह तेनर्षिणा पुनः। शतद्वयं किञ्चिदूनं वर्षाणामन्वतिष्ठत’ (वि० पु० १।१??।२०)॥ अन्वतिष्ठत=अतिष्ठत्। नार्थोऽनुना।
- वीराश्च नियतोत्साहा राजशास्त्रमनुष्ठिताः’ (रा० १।७।१२)। अनुसृतराजशास्त्रार्थाः, अभ्यस्तनृपनीतय इति वा।
- ‘सज्जयन्ति स्म नागांश्च नागशिक्षास्वनुष्ठिताः’ (भा० उ० १५३।२१)। नागशिक्षासु व्यापृता नियुक्ताः।
- ‘अप्राप्तव्यवहारा वा तव कर्मस्वनुष्ठिताः’ (भा० सभा० ५।७५)। उक्तोऽर्थः।
- ‘न युक्तं हि त्यक्तुं कार्यमनुष्ठितम्’ (रा०)। अनुष्ठितम्=आरब्धम्।
- ‘आक्रीडानां गृहाणां च गदानामगदस्य च। प्रज्ञावन्तः प्रयोक्तारो ज्ञानवद्भिरनुष्ठिताः’ (भा० शां० २३७।८)॥ अनुष्ठिताः=प्रयोजिताः=प्रचोदिताः=प्रेरिताः।
- ‘भ्राता विचित्रवीर्यस्ते सतां मार्गमनुष्ठितः’ (भा० सभा० ४१।२३)। अनुष्ठितः=आस्थितः=संश्रितः।
- ‘येषां योधाः शौचमनुष्ठिताश्च’ (भा० शां० १०२।१३)। शौचमनुष्ठिताः=शौचे परीक्षिताः।
- ‘दृश्यन्ते ह्यातुराः के चिद्… भिषग्भिरनुष्ठिताः समुत्तिष्ठमानाः’ (चरक० चि० १०।४)। अनुष्ठिताः=उपचरिताः=उपक्रान्ताः=चिकित्सिताः।
- ‘एतद्राज्ञः कृत्यतममभिषिक्तस्य भारत। ब्राह्मणानामनुष्ठानम्…’ (भा० अनु० ३३।२)॥ अनुष्ठानम् अराधनमनुरञ्जनम्।
- ‘नानुष्ठानैर्विहीनाः स्युः कुलजा विधवा इव’ (पञ्चत० २।९५)। अनुष्ठानं धर्मानुष्ठानम्। शास्त्रविहितमग्निपरिचर्यादि।
- ‘किन्त्वनुष्ठाननित्यत्वं स्वातन्त्र्यमपकर्षति’ (उत्तर० १।८)। उक्तोऽर्थः। अनुष्ठानशरीरम्-स्थूलसूक्ष्मयोः शरीरयोर्मध्ये स्थितं कर्मशरीरमिति साङ्ख्याः।
- ‘अनुष्ठाय न शोचति विमुक्तश्च विमुच्यते’ (कठ० उ० २।२।१)। अनुष्ठाय विधाय।
- ‘आत्मानमनुतिष्ठ त्वं स्वभावेन नरर्षभ’ (रा० २।१०५।४१) आत्मानं स्वभावेन योजयेत्याह। पुस्तके तु तिलकानुसारि विवरणम्। तच्चाध्याहारबहुलमित्यरुचिकरम्।
- ‘तस्मादाप्तपुरुषाधिष्ठितः संनिधाता निचयाननुतिष्ठेत्’ (कौ० अ० २।५।२१)। निचयाननुतिष्ठेत् सङ्ग्रहान् कुर्यात्।
- ‘तं यो ऽनुतिष्ठेत्सर्वत्र प्राध्वं चास्य सदाचरेत्’ (सत्या० श्रौ० २६।६।८)। तमेवं भूतमात्मानं योऽनुतिष्ठेत्=उपासीत।
- ‘अनु व्रताय निमितेव तस्थुः’ (ऋ० ३।३०।४)। अनुतस्थुः=अनुतष्ठुः=अनुकूलास्तिष्ठन्ति।
- ‘यत्रेन्द्रो भगवान् इन्द्रः सर्वदेवैरनुष्ठितः’ (स्कन्दपु० के० १३४।१९)। अनुष्ठितः सेवितः, उपस्थितः, उपासितः।
स्पश्
- {अनुस्पश्}
- स्पश् (स्पश ग्रहणसंश्लेषणयोः)।
- ‘अनुस्पष्टो भवत्येषो अस्य यो अस्मै रेवान्न सुनोति सोमम्’ (ऋ० १०।१६४।४, अथर्व० २०।९६।४)। अनुस्पष्टः सप्रसाददर्शनः।
