००१ प्र

अज्

  • {प्राज्}
  • अज् (अज गतिक्षेपणयोः)।
  • ‘रथात् प्रवीतात् पतितः’ (पा० १।४।२४)। वलादावार्धधातुके ऽजेर्वी इत्यादेशो वैकल्पिकः, तेन पक्षे प्राजितमित्यपि। प्रवीतो रथः सारथिना प्राजितः कालितः।
  • ‘अप ज्योतिषा तमो अन्तरिक्षादुद्नः शीपालमिव वात आजत्’ (ऋ० १०।६८।५)। अपाजत् अपागमयत्, अपानुदत्, अपाकरोत्। शीपालं शेवाल शैवलम्।

अञ्च्

  • {प्राञ्च्}
  • अञ्च् (अञ्चु-गतिपूजनयोः)।
  • ‘प्राणो नाम प्राग्गमनवान् नासाग्रवर्ती’ (वे० सा० ३८)। प्राञ्चति अग्रे गच्छतीति प्राक्।

अञ्ज्

  • {प्राञ्ज्}
  • अञ्ज् (अञ्जू-व्यक्तिम्रक्षणकान्तिगतिषु)।
  • ‘प्र शर्धाय मारुताय स्वभानव इमां वाचमनजा’ (ऋ० ५।५४।१)। प्रानज=प्राङ्क्त=प्रापयत।
  • ‘प्राञ्जनात् उत पर्णधेः’ (अथर्व० ४।६।५)। प्राञ्जनात् प्रलेपात्।

अद्

  • {प्राद्}
  • अद् (अद-भक्षणे)।
  • यत्तवेव वरुणस्त यवान् प्रादंस्तस्माद् वरुणप्रघासा नाम (श॰ब्रा॰२.५.२.१)। प्रादन् निःशेषमभुञ्जतेति यावत्

अन्

  • {प्राण्}
  • अन् (अन-प्राणने)।
  • ‘ता वरुणगृहीताः परिदीर्णा अनत्यश्च प्राणत्यश्च शिश्यिरे’ (श॰ब्रा॰२.५.२.२)। प्राणत्यः=निःश्वसत्यः।

अर्च्

  • {प्रार्च्}
  • अर्च् (अर्च-पूजायाम्)।
  • ‘अर्चत प्रार्चत प्रियमेधासो अर्चत’ (ऋ॰८.६९.८)। प्रशब्दः प्रकर्षे। प्रार्चत भूयः पूजयतेत्यर्थः।
  • ‘प्रानर्चुरर्च्या जगदर्चनीयम्’ (भट्टि॰२.२०)।

अर्ज्

  • {प्रार्ज्}
  • अर्ज् (अर्ज,षर्ज-अर्जने, अर्ज-प्रतियत्ने)।
  • ‘रेतःसेकं प्रार्जयति’ (नि० ३।५)। प्रार्जनमिह वितरणं प्रदेशनं भवति।
  • ‘यथा सावसान् (पशून्) कृत्वा प्रार्जयेत् तादृक् तत्’ (जै० ब्रा० १।३८)।

अर्थ्

  • {प्रार्थ्}
  • अर्थ् (अर्थ-उपयाच्ञायाम्)।
  • ‘त्वामिहैकाकिनीं दृष्ट्वा निर्जने गहने वने। प्रार्थयिष्यन्ति राजानः।’ (भा० उ० १७६।११)। अत्र प्रशब्दो विशेषकृन्न। प्रार्थयिष्यन्ति (=प्रार्थयिष्यन्ते) इत्यर्थयिष्यन्ते कामयिष्यन्ते वरयिष्यन्त इत्येवाह।
  • ‘न्यग्रोधस्य ततः शाखां प्रार्थयामास भारत। सन्निपत्य तु शाखायां न्यग्रोधस्य विहङ्गमः’ (भा० सौ० १।३९-४०)। अत्र प्रार्थयतिर्मृगयणे विचयने वर्तते।
  • ‘प्रार्थयध्वं तथा सीताम्’ (भट्टि० ७।४८)। अत्रापि स एवार्थः।
  • ‘यो न शक्यो बलात्कर्तुर्देवैरपि सवासवैः। तं त्वं प्रार्थयसे मन्द बालश्चन्द्रमसं यथा’ (भा० उ० १३०।३७)। प्रार्थयसे ग्रहीतुमिच्छसीत्यर्थः।
  • ‘दुर्जयो लवणः शूली विशूलः प्रार्थ्यतामिति’ (रघु० १५।५)। प्रार्थ्यताम्=अभियायताम्।
  • ‘क्षमते न जनं त्वदर्पितं यमिनामिन्द्र रिपुस्तु हिंसितुम्। शशिनं मृगशत्रुराश्रितं न मृगं प्रार्थयते हि जातुचित्’ (जा० ह० ४।२३)। इह प्रार्थयतिरास्कन्दने आक्रमणे वर्तते।
  • ‘असौ अश्वानीकेन यवनानां प्रार्थितः’ (माल० ५)। इहापि तथा।
  • ‘किमपेक्ष्य फलं पयोधरान्ध्वनतः प्रार्थयते मृगाधिपः’ (कि० २।२१) अभियाति। उत्प्लवत इत्यर्थः।
  • ‘यदिशब्दः प्रतिबद्धो विधायकोऽनुवादं प्रार्थयते’ (लौ० गृ० सू० १।२४ देवपालः)। प्रार्थयत आकाङ्क्षति अपेक्षत इति वा।
  • ‘स्वयं त्वहं प्रार्थये तत्र गन्तुम्’ (भा० उ० २९।४७)। प्रार्थये=इच्छामि।
  • ‘न च प्रार्थयते कश्चिन्मनसापि वसुन्धराम्’ (=कोसलराज्यम्) (रा० २।८८।२३)। न प्रार्थयते आक्रमितुं नेच्छति।
  • ‘मा नो रिपुः प्रार्थयतामनीकम्’ (भा० भीष्म० ७७।४१)। उक्तोऽर्थः।
  • ‘समीरणसहायोपि नाम्भःप्रार्थी दवानलः’ (रघु० १७।५६)। अम्भःप्रार्थी जलास्कन्दी।

अव्

  • {प्राव्}
  • अव् (अव-रक्षणगतिकान्त्यादिषु)।
  • ‘हत्वी दस्यून् प्रायं वर्णमावत्’ (अथर्व० २०।११।९)। हत्वाऽऽर्यं वर्णं प्रावत्। प्रशब्दः प्रकर्षमाचक्षीत अनर्थकतां वाऽश्नुवीत।
  • ‘देवानां पत्नीरुशतीरवन्तु नः प्रावन्तु नस्तुजये वाजसातये’ (ऋ० ५।४६।७, अथर्व० ७।५१।१)। अत्र प्रशब्दो नियतं प्रकर्षमाचष्टे केवलस्यावेः प्रयोगसन्निधेः। तुजये तोकाय अपत्याय।
  • ‘प्र सुन्वतः स्तुवतः शंसमावः’ (ऋ० १।३३।७)। शंसं प्रावः स्तोत्रेऽवाधाः, स्तवने दत्तावधानोऽभूरित्यर्थः।
  • ‘मेघाः प्रावन्तु पृथिवीमनु’ (अथर्व० ४।१५।९)। तर्पयन्वित्यर्थः।

अश्

  • {प्राश्}
  • अश् (अश-भोजने)।
  • ‘प्राश्नन्ति ब्राह्मणा ओदनम्’ (आप० श्रौ० ५।२।७।३)। अपि प्रशब्द आदिकर्मणि स्यात्, यथा शिशुकमधिकृत्य विहितेऽन्नप्राशनाख्ये गृह्ये कर्मणि।
  • ‘प्राशितं पितृतर्पणम्’ (मनु० ३।७४)।
  • ‘वैश्योऽद्भिः प्राशिताभिस्तु शूद्रः स्पृष्टाभिरन्ततः’ (मनु०)।
  • प्राशिताभिरन्तरास्यप्रविष्टाभिरिति कुल्लूकः। व्यक्तं प्रशब्दोऽत्रादिकर्मणि। पानेऽप्यश्नातिः प्रसिद्धः, अपोऽशानेत्यादिषु तदर्थस्य दर्शनात्।
  • ‘अध प्राशान ऋतुथा हवींषि’ (ऋ० १।१७०।५)। इह प्रशब्द आदिकर्मणि न। प्रकर्षे वर्तते। कणेहत्य भुङ्क्ष्वेत्यर्थः।
  • ‘पूर्वा व्रतस्य प्राश्नती’ (अथर्व० ६।१३३।२)। प्रशब्दः पूर्वतामाह। प्राश्नती या पूर्वमश्नाति सा।

अश्

  • {प्राश्}
  • अश् (अशू व्याप्तौ)।
  • ‘प्र ते अश्नोतु कुक्ष्योः’ (ऋ० ३।५१।१२)। प्राश्नोतु प्राश्नुतां व्याप्नोतु।
  • ‘न नूनं ब्रह्मणामृणं प्राशूनामस्ति सुन्वताम्’ (ऋ० ८।५।१६)। सोमं प्राश्नवते ये ते प्राशवः।
  • ‘स्वाध्यायविधिश्चोच्चारणोपयोगि प्राशुभावफलकतयैवाध्ययनं विधत्ते’ (भा० दी० १।२।४)। प्रकर्षेणाशुः प्राशुः, सत्धरतरः प्रतूर्तः, तस्य भावः।
  • ‘दोर्भिश्चातपदीप्तैश्च प्रासैः प्राशैश्च मूर्छनैः’ (मात्स्य० पु० १७७।१२)।

अस्

  • {प्रास्}
  • अस् (अस-भुवि)
  • ‘प्र नृभिर्नृवन्तः स्याम’ (अथर्व० ३।१६।३)। प्रस्याम=प्रभवेम। प्रभवः समर्था भवेमेत्यर्थः।
  • ‘प्र दातुरस्तु चेतनम्’ (ऋ० १।१३।११)। प्रास्तु=भूयोऽस्तु। चेतनस्य प्रबोधस्य भूमाऽस्तु, इतरापेक्षयाऽऽधिक्यमस्तु, अन्याभिभावि चैतन्यमस्त्वित्यर्थः।

अस्

  • {प्रास्}
  • अस् (असु-क्षेपे)।
  • ‘अग्नौ प्रास्ताऽऽहुतिरादित्यमुपतिष्ठते’ (मनु० ३।७६)। प्रास्ता क्षिप्ता। प्रशब्दोऽनर्थकः।
  • ‘प्रास्यादात्मानमग्नौ’ (मनु० ११।७३)।
  • ‘प्रच्छिद्योदपात्रे प्रास्यति’ (श० ब्रा० ३।१।२।८)। अत्र प्रशब्दः प्रकर्षमाह। स चानादरलक्षणो वेगलक्षणः कार्त्स्न्यलक्षणो वा।
  • ‘प्र ये महोभिरोजसीत सन्ति’ (ऋ० ७।५८।२)। प्रसन्ति प्रभवन्ति।
  • ‘प्र तद्वो अस्तु धूतयो देष्णम्’ (ऋ० ७।५८।४)। प्रास्तु प्रभूतमस्तु। देष्णं धनम्।

आप्

  • {प्राप्}
  • आप् (आप्लृ-व्याप्तौ)।
  • ‘राद्धिः प्राप्तिः समाप्तिः’ (अथर्व० ११।९।२२)।
  • प्रेप्सितस्य फलस्याधिगमः प्राप्तिरिति सायणः।
  • ‘क्व प्रेप्सन्ती युवती विरूपे’ (अथर्व० १०।७।६)। क्व प्रेप्सन्ती किं स्थानमाप्तुमिच्छन्ती (=इच्छन्त्यौ) इत्यर्थः।
  • ‘विराटस्य रथानीकं मत्स्यस्यामित्रघातिनः। प्रेप्सन्तं समरे द्रोणं के वीराः पर्यवारयन्’ (भा० द्रोण० १०।७१)॥ प्रेप्सन्तम् आसादयितुम् इच्छन्तम् इत्यर्थः।
  • ‘अप्राप्य नदीं पर्वतः स्थितः।’ ‘परावरयोगे च’ (पा० ३।४।२०) इत्यस्योदाहरणम्। अत्र प्राप्तिर्बौद्धिकी, न वास्तवी। नदीतोऽवरस्मिन् प्रदेशे पर्वतः स्थित इत्यर्थः। परेण पूर्वस्य योगो गम्यते। परनदीयोगेन पर्वतो विशेष्यते।
  • नासिकाशब्दश्च नसं प्राप्नोति। नस्-रूपां परिवृत्तिम् आप्नोति। नासिकाया नस् इत्यादेशो भवतीत्यर्थः।
  • ‘किं क्रियाभिरिति प्रेप्सा वा’ (नि० ६।३२)। प्रेप्सा कल्पना भवति। प्रकृते कीकटा इति किङ्कृता इत्येवं निरुच्यतां किं क्रियाभिरिति वेति यास्कस्याभिसन्धिः। दुर्गस्त्वत्र इतिप्रेप्सा इत्यैकपद्यमभिमन्यते। एवमभिप्राया नास्तिका इति चार्थापयते।
  • ‘क्व प्रेप्सन्दीप्यते ऊर्ध्वो अग्निः क्व प्रेप्सन्पवते मातरिश्वा’ (अथर्व० १०।७।४)। प्रेप्सन् त्वरमाणः, त्वरया गच्छन्। प्रेप्सा त्वरा। पर्यर्थे प्रशब्दः। प्रेप्सन् प्राप्तुमिच्छन् इति वा प्रेप्सन्नित्युक्तः। तत्र किमिच्छन्निति नोक्तमिति सावशेषं वचः। स दोषः।

  • {प्रे}
  • इ (इण्-गतौ)
  • ‘प्रेता जयता नरः’ (अथर्व० ३।१९।७)। प्रेता (=प्रेत) प्रतिष्ठध्वम्, प्रस्थानं कुरुत, अभियातेत्यर्थः।
  • ‘मा प्र गाम पथो वयम्’ (अथर्व० १३।१।५९)। मा परागच्छेमेति सायणः। दूरे मा भूम। सुपन्थानं मा हासिष्मेत्यर्थः। अत्र प्रशब्दो विप्रकर्षे वर्तते।
  • ‘पथ्ययैवेतः स्वस्त्या प्रयन्ति’ (ऐ० ब्रा० १।५)। प्रयन्ति प्रक्रमन्त इत्यनर्थान्तरम्।
  • ‘पुत्रे राज्यं समासज्य कुर्वीत प्रायणं रणे’ (मनु० ९।३२३)। प्रायणं स्वेच्छामरणम्।
  • ‘अथास्यायमितर आत्मा कृतकृत्यो वयोगतः प्रैति। स इतः प्रयन्नेव पूनर्जायते’ (ऐ० उ० ४।४)। प्रैति लोकान्तरं प्रतिष्ठते, म्रियत इत्यर्थः।
  • ‘यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति’ (तै० उ० ३।१)। ‘प्रयन्ति’ इति शत्रन्तं रूपम्। प्रलयं गच्छन्तीत्यर्थः।
  • ‘न पुराऽऽयुषः स्वःकामी प्रेयात् (म्रियेत)। प्रायणं भगवत्प्रोक्तं भुञ्जते वाऽग्रभोजनम्’ (भा० शां० ३३५।२५)। प्रापणमित्युपहारमाह।
  • ‘रथोपस्थे प्रायगतं विशस्तम्’ (भा० आदि० १।२०१)। प्रायो मरणार्थमनशनम्।
  • ‘प्रायानाशकशस्त्राग्निविषोदकोद्बन्धनप्रपतनैश्चेच्छताम्’ (गौ० ध० सू० २।५।११) प्रायो महाप्रस्थानम्।
  • ‘प्राये प्राये जिगीवांसः स्याम’ (ऋ० २।१८।८)। प्रायो युद्धार्थं प्रस्थानम्। आजिरित्येके।
  • ‘इन्द्रं प्रातर्हवामहे इन्द्रं प्रयत्यध्वरे’ (ऋ॰१.१६.३)। प्रयति प्रतिष्ठमाने प्रवर्तमाने।
  • युष्मान् प्रयत्यध्वरे (ऋ॰८.७.६)।
  • वयं हि त्वा प्रयति यज्ञे (वा॰सं॰८.२०)।
  • ‘आ वो देवास ईमहे वामं प्रयत्यध्वरे’ (वा॰सं॰४.५)।
  • ‘यदद्य त्वा प्रयति यज्ञे अस्मिन्’ (अथर्व॰७.१०२.१)। अत्र सर्वत्र प्रपूर्वस्य इणः प्रवृत्तिरेवार्थः।
  • ‘प्र सेनानीः शूरो अग्रे रथानां गव्यन्नेति’ (ऋ॰९.९६.१) प्रैति=अग्रतो याति।
  • ‘ययोः प्रायं नान्वानशे कश्चन’ (अथर्व॰४.२५.२)। प्रकृष्टां ययोर्गतिं नाप कश्चिदित्यर्थः।
  • ‘सूर्याया वहतुः प्रागात्’ (ऋ॰१०.८५.१३)। वहतुर्वाहनं प्रासरदित्यर्थः।
  • ‘सा गदा तत्करान्मुक्ता प्रागाद्द्रोणजिघांसया’ (भा॰भीष्म॰५३.१९)। उक्तोऽर्थःसा गदा वेगवन्मुक्ता प्रायादिति पाठान्तरम्।
  • ‘एति प्र होता’ (ऋ॰१.१४४.१)। प्रैति प्रक्रामतीत्यर्थः।
  • ‘प्र ते वज्रः प्र मृणन्नेतु’ (ऋ॰३.३०.६)। दूराद् दूर तरं गच्छतु इत्याह। तस्मात्तद् (रुधिरम्)
  • ‘आतृण्णत्प्रैति रसो वृक्षादिवाहतात्’ (बृ॰उ॰३.९.२८)। ऊर्ध्वं निष्क्रामति, निःसरति, प्रवहति, स्रवति, स्यन्दत इति वैकोऽर्थः।
  • ‘तस्य यथैव प्रायणं तथोदयनम्’ (ऐ॰ब्रा॰३.४३)। प्रायणमित्युपक्रममाह।
  • ‘त्रिवृत्प्रायणा हि यज्ञाः’ (श॰ब्रा॰१.३.५.६)। त्रिवृदादय इत्याह।
  • ‘भ्रातॄणां प्रायणं भ्राता योऽनुतिष्ठति धर्मवित्’ (भा॰पु॰६.५.३१)। लोकयात्रां संविधत्त इति पुराणकृत्कल्पितोऽर्थः।
  • ‘अद्य ते दर्शयिष्यामि पूर्वप्रेतान् पितामहान्’ (भा॰भीष्म॰८४.५१)। प्रेतान्=मृतान्।
  • ‘स्वजनाश्रु किलातिसन्ततं दहति प्रेतमिति प्रचक्षते’ (रघु॰८.८६)।
  • ‘प्रेतान् भूतगणांश्चान्ये यजन्ते तामसा जनाः’ (गीता॰१७.४)। प्रेता योनिविशेषा ये मर्त्यानाविश्य कदर्थयन्ति।
  • ‘शुश्रुवुर्दारुणा वाचः प्रेतानामिव भारत’ (भा॰भीष्म॰६.४६.१९)। प्रेता निरयालयाः, नारकिरणः।
  • प्रथिता प्रेतकृत्यैषा पित्र्यं नाम विधुक्षये (मनु॰३.१२७)। इह प्रेताः पितर उच्यन्ते।
  • ‘प्रेतिरसि धर्मणे त्वा’ (गो॰ब्रा॰उ॰२.१३)। प्रेतिः प्रस्थानमुच्यते। प्रेतिरिति क्तिन्नन्तम्।
  • ‘प्रायोदेवता वा’ (नि॰७.४.६)। प्राय इत्यधिकार उच्यते इति दुर्गः।
  • ‘प्राची प्रेतमध्वरं कल्पयन्ती’ (वा॰सं॰५.१७)। प्रेतम्=प्रकर्षेण गच्छतम्।
  • ‘प्रेह्यभिप्रेहि प्रभरा सहस्व’ (तै० ब्रा० २।४।७।४)। प्रेहि गच्छ, प्रतिष्ठस्व।
  • ‘प्रवता वै देवाः स्वर्गं लोकं प्रायन्नुद्वतोदायन्’ (पञ्च० ब्रा० १४।४।२४)। प्रायन्प्रागच्छन्, गन्तुं प्रक्रान्ताः।
  • ‘प्रेयमगात्’ (तै० सं० १।१।२)। प्रागात् प्राचीमगच्छत्।
  • ‘प्रेहि सुतस्य कुल्यामनु’ (तै० सं० १।३।८)। प्राचीं गच्छेत्यर्थः। प्राच्यां हि स्वर्गो लोकः। प्रशब्देन प्राक्त्वं द्योत्यत इति भट्टभास्करः।
  • ‘यदद्य त्वा प्रयति यज्ञे अस्मिन्नग्ने होतारं वृणीमहीह’ (तै० सं० १।४।४४।२)। प्रयति प्रगच्छति प्रोत्सर्पतीति स्कन्दः।
  • ‘पितरं च प्रयन्त्सुवः’ (तै० सं० १।५।३)। प्रयन् प्रकर्षेणाविच्छेदेन गच्छन्।
  • ‘पङ्क्तिप्रायणो वै यज्ञः पङ्क्त्युदयनः’ (तै० सं० २।६।१०।४)। प्रायणं प्रारम्भः। उदयनं समाप्तिः।
  • ‘ब्रह्मवादिनो वदन्ति प्रायणतो द्विपदाः कार्या उदयनता ३ इति’ (पञ्च० ब्रा० १३।१२।५)। उक्तोर्थः।
  • ‘अप्रायुवो रक्षितारो दिवे दिवे’ (ऋ० १।८९।१)। अप्रायुवो ऽप्रगच्छन्तः। स्वकीयं रक्षितव्यमपरित्यजन्त इत्यर्थः। प्रशब्दो विप्रकर्षे वैदूर्ये।
  • ‘प्रेतिरसि धर्मणे त्वा’ (पञ्च० ब्रा० १।९।२)। प्रेतिः प्रकृष्टा गति र्यस्येति सायणः।

