००५ प्रणि (प्र+नि)

गद्

  • {प्रणिगद्}
  • गद् (गद-व्यक्तायां वाचि)।
  • ‘प्रण्यगादीद् राक्षसेन्द्रम्’ (भट्टि॰९.९९)। व्यक्ततरमवोचत् सविस्तरं वा। व्यक्तिर्विस्तृतिर्वा प्रशब्दवाच्यः प्रकर्षः। निशब्दस्तु विशेषं नाह। यथा निगदव्याख्यातः (ग्रन्थः) इत्यत्र। निगद इति पाठमात्रमाचष्टे।

दा

  • {प्रणिदा}
  • दा (डुदाञ्-दाने, मेङ्-प्रणिदाने)।
  • ‘प्रणिदानं विनिमयः प्रत्यर्पणं च।

धा

  • {प्रणिधा}
  • धा (डुधाञ्-धारणपोषरण्योः)
  • ‘अमात्येषु च सर्वेषु मित्रेषु विविधेषु च। पुत्रेषु च महाराज प्रणिदध्यात्समाहितः’ (भा॰शां॰६९.९)। तत्र चारान्नियुञ्जीतेत्यर्थः।
  • ‘वैहासिकांस्तद्भक्तान्वा प्रणिदध्यात्’ (कामसूत्रे)। प्रणिधीन् कृर्यादित्याह।
  • ‘एतौ वनमिदं दुर्गं वालिप्रणिहितौ ध्रुवम्’ (रा॰४.२.६)। वालिना प्रणिधिरूपेण नियुक्तावित्याह।
  • ‘यदि मणिस्त्रपुणि प्रणिधीयते’ (पञ्चत॰१.६५)। प्रत्युष्यत इत्यर्थः। प्रतिधीयत इति पाठान्तरम्।
  • ‘नखपदलिपयोऽपि दीपितार्थाः प्रणिदधिरे दयितैरनङ्गलेखाः’ (शिशु॰७.३९)। प्रणिदधिरे=विभावयाम्बभूविरे=तर्कयाञ्चक्रिरे।
  • ‘निर्वणे प्रणिधीयते’ (पा॰६.२.१७८ सूत्रे वृत्तौ)।
  • ‘नान्यत्र युद्धाच्छ्रेयोऽस्ति तथात्मा प्रणिधीयताम्’ (भा॰वि॰४७.१७)। आत्मा प्रणिधीयतां चित्तं सावधानं क्रियतामित्याह।
  • ‘वर्तिं प्रणिदध्यात्’ (=उपरि दध्यात्) (सुश्रुते १.१६.८)।
  • ‘यथा मां त्वं पुनर्नैवं दुःखेषु प्रणिधास्यसि’ (भा॰शां॰१७७.३२)। पातयिष्यसि
  • ‘किष्किन्धाद्रिगुहां गन्तुं मनः प्रणिदधे द्रुतम्’ (भट्टि॰६.१४२)। दधे=दध्रे इत्याह।
  • ‘बुद्धिः प्राणहिता येन मनश्चानु समाहितम्’ (रा॰२.२२.१४)। प्रकर्षेण निहिता प्रणिहिता। बुद्धिः प्रणीता येनेयमिति पाठान्तरम्।
  • ‘प्रणिहितशिरसं वा कान्तमार्द्रापराधम्’ (माल॰३.१२)। प्रणिहितं=भूमौ निहितम्।
  • ‘भर्तृप्रणिहितेक्षणम्’ (रघु॰१५.८४)। भर्तृप्रणिहितनयनमित्याह।
  • ‘कृष्णप्रणिहितेक्षणाः’ (हरि॰२.२०.२६)। उक्तोऽर्थः।
  • ‘मामाकाशप्रणिहितभुजम् निर्दयाश्लेषहेतोः’ (मेघ॰१०८)। प्रणिहितभुजम्=उत्क्षिप्तबाहुम्=ऊर्ध्वीकृतबाहुम्।
  • ‘प्रणिहितमपि चक्षुर्ग्रस्तमुक्तं हिनस्ति’ (उत्तर॰५.१३)। प्रणिहितं=व्यापारितम्।
  • ‘ततः प्रणिहिताः सर्वा वानर्योऽस्य वशानुगाः। चुक्रुशुः…’ (रा॰४.२५.३४)॥ प्रणिहिताः=प्रकर्षेणैकत्र निहिताः समुदिताः समेताः।
  • ‘विद्धि प्रणिहितं धर्मे तापसं वनगोचरम्’ (रा॰२.५०.३०)। धर्मे पणिहितम्=धर्मे दत्तावधानम्
  • ‘वेदप्रणिहितो धर्मः’ (भा॰पु॰६.१.४०)। वेदविहित इत्याह। अपूर्वश्चोपसर्गयोगः।
  • ‘कीर्तिमन्तः प्रणिहिताः’ (रा॰१.७.६)। राजकृत्येषु सावधाना इति कतकः।
  • ‘ऋजुः प्रणिहितः’ (भा॰शां॰९.१९)। प्रणिहितोऽन्तर्मुख इति नीलकण्ठः। पिता श्रेष्ठः। '
  • सुहृद्यश्च सम्यक् प्रणिहितात्मवान्’ (भा॰उ॰५४.४)। प्रणिहितात्मवान्=समाहितमनाः, सावधानचित्तः।
  • ‘सम्यक् प्रणिहितं चार्थं पृष्टः सन्नाभिनन्दति’ (मनु॰८.५४)। प्रणिहितं प्रणिधिभिरुपलब्धमित्यर्थः। प्रतिज्ञातम् अभ्युपगतमिति कुल्लूकः। विभावितमुपन्यस्तं वेति मोनियर्।
  • ‘धार्तराष्ट्रस्य शिबिरे मया प्रणिहिताश्चराः’ (भा॰द्रोण॰७५.४)। गूढं स्थापिता इत्यर्थः।