स्मृ
- {अनुस्मृ}
- स्मृ (स्मृ चिन्तायाम्)।
- ‘या प्रीतिरविवेकानां विषयेष्वनपायिनी। त्वामनुस्मरतः सा मे हृदयान्माऽपसर्पतु’ (वि० पु० १।२०।१९)॥ अनुस्मरणं निरन्तरं चिन्तनम्।
स्यन्द्
- {अनुस्यन्द्}
- स्यन्द् (स्यन्दू प्रस्रवणे)।
- ‘अनुष्यन्देते मत्स्योदके’ (पा० ८।३।७२ सूत्रे वृत्तिः)। सह स्यन्देते इत्यर्थः।
- ‘अनुष्यन्द इति पश्चिमस्य रथाङ्गस्य समाख्या’ (श० ब्रा० ५।४।३।२४)।
हन्
- {अनुहन्}
- हन् (हन हिंसागत्योः)।
- ‘यश्चैवं हन्ति यश्चानुहन्ति उभौ तौ हतः’ (ऋलृक् सूत्रे भाष्ये)। अनुहन्ति=अनुकुर्वन्हन्तीत्यर्थः।
- ‘हीनमनुहन्यात्’ (कौ० अ० १०।३।५६)। अनुबध्य हन्यादित्यर्थः।
हा
- {अनुहा}
- हा (ओहाङ् गतौ)।
- ‘तस्य देवा अनुहाय वालानभिपेदुस्तानालुलुपुः’ (श० ब्रा० ३।४।१।१७)। अनुहाय=अनुसृत्य=पृष्ठतो गत्वा।
- ‘अनुहायैवास्य तद्वीर्यमादत्ते’ (ऐ० ब्रा० ३।३१)। अनन्तरोदीरित एवार्थः।
- ‘दुरादानं सन्दंशेनानुहायाददीत’ (षड्विंश० ब्रा० ३।१०)।
- ‘अन्विन्द्रम्… आपो अजिहत जायमानम्’ (तै० सं० १।७।१३)। अन्वजिहत=अनुगच्छन्ति। अनुजायन्त इत्यर्थः।
हृ
- {अनुहृ}
- हृ (हृञ् हरणे)।
- ‘अयमकूपारमनुहरति कासारः।’ परिमाणादिना जलधिमनुकरोतीत्यर्थः।
- ‘व्रीडितस्य ललितं युवतीनां क्षीबता बहुगुणैरनुजह्रे’ (कि० ९।६७)। उक्तोऽर्थः। वीडितं ब्रीडा। भावे क्तः।
- ‘देहबन्धेन स्वरेण च रामभद्रमनुहरति’ (उत्तर० ४)। उदितचर एवार्थः।
- ‘पैतृकमश्वा अनुहरन्ते मातृकं गावः’ (पा० १।३।२१)। इत्यत्र वृत्तावुदाहरणम्। गतिं शीलयन्तीत्यर्थः। पितुरनुहरति। मातुरनुहरति। पितुराकारं मातुराकारमनुकरोतीत्यर्थ इति न्यासः।
- ‘यद्धीयेत तन्न त्वेवानुहरेयु’ (भा० श्रौ० ६।६।१५)। न पश्चादाहितं कुर्युरित्यर्थः।
- ‘उदयगिरिदरीतः प्रोल्लसद् बिम्बमिन्दोरनुहरति सुदत्याः पीनलावण्यमास्यम्’ (रुक्मिणी० ३।८)। अनुहरति इन्दुबिम्बेन संवदति।
- ‘ततोऽनुजह्नुस्तं हृष्टा विवाहविधिमुत्तमम्।’ (वामन० ६५।१६०)। अनुजह्रुर्विदधुः।
- ‘द्वितीये स्थायित्ववृत्त्याशा मूषिकभक्षितबीजादावङ्कुरादिप्रार्थनामनुहरेत्’ (सर्व० द० बौ० पं० १०४)। उक्तोऽर्थः।
ह्वे
- {अनुह्वे}
- ह्वे (ह्वेञ् स्पर्धायां शब्दे च)।
- ‘अनुहवं परिहवं परिवादं परिक्षवम्’ (अथर्व० १९।८।४)। अनुहवादीन् परासुवेति सविता प्रार्थ्यते। अनुकूलनक्षत्रे धनाद्यर्थं प्रस्थितस्य पश्चाद्भावावस्थितेन पुरुषेणाह्वानमनुहव इति सायणः।