इष्

  • {प्रेष्}
  • इष् (इष-गतौ)।
  • ‘प्र वाचमिन्दुरिष्यति’ (ऋ॰९.१२.६)। प्रेष्यति प्रेरयति प्रयोजयति। अप्रैषीद् (=प्रैषीद्)
  • ‘राजपुत्री मां सुराहारी तवान्तिकम्’ (भा॰वि॰१६.४) प्रैषीद् व्यस्राक्षीत् इत्याह।
  • ‘आर्ष्टिषेणेन सृष्टा देवापिना प्रेषिताः’ (ऋ॰१०.९८.६)। (इषवः)
  • ‘यातुधानप्रेषिताः’ (श॰ब्रा॰७.४.१.२९)। प्रेषिताः प्रास्ता मुक्ता इत्यर्थः।
  • ‘रथन्तरं गायेति प्रेष्यति’ (का॰श्रौ॰४.९.७)। प्रेष्यत्यादिशतीत्यर्थान्तरम्।
  • ‘न हि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः’ (रा॰५.३९.३९, ५.६८.२२)। शिष्यन्त आज्ञाप्यन्ते इत्येवार्थः।
  • ‘मुक्ता जालप्रतिच्छन्नान् प्रैषीत्कर्णरथं प्रति’ (भा॰कर्ण॰८१.३)। व्यसर्जयदित्यर्थः।
  • ‘साश्वं ससूतं त्वरितः पार्थः प्रैषीद्यमक्षयम्’ (भा॰द्रोण॰२८.८)। उक्त एवार्थः।
  • ‘प्रेषयामि महावेगमस्त्रमस्य विनाशने’ (रा॰३.३५.४६)।
  • ‘प्रैषिषद्राक्षसः प्रासम्’ (भट्टि॰१५.७७)।
  • ‘चिन्तयित्वा तु पार्थेभ्यः प्रेषयिष्यामि सञ्जयम्’ (भा॰उ॰२१.२०)। ण्यन्तस्य प्रपूर्वस्य इषेः स एवार्थो योऽण्यन्तस्य।
  • ‘स्निग्धं वीक्षितमन्यतोऽपि नयने यत्प्रेषयन्त्या तया’ (शा॰२.२)। प्रेषयन्त्या व्यापारयन्त्या।
  • ‘स च मे प्रेषयामास शैवं धनुरनुत्तमम्। ..मह्यं वै दीयतामिति’ (रा॰१.७१.१७)। सतर्जनं प्रबोधयामासेत्यर्थः।
  • ‘प्रेषयन्तीव वै दासीर्दासांश्च विविधान् बहून्’ (भा॰वि॰९.९)। प्रैषं कारयन्ती स्वामिनी सतीत्यर्थः।
  • ‘इत्युक्त्वा धर्मराजाय प्रेषयामास वै तदा’ (भा॰आश्रम॰८.१०)। पुरुषं प्रेषयामास धर्मराजो युधिष्ठिर आकार्यताम् इहानीयतामिति। एषा संस्कृते भणितभङ्गी। अत्रावधातव्यम्।
  • ‘दुःशासनाय सुबहून् प्रेषयामास सायकान्’ (भा॰भीष्म॰११७.४२)। प्रास, विससर्ज, मुमोचेति वाऽर्थः।
  • ‘रथं श्वेतहयैर्युक्तं प्रेषयामास संयुगे’ (भा॰भीष्म॰८४.४७)। आज, प्राज, अभ्याजेति वार्थः।
  • ‘प्रेषितस्तदैव प्रतिपद्येत’ (आप॰ध॰१.७.२५)। प्रेषितः शिष्टो भवत्याज्ञप्तो वा।
  • ‘तथा प्रचक्रुस्तत्सर्वं राज्ञा यत्प्रेषितं तदा’ (रा॰१.११.२५)। प्रेषितं प्रैषः। राज्ञा यदादिष्टं तत्सर्वं कर्तुमारेभिर इत्यर्थः।
  • ‘तमिष्टिभिः प्रैषमैच्छन्’ (ऐ॰ब्रा॰१.२)। प्रैषमन्वेष्टुम् इत्याह। तुमर्थे णमुल्। अन्वर्थे प्रशब्दः।
  • ‘इषिता दैव्या होतारो भद्रवाच्याय प्रेषितो मानुषः (होता) सूक्तवाकाय’ (श॰ब्रा॰१.९.१.१)। प्रेषितः केतितो निमन्त्रित उच्यते।
  • नैते जातु निवर्तेरन् प्रेषिता हस्तिसादिभिः (भा॰द्रोण॰ ११२.१८)। प्रेषिताः प्राजिताः।
  • ‘तान्प्रैषमैच्छत्, तान्नाविन्दत्’ (चञ्च० ब्रा० १४।४।७)। प्रैषम् अन्वेष्टुम्।

ईक्ष्

  • {प्रेक्ष्}
  • ईक्ष् (ईक्ष-दर्शने)।
  • ‘तथा नोद्धृतसाराणि प्रेक्षते चाप्रदाय च’ (भा॰अनु॰१०४.९०)। प्रेक्षते (=प्रेक्षमाणाय) =याचकाय। याचको हि दातृमुखप्रेक्षी भवतीति प्रपूर्व इक्षतिर्यात्रामाह।
  • ‘प्रेक्षाकारी याति पदं मुक्तमपायैः’ (कि॰१८.२८)। प्रेक्षा बुद्धिः, तया करोति तच्छीलः।
  • ‘प्रेक्षापूर्वं मया द्यूतमिदमासीदुपेक्षितम्’ (भा॰सभा॰७३.१४)। नाट्यशालाऽपि प्रेक्षागारं प्रक्षागृहं वोच्यते। अत्र प्रेक्षा दृश्य भवति।
  • ‘यत्र धर्मो ह्यधर्मण सत्यं यत्रानृतेन च। हन्यते प्रेक्षमाणानां हतास्तत्र सभासदः’ (मनु॰८.१४)॥ प्रेक्षमाणानां प्रत्यक्षमीक्षमाणानाम्।
  • ‘गर्हये पाण्डवांस्त्वेव युधि श्रेष्ठान् महाबलान्। ये क्लिश्यमानां प्रेक्षन्ते धर्मपत्नीम्’ (भा॰वन॰१२.६६)॥ प्रेक्षन्तेऽविरुन्धाना अगर्हयन्तो वा पश्यन्तीत्यर्थः। प्रसन्नाः सन्त ईक्षन्त इति वाऽर्थः।
  • ‘युवा प्रेक्षणकं द्रष्टुमेकं देवकुलं ययौ’ (कथा० ५७।७४)। प्रेक्षणकं प्रेक्षा।

ईर्

  • {प्रेर्}
  • ईर् (ईर-गतौ कम्पने च)।
  • ‘पशवो वै पूषा। त एतस्य प्रसवे प्रेरते’ (श॰ब्रा॰९.२.३.१२)। प्रसवोऽभ्यनुज्ञानम्। अभ्यनुज्ञाताः सन्तः प्रचरन्तीत्यर्थः।
  • ‘यस्य ते विश्वा भुवनानि केतुना प्र चेरते नि च विशन्ते अक्तुभिः’ (ऋ॰१०.३७.९)। केतुना च प्रेरते गतिमन्ति भवन्ति प्रचरन्ति सञ्चरन्तीत्यर्थः। निविशन्ते=उपरमन्ति, निश्चलानि भवन्ति।
  • ‘निशितायां (=निशायाम्) निर्वपेन्निशितायां हि रक्षांसि प्रेरते (=पर्यटन्ति)’ (तै॰स॰२.२.२)।
  • ‘त्वय्युदिते प्रेरते चित्रभानो’ (अथर्व॰४.२५\३)। प्रेरते स्वे स्वे कर्मणि प्रवर्तन्ते।
  • ‘किमुद्दिश्य काश्यपेन मत्सकाशमृषयः प्रेरिताः स्युः’ (शा॰४)। प्रेरिताः विसृष्टाः।
  • ‘आत्मानमपि च क्रुद्धः प्रेरयेद् यमसादनम्’ (भा॰वन॰२९.६)। अनन्तरोदित एवार्थः।
  • ‘मुहूर्तं प्रेरितवती गमनागमनश्रमम्’ (वृ॰श्लो॰सं॰५.१५५)। श्रमं विनीतवती विगमितवतीत्यर्थः।
  • ‘प्र विप्राणां मतयो वाच ईरते’ (ऋ० ९।८५।७)। वाचः स्तुतीः प्रेरते प्रेरयन्तीत्यर्थः।
  • ‘ताविमौ शोकसन्तापौ शनैः प्रेरय भामिनि’ (रा० ४।२१।९)। प्रेरय अपनय अपनुद विगमय।

उक्ष्

  • {प्रोक्ष्}
  • उक्ष् (उक्ष-सेचने)।
  • ‘यदिष्टरूपरसगन्धस्पर्शं प्रोक्षितम्’ (वै॰सू॰६.२.५)। यज्ञियेन जलेन प्रसिच्य संस्कृतमित्यर्थः।
  • ‘उत्तानेनैव हस्तेन प्रोक्षणं समुदाहृतम्। न्यञ्चताऽभ्युक्षणं प्रोक्तं तिरश्चाऽवोक्षणं मतम्’ (गृ॰सं॰भाष्ये १.१०३)॥
  • ‘प्रोक्षिताऽभ्युक्षिताः सौम्याः’ (भा॰अनु॰९८.३४)। उक्तोऽर्थः
  • ‘तं यज्ञं बर्हिषि प्रौक्षन्’ (ऋ॰१०.९०.७)। त्रिरेवाग्निं प्रोक्षति त्रिः पर्युक्षति (कौ॰सू॰)।
  • ‘वाच्यलिङ्गाः प्रमीतोपसम्पन्नप्रोक्षिता हते’ (अमरे २।७।२६)। प्रोक्षणं लक्षणया वध उच्यते। प्रोक्ष्य हि यज्ञे पशुर्हन्यत इति स्वामी।

उञ्छ्

  • {प्रोञ्छ्}
  • उञ्छ् (उछि-उञ्छे)।
  • ‘उञ्छः कणश आदानमिति’ वैजयन्त्यां यादवः।
  • ‘लिखितमपि ललाटे प्रोञ्छितुं कः समर्थः’ (हित॰१.२१)। प्रमाजितुमित्यर्थः।

उभ्

  • {प्रोभ्}
  • उभ् (उभ उम्भ पूरणे)।
  • ‘यमदूता अपोम्भत’ (अथर्व० ८।८।११)। अपोम्भत नियच्छत।

ऊर्णु

  • {प्रोर्णु}
  • ऊर्णु (ऊर्णुञ्-आच्छादने)
  • ‘वाससा प्रोर्णुवन्ति’ (ऐ॰ब्रा॰१.३)। अविशिष्टो धात्वर्थः।
  • ‘प्रोञ्छन्ति कौक्षेयकान्’ (हनुमन्नाटके ९।१)। प्रोञ्छन्ति विमली कुर्वन्ति।
  • ‘विधिना यल् ललाटलिखितं तत्प्रोञ्छितुं कः समर्थः’ (हितोप० १।२७)। प्रोञ्छितुं प्रमार्ष्टुम्।

ऊह्

  • {प्रोह्}
  • ऊह् (ऊह्-वितर्के)।
  • ‘प्राणाय त्वेति प्राचीमुपलां प्रोहति’ (आप॰शरु॰१.६.२१.६)। प्रोहति प्रापयतीत्यर्थान्तरम्।
  • ‘वाजस्य मा प्रसवेन प्रोहामि’ (वा॰सं॰२.१५)। वाजस्य पुरोडाशादेरभ्यनुज्ञयाऽऽत्मानं प्रेरयामीत्यर्थः।
  • अत्र महीधर इत्थमाह— यद्यप्यूहतिर्वितर्कार्थस्तथाऽप्युपसर्गवशादुत्साहार्थः।
  • ‘कृष्णाजिने प्रोहति (पिष्टानि)’ (का॰श्रौ॰२.५.७)। प्रोहति प्रक्षिपतीत्यर्थः।
  • ‘येन पूषा बृहस्पतेरिति त्रिः प्राञ्चं प्रोहति’ (गो॰गृ॰२.९.१६)। प्रोहति सवितर्कं पश्यतीति सत्यव्रतः। प्रोहति प्रेरयति क्षुरमिति तु मुकुन्दशर्मा।
  • ‘यदधोऽधोऽक्षं द्रोणकलशं प्रोहन्ति’ (जै० ब्रा० १।७७)। प्रोहन्ति प्रेरयन्ति प्रापयन्ति।
  • ‘इदमहमात्मानमेव प्राञ्चं प्रोहामि तेजसे ब्रह्मवर्चसाय’ (नि० १।१५।५ दुर्गवृत्तौ)। उक्तोऽर्थः।

  • {प्रार्प्}
  • ऋ (ऋ-गतिप्रापणयोः)।
  • ‘प्र वां रथो मनोजवा इयर्ति’ (ऋ॰७.६८.३)। प्रेयर्ति =प्रकर्षेणैति।
  • ‘श्रीणामुदारो धरुणो रयीणां मनीषाणां प्रार्पणः सोमगोपाः’ (ऋ॰१०.४५.५)। प्रार्पणः प्रेरकः। अर्तेर्ण्यन्तस्य प्रयोगः।
  • ‘देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मणे’ (वा॰सं॰१.१)।

कथ्

  • {प्रकथ्}
  • कथ् (कथ-वाक्यप्रबन्धे)।
  • ‘यावन्निःश्रेयसं वाक्यं किञ्चित् प्रकथयाम्यहम्’ (रा॰५.१.९३)। प्रकथयाम्युच्चारयामीत्यर्थः। अत्र प्रशब्दः सङ्कोचे परिच्छेदे वर्तते। धात्वर्थं वाक्यप्रबन्धमुक्तिमात्रे पर्यवसाययति।

कम्

  • {प्रकम्}
  • कम् (कमु-कान्तौ)।
  • ‘न भाभूपूकमिगमिप्यायिवेपाम्’ (पा॰८.४.३४) इति सूत्रे प्रकमनम् इति काशिकायामुदाहरणम्। तदिदं प्रपूर्वोऽस्य प्रयोगो व्यवहारं नातिपततीति वेदयति।

कम्प्

  • {प्रकम्प्}
  • कम्प् (कपि-चलने)।
  • ‘प्राकम्पत महाशैलः’ (भा॰वन॰१६०.१६)। बलवद् विधुतोऽभवत्, बलात् क्षुभितोऽजायतेत्यर्थः।
  • ‘प्राकम्पत भुजः सव्यः’ (रा० ३।२९।१४)। प्राकम्पत अस्पन्दत अस्फुरत।

कल्

  • {प्रकल्}
  • कल् (कल-शब्दसङ्ख्यानयोः, कल-विलक्षेपे, कल-गतौ सङ्ख्याने च)।
  • ‘ध्रुवस्य पुत्रो भगवान् कालो लोकप्रकालनः’ (हरि॰१.३.३९)। प्रशब्दः प्रकर्षे। प्रकलयति साधु सञ्चष्टे आयुरिति कालः। स एव लोकप्रकालनः।
  • ‘प्रवृद्धमारुज्य महीप्ररोहम्। प्रकालयन्नेव स पार्थिवौघान् क्रुद्धोऽन्तकः प्राणभृतो यथैव’ (भा॰आदि॰१९३.५)। प्रकालयन् प्रणुदन्नित्यर्थः।
  • ‘प्रकाल्यमानस्तेनायं शूलहस्तेन रक्षसा। अग्न्यगारं प्रति द्वारि मया दोर्भ्यां निवारितः’ (भा॰वन॰१३७.७)॥ उक्तोऽर्थः
  • ‘तं प्रकालयैता गा ब्रह्मबन्ध इत्यब्रवीत्’ (छां॰उ॰१८.२)। इह प्रकालनं प्राजनं भवति।

कश्

  • {प्रकश्}
  • कश् (कश-गतिशासनयोः)।
  • प्रकश इत्याथर्वणे (९.१.२१) पठ्यते। द्यौः कशा विद्युत्प्रकशः। तत्र कशप्रहार इत्यर्थः।

काश्

  • {प्रकाश्}
  • काश् (काशृ-दीप्तौ)।
  • ‘सनिःश्वास इवादर्शश्चन्द्रमा न प्रकाशते’ (रा॰३.२२.१३)। व्यक्तिं न याति, विस्पष्टं नेक्ष्यत इत्यर्थः।
  • ‘तावुभौ स्म प्रकाशेते पुष्पिताविव किंशुकौ’। किंशुकवत् प्रतीयेते इत्याह।
  • ‘तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः’ (श्वे॰उ॰६.२३)। व्यक्ता दृश्या भवन्तीत्याह।
  • ‘द्वारिणं तापसा ऊचू राजानं च प्रकाशय’ (भा॰आदि॰१२६.१०)। आगतान्नो निवेदयेत्यर्थः।
  • ‘कदाचित्कुपितं मित्रं सर्वदोषं प्रकाशयेत्’ (चाणक्य॰)। गुह्यं सर्वदोषं परस्मै कथयेदित्यर्थः।

काङ्क्ष्

  • {प्रकाङ्क्ष्}
  • काङ्क्ष (काक्षि-काङ्क्षायाम्)।
  • ‘अन्नपानं प्रकाङ्क्षति’ (सुश्रुत॰१.५२.६)। विशेषेणेच्छति। वर्धेते अस्याशनायापिपासे इत्यर्थः।
  • ‘यथा मृगपतिर्नित्यं प्रकाङ्क्षति वनौकसः’ (भा॰शां॰११६.२३)।
  • ‘तदस्य मुखवैशद्यं प्रकाङ्क्षां चान्नपानयोः’ (चरक० चि० ३।१५६)। प्रकाङ्क्षा प्रकृष्टा ऽऽकाङ्क्षा।

कुप्

  • {प्रकुप्}
  • कुप् (कुप-क्रोधे)।
  • प्रकृतिप्रकोपः प्रजानां राजविद्रोहो भवति। वातपित्तादिप्रकोपो वातादेः शरीरस्थस्याटोपो भवति।

