आप्
- {समाप्}
- आप् (आप्लृ व्याप्तौ)।
- ‘सर्वं समाप्नोषि ततोसि सर्वः’ (गीता ११।४०)। एकीभावेनाऽऽसमन्ताद् व्याप्नोषीत्यर्थः। मम वाक्यं नानृतं लोके कश्चित्कुर्यात्, समाप्नुहि ( )। शापमनुभवेत्यर्थः।
- ‘अप्रयच्छन् (कन्यां) समाप्नोति भ्रूणहत्यामृतावृतौ’ (याज्ञ० १।६४)। समाप्नोति=प्राप्नोति।
इ
- {समे}
- इ (इण् गतौ)।
- ‘भग्ने सैन्ये यः समेयात्स मित्रम्’ (भा० द्रोण० २।१९)। समेयात्=साहचर्यं कुर्वीत।
- ‘यथा काष्ठं च काष्ठं च समेयातां महोदधौ’ (भा० शां० १७४।१५, रा० २।१०५।२६, अत्र महार्णवे इति पाठः)। संगच्छेयाताम्=संयुज्येयातामित्यर्थः।
- ‘ताभ्यामिदं विश्वमेजत्समेति यदन्तरा पितरं मातरं च’ (वा० सं १९।४७)।
- ‘समेयाद् विषमं नागैर्जलाढ्यं समहीधरम्’ (हितोप० ३।७३)। समेयात्=अवगाहेत।
- ‘स्थानादपीन्द्रं कुपितः प्रकर्षेद्यमं समेयाद् वरुणं नियच्छेत्’ (रा० ३।४३।४२)। यमं समेयात्=यमायालं भवेत्।
- ‘पप्रच्छ कोऽयं प्रथमं समेयिवान्’ (भा० वि० ७।५)। समेयिवान् मया समगच्छत।
कृ
- {समाकृ}
- कृ (डुकृञ् करणे)।
- ‘वायुरेनाः समाकरत्।’ (अथर्व० ६।१४१।१)। सङ्घश आनयदित्याह।
- ‘सं वां मनांसि सं व्रता समु चित्तान्याकरम्’ (वा० सं० १२।५८)। समाकरम्=समानयम्।
- ‘पशुं नः सोम रक्षसि" समाकृणोषि जीवसे… (ऋ० १०।२५।६)। समाकृणोषि=समादधासि, प्रतिसंस्करोषि, उपस्कुरुषे।
- ‘वि रोहितो अमृशद् विश्वरूपं समाकुर्वाणः प्ररुहो रहश्च’ (अथर्व १३।१।८)।
- ‘तदेनं समाकुर्वाणं पुरुषः कृष्णशवास्युत्तरत उपोत्थायाब्रवीत्।’ (ऐ० ब्रा० ५।१४)। समाकुर्वाणं सङ्गृह्णानमेकीकुर्वाणम्। आत्मसात्कुर्वन्तमिति तु सायणः।
- ‘संहृष्टं धनमुभयं समाकृतम्’ (अथर्व० ४।३१।७)। समाकृतं समानीतम्।
कॄ
- {समाकॄ}
- कॄ (कॄ विक्षेपे)।
- ‘स च तं विजने दृष्ट्वा पांसुभिः कर्दमेन च। श्लेष्मणा चैव राजानं ष्ठीवनैश्च समाकिरत्’ (भा० आश्व० ६।३१)। समाकिरत् अन्वलिम्पत्।
- ‘सैनिकान्मम सूतं च हयांश्च स समाकिरत्’ (शरैः) (भा० वन० २०।२१)। आच्छादयदित्यर्थः।
- ‘समाकीर्णा पिपीलकैः’ (रा० १।६।२४)। पिपीलकनिर्भरेत्यर्थः।
क्रम्
- {समाक्रम्}
- क्रम् (क्रमु पादविक्षेपे)।
- ‘सुरसमाजसमाक्रमणोचितः’ (रघु० ९।२२)। देवसभाधिष्ठानार्हः।
- ‘समाक्रामत्स तं शैलं स चचाल महान् गिरिः’ (रा० ५।५।११)। समाक्रामत्=आरोहत्।
- ‘गुरुभारसमाक्रान्तश्चचाल च जुघूर्ण च’ (रा० ४।१५।२५)। गुरुभारोपपीडित इत्याह।
- ‘सममेव समाक्रान्तं द्वयं द्विरदगामिना। तेन सिंहासनं पित्र्यमखिलं चारिमण्डलम्’ (रघु० ४।४)॥ समाक्रान्तम्=अध्यासितम्। आस्कन्नम्। विजितम्।
- ‘सा तु त्वया समाक्रान्ता प्रतिज्ञा’ (रा० १।४४।५४)। समाक्रान्ता=तीर्णा=पालिता।
- ‘ततस्तेन समाक्रम्य गृहं नीत्वा दिनत्रयम्। संस्थाप्य तव लीलार्थमिहानीतो रघूद्वह’ (यो० वा० (६(२)। ११६।१६)। समाक्रम्य=आसाद्य, त्वरितमुपगम्य।
क्रीड्
- {समाक्रीड्}
- (क्रीडृ विहारे)।
- ‘इह देवः सपत्नीकः समाक्रीडत्यधोक्षजः’ (भा० अनु० १४।६९)। समन्ताद् विहरतीत्यर्थः।
क्षिप्
- {समाक्षिप्}
- (क्षिप प्रेरणे)।
- ‘वाससां तत्र राशिं समाक्षिपत्’ (भा० आदि० १।१५८)। समाक्षिपत्=आक्षिप्य (हृत्वा) उपसमाधात्।
- ‘न चोष्ठौ न भुजौ जानू न च वाक्यं समाक्षिपेत्। सदा वातं च वाचं च ष्ठीवनं चाचरेच्छनैः’ (भा० वि० ४।३५)॥ समाक्षिपेत्=यदृच्छयाऽनुयुञ्जीत, अनुयोगादिना वान्तरा प्रतिबध्नीयात्।
- ‘सेनाबिन्दुमथो राजन्राज्यादाशु समाक्षिपत्’ (भा० सभा २७।१०)। समाक्षिपत्=अवाक्षिपत्=अवारोपयत्।
- ‘पञ्चमेन शिरः कायात्सारथेश्च समाक्षिपत्’ (भा० कर्ण० २८।५)। समाक्षिपत्=अपाहरत्।
- ‘विभूषणानां च समाक्षिपन्प्रभाः’ (भा० द्रोण० ५०।४)। समाक्षिपन्=संहरन्।
- ‘समाक्षिपन्भानुमतः प्रभां मुहस्त्वमन्तकः’ (भा० आदि० २३।२०)।
- ‘तया समाक्षिप्ततनुः स पापः पपात शाखीव निकृत्तमूलः’ (भा० वन० २६८।२४)। समाक्षिप्ततनुः=हठात्प्रणुन्नकलेवरः।