  • ‘तिर्यक् प्रणिहिते शस्त्रे’ (सुश्रुते १.९५.१६)। प्रणिहिते व्यापारिते।
  • ‘यद्दोःषु मा प्रणिहितम्’ (भा॰पु॰१.१५.१६) निहितम्=स्थपितम्)। इह प्रशब्दः प्रकर्षस्य द्योतकः। निर्धात्वर्थानुवादी। सुगोपायितमित्यर्थः।
  • ‘आवर्तयन्ति भूतानि सम्यक् प्रणिहिता च वाक्’ (भा॰उ॰३८.३६)। प्रणिहिता=प्रयुक्ता।
  • ये तत्र नोपसर्पेयुर्मूलप्रणिहिताश्च ये’ (मनु॰९.२६९)। मूले राजनियुक्तपुराणचौरवर्गे प्रणिहिताः सावधानभूता इति कुल्लूकः।
  • ‘त्वां वयं तात संयुगे प्रणिधायानुयास्यामो रक्षन्तः सर्वतोमुखाः’ (भा॰द्रोण॰३५.२१)। प्रणिधाय=पुरस्कृत्य, मूर्ध्नि स्थापयित्वा।
  • ‘(ध्वजम्) प्रणिधाय शमीमूले’ (भा॰वि॰४६.२)। सर्वप्रथमं निधायेति विवक्षति।
  • ‘तस्मात्प्रणम्य प्रणिधाय कायम् प्रसादये त्वामहमीशमीड्यम्’ (गीता ११.४४)। प्रणिपात्येत्यर्थः। इह प्रशब्दः प्रकृष्टं प्रततमाह, निशब्दश्च नीचैस्त्वम्। प्रततं यथा स्यात्तथा नीचैर्देहं पातयित्वेत्याह। निशब्दस्य नीचैस्त्ववाचित्वे यास्कीयं
  • ‘नरकं न्यरकं नीचैर्गमनम् इति’ (नि॰१.११.१) वचः प्रमाणम्।
  • ‘स चापि सम्यक् प्रणिधाय शिक्षाम्’ (भा॰वन॰१८३.३०)। इह प्रणिधानं परत्र निधानं सङ्क्रमणं प्रदानमुच्यते तेन प्रणिधायेति दत्त्वेत्याह।
  • ‘तस्मान्नित्यं परीक्षेत पुरुषान् प्रणिधाय वै’ (भा॰अनु॰३७.७)। प्रणिधाय=विचिन्त्य, साधु चिन्तयित्वा।
  • ‘प्रणिधायेन्द्रियग्रामं भर्तृलोकपरायणे’ (भा॰आदि॰११९.२९)। प्रणिधाय=नियम्य।
  • ‘विकृष्य चापं प्रणिधाय सायकम्’ (रा॰३.५९.२६)। प्रणिधाय=सन्धाय।
  • ‘प्रणिधाय हि चारेण ततो भावः परीक्ष्यताम्’ (रा॰५.९०.१५)। प्रणिधाय=गुप्तं विज्ञायेत्यर्थः।
  • ‘चारश्च विविधोपायः प्रणिधेयः पृथग्विधः’ (भा॰शां॰५९.३४)। प्रणिधेयः=नियोज्यः।
  • ‘सोऽपश्यत् प्रणिधानेन सन्ततेः स्तम्भवारणम्’ (रघु॰१.७४)। प्रणिधानेन=समाधिना।
  • ‘तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः’ (योग॰२.१)।
  • ‘जानामि प्रणिधानं ते बाल्यात् प्रभृति नन्दिनि। ब्राह्मणेष्विह सर्वेषु गुरुबन्धुषु चैव ह’ (भा॰वन॰३०३.१९)। प्रणिधानम्=प्रश्रिता वृत्तिः, सादरो व्यवहारः, आस्था।
  • ‘प्रणिधानेन धैर्येण रूपेण वयसा च मे। मनः प्रविष्टो देवर्षे गुणकेश्याः पतिर्वरः’ (भा॰उ॰१०३.२१)॥ प्रणिधानेन=अवधानेन।
  • ‘स्वशरीरं ततो मुमुक्षुर्नियतमिति प्रणिधिमुपबृंहयामास’ (अवदा॰जा॰३०)। प्रणिधिः सङ्कल्पोऽध्यवसाय इत्यर्थो भाति।
  • ‘औषधयुक्तां वर्तिं प्रणिदध्यात्’ (सुश्रुत० १।५।१३)। प्रणिदध्यात् प्रवेशयेत्।
  • ‘तथात्मा प्रणिधीयताम्’ (भा० वि० ३७।१७)। चित्तं सावधानं क्रियतामित्याह।
  • ‘पूर्वं प्रणिहिता वा द्वाराणि दद्युः’ (कौ० अ०)। प्रणिहिता निभृतमवस्थापिताः।
  • ‘एकदा खल्वयं प्रबोधकालं प्रणिधाय सुप्तः प्रणिधानवशात् प्रबुध्यते’ (न्याय० २।१।२६ भा०)। प्रणिधाय सङ्कल्प्य। अमुकसमये मयोत्थातव्यमिति।
  • ‘ततः प्रणिहिताः सर्वा वानर्योऽस्य वशानुगाः’ (रा० ४।२५।३४)। प्रणिहिताः=आप्ताः।
  • ‘काममयं वृथापलितो हतबुद्धिरप्रणिहितः सरित्सुतः’ (शिशु० १५।१९)। अप्रणिहितो ऽनवहितः। शिशुपालस्योक्तिरियम्।
  • ‘एतौ वनमिदं दुर्गं वालिप्रणिहितौ ध्रुवम्’ (रा० ४।२।६)। प्रणिहितौ प्रणिधी। चारौ।