कृ

  • {प्रकृ}
  • कृ (डुकृञ्-करणे)।
  • ‘किं देवदत्तः प्रपचति आहोस्वित्प्रकरोति’ (सू॰का॰८.१.४४)।
  • ‘यत्त्वा क्रुद्धाः प्रचक्रुर्मन्युना पुरुषे मृते (अथर्व॰१२.२.५)। प्रकरोतिरिह हिसायां वर्तते। प्रचक्रुर्जघ्नुरपाचक्रुरिति वार्थः।
  • ‘प्रकुर्वीमहि गां सम्यक्’ (हरि॰१.२१.११)। हिंसया साधयेमहीति नीलकण्ठः।
  • ‘कथं हि भीष्मात्प्रथितः पृथिव्यां भयं त्वमद्य प्रकरोपि वीर (भा॰भीष्म॰८५.२५)। प्रकरोषि=अनुभवसि, संवेत्सि।
  • ‘जानन्नपि नरो दैवात्प्रकरोति विगर्हितम्’ (पञ्चत॰४.३५)। प्रकरोति=करोति=आचरति। प्रकुर्वते
  • ‘वारिदरोधनिर्गताः परस्परालापमिवामला दिशः’ (कि॰४.३०)। इहापि प्रकरोतिः करोतेरेवार्थमाह निर्विशेषम्।
  • ‘कामद्वेषसमायुक्तो मोहात्प्रकुरुते भवान्’ (भा॰उ॰१६८.१८)। भेदं कुरुत इत्यर्थः। प्रकारो भेदो भवति (सादृश्यं च)।
  • ‘या बुद्धेर्न विधेयतां प्रकुरुते’ (तन्त्रा॰१.१३.१४५)। प्रकुरुते साधयतीत्यनर्थान्तरम्।
  • ‘स मन्त्रिणः प्रकुर्वीत प्राज्ञान्मौलान् स्थिराञ्शुचीन्’ (याज्ञ॰१.३१२)। विनियुञ्जीत, अधिकुर्यादित्यर्थः। प्रकुर्यादायकर्मान्तव्ययकर्मसु चोद्यतान्। अनन्तरोदीरितोऽर्थः।
  • ‘यदि विधिरेवमपूर्वमर्थं प्रकरिष्यति’ (मी॰शा॰भा॰४.२.२४)। प्रकरिष्यति=अधिकरिष्यति, प्रस्तोष्यति। एतानि पञ्च रूपाणि विधिवत् क्रियन्ताम्। साध्यन्तां निष्पाद्यन्ताम्।
  • तदेतत्ते कपूयचरितं प्रकरोति लज्जाम्। प्रकरोति जनयति।
  • ‘न ह्येतदेकं वाक्यं (अथातो धर्मजिज्ञासेति) पुरस्ताच्च वेदाध्ययनाद् धर्मजिज्ञासां प्रतिषेधिष्यति परस्ताच्चानन्तर्यं प्रकरिष्यति (मी॰शा॰भा॰१.१.१.१)। प्रकरिष्यति विधास्यति।
  • ‘तदिन्द्र प्रेव वीर्य चकर्थ’ (ऋ॰१.१०३.७)। प्रचकर्थ=आविश्चकर्थ, निरुवहिथेति वाऽर्थः।
  • ‘पुण्यशीलं नरं प्राप्य किं दैवं प्रकरिष्यति’ (भा॰अनु॰६.२९)। कर्तुं प्रभविष्यति।
  • इत्येवमादिभिः कारणैः परस्त्रियमपि प्रकुर्वीत (कामसू॰)। प्रकुर्वीत=अधिगच्छेत्तस्यां सहसा प्रवर्तेत।
  • ‘या तु कन्यां प्रकुर्यात्स्त्री’ (मनु॰८.३७०)। दूषयेत्, अवमानयेत्, वेश्यावृत्तिं प्रति प्रेरयेत्।
  • ‘विष्णु प्रकुरुते’ (भट्टि॰८.१८)। मूर्धनि कुरुते, पूजयतीत्यर्थः। गाथाः प्रकुरुते=प्रकथयति। अत्रार्थे करोतेर्नित्यमात्मनेपदम्।
  • ‘एतानि हि यज्ञे प्रतमामिव क्रियन्ते’ (ऐ॰ब्रा॰१.९)। प्रक्रियन्तेतमाम्=बहुलं प्रयुज्यन्ते।
  • ‘न किञ्चन कर्म कुर्युर्न प्रकुर्वीरन्’ (पा॰गृ॰३.१०)। न कारयेयुरित्यर्थः। नेतरेण क्रियां प्रयोजयेयुः।
  • ‘यथा दारान् प्रकुर्यात्स पुत्रानुत्पादयेद् यथा’ (भा॰आदि॰४५.३२)। अत्र प्रपूर्वोऽपि करोतिः परिग्रहे वर्तते न सहसा प्रवृत्तौ साहसिक्ये।
  • ‘उत प्रकृणुते युधा गाः’ (ऋ॰४.१७.१०)। विजित्य वशे कुरुते इत्यर्थः।
  • ‘प्रचाके सहसा सहः’ (ऋ॰८.४.५)। बलेन बलं जिगायेत्यर्थः।
  • ‘प्र हि त्वा पूषन्नजिरं नयाम निस्तोमेभिः कृण्व ऋणवो यथा मृधः’ (ऋ॰१.१३८.२)। प्रकृण्वः=इतोऽभिमुखं कुर्वः, इत आवर्तयावः।
  • ‘शतं प्रकुरुते’ (पा॰१.३.३२ का॰)। धर्मार्थं शतं विनियुङ्क्त इत्यर्थः। अत्रार्थे करोतेरात्मनेपदं नियतम्।
  • ‘पार्श्वतः करणं प्राज्ञो विष्टम्भित्वा प्रकारयेत्’ (भा॰शां॰१४२.९)। पश्चात्करणीयं विशिष्टमधिकं कुर्यादित्यर्थः। अत्र प्रशब्दो वैशिष्ट्यमाधिक्यमाह। द्वौ नञौ प्रकृतार्थं गमयतः। प्रक्रान्तमप्रतिषिद्धमर्थमाहतुरित्यर्थः।
  • पुनर्वररुचिस्तस्मै प्रकृतार्थमवर्णयत् (कथा॰)। अनन्तरोदित एवार्थः।
  • ‘हित्वाभिषेकं प्रकृतं प्रजाभिः’ (भट्टि॰३.३६)। प्रकृतम्=प्रस्तुतम्=प्रारब्धम्।
  • ‘तत्प्रकृतवचने मयट्’ (पा॰५.४.२१)। प्राचुर्येण प्रस्तुतं प्रकृतम्।
  • ‘प्रियेभ्यः प्रकृतं साधु को नु स्वन्ततरो मम’ (भा॰शल्य॰६४.२३)। प्रकृतमुपकृतम्।
  • ‘अर्पितप्रकृतकान्तिभिर्मुखैः’ (रघु॰१९.१०)। व्यञ्जितस्वाभाविकरागैरित्यर्थः।
  • ‘अनुष्ठास्यति रामस्य सीता प्रकृतमासनम्’ (रा॰२.३७.२३)। प्रकृतं प्रस्तुतमिति रामष्टीकाकारः।
  • ‘प्रकृत्याऽन्नं यथाशक्ति भोजयेत् सह भार्यया’ (मनु॰३.११३)। प्रकृत्य=साधयित्वा, पक्त्वा।
  • ‘तेन नष्टेषु वेदेषु प्रक्रियासु मखेषु च’ (हरि॰१.४१.१०५)। प्रक्रियासु=अनुष्ठानप्रकारेषु।
  • ‘शूराय च सपुत्राय नृपतिः प्रक्रियां ददौ’ (राजत॰५.४२)। प्रक्रिया=राजलक्ष्माणि=छत्रचामरादीनि।
  • ‘नोच्छ्रितं सहते कश्चित् प्रक्रिया वैरकारिका’ (शां॰१११.५९)।
  • ‘प्रक्रिया समुन्नयनमन्यापेक्षयाऽभ्यधिकः वा। अकस्मात्प्रक्रिया नृणाम् अकस्माच्चापकर्षणम्’ (भा॰शां॰१११.८८)। प्रक्रिया समुन्नतिरारूढिः।
  • ‘भोः पश्य दयितापत्ये दुहितुः प्रक्रियामिति’ (वृ॰श्लो॰सं॰५.२४३)। प्रक्रिया=प्रकर्म=परदाराभिमर्शः।
  • ‘स्थेम्ने न्वेवाथो कर्मणः प्रकृततायै’ (श॰ब्रा॰६.५.४.१)। प्रकृतता प्रवृद्धिः।
  • ‘स्त्री प्रकृता सकामा समाना द्वादशपणं दण्डं दद्यात्’ (कौ॰अ॰४.८९)। प्रकृता दूषिता पारदारिकेण। ‘सवर्णामप्राप्तफलां कन्यां प्रकुर्वतो हस्तवधश्चतुश्शतो वा दण्डः’ (कौ॰अ॰४.८९)।
  • ‘कुलभार्यां प्रकुर्वाणमहं द्रष्टुं दशाननम्’ (भट्टि॰८.१९)। भार्यायां सहसा प्रवर्तमानं परामृशन्तम्।
  • ‘उपकुर्वन्तमत्यर्थं प्रकुर्वाणोऽनुजीविवत्’ (भट्टि॰८.१८)। प्रकुर्वाणः सेवमानः।
  • ‘स्वजातिगुणसम्पन्नाः स्वेषु कर्मसु संस्थिताः। प्रकर्तव्या ह्यमात्यास्तु नास्थाने प्रक्रिया क्षमा’ (भा॰शां॰११९.३)॥ प्रकर्तव्या नियोक्तव्याः। प्रक्रिया नियोगः।
  • ‘तत्र ये पुण्यकृतस्तेषां प्रकृतयः पराज्वलन्त्य उपलभ्यन्ते’ (आप॰ध॰२.२४)। प्रकृतयः शरीराणि। भोजप्रबन्धे प्रकृतिशब्दो भिषक्कृते भेषजनिर्देशे व्यवहृतः।
  • ‘नार्थानां प्रकृतिं वेत्सि’ (भा॰वि॰४९.१)। मूलकारणं प्रधानोपायम्, प्राप्तिकारणमिति नीलकण्ठः। -
  • ‘उष्णत्वमग्न्यातपसम्प्रयोगाच्छैत्यं हि यत्सा प्रकृतिर्जलस्य’ (रघु॰५.५४)।
  • ‘मरणं प्रकृतिः शरीरिणां विकृतिर्जीवितमुच्यते बुधैः’ (रघु॰८.८.७)॥ प्रकृतिः संसिद्धिः स्वभावः।
  • ‘प्रकृतिः खलु सा महीयसः सहते नान्यसमुन्नतिं यया (कि॰२.२१)। उक्तोऽर्थः
  • ‘महानुभावप्रकृतिः’ (मालती॰१)। प्र कृतिराकृतिः सन्निवेशः संस्थानम्।
  • ‘गोपालप्रकृतिरार्यकोऽस्मि’ (मृच्छ॰७)। गोपालवंशजः, गोपालान्वयज इत्यर्थः।
  • ‘प्रक्रियेयं न ते युक्ता बहिस्त्वं क्षत्रधर्मतः’ (भा॰आश्व॰७९.३)। प्रक्रिया वृत्तिर्व्यवहार आचारसरणिरिहोक्ता। युक्तं चेदम्। बभ्रुवाहनोऽर्जुनं पितरं नायोधयत् प्रत्युत ब्राह्मणार्थपुरःसरस्तम्प्रति विनयेन निर्ययौ। एवं स्थितेऽर्जनस्तं तर्जयामास प्रक्रियेयं नेत्यादि चाभ्युवाच।
  • ‘प्रकर्ता कलहानां च नित्यं च कलहप्रियः’ (भा॰शल्य॰५४.२०)। प्रकर्ता प्रवर्तयिता जनयिता प्रयोजक इहोक्तः।
  • ‘प्रकृते कर्मन् विष्यति (ग्रन्थिम्)’ (श॰ब्रा॰३.६.१.२५)। प्रकृते सिद्धे (समाप्ते)।
  • ‘यैरिमं प्राकरोत्सर्वं भूतग्रामं चतुर्विधम्’ (वामन पु० ४९।२७)। प्राकरोदजनयत्।
  • ‘कथां प्रचक्रिरे पुण्यां सदसिस्था महात्मनाम्’ (भा० वन० ९५।१६)। प्रचक्रिरे प्रकथयामासुः।
  • ‘पाण्डोः पुत्रं प्रकुरुष्वाधिपत्ये’ (भा० वन० ४।१४)। प्रकुरुष्व अधिकुरु। साधु दारान्कुरुष्वेति पाठान्तरम्।
  • ‘यं (अतिशयं) हेतवः प्रकुर्वाणा न यान्ति वचनीयताम्’ (तत्त्वसं० १९)। प्रकुर्वाणा जनयन्तः साधयन्तः।
  • ‘रक्षोवधः प्रकृत इत्ययमेव शंसेत्’ (चम्पूरा० ३।६)। प्रकृतः प्रारब्धः प्रक्रान्तः।
  • ‘द्वौ प्रतिषेधौ प्रकृतार्थं गमयतः’ (नि० ६।१३।१) इत्यत्र स्कन्दः। प्रकृतार्थं गमयतः प्रक्रान्तमप्रतिषिद्धमर्थं बोधयतः। अविसंवादकौ भवत इति यावत्।
  • ‘देवाः प्रकृतसर्वाङ्गा ये म उच्छेषणं ददुः’ (भा० पु० ४।७।४)। प्रकृतानि प्रकृतिमापन्नानि। नूत्नोत्प्रेक्षा कवेः। अन्यत्र प्रकृतं प्रारब्धं साधितं वा भवति। क्वचित्प्रचुरमपि।
  • ‘प्राचुर्येण प्रस्तुतमपि यथा तत्प्रकृतवचने मयट्’ (५।४।२१) इत्यत्र।
  • ‘तैत्तिरीयिका हि समामनन्ति सत्यं ज्ञानमनन्तं ब्रह्म इति प्रकृत्य’ (ब्र० सू० शा० भा० २।३।२)। प्रकृत्य प्रारभ्य।

कृत्

  • {प्रकृत्}
  • कृत् (कृती-छेदने)।
  • बालान् (अथर्व॰१२.४.७)। स्वधितिना (=क्षुरेण) प्रकृत्य (कौ॰सू॰४४)। अल्पशः कर्तित्वेत्यर्थः।
  • ‘गृह्णीत बध्नीत प्रकर्ततेमं पचाम खादाम च भीमसेनम्’ (भा॰वन॰१५४.१६)। प्रकर्तत=प्रकृन्तत=खण्डशः कुरुत।

कृष्

  • {प्रकृष्}
  • कृष् (कृष=विलेखने)।
  • ‘सत्कुलीनश्च शूरश्च यश्च सेनां प्रकर्षति’ (भा॰आदि॰१३६.३५)। प्रकर्षति नयति प्रणयतीति वा। सेनानीर्भवतीत्यर्थः।
  • ‘तस्मात्त्वं पुरुषव्याघ्र प्रकर्षैतां महाचमूम्’ (भा॰कर्ण॰१०.३५)। उक्तोऽर्थः
  • ‘स्थानादपीन्दुः कुपितः प्रकर्षेत्’ (रा॰३.४३.४२)। आकृष्याधः पातयेदित्यर्थः।
  • ‘एकं तु मम दीनस्य मनो भूयः प्रकर्षति। यदस्याहं प्रियाख्याने न करोमि सदृक प्रियम्’ (रा॰५.७०.११)। मनः प्रकर्षति मनः कदर्थयति चेतस्तुदतीत्यर्थः।
  • ‘पश्चात् दर्भानास्तीर्य दक्षिणतः प्राची प्रकर्षेदुत्तरतश्च (खा॰गृ॰१.२.९)। वस्तारयेदित्याह।
  • ‘दशमं पादं प्रथमं प्रकर्षति’ (कौ॰सू॰९०)। अग्रतः प्रसारयति।
  • स तैः प्रकृष्यताकृष्यत च (रा॰५.६१.१९)। अग्रतोऽकृष्यतेत्याह।
  • ‘वेगेन महता नावं प्राकर्षल्लवरणाम्भसि’ (भा॰वन॰१८७.४२)। अग्रेऽवाहयदित्यर्थः।
  • गाण्डीवं च प्रकर्षतः। प्रकर्षणं धनुरारोपणं भवति।
  • ‘आयुः प्रकर्षो भोगाश्च लभ्यन्ते तपसा विभो’ (भा॰अनु॰५७.८)। आयुः प्रकर्ष आयुषो दैर्घ्यम्।
  • ‘वपुः प्रकर्षादजयद् गुरुं रघुः’ (रघु॰३.३४)। वपुःप्रकर्षो वपुषः सौष्ठवम्, गुणवत्तरत्वम्।
  • ‘वर्णप्रकर्षे सति कर्णिकारं दुनोति निर्गन्धतया स्म चेतः’ (कु॰३.२८)। वर्णप्रकर्षः=वर्णस्यानुत्तमत्वम्। +++(जालप्रकाशकः - नैतद् युक्तम् उक्तम्।)+++
  • ‘प्रकर्षगतेन शोकसन्तानेन’ (उत्तर॰३)। प्रकर्षो वृद्धिः।
  • ‘प्रकर्षतन्त्रा हि रणे जयश्रीः’ (कि॰३.१७)। प्रकर्षो गुणैर्ज्यायस्त्वम्।
  • ‘प्रकर्षणाकर्षणयोरभ्याकर्षविकर्षणैः’ (भा॰आदि॰१९०.२५-२६)। प्रकर्षणं दूरे नोदनमिति नीलकण्ठः।
  • ‘गत्वा प्रकृष्टमध्वानम्’ (१२.८२)। प्रकृष्टं दीर्घम्।
  • ‘यदा प्रकृष्टा मन्येत सर्वास्तु प्रकृतीर्भृशम्’ (मनु॰७.१७०)। प्रकृष्टा उत्कर्षं गताः, समृद्धिमतीर्बलवतीर्वेति पर्यवसितोऽर्थः।
  • ‘इदं तु मम दीनस्य मनो भूयः प्रकर्षति’ (रा० ६।१।१२)। प्रकर्षति=कर्षति कदर्थयति।
  • ‘आवयोरपि यत्सङ्गात्पवित्रत्वं प्रकृष्यते’ (उत्तर० ७।८)। प्रकृष्यते वर्धते।
  • ‘क्षेत्र प्रकर्षयेदुत्तरैः प्रोष्ठपदैः फाल्गुनीभी रोहिण्या च’ (आश्व गृ० २।१०।३)। प्रकर्षयेत् कृषेदित्येवार्थः।
  • ‘प्रतिवक्तुं प्रकृष्टे हि नापकृष्टस्तु शक्नुयात्’ (रा० ४।१८।४६)। वालिन उक्तिरिय रामं प्रति। प्रकृष्टः श्रेयान्। अपकृष्टो जघन्यः।
  • ‘उलूखल बुध्नो यूपः प्रकृष्यः’ (का० श्रौ० २४।५।२७)। देशान्तरानयने प्रकृष्यः प्रकर्षणीयः, भूमिसंलग्न एव प्रेरणीय इत्यर्थः।

कॄ

  • {प्रकॄ}
  • कॄ (कॄ-विक्षेपे)।
  • ‘तानग्नौ प्रकिरेयुः’ (श॰ब्रा॰४.४.३.१२)। प्रक्षिपेयुरित्यर्थः।
  • ‘अश्मनस्त्रींस्त्रीन् प्रकिरति’ (श॰ब्रा॰४.८.४.३)।
  • ‘हिरण्यं च सुवर्णं च वासांसि विविधानि च। प्रकिरन्तो जना मार्गे नृपतेरग्रतो ययुः’ (रा॰२.७६.१५)।
  • ‘नाराजके जनपदे बीजमुष्टिः प्रकीर्यते’ (रा॰२.६७.९)। अत्रोदाहृतिषु सर्वत्र प्रशब्दो विशब्दो द्रष्टव्यः। बीजमुष्टिः प्रकीर्यत इति बीजवापमाह।
  • ‘कामसञ्जननार्थाय ऋषिपुत्रस्य धीमतः। सर्वतः प्रकिरन्ति स्म ललमाना वराङ्गनाः’ (रा॰१.९.१९)॥ प्रकिरन्ति=वल्गन्ति=नृत्यन्ति।
  • ‘विप्रकीर्णं क्वचिच्छत्रं प्रकीर्णकमपि क्वचित्’ (शि॰भा॰२१.५४)। चामरं तु प्रकीर्णकमित्यमरः।
  • ‘बह्वपि स्वेच्छया कामं प्रकीर्णमभिधीयते’ (शिशु॰२.७३)। प्रकीर्णमसम्बद्धमुच्यते। प्रकीर्णा वाक्=व्यामुग्धं वचः।
  • ‘प्रकीर्णाम्बरमूर्धजः’ (भा॰वन॰२१.२४)। पर्याकुलकेशी अव्यवस्थितवासाश्च।
  • ‘प्रकीर्णः पुष्पाणां हरिचरणयोरञ्जलिरयम्’ (वेणी०)। नानापुष्पप्रचयरचित इत्यर्थः।
  • प्रकीर्णमैथुनम् (भा॰अनु॰१४५.५३ )। सङ्कीर्णवर्णयोर्मिथुनीभावः।
  • ‘प्रकीर्णका विप्रकीर्णाश्च राजन् प्रवालमुक्तातरलाश्च हाराः’ (भा० कर्ण० ९४।१९)। प्रकीर्णकाश्चामराणि।

कॄत्

  • {प्रकॄत्}
  • कॄत् (कॄत-संशब्दने)।
  • ‘प्रकीर्तितं व्यासमहर्षिणा च’ (हरि॰१.१.५)। प्रकीर्तितं व्याहृतम्।

क्लृप्

  • {प्रक्लृप्}
  • क्लृप् (कृपू-सामर्थ्ये)।
  • ‘प्र णोऽवनिर्देवकृता दिवा नक्तं च कल्पताम्’ (अथर्व॰५.७.३)। अवनिर्नदी। जातावेकवचनम्। प्रकम्पतां प्रवर्ततां प्रवर्धताम् इत्यर्थः। धात्वर्थ एव प्रशब्देन द्योत्यते।
  • ‘कृतार्थोऽहं गमिष्यामि तव चार्थः प्रकल्पते’ (रा॰२.३१.२४)। प्रकल्पते सिध्यति पुरा।
  • ‘हस्तकाष्ठे पुरोडाशमवदातुं प्रकल्पतः’ (का॰श्रौ॰१.२.३ सूत्रे टीका)। अवदानार्हे भवत इत्यर्थः। अत्रापि प्रक्लृपिः सामर्थ्यान्नातिरिक्तमाचष्टे।
  • ‘पथि यस्तं प्रकल्पयेत्’ (भा॰अनु॰४९.२०)। प्रकल्पयेदिति सङ्गृह्णीतेत्यर्थः।
  • ‘मृत्पात्रस्य क्रियायां हि दण्डचक्रादयो यथा। कारणत्वे प्रकल्प्यन्ते’ (भा॰अनु॰१.३८)। प्रकल्प्यन्ते=निर्धार्यन्ते।
  • ‘एवं शिवं हैवैनमुपस्पृशन्ति ह हैवैनं कल्पयन्ति’ (श॰ब्रा॰१२.५.२.८)।** कल्पयन्ति=अग्रे प्रतिष्ठापयन्ति=अभ्यर्चन्ति।**
  • ‘प्रकल्पयंश्चन्द्रमा यान्येति (नक्षत्राणि)…अष्टाविंशानि…सहयोगं भजन्तु मे (अथर्व॰१९.८.१-२)। नक्षत्राणां सहायभावमुपयन्नित्यर्थो भाति।
  • ‘प्रक्लृप्तं हैवास्य स्त्री विजायते’ (श॰ब्रा॰१.३.३.६)। प्रक्लृप्तं सुखमनायासं प्रसूयत इत्यर्थः।
  • द्वारि द्वारि च पौराणां पुष्पभङ्गः प्रकल्पितः। बद्धः, आसक्तः
  • ‘अश्रु प्रकल्पितम्’ (अमरु॰७३)। नयनसलिलमुक्तमित्याह। ‘यास्तु मातरः पूर्वं लोकस्यास्य प्रकल्पिताः’ (भा॰वन॰)। प्रकल्पिताः=नियतीकृताः स्थापिताः।
  • ‘न त्वां मन्ये मानुषं देवसत्त्वं… न ते तुल्यो विद्यते वाक्प्रकल्पे’ (भा॰वन॰१३३.३०)। वाक्प्रकल्पः प्रकृष्टः संलापः।

क्रन्द्

  • {प्रक्रन्द्}
  • क्रन्द् (क्रदि-आह्वाने रोदने च)।
  • प्रक्रन्दतिरुच्चैरावाहने वर्तते। तथा चर्ग्वेदे प्रयोगः। ‘प्र वः स्प ळ् क्रन्’ (५.५९.१)।