- ‘समाक्षिप्य रथात्तस्मात् सारथिम्’ (रा० ३।५६।५०)। समाक्षिप्य=अवपात्य।
- ‘शाखां चन्दनवृक्षस्य समाक्षिप्य’ (रा० ४।७।१४)। समाक्षिप्य=अवस्कद्य=शातयित्वा।
- ‘द्रौपद्या वसनं बलात्। सभामध्ये समाक्षिप्य’ (भा० सभा० ६८।४०)। अवरोप्येत्यर्थः।
ख्या
- {समाख्या}
- ख्या (ख्या प्रकथने)।
- ‘न हि सम्बन्धादृते समाख्यानम् …ननु प्रवचनलक्षणा समाख्या स्यात्’ (मी० १।१।२७ सूत्रे शा० भा०)। **समाख्यानम्, समाख्या=नामधेयम्।
- ‘प्रकर्षेण वचनम् (प्रवचनम्) अन्यस्य साधारणं कठादिभिरनुष्ठितं स्यात् तथापि हि समाख्यातारो भवन्ति’ (मी० १।१।३०) सूत्रे शा० भा०)। समाख्यातारः=नामनिर्देष्टारः।
- ‘तिस्रः कोट्यः समाख्याताः। समाख्याताः=परिगणिताः।
- ‘पुरुषार्थं ज्ञानमिदं गुह्यं परमर्षिणा समाख्यातम्’ (सां० का० ६९)। समाख्यातम्=प्रोक्तम्।
- ‘संक्षेपतो वै स विशुद्धकर्मा तेभ्यः समाख्याय दिवि प्रवासम्’ (भा० वन० १६५।१३)। समाख्याय=आख्याय=उक्त्वा।
गम्
- {समागम्}
- गम् (गम्लृ गतौ)।
- ‘राजभिस्तत्र वार्ष्णेयः समागच्छद्यथावयः’ (भा० उ० ९१।८)। समागच्छत्=समगंस्त।
- ‘रत्नं समागच्छतु काञ्चनेन (सुभाषितम्)। समागच्छतु=संयोगमेतु, संयुज्यताम्।
- ‘प्रहृष्टो भव विप्रर्षे समागच्छ मया सह’ (भा० अनु० १९।८१)। मां संगच्छ, संविश, संभवेत्याह।
- ‘सा त्वं मया समागच्छ’ (भा० वन० ३०६।२८)। उक्तोऽर्थः।
- ‘रथा रथैः समाजग्मुः पादातैश्च पदातयः’ (भा० वि० ३९।२)। युयुत्सयाऽभिमुखाः संगता बभूवुरित्यर्थः।
- ‘ततः पुनः समाजग्मुरभीताः कुरुपाण्डवाः’ (भा० कर्ण० २१।९)। उक्तोऽर्थः।
- ‘पाण्डवान् …समाजग्मुर्महावने’ (भा० वन० १२।१)। समाजग्मुः=उपययुः।
- ‘क्व नु वयं तं नरं समागच्छेम यो नस्तद्रूपमापादयेत्पुनः’ (भा० आदि० २१७।१३)। समागच्छेम=विन्देमाहि, लभेमहि।
- ‘समागच्छन्त्ययत्नेन संगमं च परस्परम्’ (रा० ४।४४।७८)। उक्तोऽर्थः।
- ‘तां कौमुदीमिव समागमयेन्दुबिम्बे’ (विक्रम०)।
- ‘समागमय वैदेह्या रामम्’ (रा० ५।६।२९)। संगमं कारयेत्यर्थः।
- ‘तेन कर्णेन ते तात कथमासीत्समागमः’ (भा० वि० १??।६९)। समागमः=संग्रामः।
- ‘तेषां समागमो घोरस्तुमुलो लोमहर्षणः’ (भा० वि० ३२।४)। उक्तोऽर्थः।
- ‘अहं तु मन्ये तव न क्षमं रणे समागमं कोशलराजसूनूना’ (रा० ३।३७।२५)।
- ‘पुनरेव तयो राजन्घोर आसीत्समागमः’ (भा० द्रोण० १३२।८)।
- ‘दारुणश्च पुनस्तत्र प्रादुरासीत्समागमः’ (भा० कर्ण० २१।८)।
- ‘तच्च भीमं महद् युद्धं कृपार्जुनसमागमे’ (भा० वि० ५६।५)। समागमः=समासत्तिः।
- ‘रणे तेन विराटेन भविता वः समागमः’ (भा० उ० ५०।४०)। उक्तोऽर्थः।
- ‘स रावणः समागम्य विधिवत्तेन रक्षसा’ (रा० ३।१५।३९)। समागम्य=संगत्य।
- ‘स समागम्य शर्मिष्ठां यथाकाममवाप्य च’ (भा० आदि० ८२।२५)। समागम्य=संभूय=मिथुनीभूय।
- ‘अनुमान्य तदा तारां सुग्रीवेण समागतः’ (रा० १।१।६९)। सङ्ग्रामयाञ्चक्र इत्यर्थः।
- ‘ज्ञास्यस्यद्य समागम्य मयात्मानं बलाधिकम्’ (भा० आदि० १५३।३५)। उक्तोऽर्थः।
- ‘अपि कृत्यंकृतं तात रामेणात्र समागतम्’ (रा० २।११३।७)।
गल्
- {समागल्}
- गल् (गल स्रवणे)।
- ‘प्राकम्पत स शैलराट्। मुमोच पुष्पवर्षं स समागलितपादपः’ (भा० आदि० ११०९)। सहसा पतितपादप इत्याह।
ग्रह्
- {समाग्रह्}
- ग्रह् (ग्रह उपादाने)।
- ‘समागृभाय वसु भूरि पुष्टम्’ (अथर्व० १८।२।६०)। समागृभाय=साकं गृहाण।
- ‘आ तू न इन्द्र क्षुमन्तं चित्रं ग्राभं सं गृभाय। महाहस्ती दक्षिणेन’ (ऋ० ८।८।१)॥ उक्तोऽर्थः।
घ्रा
- {समाघ्रा}
- घ्रा (घ्रा गन्धोपादाने)।
- ‘गन्धं समाघ्राय’ (रा० ५।२३।३२)। गन्धमुपादायेत्यर्थः।
- ‘कनीयसः समाघ्राय शिरःसु’ (भा० आदि० १२९।३०)। समाघ्राय=उपाघ्राय, चुम्बित्वा।
- ‘ऋणैः किल समाघ्रातः पुरुषो जायते त्रिभिः’ (बृ० श्लो० सं० ५।२)। समाघ्रातः संस्पृष्टः।
चक्ष्
- {समाचक्ष्}
- चक्ष् (चक्षिङ् व्यक्तायां वाचि)।
- ‘यो हि यागमनुतिष्ठति तं धार्मिक इति समाचक्षते’ (मी० १।१।२ सूत्रे शा० भा०)। कथयन्ति वदन्ति उदाहरन्ति।