पत्

  • {प्रणिपत्}
  • पत् (पत्लृ-गतौ)।
  • ‘कथं प्रणिपतेच्चायमिह कृत्वा पणं परम्’ (भा॰उ॰३.८)। प्रणिपतेत्=नमेत्। शरणं यायादित्यर्थः।
  • ‘गुरुं च प्रणिपत्य मूर्ध्ना’ (भा॰वि॰६६.२६)। प्रणिपत्य=प्रणम्य=नमस्कृत्वा। नमसो गतिसञ्ज्ञाविकल्पः।
  • ‘पादयोः’ (रघु॰८.१२)। पादावुपसङ्गृह्येत्यर्थः।
  • ‘श्वश्रूश्वशुरयोः पादौ प्रणिपत्य’ (मार्क॰२२.१०४)। नमस्कृत्येत्यर्थः।
  • ‘वागीशं वाग्भिरर्थ्याभिः प्रणिपत्योपतस्थिरे’ (कु॰२.३)।
  • ‘प्रणिपत्यासुरास्तस्मै शमयित्रे सुरद्विषाम्’ (रघु॰१०.१५)। उक्तोऽर्थः। केवलं विभक्तिवैचित्र्यार्थमुदाहृतयः।
  • ‘प्रणिपातप्रतीकारः संरम्भो हि महात्मनाम् (रघु॰४.६४)।

पद्

  • {प्रणिपद्}
  • पद् (पद-गतौ)।

‘प्रविश्य तदा भीष्मं शिरोभिः प्रणिपेदिरे’ (भा॰१०७.५७)। प्रणिपेतुरित्यर्थः। पतिपदी समानार्थौ। समानौ चेहोपसर्गौ, तेन समाना नमस्कारार्थता तयोः। वाचि स्वतन्त्राश्च महर्षय इत्यपि।