क्रम्

  • {प्रक्रम्}
  • क्रम् (क्रमु-पादविक्षेपे)।
  • ‘प्र सोमासः पवमानासो अक्रमुः’ (ऋ॰९.३१.१)। प्राक्रमुः (=प्राक्रमिषुः)=प्राभवन् =प्रास्यन्दन्त।
  • ‘प्राक्रमिषमुपसामग्रियेव’ (ऋ॰१०.९५.२)** प्राक्रमिषम् = प्रागाम्।**
  • ‘प्र सप्त सप्त त्रेधा हि चक्रमुः’ (आपः) (ऋ॰१०.७५.१)। प्रसस्यन्दिर इत्यर्थः।
  • ‘प्रक्रम त्वं महार्णवम्’ (रा॰५.३.७३)। विक्रमणेन पारयेत्यर्थः।
  • ‘यथापरः प्रक्रमते परेषु तथापरे प्रक्रमन्ते परस्मिन्’ (भा॰अनु॰११३.१०)। प्रक्रमन्ते प्रक्रामन्ति व्यवहरन्ति=आचरन्ति।
  • ‘तस्मात् प्राङ् प्रक्रामति त्रीन् विक्रमान्’ (श॰ब्रा॰३.५.१.१)। अग्रे प्रसरतीत्यर्थः।
  • ‘दग्धान्रथान्महाबाहू रौक्मिणेयः प्रचक्रमे’ (हरि॰२.७३.४९)। अतिचक्रामेत्यर्थः।
  • ‘को वा किं वा प्रक्रमते हरिश्रेष्ठो महाबलः’ (रा॰५.१.३४)। प्रारभते, कर्तुमुद्युङ्क्त इत्यर्थः।
  • ‘सभां प्रचक्रमे कर्तुम्’ (भा॰)। ‘प्रचक्रमे निधानाय (=निधातुम्)
  • ‘शस्त्राणां भरतर्षभ’ (भा॰वि॰५.१७)। प्रचक्रमे=प्रववृते।
  • प्रचक्रमे च प्रतिवक्तुमुत्तरम् (रघु॰३.४७)। उक्तोऽर्थः।
  • ‘उदीराणा उतासीनास्तिष्ठन्तः प्रक्रामन्तः’ (अथर्व॰१२.१.२८)। प्रक्रामन्तः=अग्रे क्रामन्तः। प्रक्रामति आगच्छतीति प्रोपाभ्यां समर्थाभ्याम् इति सूत्रे माधवीयधातुवृत्तौ।
  • ‘प्राक्रामत् पथि तस्मिन्नजातश्रमः’ (कथा० ४२।२२३)। प्राक्रामत् अग्रे प्रासरत्।
  • ‘पित्रोश्च पूजनं कृत्वा प्रक्रान्तिं च करोति यः’ (शिवपु० २।४।१९।३९)। प्रक्रान्तिः=परिक्रमः। पर्यर्थे प्रः। अन्यत्र दुर्लभः प्रयोगः।

क्रीड्

  • {प्रक्रीड्}
  • कीड् (क्रीड्-विहारे)।
  • ‘यद् दिद्यवः पृतनासु प्रक्रीडान्’ (ऋ॰४.४१.११)। प्रक्रीडन्ति विहरन्ति, खेलन्ति।
  • यैरिन्द्रः प्रक्रीडते पद्घोषैश्छायया सह (अथर्व॰५.२१.८)। आत्मानं विनोदयतीत्यर्थः।
  • ‘प्रक्रीडितुं सिंहशिशुं बलात्कारेण कर्षति (शा॰७)।

क्रुश्

  • {प्रक्रुश्}
  • क्रुश् (क्रुश-आह्वाने रोदने च)।
  • ‘प्राक्रोशन् भैरवं शिवाः’ (भा॰सभा॰)। प्रकृष्टमवाश्यन्तेत्यर्थः। उच्चैररुवन्।
  • प्रचुक्रुशुर्महात्मानो हृष्टरूपाः (रा॰४.२५.३५)। उक्तोऽर्थः।
  • ‘प्राक्रोशदुच्चैः सन्त्रस्ता महाराजेति नैषधम्’ (भा॰वन॰६३.२)। आह्वयदित्यर्थः।

क्षर्

  • {प्रक्षर्}
  • क्षर् (क्षर-ईषच्चलने)।
  • ‘प्रास्य धारा अक्षरन्’ (ऋ॰९.२९.१ )। प्रावहन्नित्यर्थः। प्रक्षर इति वाजिनो वारणस्य वा लोहमयः कवचो भवतीत्याभिधानिकाः।

क्षल्

  • {प्रक्षल्}
  • क्षल् (क्षल-शौचकर्मणि)।
  • ‘प्रक्षाल्य पाणी’ (श॰ब्रा॰१२.५.२.५)।
  • ‘प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्’ (हित॰१.१८५)। उभयत्र प्रशब्देन नार्थः।

क्षि

  • {प्रक्षि}
  • क्षि (क्षि-क्षये)।
  • लोके प्रायेणाकर्मकोऽयम्। वेदे तु सकर्मको दृष्टः। सकर्मकत्वे दिवादिर्न।
  • ‘द्विभागधनमादाय प्रक्षिणात्यवर्त्या’ (अथर्व॰१२.२.३-५)।
  • ‘सपत्नान् प्रक्षिणीहि’ (अथर्व॰१०.३.१५)। नाशयोत्सादयेत्यर्थः।
  • ‘उपलप्रक्षिणी नना’ (ऋ॰९.११२.३)। उपलेन पेषणकरीत्यर्थः। प्रक्षीणमिदं देवदत्तस्य। इह देवदत्तश्चिक्षाय। अयं देवदत्तक्षयस्य प्रदेश इत्यर्थः।

क्षिप्

  • {प्रक्षिप्}
  • क्षिप् (क्षिप-प्रेरणे)।
  • ‘शरान्दीप्तान् प्रचिक्षेप सुते मम’ (भा॰)।
  • ‘नामेध्यं प्रक्षिपेदग्नौ’ (मनु॰४.५३)।
  • ‘पण्येपु प्रक्षिपन् हीनम्’ (याज्ञ॰२.२४५)। क्रव्येषु निकृष्टं सम्मिश्रयन्नित्यर्थः।
  • ‘क्षारं क्षते प्रक्षिपन्’ (मृच्छ॰)।
  • ‘मत्स्यमांसखण्डानि नकुलविवरद्वारात्सर्पकोटरं यावत् प्रक्षिप’ (पञ्चत॰) निधेहीत्यर्थः।
  • ‘नित्यमाम्रेडिते डाचीतिवार्तिकदर्शनात्सूत्रे कैश्चित्प्रक्षिप्तम्’ (पा॰६.१.१०० इत्यत्र कैयटः)।
  • क्वचिद् ग्रन्थान् प्रक्षिपन्ति क्वचिदन्तरितानपि। कुर्युः क्वचिच्च व्यत्यासं प्रमादात्क्वचिदन्यथा॥ इति महाभारततात्पर्यनिर्णयोपक्रमे मध्वाचार्यः। अत्र प्रक्षेपो मूलेऽविद्यमानस्य स्वकपोलकल्पितस्य ग्रन्थस्यासङ्ग उच्यते। चरके प्रक्षेपः क्वथ्यमानायामोषधौ द्रव्यान्तरस्य योगमाह।
  • ‘चतुष्पथगदायुद्धे’ (भा॰आदि॰६८.१२)। अत्र चत्वारः प्रक्षेपविक्षेपपरिक्षेपाभिक्षेपाख्याः पन्थानो यस्य तद्गदायुद्धम्।
  • प्रक्षेपो दूरस्थे शत्रौ त्याग इति नीलकण्ठः।

क्षुद्

  • {प्रक्षुद्}
  • क्षुद् (क्षुदिर्-सम्पेषणे)।
  • ‘मित्रघ्नस्य प्रचुक्षोद गदयाऽङ्गम्’ (भट्टि॰१४.३३)। सम्पिपेजेत्यर्थः। इह प्रेणनार्थः॥
  • ‘स्त्रीवाक्याङ्कुशप्रक्षुण्णा’ (पञ्चत॰२.१५०)। प्रक्षुण्णा=विक्षता। विद्धा वेत्यर्थः।

क्षुभ्

  • {प्रक्षुभ्}
  • क्षुभ् (क्षुभ-सञ्चलने)।
  • अत्र सञ्चलनेन प्रकृतिविपर्यासो मन्थनं चाभिप्रयते इति व्याख्यातारः। गणत्रयपठित एष धातुः सर्वत्राकर्मकः।
  • ‘सागरश्च प्रचुक्षुभे’ (रा॰६.७.१५)।
  • ‘प्राक्षुभन् कुलपर्वताः’ (भट्टि॰१५.२५)। प्रशब्दः प्रकर्षस्य द्योतकः।

ख्या

  • {प्रख्या}
  • ख्या (ख्या-प्रकथने, चक्षिङ आदेशो वा)।
  • ‘प्रेमन्धः (प्र ईम् अन्धः)
  • ‘ख्यत्’ (ऋ॰८.६८.२)। अडभावश्छान्दसः। लुङि रूपम्। पश्यतीत्यर्थः।
  • ‘मन्दं प्रख्यायमानेन रूपेणाप्रतिमेन सा’ (भा॰३.६७.८, रा॰५.१८.४)। इदमिदमिति, इदं तदिति वा कथञ्चिदूह्यमानेनेत्यर्थः। न हि पञ्चाला वरणा इति योगः सम्बन्धः प्रख्यायते।
  • ‘लुब्योगाप्रख्यानात्’ (पा०१.२.५४) इति सूत्रे काशिका।
  • ‘यस्तु देवमनुप्येषु प्रख्यातः सहजैर्गुणैः’ (भा॰वन॰४५.७)। प्रसिद्ध इत्यर्थः।
  • ‘चित्तं हि प्रख्याप्रवृत्तिस्थितिशीलत्वात् त्रिगुणम्’ (१.२ यो॰सू॰भा॰)। प्रख्या दर्शनं विवक्षितम्।
  • ‘ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः। यथादर्शतले प्रख्ये पश्यत्यात्मानमात्मना’ (भा॰शां॰२०४.८)। प्रख्ये निःश्वासेन मालिन्येन वाऽनुपहते विशुद्धे।
  • ‘तस्यास्तदद्भुतप्रख्यं श्रुत्वा हर्षमुपागतः (रा॰७.८९.७)।
  • ‘फेनप्रख्यः कथं नाशं मर्त्यलोको न यास्यति’ (याज॰३.१०)।
  • ‘प्रज्ञाचक्षुरवेक्ष्यमाणतिमिरप्रस्याः किलाकीर्तयः (नै॰१२.१०६)। इह सर्वत्र प्रख्यशब्दः सदृशेऽर्थे वर्तते।
  • ‘अद्य चामीकरप्रख्यं प्रवेक्ष्यामि हुताशनम्’ (भा॰वन॰७३.११)। चामीकरप्रख्यं हेमवद् भास्वरम्।
  • ‘अप्रख्यातिमियां राजन् सर्वतः पर्वतैश्चितः’ (भा॰वन॰२२.१२)। अप्रख्यातिरदर्शनम्।
  • ‘प्रख्यायते कथ्यते प्रकाश्यते बुद्धे र्विषयतामापाद्यत इति यावत्’ (पा० १।२।५४ सूत्रे न्यासे)।
  • ‘अभिध्या ऽप्रख्यता चैव सर्व लोभात् प्रवर्तते’ (भा० शां० १५८।५)। अप्रख्यता ऽपकीर्तिः।

गण्

  • {प्रगण्}
  • गण् (गण-सङ्ख्याने)।
  • ‘ततः प्रगणयामासुः कस्य वारोद्य भोजने’ (भा॰आदि॰)।

गम्

  • {प्रगम्}
  • गम् (गम्लृ-गतौ)।
  • ‘यथोपदिष्टेन पथा महर्षिणा प्रजग्मतुः पञ्चवटीं समाहितौ’ (रा॰३.१३.२५)। प्रजग्मतुः=प्रचक्रमतुः=प्रतस्थाते।
  • ‘तदाश्रमपदं द्रष्टुं प्रजग्मुः’ (रा॰१.९.३०)। प्रजग्मुः=प्रययुः।
  • ‘विश्वान्यश्विना युवं प्र धीतान्यगच्छतम्’ (ऋ॰८.८.१०)। प्रागच्छतम्=अधारयतम्।
  • प्रज्ञुः प्रगतजानुक इत्यमरः। प्रशब्दो विप्रकर्षे। प्रगते विप्रकृष्टे विरले विश्लिष्टे जानुनी अष्ठीवन्तौ यस्य सः।
  • ‘प्रसम्भ्यां जानुनो ज्ञुः’ इति जानुनो ज्ञुरादेशः।
  • ‘ततः स्तुता देववरैर्मृगेन्द्रमारुह्य देवी प्रगता वनाढ्यम्।’ (विन्ध्यम्) (वामनपु० १८।२१)। प्रगता प्रस्थिता।

गर्ज्

  • {प्रगर्ज्}
  • गर्ज् (गर्ज-शब्दे)। ‘निरभ्रमेव चाकाशं प्रजगर्ज महास्वनम्’ (भा॰आदि॰३०.३६)। स्तनितुं (स्तनयितुम्)। प्रचक्रमे। प्रशब्द आदिकर्मणि द्रष्टव्यः।

गाह्

  • {प्रगाह्}
  • गाह् (गाहू-विलोडने)।
  • ‘अपः प्रगाह्य तिष्ठन्तोऽवभृथेन चरन्ति’ (आप॰श्री॰८.२.७२७)। प्रगाह्य=अन्तः प्रविश्य।
  • ‘प्र यः पुरूणि गाहते तक्षद् वनेव शोचिषा (ऋ॰१.१२७.४)। उभयत्र प्रशब्देन नार्थः। अर्थोपजनाभावात्।

गुर्

  • {प्रगुर्}
  • गुर् (गुरी-उद्यमने)।
  • ‘प्र मन्दयुर्मनां गूर्त होता भरते मर्यो मिथूना यजत्रः’ (ऋ॰१.१७३.२)। अत्र प्रपूर्वो गुरतिरुच्चैरभिसम्बोधने वर्तते। प्रगूर्त इति सम्बुद्धिः। हे उद्गुर्णेन्द्र इति सायणः। यथा तु संस्कृतशार्मण्यकोषकारौ पश्यतस्तथा प्रगूर्त इति पुरुहूतमाह। गूर्त इति च्छान्दसं रूपं गूर्ण इति तु भाषायाम्।

गॄ

  • {प्रगॄ}
  • गॄ (गॄ-शब्दे)।
  • ‘प्र मित्रे धाम वरुणे गृणान्तः’ (ऋ॰१.१५२.५)। प्रगृणन्त उद्घोषयन्तः संशब्दयन्तः कीर्तयन्त इत्यर्थः।

गै

  • {प्रगै}
  • गै (कै गै-शब्दे)।
  • ‘प्र व इन्द्राय मादनं गायन’ (ऋ॰७.३१.१)। मदकरैर्गातैः कीर्तयतेत्यर्थः।
  • ‘प्र गायत्रा अगामिषुः (ऋ॰८.१.७)। प्रागासिषुः प्रतिध्वनिता बभूवुः।
  • ‘अनाद्यो ह्यमध्यस्तथा चाप्यनन्तः प्रगीतोऽहमीशो विभुः’ (भा॰शां॰१४२.९०)। प्रगीतः प्रकीर्तितः संशब्दितः।
  • ‘पुम्भिः स्त्रीभिश्च सङ्घुष्टः प्रगीत इव चाभवद् (गिरिः)’ (भा॰आश्व॰५९.८)। गीतिबहुलः, गानप्रचुर इत्यर्थः।
  • ‘यथा मे रुदितैरेवं प्रगीतेव पूरी भवेत्’ (रा॰५.२६.३९)। प्रगीता आक्रोष्टुमारब्धा। प्रशब्द आदिकर्मणि। अनुपचरितो धात्वर्थः।

गृध्

  • {प्रगृध्}
  • गध् (गृधु अभिकाङ्क्षायाम्)।
  • ‘पर्णं न वेरनु वाति प्रगर्धिनः’ (तै० सं० १।७।८)। प्रगर्धिनः=अवधिं (काष्ठाम्) प्राप्तुं काङ्क्षतो ऽस्याश्वस्य।