- ‘एवं गते समाचक्ष्व स्वयं निश्चित्य हेतुभिः’ (भा० सभा० १४।७०)। समाचक्ष्व=व्यक्तमुदीरय।
- ‘स त्वं सीतां समाचक्ष्व यत्र येनापि वा हृता’ (रा० ३।७५।३९)।
- ‘तां समाचक्ष्व कल्याणीं यदि स्याच्छैब्यमानुषी’ (द्रौपदी० ४, ५)।
चर्
- {समाचर्}
- चर् (चर गतिभक्षणयोः)।
- ‘उच्छिष्टान्नं निषेकं च दूरादेव समाचरेत्’ (मनु० ४।१५१)। समाचरेत्=निक्षिपेत्।
- ‘एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर’ (पञ्चत०)। मौनं समाचर=तूष्णीम्भावमातिष्ठ।
- ‘नोग्रं दुर्योधनो वाच्यः साम्नैवैनं समाचरेः’ (भा० उ० ७४।२)। समाचरेः=व्यवहरेः, वर्तेथाः (अस्मिन्)।
- ‘तारयेत्कुलं सर्वमेकोऽपीह द्विजोत्तमः। किमङ्ग पुनरेवैते तस्मात्पात्रं समाचरेत्’ (भा० अनु० २२।४०)। सत्कुर्यात् सेवेत, उपचरेदित्यर्थः।
- ‘वृथाकुलसमाचारैर्न युध्यन्ते नृपात्मजाः’ (भा० आदि० १३६।३३)। समाचारः=आचारः=वृत्तम्।
- ‘नायं युक्तः समाचारः पाण्डवेषु महात्मसु’ (भा० सभा० ३७।२)। समाचारः=व्यवहारः। वृत्तिः।
- ‘गदायुद्धसमाचारं बुध्यमानः स वीर्यवान्’ (भा० वन० १६०।६७)। समाचारः समयः संवित्।
चि
- {समाचि}
- चि (चिञ् चयने)।
- ‘शैनेयं पञ्चविंशत्या सायकानां समाचिनोत्’ (भा० द्रोण० १६२।१९)। आवृणोदित्यर्थः।
ज्ञा
- {समाज्ञा}
- ज्ञा (ज्ञा अवबोधने)।
- ‘महारथः समाज्ञातो महाराज महाधनुः’ (भा० वन० १६।२२)। समाज्ञातः=प्रसिद्धः।
- ‘महारथसमाज्ञातैर्हतानां पुत्रनप्तृभिः’ (भा० आश्व० ७४।१)। महारथत्वेन सम्यगाज्ञातैरित्याह।
- ‘शास्त्रज्ञसमाज्ञातो हि यद् ददाति यन्मानयति… तत्सर्वमतिसन्धातुमित्यविश्वासः’ (दशकु० पृ० २५९)। उक्तोऽर्थः।
- ‘गन्धहस्तिनं समाज्ञातमौपवाह्यं द्विरदवरमभिरुह्य’ (अवदा० जा० ९)।
- ‘श्रुतशीले समाज्ञाय वृत्तिमस्य प्रकल्पयेत्’ (भा० शां० १६५।१४)। समाज्ञाय=सम्यग्ज्ञात्वा।
- ‘भूत्वा हि नृपतिः पूर्वं समाज्ञाप्य च मेदिनीम्’ (भा० शल्य० ६५।१४)। समाज्ञाप्य=प्रशिष्य।
तन्
- {समातन्}
- तन् (तनु विस्तारे)।
- ‘सरसेन समातन्वन् कोशे बहुसुवर्णताम्’ (राज० ४।२४७)। समातन्वन्=जनयन्=साधयन्।
- ‘समाततेन श्वसनेन कूजता’ (भा० कर्ण० ८८।२६)। समाततेन=सन्ततेन।
दा
- {समादा}
- दा (डुदाञ् दाने)
- ‘मत्स्यो मत्स्यं समादत्ते ज्ञातिर्ज्ञातिम्’ (का० नी० सा० ८।६८)। समादत्ते=गृह्णाति=अधिकुरुते=प्रसहते।
- ‘तान्सर्वानाहवे क्रुद्धान्सानुबन्धान् समागतान्। अहमेकः समादास्ये तिमिर्मत्स्यानिवोदकात्’ (भा० उ० ५७।४९)। उक्तोऽर्थः।
- ‘फलानि चान्यानि समाददन्मे’ (भा० वन० ११२।१३)। अददादित्यर्थः। अत्राङस्थाने। समा च नार्थः।
- ‘यथा महान्तमध्वानमेष्यन्रथं वा नावं वा समाददीत’ (श० ब्रा० १४।६।११।१)। समाददीत=सह नयेत्।
- ‘शिशुरादत्त सं रभः’ (ऋ० १।१४५।३) समादत्त=साकं दधे।
- ‘महानसाच्छृतं मांसं समादायैहि’ (नल० २३।१८)। समादाय=उद्धृत्य।
- ‘स्कन्धैः समादाय कुमारान्।’ (हरि० ३।४।३०)। स्कन्धानारोप्येत्याह। स्कन्धे समाधायेति पाठान्तरम्।
दिश्
- {समादिश्}
- दिश् (दिश अतिसर्जने)।
- ‘अर्जुनस्य समादेशं यथोक्तं सर्वमब्रवीत्’ (भा० उ० १६३।५२)। समादेशम्=सन्देशम्।
धा
- {समाधा}
- धा (डुधाञ् धारणपोषणयोः)।
- ‘तदेवं श्रेयः समाधत्ते यथा तथाप्युपनतः सत्सङ्गमः’ (अवदा० सुत० जा०)। समाधत्ते=जनयति।
- ‘भयं तदा रिपुषु समादधद् भृशम्’ (भा० द्रोण० २६।६५) समादधत्=समादधात्।
- ‘परं हर्षं समादधत्’ (हरि० २।९३।५)।
- ‘कोपं समादधे’ (हरि० २।१९।२६)। कोप धारयामास, क्रोधमाहारयामासेत्यर्थः।
- ‘सहदेवस्तु कौरव्य समाधास्यति बुद्धिमान्। कुटुम्बतन्त्रं विधिवत्…’ (भा० आश्व० ७२।२०)॥ समाधास्यति=धारयिष्यति।
- ‘कल्याणानि समाधत्ते न मोहे कुरुते मनः’ (रा० २।५४।३०)। समाधत्ते=मनसा कर्तुमाशास्ते।
- ‘चिरं सुधीरमभ्यधिकं समाधात्’ (भट्टि० १२।६)। अचिचिन्तत्, चिन्तितवानित्याह।
- ‘अवधानं समाधानं प्रणिधानं तथैव च’ (अमरः)।
- ‘उञ्छवृत्तिर्ऋषिः कश्चिद् यज्ञं यष्टुं समादधे’ (भा० शां० २७२।३)।