ग्रह्

  • {प्रग्रह्}
  • ग्रह् (ग्रह-उपादाने)।
  • ‘अग्निमूर्ध्वं प्राञ्चं प्रगृह्णाति’ (श॰ब्रा॰६.४.३.१०)। धत्त इत्यर्थः।
  • ‘स (प्रजापतिः)। आत्मनो वपामुदखिदत्। तामग्नौ प्रागृह्णात्’ (तै॰सं॰२.१.१.४)। प्राक्षिपदित्यर्थः।
  • ‘तस्मै देवा एतां धारां प्रागृह्णन्’ (श॰ब्रा॰९.३.२.१)। निरवपन्नित्यर्थः। ‘यावन्न चरणौ भ्रातुः… शिरसा प्रग्रहीष्यामि’ (रा॰२.९९.७)। संस्प्रक्ष्यामीत्यर्थः।
  • ‘ऋत्विक्पुरोहिताचार्यान् सत्कृत्यानवमन्य च। यदा सम्यक् प्रगृह्णाति स राज्ञो धर्म उच्यते’ (भा॰शां॰९१.४३)॥ प्रगृह्णाति=अनुगृह्णाति=परिगृह्णाति=परिपालयति।
  • ‘तेन हि प्रगृह्यन्तां वाजिनः’ (शा॰१)। प्रग्रहेषु गृह्यन्तां संयम्यन्ताम् इत्यर्थः। क्वचित्तेन हि प्रगृह्यन्तामभीषव इति पाठः। इह प्रशब्दोऽनर्थकः।
  • ‘क्रियतामस्माकमनुनयप्रग्रहः’ ( चारु॰१)। प्रग्रहः परिग्रहः स्वीकारः।
  • प्रग्रहोपग्रहौ वन्द्याम् इत्यमरः। प्रग्रह इत्यपराधस्य हेतोः संयत उच्यते। प्रग्रहो वन्दी भवति। वन्दीति पुंव्यक्तावपि स्त्रियाम्।
  • ‘सर्वे कवचप्रग्रहे रताः’ (हरि॰)। कवचबन्धने कचग्रहणे वा लग्नाः
  • ‘साञ्जलिप्रग्रहमेनमुवाच’ (अवदा॰जा॰६)। साञ्जलिबन्धमित्यर्थः। ‘केचिदञ्जलिप्रग्रहपुरःसरं मार्गमस्यावृत्य समवातिष्ठन्त’ (अवदा॰श्रेष्ठिजा॰)।
  • ‘ततो जगौ परमं जप्यं साञ्जलिप्रग्रहः प्रभुः (भा॰शां॰३४७.३७)
  • ‘साञ्जलिप्रग्रहा देवी रौहिणेयमुपस्थिता’ (हरि॰२.४१.१६)।
  • न हि मुच्यते कश्चित्कथञ्चित्प्रग्रहं गतः। गजो वा महिषो वाऽपि षष्ठे काले नरोत्तम (भा॰वन॰१८०.१६)॥
  • ‘प्रग्रहो देवदत्तस्य’ (पा॰३.३.५२ सू॰काशिका)। अत्र साञ्जलीत्यादिषूदाहृतिषु सर्वत्र प्रग्रहो बन्धं वक्ति।
  • तुलाप्रग्रहेण प्रचरन्ति वणिजः। तुलाप्रग्रहस्तुलासूत्रम्धृताः प्रग्रहाः।
  • ‘अवतरत्वायुष्मान्’ (शा॰१)। प्रग्रहाः=रश्मयः=अभीषवः=वल्गाः।
  • ‘पाञ्चाल्यप्रग्रहो द्रोणं सर्वतः समवारयत्’ (भा॰द्रोण॰९.२५)। पाञ्चाल्यो बन्धनरज्जुर्यस्य स इति नीलकण्ठः।
  • ‘स्रुग्बाहमात्री विज्ञेया वृत्तस्तु प्रग्रहस्तयोः’ (कर्मप्रदीपे)। प्रग्रहो दण्डः।
  • ‘तामार्यगणसम्पूर्णां भरतप्रग्रहां सभाम्’ (रा॰२.८२.१)। भरतप्रग्रहामिति समस्तमेकं पदमिति संस्कृतशार्मण्यकोषः। तथा च भरतः प्रग्रहो नेता नायको यस्यास्तां भरतनायकाम् इत्यर्थः। प्रग्रहशब्दो नेतृवचन इतीहैवाधस्ताद् वक्ष्यते। तिलककारो रामस्तु भरतः प्रग्रहामिति व्यासेन पठति। प्रकृष्टैर्वसिष्ठादिभिग्रहः परिग्रहोऽधिष्ठानं यस्याम् इति क्लिष्टं च कल्पयति।
  • ‘असाधुनिग्रहरतः साधूनां प्रग्रहे रतः’ (भा॰शां॰२१.१४)। प्रग्रहे=सङ्ग्रहे।
  • ‘अपराधं सहेताल्पं तृप्येदल्पेऽपि चोदये। महोपकारं चाध्यक्षं प्रग्रहेणाभिपूजयेत्’ (को॰अ॰२.७.२५)। प्रग्रहेण=अनुग्रहेण पारितोषिकेरण द्रव्यदानेन। प्रग्रहेण प्रकृष्टग्रहणेन यावज्जीवं परिग्रहेणेति तु गणपतिः।
  • ‘को मां प्रियमिवातिथिम्। भोजयिष्यत्यकर्मण्यमप्रग्रहमनायकम्’ (रा॰२.३.३३)। अप्रग्रहं नीवारादिसङ्ग्रहरहितमिति तिलकः। यष्टिग्रहणपूर्वकमार्गप्रदर्शकरहितमिति तु कतकः।
  • ‘यः प्रग्रहानुग्रहयोर्यथान्यायं विचक्षणः’ (रा॰२.६४.३४)। इह प्रग्रहो निग्रहं नियन्त्रणमाह।
  • ‘राजोपजीविनां प्रग्रहप्रदेशभोगपरिहारभक्तवेतनलाभम्’ (कौ॰अ॰२.७.२५)। प्रग्रहः=पूजा। मन्त्रिपुरोहितादीन् प्रति प्रत्युद्गमनबहुमान इति गणपतिः। '
  • ‘मेढीभूतः स्वयं राजन्निग्रहे प्रग्रहे भवान्’ (भा॰वन॰१०.१६)। प्रग्रहोऽनुग्रहः।
  • ‘विनिग्रहप्रग्रहयोः प्रवृत्तिर्धर्मोपरोधं न चकार तस्य’ (प्रवदा॰मैत्री॰३)। प्रग्रहो बन्धनम्। अनुग्रह इति कश्चित्।
  • ‘निग्रहेण च पापानां साधूनां प्रग्रहेण च’ (भा॰शां॰३४९.३४)। प्रग्रहेण=अनुग्रहेण।
  • ‘असतां प्रग्रहो यत्र सतां चैव विमानना। दण्डो दैवकृतस्तत्र मद्यः पतति दारुणः’ (कूर्म॰पु॰पूर्व॰१५.२७)। प्रग्रहः सभाजनं सत्क्रिया स्वागतव्याहारः।
  • ‘अतिथिप्रग्रहरतस्तथाभ्यागतपूजकः’ (भा॰अनु॰१४२.२७)। प्रग्रहः सत्कारः।
  • ‘धर्मशास्त्रातिगो मूढो दुरामा प्रग्रहं गतः’ (भा॰उ॰९२.३)। प्रग्रहो निर्बन्धः प्रत्यभिनिवेशः।
  • दौष्कुले वा विशेषेण कथञ्चित् प्रग्रहं गताः। बालभावाद् विकुर्वन्ति प्रायशः प्रमदाः शुभे (भा॰वन॰३०३.२६)॥ प्रग्रहो निर्बन्ध इति नीलकण्ठः। प्रग्रहं गताः साध्वाचरिता मित्रवत्सत्कृता इति संस्कृतशार्मण्यकोषः।
  • ‘सोऽस्माकं वैरपुरुषो दुर्मतिः प्रग्रहं गतः’ (भा॰शां॰७.३३)। प्रग्रहो बन्धनम्।
  • ‘निग्रहे प्रग्रहे सम्यक यदा राजा प्रवर्तते’ (भा॰वन॰१५०.४०)। प्रग्रहोऽनुग्रहः।
  • ‘तयोरथ भुजाधातान्निग्रहप्रग्रहात्तथा। आसीत्सुभीमः सम्पातो वज्रपर्वतयोरिव’ (सभा॰२३.२३)॥ प्रग्रहः शत्रोरुत्तानपातनार्थं पादाकर्षणमिति नीलकण्ठः। निग्रहान्निर्मोक्ष इति तु संस्कृतशार्मण्यकोषः।
  • ‘तयो राजन् भुजाघातनिग्रहप्रग्रहास्तथा’ (भा॰द्रोण॰१४२.४२)। प्रग्रहो गलहरतक इति नील॰।
  • ‘तानि रत्नौघक्लृप्तानि समानुप्रग्रहाणि च’ (हरि॰२.२९.७)। प्रग्रहः पताका। सानुरुपरिदेशः।
  • ‘प्रग्रहः सूर्यचन्द्रयोरुपराग’ इति सूर्यमिद्धान्ते (४.१४)।
  • ‘प्रमाणं सर्वभूतेषु प्रग्रहं च भविष्यसि’ (भा॰शां॰१०५.७)। प्रग्रहो नायकः। नीलकण्ठस्तु प्रग्रहो भुजत्वं (भुजभावम्) इत्येवं विवृणोति। मेदिनीं च प्रमाणमुदाहरति— प्रग्रहस्तु तुलासूत्रे वन्द्यां नियमने भुज इति। कोषप्रमितोऽप्ययमर्थः प्रकृते नातीव संश्लिष्यति।
  • ‘प्रमाणं मर्वभूतानां प्रग्रहाश्च भविष्यथ’ (भा॰अनु॰३५.६)। प्रग्रहा वल्गा इव।
  • ‘हलायुधप्रग्रहणा (सेना) (भा॰वन॰१८३.३३)। हलायुधः प्रग्रहणो नायको यस्या इत्यर्थो भाति।
  • ‘प्रमाणं सर्वभूतेषु गत्वा प्रग्रहणं महत्’ (भा॰शां॰१०५.१०)। प्रग्रहणमादरः।
  • यथा हि रश्मयोऽश्वस्य द्विरदस्याङ्कुशो यथा। नरेन्द्रधर्मो लोकस्य तथा प्रग्रहणं मतम् (भा॰शां॰५६.५)॥ अत्र तु प्रग्रहणं नियन्त्रणमिति मुक्तसंशयम्।
  • ‘दीनानुकम्पी धर्मज्ञो नित्यं प्रग्रहवाञ्छुचिः’ (रा॰२.१.१५)। प्रग्रहो दुष्टनिग्रह इन्द्रियनिग्रहश्च।
  • ‘प्रग्राहं शंसति’ (ऐ॰ब्रा॰६.३२)। विसन्धीनि पदान्युच्चारयति। प्रशब्दो विश्लेषे पृथक्करणे वर्तते।
  • ‘प्लुतप्रगृह्या अचि नित्यम्’ (पा॰६.१.१.१२५)। अत्राप्ययमेवार्थः।
  • ‘प्रगृह्य पाणी देवान् पूजयन्ति’। (नि॰२.२६.१)। प्रगृह्य=बद्ध्वा। अयमेवार्थः (शां॰श्रौ॰१.६.१०) इत्यत्र।
  • ‘प्रगृह्य बाहून् क्रोशन्त्यः’ (भा॰स्त्री॰१०.१२)। प्रगृह्य=उद्यम्य। एवमर्थेऽस्य प्रगृह्यशब्दस्य बहुशः प्रयोगः। तथा चोदाहरणानि–
  • ‘प्रगृह्य बाहू गर्जन्ती प्रविवेश महावनम्’ (रा॰३.१८.२४)।
  • ‘प्रगृह्य रुचिरं बाहुमिदं वचनमब्रवीत्’ (सभा॰६८.२६)।
  • ‘प्रगृह्य बाहून् क्रोशेत भग्ना भग्नाः परे इति’ (भा॰शां॰१००.४८)।
  • ‘उद्यन्मेघस्वनः काले प्रगृह्य विपुलं भुजम्’ (भा॰उ॰९१.१६)।
  • ‘ततश्च तं बली भीष्मः प्रगृह्य विपुलं भुजम्’ (भा॰अनु॰१६७.२५)।
  • ‘एवमुक्त्वा ततो बाहुं प्रगृह्य पुरुषादकः’ (भा॰आदि॰१५३.३८)।
  • ‘प्रगृह्य बाहू व्यलपन्ननाथवत्’ (रा॰२.६५.२९)। अत्र तु प्रग्रह्येत्यभिहृत्येत्यनेन समानाभिधेयम्।
  • ‘प्रगृह्य दन्ताविव नागराजः’ (भा॰वि॰५४.१९)। प्रगृह्य=आग्रहेण।
  • ‘प्रगृह्य वेगं न्यपतज्जवेन’ (भा॰वि॰५४.२१)। प्रगृह्य=स्वीकृत्य, आस्थाय।
  • ‘प्रगृहीताञ्जलिः किञ्चित्तस्माद् देशादपाक्रमत्’ (रा॰२.१४.५८)। प्रगृहीताञ्जलिः=बद्धाञ्जलिः।
  • ‘तेषामञ्जलिपद्मानि प्रगृहीतानि सर्वशः’ (रा॰२.३.१)। प्रगृहीतानि शिरसा निबद्धानि।
  • ‘प्रगृहीनस्तु योऽमात्यो निगृहीतस्त्वकारणैः’ (भा॰वि॰४.४०)। प्रगृहीतः प्रकृष्टतया दानमानादिना गृहीतः।
  • ‘तस्माद्राजा प्रगृहीतः प्रजासु’ (भा॰शां॰१२०.४४)। प्रगृहीतः स्निग्धः।
  • ‘यथाज्यं प्रगृहीतमालुम्पेत् स्रुचो अग्नये’ (अथर्व॰१२.४.३४)। प्रगृहीतं पृथग् गृहीतम्।
  • ‘यया तस्येदं चर्म प्रगृहीतम्’ (अवदा॰जा॰२३)। अपनीय वियोज्य गृहीतमित्यर्थः।
  • ‘रश्मीञ्शमीकतनयो मातलिः प्रग्रहीष्यति’ (वामन पु० ६९।१४७)। प्रग्रहीष्यति ग्रहीष्यति। सारथ्यं करिष्यतीत्यर्थः।
  • ‘तस्माद्राजा न प्रगृह्णीत लुब्धम्’ (भा० शां० १२०।४८)। न प्रगृह्णीत न सङ्गृह्णीत, नात्मीयं कुर्यात्, न तत्र स्निह्येत्।
  • ‘प्रगृहीतायुधस्येह मृत्योरिव महामृधे’ (रा० ६।६७।१०७)। प्रशब्दोऽत्र नान्तरमर्थे करोति।
  • ‘तान्यञ्जलिसहस्राणि प्रगृहीतानि नागरैः। व्याकोशानीव पद्मानि ददर्श भरताग्रजः’ (रा० ६।१२७।५२)॥ प्रगृहीतानि बद्धानि।
  • ‘उत्पत्य च प्रगृह्योच्चैर्देवीं गगनमास्थितः’ (दुर्गा० १०।१८)। प्रगृह्य=उद्यम्य।
  • ‘ततो विलप्य विरता भर्तुः पादौ प्रगृह्य सा’ (भा० आश्व० ८०।१९)। प्रगृह्य=उपसंगृह्य निपीड्य।
  • ‘प्रगृह्य शिरसा पात्रीम्’ (रा० २।६।२)। प्रगृह्य धृत्वा।
  • ‘इत्युक्तः कैकयीपुत्रः काकुत्स्थेन महात्मना प्रगृह्य…’ (रा० २।१०४।४)। प्रगृह्य गाढं परिष्वज्य।
  • ‘यः प्रग्रहानुग्रहयोर्यथान्यायं विचक्षणः’ (रा० २।१।२५)। अयं पुस्तकेत्र धृतपूर्वः। प्रग्रहो नियन्त्रणमिति यन्निरदेशि तन्न सम्यक्। प्रग्रहो बाहुलकेन परिग्रहं परिपालनं तद्रूपमनुग्रहं वाह। आह चात्र महेश्वरतीर्थष्टीकाकारः– प्रथममात्मीयत्वेन परिग्रहः प्रग्रहः। परिगृहीतस्य नैरन्तर्योणानुवर्तनमनुग्रह इति। गोविन्दराजोपि तथा व्याकरोति।
  • ‘महोपकारं चाध्यक्षं प्रग्रहेणाभिपूजयेत्’ (कौ० अ० २।७।४१)। प्रग्रहोऽनुग्रहः।
  • ‘नृपेष्वथ प्रनष्टेषु तदा त्वप्रग्रहाः प्रजाः।’ (हरि० १।४१।६७)। अप्रग्रहा अनायकाः।
  • ‘सत्सङ्ग्रहप्रग्रहणे’ (रा० २।१।२६)। सत सङ्ग्रहे स्वीकारे प्रग्रहणे परिपालने च। समाहारद्वन्द्वः।
  • ‘प्रग्रहणान्ते धूम्रः खण्डग्रहणे शशी भवति कृष्णः’ (आर्य० ४।४६)। प्रग्रहणं प्रारम्भो ग्रहणस्य।
  • ‘साञ्जलिप्रग्रहाः स्थिताः’ (मात्स्यपु० १३७।१०)। साञ्जलिप्रग्रहाः साञ्जलिबन्धाः।

ग्लै

  • {प्रग्लै}
  • ग्लै (ग्लै-हर्षक्षये)।
  • ‘प्रग्लायति’ (भट्टि॰६.१३)। ग्लानि म्लानिमाप्नोतीत्यर्थः।

घट्

  • {प्रघट्}
  • घट् (घट-चेष्टायाम्)।
  • ‘को वा विश्वजनीनेषु कर्मसु प्राघटिष्यत’ (भट्टि॰२१.१७)। सर्वात्मनाऽयतिष्यत उदयोक्ष्यत उदयंस्यत।
  • ‘ततः प्रजघटे युद्धम्’ (भट्टि॰१४.७७)। आरब्धमभूदित्यर्थः।

चक्ष्

  • {प्रचक्ष्}
  • चक्ष् (चक्षिङ्-व्यक्तायां वाचि)।
  • ‘एतत् प्रचक्ष्व मे’ (भा॰आदि॰)। प्रचक्ष्व=आख्याहि उपवर्णय।
  • ‘नैव दारुणतामेके सज्वालायाः (शिवायाः) प्रचक्षते’ (व॰बृ॰सं॰९०.६)। आहुः, मन्यन्त इति तात्पर्यार्थः।
  • ‘क्रोधोद्भवानि च त्रीणि व्यसनानि प्रचक्षते’ (रा॰३.१३.३)। उक्तोऽर्थः।
  • ‘तं देवनिर्मितं देशं ब्रह्मावर्तं प्रचक्षते’ (मनु॰२.१७.५९)। ब्रह्मावर्तनाम्ना कोर्तयन्ति।

चर्

  • {प्रचर्}
  • चर् (चर-गतिभक्षणयोः)।
  • ‘दिवः स्पशः प्रचरन्तीदम्’ (अथर्व॰४.१६.४)। प्राप्य सञ्चरन्तीत्यर्थः।
  • ‘ये तीर्थानि प्रचरन्ति सृकाहस्ता निषङ्गिणः’ (वा॰सं॰१६.६१)। पर्यटन्तीत्यर्थः।
  • ‘नैशानि सर्वभूतानि प्रचरन्ति ततस्ततः’ (रा॰१.३४.१८)। प्रचरन्ति=परिक्रामन्ति।
  • ‘प्रचारयेत् मन्त्रविदः कार्यद्वारेषु नकधा’ (का॰नी॰सा॰१२.३८)। प्रवर्तयेदित्यर्थः।
  • ‘ग्रामे शुचीनि प्रचरन् कुलानि भरतर्षभ’ (भा॰वन॰२०६.७)। प्रचरन् पर्यटन्।
  • ‘कार्येणोर्वीप्रचारिणः’ (वि॰पु॰४.२५.२)। उर्वीप्रचारिणः=भूभ्रमणशीलाः।
  • ‘गुणप्रचारिणी बुद्धिर्हुताशन इवेन्धने’ (भा॰शां०२०५.२९)। गुणेषु प्रचरणशीला गुणेष्वाविर्भाववती।
  • ‘तस्यास्तीर्थं प्रचरितं प्रकामं प्रेक्ष्य राघवः’ (रा॰२.५५.५)। प्रचरितं गमनागमनाभ्यामतिक्षण्णम्।
  • ‘शान्तमृगप्रचारं (काननम)’ (कु॰३.४२)। प्रचारः सञ्चारः पर्यटनम्। ‘यावत्स्थास्यन्ति गिरयः सरितश्च महीतले। तावद्रामायणकथा लोकेषु प्रचरिष्यति’ (रा॰१.२.३६)॥
  • ‘तिष्ठन्ति जीवाः प्रचरन्ति चान्ये’ (भा॰शां॰२८०.३०)। केचित्स्थावरा भूत्वाऽऽसतेऽपरे जङ्गमा भवन्तीत्यर्थः।
  • ‘गवां प्रचारेष्वासीनम्’ (भा॰आदि॰४०.१७)। गोष्ठो गवादनी गोचरः प्रचार इति पर्यायाः।
  • ‘ग्राम्येच्छया गोप्रचारो भूमी राजवशेन वा’ (याज्ञ॰२.१६६)। गोप्रचारो गवादीनां प्रचारमार्गः।
  • ‘योगक्षेमं प्रचारं च न विभाज्यं प्रचक्षते’ (मनु॰९.२१९)।
  • ‘प्रचारे चावघोषयेत्’ (कौ॰अ॰२.८.२६)। प्रचारो जनपद इति गणपतिः।
  • ‘प्रचारं स तु सङ्गृह्य’ (रा॰९.३५.४९)। प्रचारः=सञ्चारः।
  • ‘लोहितोष्णीषा ऋत्विजः प्रचरन्ति ( =कर्मारभन्ते )।
  • मानुवोचो मा प्र चारीः (ऐ॰ब्रा॰३.२)। मा स्म प्रधृतः, प्रवृत्तिं मा स्म करोरित्यर्थः।
  • ‘स्वधर्मं प्रचरिष्यन्ति दण्डकेषु महर्षयः’ (रा०३.३०.३७)। आचरिष्यन्ति अनुष्ठास्यन्ति।
  • ‘दृष्टधर्मप्रचारा’ (स्वप्न॰१.५)। प्रचारोऽनुष्ठानम्।
  • ‘समाहितः प्रचरेद् दुश्चरं यो गार्हस्थ्यधर्मं मनिधर्मजुष्टम्’ (भा॰शां॰६१.१०)। प्रचरेत्=अनुतिष्ठेत्।
  • ‘अथाध्वर्युरेव कायेन। एककपालेन पुरोडाशेन प्रचरति’ (श॰ब्रा॰२.५.२.३९)। प्रचरति=प्रवर्तते, अनुष्ठानपरो भवति।
  • ‘मिथ्या प्रचरतां तात बाह्येष्वभ्यन्तरेषु च’ (भा॰उ॰९५.८)। प्रचरतां व्यवहरताम् इत्यनर्थान्तरम्।
  • ‘औरसीं भगिनीं वाऽपि भार्यां वाऽप्यनजस्य च। प्रचरेन्नरः कामात्तस्य दण्डो वधः स्मतः’ (रा॰४.१८.२२-२३)॥ प्रचरेत्=प्रकुर्यात्, दूषयेत्, परामृशेत्।
  • ‘पुरा प्रचरितोः’ (गो॰ब्रा॰)। अध्वर्योः कृत्योपक्रमात्पुरा।
  • ‘स वै प्रचारः पश्यतो ब्राह्मणस्य’ (भा॰शां॰१५१.१)। प्रचारो व्यवहारः।
  • ‘धर्मार्थौ पृष्ठतः कृत्वा प्रचरन्ति नशंसवत् (भा॰उ॰९५.९)। प्रचरन्ति=आचरन्ति।
  • ‘तेनोपांशु प्रचरति’ (तै० ब्रा० १।३।१।५)। प्रचरति अनुतिष्ठति।
  • ‘माऽनुवोचो मा प्रचारीः’ (ऐ० ब्रा० १।१३)। व्यग्रतया प्रचारमन्यथा ऽनुष्ठानं मा कार्षीरित्यर्थ इति सायणः।
  • ‘तस्यास्तीर्थं प्रचरितं पुराणं प्रेक्ष्य राघवौ’ (रा० २।५५।५)। प्रचरितं गमनागमनाभ्यामतिक्षुण्णमिति भूषणम्।
  • ‘अहोरात्रे प्रचरे’ (जै० ब्रा०)।
  • ‘कुमारीणां प्रचारश्च सुरमण्यो भविष्यति’ (हरि० २।५५।११)। प्रचारो विहारः।
  • ‘साधूनामुपकारजः प्रचारज्ञश्च कर्मणाम्’ (रा० ५।३५।१२)। प्रचारज्ञः प्रयोगज्ञः।
  • ‘दृष्टधर्मप्रचारा’ (स्वप्न० १)। प्रचारोऽनुष्ठानम्।

चल्

  • {प्रचल्}
  • चल् (चल-कम्पने)।
  • घूर्णितः प्रचलायित इत्यमरः। यो निद्रयाऽभिभूत आसीन एव शिरश्चलयति कम्पयति स प्रचलायितो भवति।
  • ‘भयं प्रचालाभ्याम्’ (तै० सं० ५।७।१३।४५)। प्रचालौ पादयोपरि प्रदेशौ।

चि

  • {प्रचि}
  • चि (चिञ्-चयने)।
  • ‘अपि प्रचीयन्ते संव्यवहाराणां वृद्धिलाभाः’ (मुद्रा॰१)। प्रचीयन्ते एधन्ते।
  • ‘परेषामुत्तमाङ्गानि प्रचिन्वन्तमथेषुभिः’ (भा॰भीष्म॰६.१४.११)। छिन्दन्तम् इत्यर्थः।
  • ‘प्रचीयमानावयवा रराज सा’ (रघु॰३.७)। वर्धमानगात्रा।
  • ‘पातकप्रचयवन्मम भूयः पुण्यपुञ्जमपि नाथ लुनीहि। काञ्चनी भवतु लोहमयी वा शृङ्खला यदि पदे न विशेषः’ (सा० सु० सि० ८।३८७)॥ प्रचयः समूहः।

चुद्

  • {प्रचुद्}
  • चुद् (चुद-सञ्चोदने)।
  • ‘धियो यो नः प्रचोदयात्’ (ऋ॰३.६१.१०)।
  • ‘प्रचोदनं देवकृतं गवां कर्मसु वर्तताम्’ (भा॰अनु॰६९.९)। प्रचोदनं प्रतोदेन प्रवर्तनं प्रेरणम्।

च्यु

  • {प्रच्यु}
  • च्यु (च्युङ्-गतौ)।
  • ‘सोऽग्निमनु प्राच्यवत’ (ऐ॰ब्रा॰३.६)। स पशुरग्निमन्वगादित्यर्थः।
  • ‘ब्रह्म हि देवान् प्रच्यावयति’ (श॰ब्रा॰३.३.४.१७)। प्रच्यावयति=प्रेरयति।
  • ‘त्रिः प्रच्यावयतात्’ (का॰श्रौ॰६.८.१)। त्रिरुत्कालयेत्यर्थः।

छिद्

  • {प्रच्छिद्}
  • छिद् (छिदिर्-द्वैधीकरणे)।
  • ‘प्रच्छिन्दन्त्यशुभेषु च’ (भा॰शां॰२७१.१६)। अशुभेषु कर्मसूपस्थितेषु हरन्ति दत्तपूर्वं राज्यादि इत्यर्थः। अत्र प्रशब्द आङोऽर्थे। आच्छिन्दन्त्यामृशन्तीत्यर्थः।
  • ‘प्रवृद्धानां च वृक्षाणां शाखां प्रच्छेदयेत्तथा’ (भा॰शां॰६९.४१)। शाखानामग्राणि च्छेदयेदित्यर्थः। अत्र प्रशब्दोऽग्रवचनः, यथा प्रपदमित्यत्र।
  • ‘गात्राणि प्राच्छिदत्पार्थः’ (भा॰कर्ण॰८०.५)। खण्डशश्चकर्तेत्यर्थः।
  • ‘प्रच्छिनति येनावपत् सविता’ (आश्व० गृ० १।१७।१०)। प्रशब्दोऽनर्थक इति नारायणः। अन्ये तु क्षिप्रार्थ इत्याहुरिति च सः।
  • ‘अप्रच्छिन्नाग्रावनन्तर्गर्भौ प्रादेशमात्रौ कुशौ’ (आश्व० गृ० १।३।३)। प्रशब्दः सौक्ष्म्ये। प्रच्छिन्नं सूक्ष्मच्छिन्नम्।

छो

  • {प्रच्छो}
  • छो (छो तनूकरणे)।
  • ‘तेषामपाङ्गदेशे तु कुर्यात्प्रच्छानमेव तु’ (सुश्रुत० सूत्र० १६।१९)। प्रच्छानमीषच्छेदनम्। प्रशब्द ईषदर्थ इति डल्लनः।
  • ‘स्नायुसन्ध्यस्थिमर्माणि त्यजन् प्रच्छानमाचरेत्’ (अष्टाङ्ग २६।५२)। प्रच्छानं त्वग्भेदेन रक्तनिर्हरणम्।

जन्

  • {प्रजन्}
  • जन् (जनी-प्रादुर्भावे)।
  • ‘प्र यत्ते अग्ने सूरयो जायेमहि’ (अथर्व॰४.३४.४)। प्रजायेमहीति पुत्रपौत्रैः समृद्धा भवेमेत्याह।
  • ‘अर्धो ह वा एष आत्मनस्तस्माद् यज्जायां न विन्दते नैतावत्प्रजायते। ‘असर्वो भवति’ (श॰ब्रा॰)। प्रजया सन्तानेन समृद्धो भवतीत्यर्थः। प्रशब्दः प्राचुर्यमाह।
  • ‘कन्यां प्रवररूपां तु प्राजायत नराधिप’ (भा॰उ॰१८८.१४)। प्राजायत=व्यजायत=प्रासूत।
  • ‘प्रजज्ञे च ततः काले राजन् राजीवलोचना कुमारम्’ (भा॰आदि॰८२.२७)। प्रजज्ञे सुषुवे।
  • ‘प्रजने सर्तेः’ (पा॰३.३.७१) इत्यत्राचार्यः प्रजनशब्दं गर्भग्रहरणेऽर्थे प्रयुङ्क्ते तथा च पदमञ्जर्यां हरदत्तवचनम्- प्रशब्दो धात्वर्थं विपरीतयति। यथा प्रतिष्ठत इत्यत्र। प्रादुर्भावस्य च वैपरीत्यं गर्भग्रहणम्।
  • प्रजने वीयते (पा॰६.१.५५) इत्यत्रापि स एवार्थः।
  • ‘पुरोवातो गाः प्रवाययति। पुरोवातो गाः प्रवापयति। प्रजनो हि जन्मन उपक्रमो गर्भग्रहणम् इति वृत्तिः।
  • ‘स यज्ञशीलः प्रजने निविष्टः’ (भा॰शां॰२८.५६)। प्रजने प्रजोत्पादने। निमित्ते सप्तमी। निविष्टः कृतदारः, गार्हस्थ्यमास्थितः।
  • ‘भूयसी मे प्रजातिरभूत्’ (श॰ब्रा॰१२.४.१.७)। प्रजातिः सन्तानः।
  • ‘गर्दभो द्विरेताः सन् कनिष्ठं प्रजानां प्रजायते’ (तै० सं० ५।१।५।२५)। प्रजायते ऽपत्यं जनयति।
  • ‘यथोपदेशं परिकीर्तितासु नरः प्रजायेत विचार्य बुद्धिमान्’ (भा० अनु० ४८।३६)। प्रजायेत रेतः सिञ्चेत्, आत्मानं जनयेत्।
  • ‘प्रजा च स्वाध्यायप्रवचने च। प्रजनश्च स्वाध्यायप्रवचने च। प्रजातिश्च स्वाध्यायप्रवचने च’ (तै० उ० १।९।१-२)। प्रजनः प्रजननमृतौ भार्यागमनम्। प्रजातिः पौत्रादिसन्तानसम्पादनम्।

जागृ

  • {प्रजागृ}
  • जागृ (जागृ-निद्राक्षये)।
  • ‘ततः प्रजागराञ्चक्रुर्वानराः’ (भट्टि॰१४.६१)। अवेक्षां चक्रिरे। प्रशब्दः प्रत्यर्थे। अवेक्षा प्रतिजागर इति कोषः।
  • ‘उपशये स्थितिरपि प्रजागरो भवति तथा च भारते प्रयोगः- ‘अद्य युद्धे सुसङ्क्रुद्धो दीर्घं राज्ञः प्रजागरम्’ (शल्य॰२७.२१)।

जि

  • {प्रजि}
  • जि (जि-जये)।
  • ‘प्रामुं जय’ (अथर्व॰६.१२६.३)। प्रकर्षेण जय, विजयस्व, सञ्जयेत्यर्थः।
  • ‘ते सोमाहुतिमजुहवुः। तयैनं प्राजयन्’ (जै० ब्रा० १।१३)। प्राजयन् व्यजयन्त।

जुष्

  • {प्रजुष्}
  • जुष् (जुषी-प्रीतिसेवनयोः)।
  • ‘न तथैतानि शक्यन्ते सन्नियन्तुमसेवया। विषयेषु प्रजुष्टानि यथा ज्ञानेन नित्यशः’ (मनु॰२.९६)॥ प्रजुष्टानि प्रसक्तानि।

ज्ञा

  • {प्रज्ञा}
  • ज्ञा (ज्ञा-अवबोधने)।
  • ‘स्वर्गं लोकं न प्रजानाति मूढः’। प्रशब्दोऽनर्थकः। जानातीत्येवार्थः।
  • ‘न च स्त्रियं प्रजानाति कश्चिदप्राप्तयौवनः’ (भा॰आदि॰६४.१७)। भेदेन ज्ञानं प्रज्ञानम्। स्त्रीपुंसयोर्भेदं न जानातीत्यर्थः।
  • ‘तम एवाभवत्सर्वं न प्राज्ञायत किञ्चन’ (भा॰शां॰३४७.१६)। विशिष्य विविच्य वा नाज्ञायतेत्यर्थः।
  • ‘यावता या दिशो न प्रजानीयुः’ (आप॰ध॰२.६.१५.२१)।
  • ‘तमसा निष्प्रभं सर्वं न प्राज्ञायत किञ्चन’ (हरि॰१.४२.१८)। प्राज्ञायत=प्राविच्यत। अन्यत्राप्ययमेवार्थ इत्यन्याः काश्चिद् दिश उपन्यस्यन्ते-
  • ‘सर्वैरपि च वक्तव्यं न प्राज्ञायन्त पाण्डवाः’ (भा॰वि॰४.५)।
  • ‘गर्जितेन च दैत्यानां न प्राज्ञायत किञ्चन’ (भा॰वन॰१७१.६)।
  • ‘उदतिष्ठद्रजो भौमं न प्राज्ञायत किञ्चन’ (भा॰वि॰३२.६)।
  • ‘यदेतद् हृदयं मनश्चैतत् सञ्ज्ञानमाज्ञानं विज्ञानं प्रज्ञानं… वश इति सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्ति’ (ऐ॰ब्रा॰२.६)।
  • ‘तत्प्रज्ञानं प्रथमं पण्डितस्य’ (भा॰उ॰३३.२२)। प्रज्ञानं लक्षणमभिज्ञानम्।
  • ‘ध्वजो रथस्य प्रज्ञानम्’ (रा॰२.६७.३०)। प्रज्ञानमनुमापकः, लक्ष्मेत्यर्थः।
  • ‘आसीदिदं तमोभूतमप्रज्ञातमलक्षणम्’ (मनु॰१.५)। प्रत्यक्षगोचरः प्रज्ञात इत्युच्यते इति कुल्लूकः।
  • ‘मह्यमेकामाज्याहुतिं जुहुताहमेकां दिशं प्रज्ञास्यामि’ (शां० ब्रा० ७।६)। प्रज्ञास्यामि प्रविवेकेण ज्ञास्यामि।
  • ‘जातं च निष्प्रभं सर्वं न प्राज्ञायत किञ्चन’ (मात्स्य पु० १७२।१८)। प्रविवेकेण ज्ञानं प्रज्ञानम् व्यक्तितः परिच्छेदः। प्रविवेकः पार्थक्यम्।
  • ‘आयतनं नः प्रजानीहीति’ (ऐ० उ० १।२)। प्रजानीहि चिन्तय।
  • ‘ममत्वं न प्रजानीयुर्यदि दण्डो न पालयेत्’ (भा० शां० १५।३८)। न प्रजानीयुः परिच्छिन्नं न जानीयुः। सर्वः सर्वत्र ममत्वं कुर्यात्, ममेदमिति मन्येतेति भावः।
  • ‘पक्षस्य मासस्य वा प्रज्ञातेऽ ऽहनि’ (का० सू० १।४।१४)। यद्दिनं यस्या देवताया लोकप्रसिद्धं तत्प्रज्ञातम्।
  • ‘दिशो यश्चक्र प्रज्ञानीः’ (अथर्व० १०।७।३४)। प्रज्ञानीः प्राग्वेदनीरित्यूहते ह्विटने भाषान्तरकारः। मम तु भाति प्रज्ञानसाधनानीन्द्रियाणीह विवक्षितानि।

डी

  • {प्रडी}
  • डी (डीङ्-विहायसा गतौ)।
  • प्रडीनम् (भा॰कर्ण॰४१.२६)। प्रडीनं सर्वतो यानं भवति।

तङ्क्

  • {प्रतङ्क्}
  • तङ्क् (तकि कृच्छ्रजीवने)।
  • ‘यो निलायं चरति यः प्रतङ्कम्’ (अथर्व० ४।१६।२)। प्रतङ्कम् प्रकर्षेण कृच्छ्रजीवनं प्राप्येति सायणः। प्रतङ्कमिति णमुलन्तम्। सायणभाषितेऽर्थेऽरुचि र्नः। न ह्येवं किञ्चित्संगतार्थमुक्तं भवति। निलायमित्यस्य विरोधितया प्रकाशं प्रसभं वेत्यर्थः स्यात्। बाढं धात्वर्थस्त्विममर्थं नानुगृह्णाति।

तन्

  • {प्रतन्}
  • तन् (तनु-विस्तारे)।
  • ‘प्रतन्वतीरोषधीरावदामि’ (अथर्व॰८.७.४)। प्रतन्वतीः=प्रकटयन्तीः।
  • ‘या शतेन प्रतनोषि सहस्रेण विरोहसि’ (वा॰सं॰१३.२१)। शतप्रताना भवसीत्यर्थः। तनोतिरिहाकर्मकः।
  • ‘ख्यातस्त्वं विभवैर्यशांसि कवयो दिक्षु प्रतन्वन्ति नः’ (भर्तृ॰)। विस्तारयन्तीत्यर्थः।
  • ‘तदूरीकृत्य कृतिभिर्वाचस्पत्यं प्रतायते’ (शिशु॰२.३०)। प्रतायते प्रथ्यते दर्श्यत इत्यर्थः।
  • ‘(सिराः) नाभ्यां निबद्धाः प्रतन्वन्ति समन्ततः’ (सुश्रुते १.३५४.५)। प्रतता वितता भवन्तीत्यर्थः।
  • ‘शतं तव प्रतानास्त्रयस्त्रिंशन्नितानाः’ (अथर्व॰६.१३९.१)। प्रतानाः शिखाः।
  • ‘बीजकाण्डरुहाण्येव प्रताना वल्लय एव च’ (मनु॰१.४८)। प्रतानास्तन्तुयुक्तास्त्रपुषालाबूप्रभृतय इति कुल्लूकः। -
  • ‘पिप्पलीप्रततं वनम्’ (रा॰३.७६.२५)। पिप्पलीभिराकीर्णं परिगतमित्यर्थः।

तप्

  • {प्रतप्}
  • तप् (तप-सन्तापे)।
  • ‘सूर्यः प्रतपतां श्रेष्ठः’ (भा॰वि॰२.१५)।
  • ‘प्रतपन्तमिवादित्यं राज्ये स्थितमरिन्दमम्’ (रा॰२.१०५.९)। उभयत्र प्रशब्दः प्रकर्षेऽनर्थको वा।
  • ‘प्रतपं ज्योतिषा तमः’ (ऋ॰९.१०८.१२)। अडभावश्छान्दसः। प्रातपं प्रकर्षेरणादीपयम् उदज्वलयम् इत्यर्थः।
  • स प्रतापः प्रभावश्च यत्तेजः कोषदण्डजम् इत्यमरः।

तम्

  • {प्रतम्}
  • तम् (तमु-ग्लानौ)।
  • ‘प्रताम्यति… प्राणान् प्रतिपद्यते’ (ऐ॰ब्रा॰८.२२)। प्रताम्यति=क्षीणश्वासो भवति।
  • ‘प्रताम्य वा प्रज्वल वा प्रणश्य वा सहस्रशो वा स्फुटिता महीं व्रज (रा॰२.१२.१०९)। प्रग्लाय, ग्लानशक्तिका भव, क्षामा भवेत्यर्थः।

तर्क्

  • {प्रतर्क्}
  • तर्क् (तर्क-वृतु वृधु भाषार्थाः)।
  • ‘इदमिदमिति तत्र तत्र तत्तत् स्वपरमतैर्गहन प्रतर्कयद्भिः’ (भा॰शां॰१७९.३५)। प्रतर्कद्भिर्विवृण्वद्भिः।
  • ‘स्थिरत्वं व्यायामैर्बलं वैद्यः प्रतर्कयेत्’ (सुश्रुते १.१३०.१)। प्रतर्कयेत्=वर्धयेदित्यर्थः।
  • ‘प्रतिध्वनीनात्मकृतान्निशम्य… प्रतर्कयन्नन्यमृगेन्द्रनागान्’ (भट्टि॰२.९)। प्रतर्कयन्मन्यमानः चिन्तयन्नित्यर्थः।

तुद्

  • {प्रतुद्}
  • तुद् (तुद-व्यथने)।
  • ‘श्वसतां च शृणोम्येनं गोपुत्राणां प्रतोद्यताम् ( =प्रतोद्यमानानाम्)’ (भा॰अनु॰११७.११)। प्रतोदेन तोत्रेण व्यथ्यमानानामित्यर्थः।
  • ‘प्रतुदन्तौ रणे स्थितौ’ (हरि॰३.५४.७५) प्रविध्यन्तावित्यर्थः।
  • ‘प्लवः प्रतुदाम्’ (आप॰ध॰१.१७.३३)। तुण्डेन प्रतुद्य ये भक्षयन्ति ते दार्वाघाटादयः प्रतुदः। प्रशब्द आदिकर्मणि। प्रतुदति तोदनमारभते।

तुद्

  • {प्रतुद्}
  • तृद् (उतृदिर्-हिंसानादरयोः)।
  • ‘पार्श्वत एवैनत् काष्ठे प्रतृद्य श्रपयेत्’ (श॰ब्रा॰११.७.४.३)। प्रतृद्य=आसज्य= संश्लेष्य।

तॄ

  • {प्रतॄ}
  • तॄ (तॄ-प्लवनतरणयोः)।
  • ‘अश्मन्वती रीयते संरभध्वमुत्तिष्ठत प्रतरता सखायः’ (ऋ॰१०.५३.८)। प्रतरता (=प्रतरत)=तरत।
  • समुद्रं वा एते प्रतरन्ति (श॰ब्रा॰१२.२.१.१)। प्रतरन्ति तरन्ति=पारं गच्छन्ति।
  • तां नदीं क्षत्रियाः शूरा रथनागहयप्लवैः। प्रतेरुर्बहवो राजन् (भा॰भीष्म॰१०३.३७)। प्रतेरुः=तेरुः=उत्तेरुः। -‘आत्मानं कः समुद्बध्य कण्ठे बद्ध्वा महाशिलाम्। समुद्रं प्रतरेद् दोर्भ्याम्’ (भा॰वि॰४.४९.१६)। प्रतरेत्=तरेत्। बाहुकः स्यात्। प्रशब्दोऽनर्थकः।
  • ‘जलं प्रतरमाणश्च कीर्तयेत पितामहान्’ (भा॰अनु॰९२.१६)। अत्रापि प्रशब्दो न विशेषकृत्।
  • ‘प्र ण आयूंषि तारिषत् (अथर्व॰२.४.६)। तरतेर्लेटि प्रथमैकवचने रूपम्। इह प्रपूर्वस्तरतिर्वृद्ध्यर्थः।
  • ‘प्र सो अग्ने तवोतिभिस्तिरते’ (ऋ॰८.१९.३०) प्रतिरते उदञ्चति=उन्नमति=अभ्युदयते।
  • ‘संवत्सरः सर्वाणि भूतानि प्रतिरति’ (श॰ब्रा॰४.१.१३)। उन्नमयति, बृंहयति, भूमयति।
  • ‘प्रातिरतं जहितस्यायुर्दस्रा’ (ऋ॰१.११६.१०)। प्रातिरतमद्राघयतम्।
  • आयुर्वै नः प्रातीतरः (=प्रावर्धयः) (अथर्व॰११.६.६)।
  • ‘तथा प्रतीर्णायामागच्छेत्स विहीयेत’ (श॰ब्रा॰२.३.३.१६)। प्रतीर्णायां प्लोतुमारब्धायां प्रस्थितायां नावीत्यर्थः। प्रशब्द आदिकर्मणि।
  • ‘गयस्फानः प्रतरणः सुवीरः’ (ऋ॰१.९१.१९, वा॰सं॰४.३७)।
  • ‘गवां नः स्फावयिता प्रतारयितैधीत्येव तदाहेति च तत्रैतरेयब्राह्मणम् (३.२)। प्रतारयिता रक्षक इति षड्गुरुः। स्वार्थे रिणच्।
  • ‘वास्तोष्पते प्रतरणो न एधि’ (ऋ॰७.५४.२)। प्रतरणः प्रवर्धकः।
  • ‘नमः प्रतरणाय चोत्तरणाय च’ (वा॰सं॰१६.४२)।
  • प्रतरन्ति येन तत् प्रतरणमुदकमुच्यते। उत्तरन्ति येन तदुत्तरणं नौरुच्यत इत्युवटः।
  • ‘न ह्यल्पसौहार्दनिबन्धनानामेवं मनांसि प्रतरन्ति कर्तुम् (अवदा॰जा॰२७.१४)। प्रतरन्ति=प्रवर्तन्ते।
  • ‘न चात्र मे निश्चयमेति मानसं धनार्थमेवं प्रतरेद्भवानपि’ (अवदा॰ब्राह्मण॰१८)। प्रवर्ततेति सम्भाव्यतेऽर्थः।
  • ‘आपत्प्रतरणं सम्यक् सङ्घधर्म इति स्थितिः’ (का॰नी॰सा॰८.५७)। प्रतरणं निबर्हणमिति जयमङ्गला।
  • ‘चक्रे चक्रधरे तेन वितस्ताम्भः प्रतारणम्। विनिर्मायारघट्टालीः …’ (राजत॰४.१९१)॥ प्रतारणं प्रकर्षणम्, परीवाहम्।
  • ‘तन्न देवीमतीर्थ प्रतारयामः’ (अवदा॰जा॰२)। कुत्सिते नद्या अवतारेऽवतरणाय प्रेरयाम इत्यर्थः। विपथेन (अपथा) प्रवर्तयाम इति तात्पर्यार्थः।
  • ‘कि मां प्रतारयसि (मृच्छ॰)। वञ्चयसेऽतिसन्धत्स इत्यर्थः।
  • ‘(भागीरथी) प्रतार्यमारणा कूटेषु’ (भा॰३.९९.३२)। प्रतार्यमारणा=विस्तार्यमारणा। अथ नाभिस्तु जन्त्वङ्गे यस्य सञ्ज्ञा प्रतारिका।
  • ‘रथचक्रस्य मध्यस्थपिण्डिकायां च ना पुनः॥’ (केशवः)।
  • ‘आप ओषधीः प्रतिरन्त मे गिरः’ (ऋ० १०।??६।१०)।
  • ‘तरतिर्वृद्ध्यर्थ इति महेश्वरः’ (नि० ७।१०)। प्रतिरन्तु वर्धयन्तु।
  • ‘प्र चन्द्रमास्तिरते दीर्घमायुः’ (ऋ० १०।८५।१९)। उक्तोऽर्थः।
  • ‘अथ यत्रैनं ब्रूयुर्ब्रह्मन् प्रणेव्यामो ब्रह्मन् प्रतरिष्यामो ब्रह्मन् प्रस्थास्यामः’ (शां० ब्रा० ६।१२)। प्रतरिष्यामः प्रवर्त्स्यामः।
  • ‘आयुरेव तद् यजमानस्य प्रतारयति’ (ऐ० ब्रा० ६।३३)। प्रतारयति द्राधयति। वर्धयति।
  • ‘सोमो अह्नः प्रतरीतोषसो दिवः’ (ऋ० ९।८६।१९)। प्रतरीता प्रवर्धयिता। तृजन्तम्।
  • ‘हयो न विद्वाँ अयुजि स्वयं धुरि तां वहामि प्रतरणीमवस्युवम्’ (ऋ० ५।४६।१)। प्रतरणीं तारयित्रीम्। अवस्युवं रक्षित्रीम्।

त्रस्

  • {प्रत्रस्}
  • त्रस् (त्रसी-उद्वेगे)।
  • ‘पराजिताः प्रत्रसतामित्रा नुत्ता धावत ब्रह्मणा’ (अथर्व॰८.८.१९)। प्रशब्दः प्रकर्षस्य द्योतकः।

दस्

  • {प्रदस्}
  • दस् (दसु-उपक्षये)।
  • ‘आपस्त्वरमाणा न क्षीयन्ते न प्रदस्यन्ति’ (काठक॰२८.१)।