- ‘अथ मां गोमुखोऽवोचत्स्रस्तेन मुकुटेन वः। ललाटमावृतं तेन तत्समाधीयतामिति’ (बृ० श्लो० सं० ८।१८)॥ समाधीयताम्=व्यवस्थाप्यताम्।
- ‘उत्पन्नामापदं यस्तु समाधत्ते स बुद्धिमान्’ (हितोप० ४।७)। उपायैर् व्यपोहति इत्याह।
- ‘पदं मूर्ध्नि समाधत्ते केसरी मत्तदन्तिनः’ (पञ्चत० १।३२७)। समाधत्ते=निक्षिपते। न्यस्यति।
- ‘तदात्मसंभवं राज्ये मन्त्रिवृद्धाः समादधुः’ (रघु० १७।८)। प्रतिष्ठापितवन्त इत्यर्थः।
- ‘तदहं त्वत्कृते पुत्रं समाधास्ये जयोत्सुकम्’ (रा० १।४६।१५)। ‘गतवैरं भ्रातृस्नेहवन्तं करिष्यामीत्याह’ (कतकः)।
- ‘समाधत्त च तं बाणं धनुर्मध्ये महाबलः’ (भा० कर्ण० २९।२७)। शरसन्धानमकरोदित्यर्थः।
- ‘नैव वासः समाधत्ते’ (हरि० २।१२६।२६)। समाधत्ते=परिधत्ते।
- ‘धूपचन्दनतैलादि विक्रयोत्थं समादधे। द्रविणं देववेश्मभ्यः…’ (राज० ५।१६७)॥ समादधे=(आहृत्य) स्ववशे चकार।
- ‘आत्मानमसमाधाय समाधित्सति यः परान्’ (भा० शां० २६७।२७)।
- ‘तं सामानु प्रावर्तत समितो नाव्याहितम्’ (ऋ० १०।१३५।४)। नावि समाहितम्=नावमारोपितम्।
- ‘अनः सुसमाहितम्’ (श० ब्रा० १४।७।१।४२)। सम्यगारोपितवाह्यम् इत्यर्थः।
- ‘त्रयो लोकाः समाहिताः’ (हरि० ३।३१।१८)। समाहिताः=एकीकृताः।
- ‘अपश्यद् भूमिभागांश्च सर्वतः सुसमाहितान्’ (रा० ५।१७।१)। साधुकृतान् व्यवस्थापितान् इत्यर्थः।
- ‘एकार्थतायां तु समाहितायां मिथ्या वदन्तं त्वनृतं हिनस्ति’ (भा० आदि ८२।१७)॥ समाहितायाम्=निश्चितायाम्।
- ‘नराश्च ये तत्र समाहिताः पुरा’ (भा० वि० ८।१२)। समाहिताः=नियुक्ताः।
- ‘पुराणे कथ्यते यत्र वेदः श्रुतिसमाहितः’ (हरि० १।४१।२७)। श्रुतिसमाहितः=प्रत्यक्षेणैव निहितो दृश्यते।
- ‘तपसा ब्रह्मचर्येण श्रुतेन च समाहिताः’ (हरि० १।८।२८)। समाहिताः=समन्विताः।
- ‘मृदुसूर्याः सुनीहाराः पटुशीताः समाहिताः’ (दिवसाः) (रा० ३।१६।११)। समाहिताः शान्ताः। विस्पष्टार्थसमाहितैः।
- ‘रथैः साङ्ग्रामिकैर्युक्तैरसङ्गगतिभिः क्वचित्’ (हरि० २।४२।२)। विस्पष्टार्थसमाहितैः=अस्त्रशस्त्रविद्भिः सुशिक्षितैरिति (नील०)। असङ्गगतिभिः=अव्याहतगमनैः।
- ‘भर्तृवाक्यसमाहिता’ (रा० ६।९९।२९)। भर्तृवाक्येऽवहिता।
- ‘यत्रामृतं च मृत्युश्च पुरुषेऽधि समाहिते’ (अथर्व० १०।७।१५)। समाहिते=निहिते।
- ‘संचुकोच (पाण्डवानां महद्बलम्) महाराज चर्मेवाग्नौ समाहितम्’ (भा० भीष्म० ९५।५७)। उक्तोऽर्थः।
- ‘उपनिषद्भिः समाहितात्मासि’ (श० ब्रा० १४।६।११।१)। युक्तमना असीत्याह।
- ‘समाधायायुधं शम्यां गच्छामो नगरं प्रति’ (भा० वि० ५।१६)। समाधाय=सम्यङ् निधाय।
- ‘एवं त्वयि समाधाय धर्मराजं नरोत्तमम्’ (भा० द्रोरण० १११।१५)। समाधाय=निक्षिप्य, =न्यस्य=परिदाय।
- ‘जरां त्वयि समाधाय’ (हरि० १।३०।२३)। अर्पयित्वा, सङ्क्रमय्येत्याह।
- ‘अभिनन्द्य समापृच्छ्य समाधाय च राघवम्’ (रा० २।११६।२४)। स्ववियोगखिन्नं समाश्वास्य।
- ‘मूर्तीः सर्वाः समाधाय त्रैलोक्यस्य ततस्ततः’ (भा० कर्ण० ३४।१६)। समाधाय=समाहृत्य।
- ‘समाधाय मतिं राम निशामय’ (रा०)। मन ऐकाग्र्यं सम्पाद्येत्यर्थः।
- ‘अभिधायेति वसुधां समाधाय पितामहः’ (शि० भा० ६।५८)। समाधाय=सान्त्वयित्वा।
- ‘नैव शक्या समाधातुं सन्निपाते महाचमूः’ (भा० भीष्म० ३।७८)। समाधातुम्=एकत्र धारयितुम्।
- ‘अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम्’ (गीता १२।९)। समाधातुम्=एकायनीकर्तुम्।
- ‘दुरुक्तैर्भिन्नमात्मानं यः समाधातुमीश्वरः’ (भा० पु० ११।२३।२)। समाधातुम्=नियन्तुं व्यवस्थापयितुं क्षोभात्परिहर्तुमित्याह।
- ‘यदत्रानन्तरं कार्यं तत् समाधातुमर्हथ’ (रा० ४।२५।२)। समाधातुं सम्यक् कर्तुम्।
- ‘यथा भानुगतं तेजो मणिः शुद्धः समाधिना । आदत्ते…’ (भा० शां० २९८।१२)॥ समाधिना नियमेनाव्यभिचारेणेति नील०।
- ‘अथैकाग्ने: समाधानम्’ (लौ० गृ० ४५।१)। समाधानमुपशमनम्।