दह्

  • {प्रदह्}
  • दह् (दह भस्मीकरणे)।
  • ‘ईश्वरं वै व्रतमविसृष्टं प्रदहः’ (तै० सं० १।७।६)। प्रदहः प्रदग्धुम्।
  • ‘ईश्वरे तोसुन्कसुनौ’ (पा० ३।४।१३) इति कसुन्। प्रशब्दः प्रकर्षे।

दा

  • {प्रदा}
  • दा (डुदाञ्-दाने दाण्-दाने)।
  • ‘शान्तां तस्मै प्रदास्यति। स्वकां दुहितरं भार्याम्’ (रा॰१.८.२५)।
  • ‘प्र वां घृतस्य निर्णिजो ददीरन्’ (ऋ॰७.६४.१)।
  • ‘अथैनं मात्रे प्रदाय स्तनं प्रयच्छति’ (श॰ब्रा॰१४.९.४.२८)। अत्रोदाहृतिषु प्रशब्देन नार्थः।
  • ‘हुतशेषं प्रदद्यात्तु भाजनेषु (याज्ञ॰१.२३६)। निक्षिपेदित्यर्थः।
  • ‘आज्ञापय किमेतेभ्यः प्रदायं दीयताम् इति’ (भा॰आश्रम॰१४.९)। प्रदायः=दायः=प्रदेशनम्, उपदा, उपायनमुपग्राह्यम्।
  • ‘प्रदानं प्रदाय याजयितव्यमेव’ (श॰ब्रा॰१२.८.१.१७) ।
  • ‘यदि वाचं प्रदास्यामि द्विजातिरिव संस्कृताम्’ (रा० ५।२०।१८)। प्रदास्यामि उच्चारयिष्यामि, व्याहरिष्यामि, वक्ष्यामि।
  • ‘यथा वत्सेन प्रत्तां गां दुहे’ (तै० सं० २।३।६।२३)। प्रत्तां क्षीरं दातुमारब्धाम्। प्रस्नुतस्तनीमिति यावत्। आदिकर्मणि निष्ठा। प्रशब्दश्चादिकर्मणो द्योतकः।
  • ‘प्रत्ता वै गौर्दुहे’ (तै० सं० १।७।१।३)। उक्तोऽर्थः।
  • ‘कामोदकं सखि प्रत्तास्वस्रीयश्वशुरर्त्विजाम्’ (याज्ञ० ३।४)। प्रत्ता परिणीता। दत्तेति त्वक्षरार्थः। कामोदकं कार्य कामे प्रेताभ्युदयकामनायां सत्यामिति मिताक्षरा।

दिव्

  • {प्रदिव्}
  • दिव् (दिवु-क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु)।
  • ‘प्रादेवीत्परिघम्’ (भट्टि॰९.९)।
  • ‘तृतीया ह प्रद्यौरिति’ (अथर्व॰१८.२.४८)। प्रकृष्टफलोपेता द्यौः प्रद्यौः।

दिश्

  • {प्रदिश्}
  • दिश् (दिश-अतिसर्जने)।
  • ‘इदं दिव्यम् (अस्त्रम्) प्रदिशामि ते’ (भा॰वन॰४.३६)। प्रशब्दो दानार्थस्य द्योतकः। प्रयोगेष्वनेकार्थोऽयं धातुरिति दर्शनात्।
  • ‘निःशब्दोऽपि प्रदिशसि जलं याचितश्चातकेभ्यः’ (मेघ॰११६)।
  • ‘त्वमुत्तरायै प्रदिशस्व माम्’ (भा॰वि॰२२.८)।
  • ‘कदा सुमनसः कन्या द्विजातीनां फलानि च। प्रदिशन्त्यः पुरीं हृष्टाः करिष्यन्ति प्रदक्षिणम्’ (रा॰२.४३.१४)। प्रदिशन्त्यः=उपहरन्त्यः।
  • ‘तत्रैतन्नामाख्यातयोर्लक्षणं प्रदिशन्ति भावप्रधानमाख्यातम्। सत्त्वप्रधानानि नामानि’ (नि॰१.१.९)। प्रदिशन्ति=प्रविभज्योपदिशन्ति।
  • ‘तेन सत्येन मे देवास्तमेव प्रदिशन्तु मे’ (भा॰वन॰५७.१९)। प्रदिशन्तु=सङ्केतयन्तु।
  • ‘प्रदिशन्ति तु भूतानि सर्वत्र तु यथेप्सितम्’ (हरि॰२.९६.५७)। प्रदिशन्ति=शंसन्ति।
  • ‘दाहं दशवदनः प्रदिदेश वानरस्य’ (भट्टि॰९.१३७)। आदिदेशेत्यर्थः।
  • ‘सायम्प्रातश्च विप्राणां प्रदिष्टमभिवादनम्’ (भा॰शां॰१९३.१९)। प्रदिष्टं कर्तव्यत्वेनोपदिष्टम्।
  • ‘दिशः सूर्यो न मिनाति प्रदिष्टाः’ (ऋ॰३.३०.१२)। प्रदिष्टा नियताः=विधात्रा विहिताः।
  • ‘तस्याधिकारपुरुषैः प्रणतैः प्रदिष्टाम्’ (रघु॰५.६२)। निर्दिष्टां सङ्केतिताम्।
  • ‘इति प्रदिष्टं व्यसनं ह्यनेन समन्वितो यो व्यसनी स गम्यः’ (का॰नी॰सा॰११.११)। प्रदिष्टमुदितं कथितम्।
  • ‘एते प्रदेशमात्रेण मयोक्ता गरुडात्मजाः’ (भा॰उ॰१०१.१५)। प्रदेश उद्देशः=नाम्ना निर्देशः। प्रदेशो नाम यद्बहुत्वादर्थस्य कार्त्स्न्येनाभिधातुमशक्यमेकदेशेनाभिधानम्।
  • ‘तत्रैषोऽत्यन्तप्रदेशः’ (भा॰श्रौत॰६.१५.५)। सामान्यो विधिरित्यर्थः।
  • ‘वृद्धिप्रदेशाः सिचि वृद्धिः परस्मैपदेष्वित्येवमादयः’ (का॰१.१.८)। प्रदेशो विधिस्थलम्।
  • प्राभृतं तु प्रदेशनम् इत्यमरः।
  • ‘प्रदिष्टानि च देयानि न दद्युर्भतृशासनात् (भा॰वन॰२८.११)। प्रदिष्टानि=आज्ञापितानि।
  • ‘आवासं त्वहमिच्छामि प्रदिष्टमिह कानने’ (रा॰३.५.३३)। प्रदिष्टम्=उपदिष्टम्। प्रदेशिनी तर्जनी भवति। प्रदिशत्यवश्यमित्यावश्यके णिनिः। प्रदेश इह निर्देशः।
  • ‘नाज्ञायन्त रणे वीरा न दिशः प्रदिशः कुतः’ (भा॰शल्य॰२२.२१)। प्रदिशः=दिगन्तरालानि। प्रशब्दः प्रमितमाह यथा प्रवेश(=देशैकदेशः) इत्यत्र।
  • ‘नक्षत्राणि ग्रहाश्चैब दिशोऽथ प्रदिशस्तथा’ (भा॰अनु॰१६०.४२)। उक्तोऽर्थः।
  • ‘प्रदिश्य चासनं चास्मै…’ (रा॰२.४.११)। प्रदिश्य=हस्तेन दर्शयित्वा।
  • ‘तेषामनुमतं ज्ञात्वा राजा दुर्योधनस्तदा। सभावास्तूनि रम्याणि प्रदेष्टुमुपचक्रमे’ (भा॰उ॰८५.१२)। प्रदेष्टुं निर्देष्टुम् दर्शयितुम् इति वा।
  • ‘तया प्रदेशितो राजा ब्राह्मणान् वशवर्तिनः। प्रास्थापयत्’ (भा॰वन॰६९.३४)। प्रदेशितः प्रकर्षेण सुष्ठुतया प्रेरित इति।
  • ‘परितुष्टो व्याधान् प्रादेशिकेन सम्मानितवान् (तन्त्रा॰२.५)। प्रदेशनेन पारितोषिकेणेत्यर्थः। परितोषः प्रयोजनमस्येति पारितोषिकम्।
  • ‘प्रदिशध्वं यथान्यायं केन हंसाः पताम्यहम्’ (भा० कर्ण० ४१।३१)। प्रदिशध्वं शंसत।
  • ‘रुद्राणामेति प्रदिशा विचक्षणः’ (ऋ० १।१०१।७)। प्रदिशा प्रदेशनेन दानेन।

दिह्

  • {प्रदिह्}
  • दिह् (दिह-उपचये)।
  • ‘शिग्रुभिर्नवनीतमिथैः प्रदेग्धि’ (कौ॰सू॰२९)।
  • ‘प्रदेहैः प्रदिह्यात्’ (सुश्रुते १.४२.१९)। प्रदेहो लेपः।
  • ‘शीताः प्रदेहा व्यजनानिलाश्च’ (सुश्रुत० उत्तर० ४६।७)। प्रदेहः चन्दनादिविलेपः।
  • ‘सूदः सूपौदनं दद्यात् प्रदेहांश्च सुसंस्कृतान्’ (सुश्रुत० १।४६।५०१)। प्रदेहः प्रलेहः।

दुष्

  • {प्रदुष्}
  • दुष् (दुष-वैकृत्ये)।
  • ‘व्रणाः प्रदुष्यन्ति’ (सुश्रुते १.८३.१६)। विक्रियन्त इत्यर्थः।
  • ‘अवृत्तिकर्शिता हि स्त्री प्रदुष्येत् स्थितिमत्यपि’ (मनु॰९.७४)। विकारमाप्नुयात्, पतिं व्यभिचरेदिति तात्पर्यार्थः।

दू

  • {प्रदू}
  • दू (दूङ्-परितापे)।
  • ‘तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैव हाऽस्य सर्वे पाप्मानः प्रदूयन्ते’ (छां॰उ॰५.२४.३)। प्रदूयेत=दीप्येत, ज्वलेत् दह्येतेति वा।

दृश्

  • {प्रदृश्}
  • दृश् (दृशिर्-प्रेक्षणे)।
  • ‘प्र मे पन्था देवयाना अदृश्रन्’ (ऋ॰७.७६.२)। वाग्गोचरो अभूवन् इत्यर्थः।
  • ‘न ह्यदग्धः प्रदृश्यते। लङ्कायाः कश्चिद् उद्देशः’ (रा॰५.५१.५)।
  • ‘अहो त्वयाद्य विप्रेषु भक्तिरागः प्रदर्शितः’ (भा॰अनु॰१५२.२७)। प्रकाशित इत्यर्थः।

दृ

  • {प्रदृ}
  • दृ (दृ-विदारणे)।
  • (पृथिव्याः) ‘शोचत्या इमे प्रदराः प्रादीर्यन्त’ (ऐ॰ब्रा॰७.३५)। प्रदरा गर्ताः। अविशेषितो धात्वर्थः।
  • ‘ततः प्रादीर्यत चमूर्धनञ्जयशराहता। महावातसमाविद्धा महानौरिव सागरे’ (भा॰कर्ण॰१६.७)॥ प्रादीर्यत=भग्ना, विद्वता विघटिता जातेत्यर्थः।

दॄ

  • {प्रदॄ}
  • दॄ (दॄ विदारणे)।
  • ‘प्रदरः खन्यतामिति’ (रा० ३।४।२४)। प्रकृष्टो दरः, गर्तः, श्वभ्रम्।

द्युत्

  • {प्रद्युत्}
  • द्युत् (द्युत-दीप्तौ)।
  • ‘हृदयस्याग्रं प्रद्योतते’ (श॰ब्रा॰१४.७.२.३) घोतितुमारभते। प्रशब्द आदिकर्मणि प्रकर्षे वा।

द्रा

  • {प्रद्रा}
  • द्रा (द्रा-कुत्सायां गतौ)
  • ‘प्र वीरया शुचयो दद्रिरे वाम्’ (ऋ॰७.९०.१)। प्रदद्रिरे प्रदद्रुः प्रद्राणा दीना अभूवन्नित्यर्थः।

द्रु

  • {प्रद्रु}
  • द्रु (द्रु-गतौ)।
  • ‘उत्तिष्ठ प्रेहि प्रद्रव’ (अथर्व॰४.१२.६)। प्रद्रव=त्वरितो याहि, पलायस्व।
  • ‘भयार्तः शक्रः प्रदुद्राव सरः प्रवेष्टुम्’ (भा॰वन॰१०१.१६)। प्रदुद्राव प्रतत्वरे।
  • ‘वित्रासिता मृगाः सिंहैः सहसा प्रद्रुताः’ (रा॰२.९७.९)। प्रनष्टा इत्यर्थः।
  • ‘रणात्प्रद्रवन्ति बलानि’ (वेणी॰४)। पलायन्त इत्यर्थः।

द्विष्

  • {प्रद्विष्}
  • द्विष् (द्विष-अप्रीतौ)।
  • ‘आश्रमस्थान् विधर्मस्थाः प्राद्विषन्त परस्परम्’ (भा॰शां॰२२८.६५)। प्रशब्देन नार्थः। यो द्वेषः स एव प्रद्वेषः। यथा यो दीपः स एव प्रदीपः।
  • ‘प्रद्वेषो बहुमानो वा संसर्गादेव जायते’ (स्वप्न॰१.७)। इत्यत्रापि तथा।

धा

  • {प्रधा}
  • धा (डुधाञ्-धारणपोषणयोः)
  • ‘यद्ध त्यद्वां पुरुमीळ्हस्य सोमिनः प्र मित्रासो न दधिरे स्वाभुवः’ (ऋ॰१.१५१.२)।
  • ‘आत्मानमेव तद्यजमानोऽग्नौ प्रदधाति’ (तै॰सं॰२.३.२.९)। प्रदधाति समर्पयति।
  • ‘आयुः प्रजानां प्रदध्यात् प्रमायुकाः स्युः’ (काठक॰२८.१)। प्रधीयते निधीयते लीयते विकारजातं यस्मिन्निति प्रधानमिति स्वामी (अमरोद्घाटने)। प्रधीयते जन्यते विकारजातमनेनेति प्रधानमिति योगभाष्यटीकायां (२.२३) वाचस्पतिमिश्राः। प्रधानं स्थित्यैव वर्तमानं विकाराकरणादप्रधानं स्यात् तथा गत्यैव वर्तमानं विकारनित्यत्वादप्रधानं स्यादिति पञ्चशिखाचार्यः
  • ‘यथा प्रधिर्यथोपधिर्यथा नभ्यं प्रधावधि’ (अथर्व० ६।७०।३)। प्रधिश्चक्रबाह्यवलयः, नेमिरिति यावत्।
  • ‘नभ्येव न उपधीव प्रधीव’ (ऋ० २।३९।४)।

धाव्

  • {प्रधाव्}
  • धाव् (धावु-गतिशुद्धयोः)।
  • ‘प्र नूनं धावता पृथक्’ (ऋ॰८.८९.७)। प्रधावत=त्वरध्वम्। गन्तुं प्रस्थातुं सज्जा भवतेत्यर्थः।
  • ‘तेभ्यो मधु प्रधावति’ (ऋ॰१०.१५४.१)। प्रवहति स्यन्दत इत्यर्थः।
  • ‘द्रुपदः कौरवान् दृष्ट्वा प्राधावत समन्ततः’ (भा॰आदि॰१३८.१५)। इतस्ततो धावितुमारब्धेत्यर्थः।
  • ‘न प्रधावेच्च वर्षति’ (मनु॰४.३८)। देवे वर्षति न प्रतूर्णं गच्छेन्मा स्खालीदिति।
  • ‘मनो हि मे दूरतरं प्रधावति’। दूराद् दूरतरं जवते इत्यर्थः।
  • ‘सा श्रीर्नीतिविदां वेश्म चञ्चलाऽपि प्रधावति (हित॰४.४९)। चलप्रकृतिरिति प्रपलायते।
  • ‘समुद्रपारं यदि वा प्रधावसि। तथाऽपि तेभ्यो न विमोक्षमर्हसि’ (भा॰वि॰१४.५०)। प्रधावसि=त्वरितं क्रामसि।
  • ‘आधावनप्रधावनमात्रके नन्दगोपपुत्रे’ (बाल॰८)। इह प्रधावनं प्रमिते देशे परिक्रमणमुक्तम्। यच्चक्रम्येत्याहुः।

धू

  • {प्रधू}
  • धू (धू-विधूनने)।
  • ‘अग्नौ प्रास्तं प्रधूयेत तथा तूलं द्विजोत्तम। तथा गङ्गावगाढस्य सर्वपापं प्रधूयते’ (भा॰अनु॰२६.२)। अयमपपाठः। प्रदूयत इत्येव पाठः। छान्दोग्योपनिषदि तथा दर्शनादर्थसाङ्गत्याच्च।

धृ

  • {प्रधृ}
  • धृ (धृञ्-धारणे)।
  • ‘तस्मिन् राजा प्रधारयेत् (दण्डमिति शेषः)।
  • ‘परेणापकृतो राजा तस्मात्सम्यक् प्रधारयेत्’ (भा॰शां॰२६७.१०)। दण्डं प्रणयेद् दण्डं निपातयेदित्यर्थः।
  • ‘वधाय कर्णात्मजस्याथ मनः प्रदध्रे’ (भा॰कर्ण॰८५.२९) दध इत्येव पर्याप्तम्। अन्यत्र बहुत्र मनो दध इति दर्शनात्। व्यवससावित्यर्थः।
  • सप्त या धारणाः कृत्स्ना वाग्यतः प्रतिपद्यते। पृष्ठतः पाश्वतश्चान्यास्तावत्यो वै प्रधारणाः॥ प्रशब्दो विप्रकर्षमाह यथा प्रवास इत्यत्र। यथा वा प्रशिष्यः प्रपौत्र इत्यत्र। व्यवहिता धारणाः प्रधारणाः।
  • ‘(महाख्यानं) लोके बहुधा प्रधारितम् (भा॰उ॰१२३.२३)। नानाशास्त्रयुक्त्यादिभिर्निश्चितम्।
  • ‘तस्योपकरणं प्रमाणं प्रहरणं प्रधारणमवधारणं च खरपट्टादागमयेत्’ (कौ० अ० ४।८।२४)। प्रधारणं निश्चयनम्।

धृष्

  • {प्रधृष्}
  • धृष् (ञिधृषा-प्रागल्भ्ये, धृष-प्रसहने)।
  • ‘न च शत्रुं प्रपश्यामि युधि यो नः प्रधर्षयेत्’ (भा॰आदि॰३०.३९) अभिभवेत् अवमानयेत् कदर्थयेदिति वाऽर्थः।
  • ‘वायुरूपेण वा शक्रो गुरुपत्नीं प्रधर्षयेत्’ (=तस्यां सहसा प्रवर्तेत) (भा॰अनु॰४०.४४)।
  • ‘न त्वां क्रोधः प्रधर्षयेत्’ (भा॰अनु॰५५.२४)। क्षोभयेत् क्षुभितं कुर्यादित्यर्थः।
  • ‘येनायं राक्षसावासस्त्वयैकेन प्रधर्षितः’ (रा॰५.३३.२२)। विध्वंसितः, विपर्यासं नीतः।
  • ‘बिभेति यथा शको ब्रह्मचारिप्रधर्षितः’ (भा॰अनु॰७५.३८)। ब्रह्मचारिणाऽवमानितः।

ध्मा

  • {प्रध्मा}
  • ध्मा (ध्मा-शब्दाग्निसंयोगयोः)।
  • ‘अग्निष्टानस्मात् प्रधमानि यज्ञात् (अथर्व॰१८.२.२८)। प्रधमातीति लेटि रूपम्। प्रधमेत् वातवद् दूरमाददीतेत्यर्थः।
  • ‘ततः सिंहपुरम्…प्राधमत्’ (भा॰सभा॰२७.२०)। उदसादयदित्यर्थः।
  • ‘यथा सोम्यं पुरुषं गन्धारेभ्योऽभिनद्धाक्षमानीय तं ततोऽतिजने विसृजेत् स यथा तत्र प्राङ् वा…प्रध्मायीत्’ (छां॰उ॰६.१४.१)। विक्रोशेत्, शब्दं कुर्यादिति शङ्करः।

–‘दिव्यौ शङ्खौ प्रदध्मतुः’ (गीता १.१४)। प्रपूरयामासतुः।

ध्यै

  • {प्रध्यै}
  • ध्यै (ध्यै-चिन्तायाम्)।
  • ‘प्राध्यायद् गरुडं हरिः’ (हरि॰१०.३.८१)। सस्मारेत्यर्थः।
  • ‘कृष्णः प्रदध्यौ यदुवीरमुख्यः’ (भा॰आदि॰१८७.९)।
  • ‘मयैतन्नाम प्रध्यातं मनसा शोचता’ (भा॰उ॰११३.१०)। चिन्ताविषयतां नीतम्।

ध्वंस्

  • {प्रध्वंस्}
  • ध्वंस् (ध्वंसु-अवस्रंसने गतौ च)।
  • ‘यत्र सर्वत आपः प्रध्वंसेरन्’ (आश्व॰गृ॰४.१.१०)। प्रध्वंसेरन्=स्यन्देरन्=नावतिष्ठेरन्। प्रशब्दो गत्यर्थस्य द्योतकः। अत्रार्थे प्रपूर्व एवायं धातुः प्रयोगमवतरन् दृष्टः। प्रध्वंसते=प्रणश्यति (छां॰उ॰८.१.४)।
  • ‘प्रध्वस्ता वा तरुभ्यः सरसफलभृतो वल्कलिन्यश्च शङ्खाः’ (भर्तृ॰३.२६)। प्रध्वस्ताः=नष्टाः=उच्छिन्नाः।
  • ‘प्रध्वस्तचत्वरपथाऽयोध्या’ (गोरेसियोसम्पा॰रा॰२.६८.५३)। उज्जासिताजिरमार्गा। प्रध्वस्तानि चत्वराणि पन्थानश्च यस्यां सा। प्रध्वस्तानि विगतजनसम्पातानीत्यर्थः।
  • ‘सिकताः प्रध्वंसयति’ (शा॰ब्रा॰७.३.१.२३)। प्रध्वंसयति विकिरति।