- ‘दर्शे वा पौर्णमासे वाऽग्निसमाधानं कुर्वीत’ (गो० गृ० १।१।१४)। अग्न्याधानं समाचरेत्, अग्निमादधीत। अनर्थकः सम्शब्दः सम्यगर्थको वा।
- ‘परमेष्ठिमरणे पुत्रस्याग्निसमाधानम्।’ (लौ० गृ० ४५।२)। उक्तोऽर्थः।
धाव्
- {समाधाव्}
- धाव् (धावु गतिशुद्ध्योः)।
- ‘ततो मृगाः समाधावन् यत्र तिष्ठति केशवः’ (हरि० ३।७८।१६)। इतः सममधावन्नित्यर्थः।
धू
- {समाधू}
- धू (धू विधूनने, धूञ् कम्पने)।
- ‘(राक्षसान्) मानवास्त्रसमाधूतान् अनिलेन यथा घनान्’ (रा० १।३२।१५)। समाधूतान्=परास्तान्, विकीर्णान्।
ध्मा
- {समाध्मा}
- ध्मा (ध्मा शब्दाग्निसंयोगयोः)।
- ‘(शङ्खाः) समाध्माताः’ (भा० सभा० ५३।१८)।
- ‘कम्बूनथ समादध्मुः’ (भट्टिः १४।२)। शङ्खान्पूरयामासुरित्यर्थः।
- ‘भेर्यश्चापि समाध्माता मृदङ्गा बहवो नृप’ (हरि० ३।१२०।१४)। समाध्माताः अभिहताः।
नी
- {समानी}
- नी (णीञ् प्रापणे)।
- ‘समानिन्ये च तत् सर्वं भाण्डं वैवाहिकं नृपः’ (भा० वन० २९५।१)। संजग्राहेत्यर्थः।
- ‘धतराष्ट्रसुताश्चापि समानिन्युर्महीपतीन्’ (भा० उ० ५।१५)। समागमयामासुः, एकी चक्रुः।
- ‘बलं चैव समानय’ (रा० २।८२।२१)।
- ‘समानयस्व वैदेह्या रामम्’ (रा० ५।५६।३७)। मेलय, संयोजयेत्यर्थः।
- ‘समानय च वैदेहीं राघवेण महात्मना’ (रा० ५।१।१६०)। उक्तोऽर्थः।
- ‘समानयस्व सत्कृत्य सर्वदेशेषु मानवान्’ (रा० १।१३।२१)। एकीकुरु, संगृहाणेत्याह।
- ‘पुरस्कृत्याद्य भवतः समानेष्यामहे मखम्’ (भा० आश्व० १४।८)। संभरिष्यामः, आहरिष्यामहे।
- ‘दिवं च भूमिं च समानयन्निव’ (भा० द्रोण० ५०।४)। एकतां नयन्निव।
- ‘समानयंस्तुल्यगुणं वधूवरं चिरस्य वाच्यं न गतः प्रजापतिः’ (शा० ५।१५)। समानयन्=संयोजयन्।
- ‘विद्रुतेषु च सैन्येषु समानीतेषु चासकृत्’ (भा० शल्य० ३।२)। विघटितेषु सैन्येषु भूयो भूयः सङ्घटनमापादितेषु, संनिपातितेष्वित्याह।
- ‘हस्तौ समानीय (बद्ध्वा)। एवमेव क्रतून् सर्वान्समानीयाप्तदक्षिणान्’ (पञ्च० १।२६)। समानीय=आहृत्य=संभृत्य।
- ‘शीतोष्णा अपः समानीय’ (आश्व० गृ० १।१५।८)। समानीय=संमिश्र्य।
- ‘ततस्तु प्रकृतीः समानाय्य। संनिपात्य, आकार्य, आगमय्य।
पत्
- {समापत्}
- पत् (पत्लृ गतौ)।
- ‘ताभिः सह समापेतुर्बाह्मणाः संशितव्रताः’ (भा० आदि० ६४।६)। समापेतुः समाजग्मुः।
- ‘तत्र मल्लाः समापेतुर्दिग्भ्यो राजन् सहस्रशः’ (भा० वि० १३।१५)।
- ‘युधिष्ठिरेण चादिष्टाः पार्थिवास्ते सहस्रशः। विनदन्तः समापेतुः पुत्रस्य तव वाहिनीम्’ (भा० भीष्म० ४४।२७)। अवचस्कन्दुरित्यर्थः।
- ‘ताभिः समापेतुर्बाह्मणा ऋतावृतौ’ (भा० आदि० ६४।६)। मिथुनी बभूवुरित्यर्थः।
- ‘पवनः पवनाभिहतो गगनादवनौ यदा समापतति’ (वरा० सं० ३८।१)। समापतति=अधो याति=अवपतति=निपतति।
- ‘अथ स राजा समन्ततः समापततो वनीपकजनस्य’ (अवदा० जा० २)। सन्निपततः=समागच्छतः।
पद्
- {समापद्}
- पद् (पद् गतौ)।
- ‘द्वारं तु वितताकारं समापेदे पुनश्च सः’ (भा० सभा० ४७।१३)। समापेदे=प्राप।
- ‘तत्समापन्नौ पशावुद्घट्टयामास’ (अवदा० जा० २२)। समापन्नौ समीपे स्थितौ।
- ‘ग्राह्यालम्बनोपरक्तं चित्तं ग्राह्यसमापन्नं ग्राह्यस्वरूपाकारेण निर्भासते’ (यो० सू० १।४१ भाष्ये)।
- ‘तदेवमभिजातमणिकल्पस्य चेतसो ग्रहीतृग्रहणग्राह्येषु पुरुषेन्द्रियभूतेषु या तत्स्थतदञ्जनता तेषु स्थितस्य तदाकारापत्तिः सा समापत्तिरित्युच्यते’ (यो० सू० १।४१ भाष्ये)।
- ‘समापत्तिदृष्टेन जनेन संभाषापि यदि’ (माल० ४)।
- ‘समापत्तिदृष्टेन केशिना दानवेन’ (विक्रम० १)। समापत्तिः=यदृच्छासङ्गतिः।
- ‘तयोः समापत्तिषु कातराणि (विलोचनानि)’ (कु० ७।७५)।
- ‘क्रियासमापत्तिनिवर्त्तितानि’ (रघु० ७।२३)। उक्तोऽर्थः।
- ‘स्वयम्भूत्वसमापत्तौ तथा दृश्यव्यवस्थितौ’ (यो० वा० ६(२)।९६।४)। समापत्तिः=प्राप्तिः।
- ‘चित्तात् सर्गसमापत्तिः’ (यो० वा० ३।११९।३१)। समापत्तिः=उत्पत्तिः।
- ‘आ समापत्तेः’ (आप० ध० २।१०।२७।१९)। समापत्तिः समाप्तिः।
म्ना
- {समाम्ना}
- म्ना (म्ना अभ्यासे)।
- ‘भूयांसि तु समाम्नानात्। यत्तु… प्राधान्यस्तुति तत् समामने’ (नि० ७।१२।१०)। समामने=समामनामि=संगृह्णामि।
- ‘समाम्नायः समाम्नातः स व्याख्यातव्यः’ (नि० १)। सङ्ग्रहः प्रणीत इत्याह।
- ‘सर्गस्थानसमाम्नायैः’ (भा० पु० ७।७।२४)। सृष्टिस्थितिसंहारैरित्याह। अपूर्वः स्वकपोलकल्पितोर्थः। रूढिं प्रत्यनादरोऽस्य कवे रूढः। स्वालक्षण्यं च प्रथितम्।
यत्
- {समायत्}
- यत् (यती प्रयत्ने)।
- ‘आसां प्राणाः समायत्ता मम चात्रैकपुत्रके’ (भा० वन० १२।१५)।
- ‘कार्यं चास्मिन्समायत्तमित्येवं न ददाह सः’ (रा० ७।३५।३०)। समायत्तम्=आधृतम्।
यम्
- {समायम्}
- यम् (यम उपरमे)।
- ‘सन्तरां मेखलां समायच्छते’ (तै० सं० ६।२।२)। कर्षतीत्याह।
या
- {समाया}
- या (या प्रापणे)।
- ‘वसमानेषु पार्थेषु मत्स्यस्य नगरे तदा। महारथेषु च्छन्नेषू मासा दश समाययुः’ (भा० वि० १४।१)। समाययुः=व्यतीयुः।
- ‘खिन्नः समाययौ द्रष्टुं कदा चिद् विन्ध्यवासिनीम्’ (कथा० २।२)। समाययौ=आययौ आजगाम। समा नार्थः।
- ‘द्वौ पन्थानौ समायातौ’ (पञ्चत०)। समं प्राप्तौ।
- ‘मम बलान्निद्रा समायाता’ (पञ्चत०)।
युज्
- {समायुज्}
- युज् (युजिर् योगे)।
- ‘यथा नायं समायुञ्ज्याद् धार्तराष्ट्रान्कथं चन’ (भा० वि० ५१।२१)। धृतराष्ट्रात्मजैः सङ्ग्रामं गच्छेत्।
- ‘धम्राक्षेण समायूक्तः’ (रा० ६।१८।२०)। समायुक्तः सङ्ग्रामयमाणः।
- ‘येऽर्थाः स्त्रीषु समायुक्ताः ( )।’ समायुक्ताः=अर्पिताः न्यस्ताः।
- ‘भागधेयसमायुक्तो ध्रुवमुत्पद्यते नरः’ (भा० शल्य० २।४६)। समायुक्तः=संयुक्तः=युक्तः।
- ‘श्रुतिस्मृतिसमायुक्तं विनीतं सनिदर्शनम्’ (भा० शां० ८५।१०)। उक्तोऽर्थः।
- ‘इष्टानिष्टसमायोगे वैरं सौहार्दमेव च’ (भा० शां० २९४।२७)। दृष्टादृष्टसमायोगात्। देहात्मनोः समायोगात्।
- ‘प्राणापानसमायोगसमयम्’ (यो० वा० ५।८।९, ५।६७।१०, ६(१)। २६।११)।
- ‘क्व गतिर्मानुषाणां च धनुषोऽस्य प्रपूरणे। आरोपणे समायोगे वेपने तोलने तथा’ (रा० १।६७।१०)॥ समायोगे=शरेण योजने।
- ‘अपास्तसमायोगश्च क्षणमासिष्ट’ (हर्ष० पृ० ४४९)।
- ‘न तद् धनुर्मन्दबलेन शक्यं मौर्व्या समायोजयितुं तथा हि’ (भा० आदि० १९३।२७)।
रभ्
- {समारभ्}
- रभ् (रभ राभस्ये)।
- ‘ते नात्मनः कर्म समारभन्ते’ (भा० वन० १२०।२)। उपक्रमन्ते। समा नार्थः।
- ‘अहं त्विमं जलनिधिं समारप्स्याम्युपायतः’ (भा० वन० २८३।३०)। आराधयिष्यामीति नील०। उपैष्यामीति शार्मण्यकोषः।
लक्ष्
- {समालक्ष्}
- लक्ष् (लक्ष दर्शने)।
- ‘नैषादिं श्वा समालक्ष्य भषंस्तस्थौ तदन्तिके’ (भा० आदि० १३२।३९)। समालक्ष्य=लक्षयित्वा। समाङ्भ्यां नार्थः।
लग्
- {समालग्}
- लग् (लगे सङ्गे)।
- ‘केशाकेशि समालग्ना न शेकुश्चेष्टितुं नराः’ (भा० शल्य० २३।५२)। समालग्नाः=समन्तात्सम्यग् लग्नाः सक्ताः।
लभ्
- {समालभ्}
- लभ् (डुलभष् प्राप्तौ)।
- ‘शीर्षण्यानि ततः खानि मूर्धानं च समालभेत्’ (वि० पु० ३।११।२१)। समालभेत्=समालभेत=स्पृशेत्। समालम्भो विलेपनमिति तु कोषकाराः।
- ‘गन्धैश्चापि समालभ्य राममायतलोचना’ (रा० २।२५।३७)। समालभ्य=विलिप्य।
- ‘भर्तुराज्ञां समालभ्य तथा चक्रुश्च सर्वशः’ (हरि० २।९।३??।३) समालभ्य=प्राप्य, अधिगम्य। समाङौ बुद्धिविपर्यासकृतौ सुपरिहरौ।
- ‘प्रतिगृह्य च काकुत्स्थः समालभ्य च पाणिना’ (रा० १।२७।२७)। समालभ्य=स्पृष्ट्वा (अस्त्राणि)।
- ‘वधूमुखौषधीपुष्पसमालम्भनभूमयः’ (यो० वा० ६(२)। ६।२६)। समालम्भनं मिश्रणम्।
- ‘कुङ्कुमेनोत्सवे मृत्योः समालब्धाः इव स्रजः’ (यो० वा० ३।४८।५९)। समालब्धाः=विलिप्ताः।
- ‘चन्दनेन समालब्धाः सहिरण्याः पृथक् पृथक्’ (भविष्योत्तर० पु० ९५।३४)। उक्तोऽर्थः।
- ‘मनुष्याणां समालम्भो न च दृष्टः कदाचन’ (भा० सभा० २२।११)। समालम्भो वधः।
- ‘अत ऊर्ध्वमसमालम्भनमादशरात्रात्’ (गो० गृ० २।७।२३)। असमालम्भनमस्पर्शः।
- ‘उत्तरामुत्तरां शाखां समालम्भं रोहेत्’ (श० ब्रा० ९।३।३।६)। समालम्भम्=आलम्ब्य। णमुलन्तमेतत्।
वप्
- {समावप्}
- वप् (डुवप बीजसन्ताने)।
- ‘संभारान् पात्र्यां वा चमसे समावपेयुः’ (ऐ० ब्रा० ८।१७)। समं क्षिपेयुः, संयुयुः, आसिञ्चेयुः।
- ‘अथैतान्यजमानोऽञ्जलौ समोप्य’ (श० ब्रा० २।६।२।१६)। समोप्य=समं न्यस्य।
वह्
- {समावह्}
- वह् (वह प्रापणे)।
- ‘अपदातीनॄत्विजः समावहन्ति’ (तै० ब्रा० ३।८।१।२)। समावहन्ति=समानयन्ति।
- ‘ता बेह संवहावहै’ (ऐ० ब्रा० ८।२७)। एकत्रावतिष्ठेवहि, अन्योन्येन सह वर्तेवहि (शार्मण्यकोषः)। जीविकोपायं सम्पादयावहै इति तु सायणः।
विज्
- {समाविज्}
- विज् (ओविजी भयचलनयोः)।
- ‘समाविग्नास्तु ताः सर्वाः पुनरेव नराधिप’ (हरि० १।२६।३५)। समाविग्नाः=उद्विग्नाः।
विश्
- {समाविश्}
- विश् (विश प्रवेशने)।
- ‘गत्युपसर्गकर्मप्रवचनीयसंज्ञाभिः सह निपातसंज्ञा समाविशति’ (पा० १।४।५६ सूत्रे काशिका)। समावेशः सहावस्थानम्।
- ‘शय्यासनेऽध्याचरिते श्रेयसा न समाविशेत्’ (मनु० २।११९)। नाक्रामेत्, नाध्यासीतेत्याह।
- ‘ग्लानिश्चैनं समाविशत्’ (भा० आदि० २२३।६७)। समाविशत्=अभिव्याप्नोत्।
- ‘प्रमत्तमर्था हि नरं समन्तात्त्यजन्त्यनर्थाश्च समाविशन्ति।’ समागच्छन्तीत्याह।
- ‘लङ्कां समाविशद्रात्रौ वदमानोऽरिदुर्गमाम्’ (भट्टि० ८।२७)। समाविशत्=प्राविशत्। नार्थः समाङ्भ्याम्। अस्थाने च तौ।
- ‘तांस्तान् धर्मविधींस्तत्र भ्रातरस्ते समाविशन्’ (रा० ७।१०।२)। तत्तदनुष्ठानपरा बभूवुरित्यर्थः।
- ‘यस्मिन्कृत्यं समावेश्य निर्विशङ्केन चेतसा’ (पञ्चत० १।८५)। समावेश्य=न्यस्य=समर्प्य।
- ‘व्याकरणेपि कर्तव्यं हर्तव्यमित्यत्र प्रत्ययकृत्कृत्यसंज्ञानां समावेशः’ (सहावस्थानम्)।
- ‘हिमवति दिव्यौषधयः शीर्षे सर्पः समाविष्टः’ (मुद्रा० १।२१)। समाविष्टः=स्थितः।
वृ
- {समावृ}
- वृ (वृञ् वरणे)।
- ‘तान् परिधानेन वाससा समावृणोत्’ (भा० वन० ६१।१४)। समावृणोत्=आच्छादयत् संवीतवान्।
- ‘स शब्दः प्रदिशः सर्वा दिशः खं च समावृणोत्’ (भा० द्रोण० १८।३)। समावृणोत्=व्याप्नोत्, प्राति स्म।
- ‘ततः शर्यातिसैन्यस्य शकृन्मूत्रे समावृणोत्’ (भा ० वन० १२२।१४)। समावृणोत्=उपारुणत्=व्यहन्।
- ‘रजसा संवृते लोके शरजालसमावृते’ (भा० द्रोण० ९८।५६)। आङोऽधिकस्याधिकोर्थः। समन्तात् सुष्ठु वृते इत्यर्थः।
वृज
- {समावृज}
- वृज (वृजि वृजी वर्जने)।
- ‘तेजसैव ब्रह्मणो भक्तो राष्ट्रं परिगृह्णात्येकधा समावृङ्क्ते’ (तै ० सं० २।१।२।९)। समावृङ्क्ते=आत्मानं प्रत्याकर्षति, स्ववशे कुरुते।
वृत्
- {समावृत्}
- वृत् (वृतु वर्तने)।
- ‘समाववर्ति विष्ठितो जिगीषुः’ (ऋ० २।३८।६)। प्रत्यावर्तते, पुनः समवैतीति वा।
- ‘अथ समाववृते कुसुमैर्नवैः …मधुः’ (रघु० ९।२४)। समाववृते=प्रत्याववृते।
- ‘गुरुणा च समनुज्ञातः समावर्तेत वै द्विजः’ (भा० अनु० १४१।३७)। समावर्तेत वेदव्रतसमाप्तिलक्षणं स्नानमाचर्य गृहं प्रति निवर्तेतेत्याह। चाभ्यनुज्ञात इति पाठान्तरम्।
- ‘तथापि लोके कर्माणि समावर्तन्ति भारत’ (भा० शां० ३२।२१)। समृध्यन्तीत्याह।
- ‘एति समावर्तन्ते (पशवः) ’ (श० ब्रा० १।४।१।६)। समावर्तन्ते=प्रत्यावर्तन्ते।
- ‘स एव हि महतीं सेनां समावर्तयदाहवे’ (भा० द्रोण० २४।४)। समावर्तयत्=समानयत्, समगमयत्।
- ‘सं ते गावस्तम आवर्तयन्ति’ (ऋ० ७।७९।२)।
- ‘नानादेशसमावृत्ताः क्षत्रिया यत्र संजय’ (भा० शल्य० २।४४)। समावृत्ताः=संगताः=समेताः।
- ‘उदीचि प्रथमसमावृत्त आदित्ये’ (नि० ७।२३।१०)। उत्तरायणं गते सूर्ये इत्यर्थः।
- ‘गुरुणाऽनुमतः स्नात्वा समावृत्तो यथाविधि’ (मनु० ३।४)। समावृत्तः=गृहं प्रतिनिवृत्तो ब्रह्मचारी।
- ‘सर्वलोक समावृत्तः पिप्रीषुः फलमुत्तमम्’ (भा० सभा० ३५।१०)। सर्वैरुपायनप्रदैर्लोकः समावृत्तो वेष्टितः।
- ‘कस्मात्त्वं कृतसमावर्तो बटुरिव त्वरसे’ (अवि० ४)।
- ‘सोऽयं लोकसमावर्तो मर्त्यानां भरतर्षभ’ (भा० स्त्री० ७।६)। समावर्तः=आवर्तः। अनर्थकः सम्शब्दः।
वे
- {समावे}
- वे (वेञ् तन्तुसन्ताने)।
- ‘आदित्य इमाँल्लोकान्त्सूत्रे समावयते’ (श० ब्रा० ८।७।३।१०)। समावयते=बध्नाति।
व्यध्
- {समाव्यध्}
- व्यध् (व्यध ताडने)।
- ‘महावातसमाविद्धा महानौरिव सागरे’ (भा० कर्ण० ८०।१७)। समाविद्धा=प्रक्षिप्ता।
श्रु
- {समाश्रु}
- श्रु (श्रु श्रवणे)।
- ‘मातामहे समाश्रौषीद्राज्यशुल्कमनुत्तमम्’ (रा० २।१०७।३)। समाश्रौषीत्=प्रतिज्ञातवान्।
श्लिष्
- {समाश्लिष्}
- श्लिष् (श्लिष आलिङ्गने)।
- ‘समाश्लिष्यदसम्भ्रान्तः सूतपुत्रं वृकोदरः’ (भा० द्रोण० १३१।३८)। आलिङ्गत्, पर्यष्वजत, उपागूहत् इत्यर्थः।
- ‘समाश्लिषद् ब्राह्मणकुलम्’ (पा० ३।१।४६ सूत्रभाष्ये)। समाश्लेषः प्रत्यासत्तिः। समवैदित्यर्थः।
श्वस्
- {समाश्वस्}
- श्वस् (श्वस प्राणने)।
- ‘समाश्वस मुहूर्त्तं तु शक्यं वस्तुमिह त्वया’ (रा० ३।४७।२२)। समाश्वस विश्रान्तिं कुरु।
सञ्ज्
- {समासञ्ज्}
- सञ्ज् (षञ्ज सङ्गे)।**
- ‘ततः स भगवांस्तस्य स्कन्धे बाहुं समासजत्’ (भा० उ० १०५।२२)। समासञ्जयत्। सजतिरिह सकर्मकः प्रयुक्तः। अनुपसर्गस्तु प्रायेणाकर्मकः।
सद्
- {समासद्}
- सद् (षद्लृ विशरणगत्यवसादनेषु)।
- ‘समासीदाम कालिन्दीं तरज्जननिरन्तराम्’ (बृ० श्लो० सं० ८।२१)। प्राप्नुमेत्यर्थः।
- ‘क्षत्रियान्तकरं राममेकमेकः समासदम्’ (भा० उ० १७९।११)। संमुखः सन्प्रापम्।
- ‘रथेन रामं महता खरस्ततः समाससादेन्द्र इवोद्यताशनिः’ (रा० ३।२६।३८)। युयुत्सया समाजगामेत्याह।
- ‘परस्परं समासाद्य ब्रह्मदण्डबलात्कृतान्’ (भा० मौ० १।९)। समासाद्य=सङ्घर्षं प्राप्य।
- ‘पाण्डवाः कौरवाः सर्वे समासाद्य परस्परं’ (भा० स्त्री० ८।३८)। प्रातिभट्येन सङ्गत्येत्यर्थः।
स्था
- {समास्था}
- स्था (ष्ठा गतिनिवृत्तौ)।
- ‘इन्द्रियाणां जये योगं समातिष्ठेद् दिवानिशम्’ (मनु० ७।४४)। समातिष्ठेत्=आतिष्ठेत्=कुर्यात्।
- ‘व्रात्यस्तोमैरिष्ट्वा त्रैविद्यवृत्तिं समातिष्ठेयुः’ (लाट्या० श्रौ० ८।६।२९)। उक्तोऽर्थः।
- ‘स एव कुन्ददन्ताख्यो द्विजः पार्श्वे समास्थितः’ (यो० वा० ६(२)।१८५।१७)। समास्थितः=स्थितः।
हन्
- {समाहन्}
- हन् (हन हिंसागत्योः)।
- ‘एको दृषदुपले समाहन्ति’ (श० ब्रा० १।१।४।१३)। इतरेतरं ताडयति, सञ्शिञ्जयति।
- ‘शेषेणापि समाहताः’ (भा० सभा०)। समाहताः संहतिं प्राप्ताः।
- ‘सा भूमिर्बहुभिर्यानैः रथनेमिं समाहता’ (रा० २। १०३।४०)। समाहता=अभिहता। समाघात:=सङ्ग्रामः। अभ्यामर्दसमाघातसङ्ग्रामाभ्यागमाहवा इत्यमरः।
हृ
- {समाहृ}
- हृ (हृञ् हरणे)।
- ‘तृष्णासन्त्यागं च समाहरेत्’ (यो० वा० ५।२४।५२)। कुर्यादित्यर्थः।
- ‘नासाद्यते ह्यनभ्यस्ता…तस्मादेनां समाहरेत्’ (यो० वा० ५।२४।२१)। अभ्यासेन स्थिरी कुर्यादित्यर्थः।
- ‘नानावाक्यसमाहारसमवायविशारदैः’ (भा० आदि० ७०।४३)। नानावाक्यानामेकशाखागतानां समिधो यजतीत्यादिप्रयाजाद्यङ्विधिपराणां प्रयोगविधिना दर्शपौर्णमासाभ्यां यजेतेत्यादिना एकवाक्यत्वं समाहारः (नील०)। समाहारः समुच्चयः (अमरः)। अनेकस्यैकत्राध्यावापः समाहारः (स्वामी)।
- ‘यच्च पूर्वं समाहारे यच्च पूर्वं परे परे’ (भा० शां० १०४।१५)। समाहारे=(राज्ञां) समुदाये।
- ‘तं वयं वै समाहर्तुं क्रतुं शक्ताः कथं चन’ (रा० १।५८।४)। समाहर्तुमाहर्तुम् अनुष्ठातुम्। समाहरणं हि यज्ञानुष्ठानार्थं संभारसमाचयनं भवति मुख्यया वृत्त्या, गोण्या तु यज्ञानुष्ठानमाह। तादर्थ्यात्ताच्छब्द्यम्।
- ‘इह हि शास्त्रे दृष्टान्यष्टादश तीर्थानि राज्ञाम्। तद्यथा-मन्त्रिपुरोहित…समाहर्तृ…’ (तन्त्रा० ३। उपक्रमे)।
- ‘प्रशास्ता समाहर्ता संविधाता लेखकः साक्षी च’ (को० अ० )। समाहर्ता प्रजाभ्यो द्रव्यमुद्गृह्य कीकृत्य राज्ञेऽर्पयिता।
ह्वे
- {समाह्वे}
- ह्वे (ह्वेञ् स्पर्धायां शब्दे च)।
- ‘तस्मात्ते वर्तयिष्यामि तयोरेव (वाङ्मनसयोः) समाह्वयम्’ (भा० आश्व० २१।१३)। सम्यक् सुखमाह्वयन्ते विजिगीषवोऽस्मिन्निति समाह्वयः संवादः (नील०)।
- ‘अप्राणिभिर्यत्क्रियते तल्लोके द्यूतमुच्यते्। प्राणिभिः क्रियमाणस्तु स विज्ञेयः समाह्वयः’ (मनु० ९।२२३)॥ प्राणिद्यूतं समाह्वयः (अमरः)।