नद्

  • {प्रणद्}
  • नद् (णद-अव्यक्ते शब्दे)।
  • ‘प्राणदद्यामदुन्दुभिः’ (रा॰२.८१.२)। प्रावदित्यर्थः।

नभ्

  • {प्रण्भ्}
  • नभ् (णभ तुभ-हिंसायाम्)।
  • ‘प्र नभस्व पृथिवि भिन्द्धीदं दिव्यं नभः’ (अथर्व॰६.१८.१)। प्रदीर्यस्व। उत्पाटिता भवेत्यर्थः।

-नभतिरकर्णकोऽपि- ‘नभन्तामन्यके समे’ (ऋ॰८.३९.१) इत्यत्र यथा। मा भूवन्नन्यके सर्व इति हि तत्र निरुक्तम्।

नम्

  • {प्रण्म्}
  • नम् (णम-प्रह्वत्वे शब्दे च)।
  • ‘तस्मात्प्रणमेन्न चातिनमेत्’ (तन्त्रा॰३.४)। इह प्रशब्दोऽनर्थकः। नायं प्रकर्षमाचष्टे।
  • ‘इन्द्राय स प्रणमति यो बलीयसे नमति’ (का॰नी॰सा॰टीका)। प्रणमति=नमस्यति।
  • ‘वनवासे प्रणता मतिः कथम्’ (अवदा॰जा॰२०.२)। प्रणता=प्रवणा।
  • ‘नैवोन्नता न प्रणता न गुरुं धारयेच्चिरम्’ (का॰सं॰गभिगीचिकित्साध्याये)। प्रणता=अवनता=आवर्जिता=नतकाया।
  • ‘प्रणम्य प्रणिधाय कायम्’ (गीता॰११.४४)। नमस्कृस्य।

नश्

  • {प्रणश्}
  • नश् (णश-अदर्शने।
  • ‘या प्रेव नश्यसि’ (ऋ॰१०.१४६.१)। प्रणश्यसि=तिरोभवसि, तिरोधत्से, अन्तर्धत्से।
  • ‘आधिः प्रणश्येद् द्विगुणे धने यदि न मोच्यते’ (याज्ञ॰२.५८)।
  • ‘तस्याहं न प्रणश्यामि स च मे न प्रणश्यति’ (गीता ६.३०)। नित्यं सन्निदध इत्यर्थः। अहं मद्भक्तस्य हदि सन्निविष्टः, स च मयोति तात्पर्यार्थः।
  • ‘प्रनंष्टुमयतिष्ट च’ (भट्टि॰१५.५८)। प्रनंष्टुं पलायितुं प्रायसदित्यर्थः॥

निज्

  • {प्रणिज्}
  • निज् (णिजिर्-शौचपोषणयोः)।

‘आपो मलमिव प्राणैक्षीत् सर्वान्मच्छपथानधि’ (अथर्व॰२.७.१)। प्रक्षालयतु, शोधयत्वित्यर्थः।

नी

  • {प्रणी}
  • नी (णीञ्-प्रापणे)।
  • ‘उद्यन्नु खलु वा आदित्यः सर्वाणि भूतानि प्रणयति’ (ऐ॰ब्रा॰२५.६)। प्रणयति=सुवति=प्रेरयति कर्मसु।
  • ‘प्र नो नय प्रतरं वस्यो अच्छ’ (ऋ॰६.४७.७)। प्रणय=प्रापय।
  • ‘स होवाच। बिभेमि प्रणयत मेति’ (श॰ब्रा॰१२.९.३.८)। अग्रे नयतेत्यर्थः।
  • तां पुरं प्रणयामि वः (अथर्व॰१९.१९.१)। प्रतिष्कशो भूत्वा नयामि प्रापयामि।
  • ‘स येनैवं प्रणयति तेनैव निनयति’ (श॰ब्रा॰१.९.२.३३)। येन पात्रेणाप उपादत्ते तेनैवासिञ्चति आवर्जयतीत्यर्थः।
  • ‘एतेनाग्ने ब्रह्मणा वावृधस्व…उत प्रणेष्यभि वस्यो अस्मान्’ (ऋ॰१.३१.१८)। वस्यः श्रेयः। प्रणेषि साधु नयेत्यर्थः।
  • ‘अस्त्रं पुनः पाशभृतः प्रणिन्ये’ (कि॰१६.५४)। प्रणिन्ये प्रयुयुजे।
  • ‘प्रणयेद्वाऽपि तां भूमिं प्रणश्येद्गहने पुनः’ (भा॰शां॰१२०.१५)। प्रणयेत्=आत्मानं प्रापयेत्।
  • ‘प्रणयस्व यथाश्रद्धं राजन् किं करवाणि ते’ (भा॰वन॰५६.१)। प्रीयस्वेत्यर्थो भाति। नीलकण्ठस्तु परिणयस्वेत्याह।
  • यो हि गार्हपत्यादानीय दक्षिणाग्निः प्रणीयते तस्मिन्नानाय्य इत्यमरः। प्रणीयते=निर्मीयते=कल्प्यते।
  • ‘शाल्यर्थं कुल्याः प्रणीयन्ते’ (भाष्ये १.१.२२)। प्रणीयन्ते=निर्मीयन्ते।
  • ‘प्रणयन्तु भवन्तो मां यथेष्टमभिमन्त्रिताः’ (भा॰सभा॰३५.३)। मयि स्निह्यन्तु, स्नेहं दर्शयन्तु। प्रकर्षेण श्रेयः प्रापयन्तु इति तु नीलकण्ठः।
  • ‘यदि न प्रणयेद्राजा दण्डं दण्ड्येष्वतन्द्रितः’ (मनु॰७.२०)। प्रणयेत्=धारयेत्=निपातयेत्।
  • ‘यथाधर्मं प्रणयते दुर्बले बलवत्तरः’ (भा॰शा॰९३.१)। प्रणयते=आचरति।
  • ‘तस्मात्तमेव प्रणयेत्सदैव मन्त्रं प्रजासङ्ग्रहणे समर्थम्’ (भा॰शां॰८३.५५)। प्रणयेत्कुर्वीत।
  • ‘भूर्भुवः स्वरित्यभिमुखमग्निं प्रणयन्ति’ (गो॰गृ॰१.१.११)। स्थापयन्तीत्यर्थः। प्राञ्चं नीत्वाऽऽवर्त्य स्थापयन्तीति ग्रन्थाशयः।
  • ‘प्रणयस्व च तत्त्वेन मैवं भूः शोकलालसा’ (रा॰५.२०.७)। सम्मानने नयतेरात्मनेपदमिति टीकाकृद्रामः। अपः प्रणयति। अत्र पवनरूपं संस्कारं निर्वर्तयतीत्यर्थो विवक्ष्यते।
  • ‘चाराः कृष्णं प्रणीयन्तामनिरुद्धस्य मार्गणे’ (हरि॰२.१२१.३३)। चार्यन्ताम् नियुज्यन्तामित्यर्थः।
  • ‘अद्य कुन्त्याः परिक्लेशं वनवासं च कृत्स्नशः। द्रौपद्याश्च परिक्लेशं प्रणेष्यामि हते त्वयि’ (भा॰भीष्म॰७९.४)। विनेष्यामि अपनेष्यामीत्यर्थः।
  • ‘प्र यं गये निनीषसि’ (ऋ॰८.९२.४)।
  • ‘ओजायमाना तस्यायं प्रणीय जनकात्मजा’ (भट्टि॰५.७६)। उपहृत्येत्यर्थः।
  • ‘तेन सम्यक् प्रणीतानि शरजालानि’ (भा॰भीष्म॰८६.६)। प्रणीतानि=क्षिप्तानि।
  • ‘क्रमं प्रणीय पाञ्चाल्यः शिक्षां चोत्पाद्य केवलाम्’ (हरि॰१.२४.३२)। प्रणीय विरचय्य।
  • ददानि किं चापि मनःप्रणीतम्। मनःप्रणीतं सङ्कल्पितम्, हृदयस्य प्रियमित्यर्थो वैवक्षिकः।
  • ‘परप्रणीतानि वचांसि चिन्वताम् प्रवृत्तिसाराः खलु मादृशां गिरः’ (कि॰१.२५)। परप्रणीतानि=परग्रथितानि परोक्तानीत्यर्थः।
  • ‘दग्धां गुहां पश्य उलूकपूर्णा काकप्रणीतेन हुताशनेन’ (पञ्चत॰३.१)। प्रणीतेन=आहतेन, क्षिप्तेन, दत्तेनेति वा।
  • ‘भवत्प्रणीतमाचारमामनन्ति हि साधवः’ (कु॰६.३१)। प्रणीतं निबद्धं ग्रन्थे कृतम्, स्मृतमिति वा।
  • ‘प्रणीतो न तु प्रकाशितः’ (उत्तर॰४)। प्रणीतो रचितः।
  • ‘उत्तरं रामचरितं तत्प्रणीतं प्रयुज्यते’ (उत्तर॰१.३)। उक्तोऽर्थः।
  • प्रणीतः संस्कृतोऽनलः (अमरे)। प्रणयनं मन्त्रादिना संस्कारैः प्रादुष्करणम् इति स्वामी।
  • ‘वानरेन्द्रप्रणीतेन’ (बलेन) (रा॰)। वानरेन्द्रनायकेनेत्यर्थः।
  • ‘कण्ठाश्लेषोपगूढं तदपि न चिरं यत्प्रियाभिः प्रणीतम्’ (भर्तृ॰३.८२)। प्रणीतम्=रचितम्।
  • ‘प्रणीतश्चाप्रणीतश्च यथाग्निर्दैवतं महत्’ (मनु॰९.३१७)। प्रणीतः=आहितः।
  • ‘वृष्ण्यन्धका ह्युग्रसेनादयो वै कृष्णप्रणीताः सर्व एवेन्द्रकल्पाः’ (भा॰उ॰२८.१२)।
  • ‘साधुकारं याचितं स्यात्प्राक् प्रणीतमयाचितम्’ (ल॰वि॰स्मृ॰४.१०)।
  • ‘मिथ्याप्रणीते यज्ञाङ्गे प्रजानां सङ्क्षयो ध्रुवः (हरि॰३.२.२१, रा॰६.९६.६)। प्रणीते=निर्मिते=निर्वृत्ते।
  • प्रणीतमुपसम्पन्नं प्रयस्तं स्यात्सुसंस्कृतम् इत्यमरः।
  • ‘प्रणीतभावमत्यर्थं युधि सत्यपराक्रम’ (भा॰उ॰७६.२)। युधि समर्पितचित्तमित्यर्थः।
  • प्रणीताः (आपः) (श॰ब्रा॰१.९.२.३२)। प्रणीताः श्वोभूते प्रयोगार्थं वेद्यां निहिताः। प्रणीतेति च यज्ञियपात्राणामन्यतमम्।
  • ‘त्रिधा प्रणीतो ज्वलनो मुनिभिर्वेदपारगैः (हरि॰३.२३.५)। प्रणीतः स्मृत उदित उदाहृत उक्तः (गार्हपत्य आहवनीयो दक्षिणाग्निश्चेत्यग्नित्रेता)।
  • ‘बुद्धिः प्रणीता येनेयम्’ (रा॰२.२२.१४)। निर्मिता, रचितेत्यर्थः।
  • ‘नीतिमता प्रणीता (सेना)’ (रा॰२.९७.३१)। प्रणीताऽभिविनीता=शिक्षिता।
  • ‘दण्डनीत्यां प्रणीतायां सर्वे सिध्यन्त्युपक्रमाः’। दण्डनीत्यामुपयोगं नीतायाम्, व्यापारितायाम् इत्यर्थः।
  • ‘न च धर्मं प्रणीतं ते पथ्यमुक्तं विचक्षणैः’ (रा॰५.२३.७)। प्रणीतमाचरितम्। ते=त्वया।
  • ‘किमयं शब्दः स्यात्स्वभावज उत परप्रणीतः’ (पञ्चत॰१८.१०)। परप्रणीतः=परकृतः।
  • ‘द्यूते पुराणैर्व्यवहारः प्रणीतस्तत्रात्ययो नास्ति न सम्प्रहारः।’ (भा॰सभा॰५६.१३)। प्रणीतः=निबद्धः, निर्णीतः=प्रतिष्ठापितः
  • ‘(आयुर्वेदम् ) भूयोऽष्टधा प्रणीतवान् (सुश्रुते १.१.१८)। अष्टधा व्यास, जग्रन्थ रचयाञ्चकारेत्यर्थः।
  • ‘विशन्मुहूर्तं तु भवेदहश्च रात्रिश्च सङ्ख्या मुनिभिः प्रणीता’ (भा॰१२.२३१.१३)। प्रणीता=निर्धारिता, नियतीकृता।
  • ‘तेन वै दुष्प्रणीतेन गता वैवस्वतक्षयम्’ (भा॰द्रोण॰१८३.११)। दुष्प्रणीतेन=दुर्नयेन।
  • ‘प्रणीतीरभ्यावर्तस्व’ (अथर्व॰७.११०.१)। प्रकृष्टनयनादिवेदब्रह्मचर्यनियतीः।
  • ‘तव प्रणीती (=प्रणीत्या) तव शूर शर्मन्नाविवासन्ति कवयः सुयज्ञाः’ (वा॰सं॰७.३५)। तव प्रणीत्या=स्वया प्रणीताः सन्तः, त्वन्नेत्रा इत्यर्थः।
  • ‘प्रणेतारो यजमानस्य मन्म’ (ऋ॰७.५७.२)। प्रणेतारः=प्रेरयितारः। तृन्नन्तमेतत्।
  • ‘प्रणेतारं वस्यो अच्छा कर्तारं ज्योतिः समत्सु’ (ऋ॰८.१६.१०)।
  • ‘प्रणयन्तीं चोपेक्षेत’ (का॰सं॰वि॰शिष्य॰)। प्रणयं कुर्वतीमित्यर्थः।
  • ‘अस्मत्प्रणेयो राजेति लोकांश्चैव वदन्त्युत’ (भा॰शां॰५६.६०)। प्रणेयो वश्यः।
  • ‘सुहृदां हि धनं भुक्त्वा कृत्वा प्रणयमीप्सितम्’ (भा॰उ॰१०७.७)। प्रणयं कृत्वा विस्त्रम्भमुत्पाद्येत्यर्थः।
  • ‘स्नेहस्य तत्फलमसौ प्रणयस्य सारः’ (मालती॰१.९)।
  • ‘मया गृहीते सलिलेऽनेन कृतः प्रणयः’ (शा॰५)। प्रणयः परिचयः। कृतः प्रदर्शितः।
  • ‘अजानता महिमानं तवेदं मया प्रमादात्प्रणयेन वाऽपि’ (गीता॰११.४१)।
  • ‘मैत्र्यात्, परिचयाद्वा साधारणोऽयं प्रणयः’ (शा॰३)। प्रेमा, अनुरागः
  • ‘अलङ्कृतोऽस्मि स्वयङ्ग्राहप्रणयेन भवता’ (मृच्छ॰१)। प्रणयेन=प्रसादेन।
  • ‘हरेरतुलविक्रमप्रणयलालसः साहसे’ (मालती॰८.७)। प्रणयोऽभिलाषः, स्पृहा।
  • ‘आबद्धकङ्कणकरप्रणयप्रसादमासाद्य’ (मालती॰६.१४)। करप्रणयः=करग्रहरणम्, पाणिपीडनम्।
  • ‘तद्भूतनाथानुग नार्हसि त्वं सम्बन्धिनो मे प्रणयं विहन्तुम्’ (रघु॰२.५८)। प्रणयं प्रार्थनाम्।
  • ‘स मद्विधानां प्रणयैः कृशीकृतः (चारु॰१.२६)। प्रणयैः=याच्ञाभिः, धनयाचनैः।
  • ‘हेतुप्रणयालसः’ (अवदा॰जा॰२३.२७)। युक्तिग्रथनमन्द इत्यर्थः।
  • ‘नेता रसानां नेता भासां ज्योतिषां प्रणयः’ (नि॰२.१४.३)। प्रणयः प्रणेता। कर्तर्यच्।
  • ‘भव्यानां भवादृशां चार्थिदर्शनं महोत्सवः प्रणयनमाराधनम्’ (हर्ष॰उ॰३)। प्रणयनं याचनम्। राजानं प्रति भैरवाचार्योक्तिरियम्।
  • ‘तं धीरा वाचा प्र णयन्ति सप्त’ (ऋ० १०।११४।७)। होत्रादयः सप्त धीमन्तस्तमग्निं प्रकर्षेण प्रापयन्ति।
  • ‘मनुष्यलोक एवैनं पवयित्वा पूतं देवलोकं प्रणयति’ (तै० सं० ६।१।२।१०)। उक्तोऽर्थः।
  • ‘प्र तं मह्या रशनया नयन्ति’ (ऋ० ४।१।९)। प्रणयन्ति उत्तरवेद्यादिषु प्रक्षिपन्ति। तम् अग्निम्।
  • ‘यं त्वामयं स्वधितिस्तेजमानः प्रणिनाय महते सौभगाय’ (ऋ० ३।८।११)। महत्सौभाग्यं प्रापयामासेत्यर्थः।
  • ‘उद्यन्नु खलु वा आदित्यः सर्वाणि भूतानि प्रणयति’ (ऐ० ब्रा० ५।३१)। प्रणयति चेष्टयति।
  • ‘प्रणयस्व च तत्त्वेन’ (रा० ५।२०।७)। प्रणयस्व स्नेहं कुर्विति भूषणम्। प्रसीदेति तीर्थः। अन्धकारे दीपिकाभि र्गच्छन्न स्खलति क्वचित्। एवं स्वरैः प्रणीतानां भवन्त्यर्थाः स्फुटा इति इति वेङ्कटमाधवो ऽनुक्रमण्याम्॥ स्वरैः प्रणीतानां स्वरैर्दर्शितपथानाम्।
  • ‘तत्प्रणीतमनसामुपेयुषाम्’ (शिशु० १४।३८)। हृष्टचित्तानाम् इति मल्लिः।
  • ‘मिथ्या प्रणीतात्मा’ (रा० ५।२१।१०)। प्रणीतात्मा स्निग्धमना इति भूषणम्। विनीतात्मेति तु तीर्थः।
  • ‘हे प्रणतप्रणीत’ (स्कन्दपु० का ४।१६)। भक्तप्रणीतः=भक्तप्रणेयः=भक्तवश्यः।
  • ‘शुष्मणि प्रणयनादि संस्कृते’ (शिशु० १४।२२)। प्रणयनं गार्हपत्याद् उद्धृत्य मन्त्रेणायतने सादनम् इति मल्लिः।
  • ‘तत्प्रणेयं निबोधस्व त्रैलोक्यं सचराचरम्’ (हरि० ३।२।३२)। तत्प्रणेयं तद्वश्यं तदायत्तम्।
  • ‘वायुर्वै प्रणीर्यज्ञानाम्’ (ऐ० ब्रा० २।३४)। प्रणीः प्रणायकः।
  • ‘रामेण सार्धं मथुरां प्रणीते श्वाफल्किना मयि…’ (भा० पु० ११।१२।१०)। प्रणीते नीते। प्रशब्दो धात्वर्थानुवादी।

नु

  • {प्रणु}
  • नु (णु-स्तुतौ)।
  • ‘प्र पर्वता अनवन्त प्र गावः’ (ऋ॰८.८५.५) प्राणवन्त=अनदन्, अशब्दायन्त। गावोऽरेभन्त (अरम्भन्त) पर्वताश्चागर्जन् इत्यर्थः।
  • ‘ओमिति प्रणौति’ (ऐ॰ब्रा॰५.३२)। प्रणौति=उच्चारयति। विशिष्टेऽर्थे धातोः पाठः सामान्ये प्रयोगः।
  • ‘षोडशभिः प्रणौति’ (ऐ॰ब्रा॰४.१,६.३३)। षण्णामक्षराणामन्ते ओम् इत्यक्षरमुच्चारयतीत्यर्थः।
  • ‘य एतदेवं विद्वानक्षरं प्रणौति’ (छां॰उ॰१.४.५)। उक्तोऽर्थः।

नुद्

  • {प्रणुद्}
  • नुद् (णुद-प्रेरणे)।
  • ‘प्रणुदा नः सपत्नान्’ (वा॰सं॰१५.२)। परासुवेत्यर्थः। उत्सारय, दूरं गमय।
  • ‘अग्ने जातान् प्रणुद मे सपत्नान्’ (अथर्व॰७.३५.१)। अतिदूरमपसारयेत्यर्थः।
  • ‘सा नो भूमिः प्रणुदतां सपत्नान्’ (अथर्व॰१२.१.४१)। उक्तोऽर्थः।
  • ‘नावमन्येदभिगतं न प्रणुद्यात्कथञ्चन’ (भा॰अनु॰६३.१३)। प्रणुद्यात्=प्रत्याख्यायात्, निराकुर्यात्। अभिगतमभ्यागतम्।
  • ‘अप्रणोद्योऽतिथिः सायं सूर्योढो गृहमेधिना’ (मनु॰३.१०५)। अप्रत्याख्येयः। सूर्योढमस्तमनवेलायां प्राप्तमतिथिं वासे न प्रत्याचक्षीतेत्यर्थः।
  • ‘न सायकप्रणुत्तानां पुनरस्ति निवर्तनम्’ (अथर्व॰९.२.१२)। सायकर्दूरं प्ररितानाम् इत्यर्थः।
  • ‘तस्य सैन्यस्य रेणुमुद्धूतं वै वाजिखुरप्रणुन्नम्’ (भा॰वन॰२६९.२५)। प्रणुन्नम्=उत्क्षिप्तम्।
  • ‘बहुवेगप्रणुन्नेन समुद्रेण’ (रा॰५.३.३८)। प्रणुन्नेन=आकम्पितेन, क्षोभितेन।

नृत्

  • {प्रनृत्}
  • नृत् (नृती-गात्रविक्षेपे)।
  • ‘क्लीबा इव प्रनृत्यन्तो वने ये कुर्वते घोषम्’ (अथर्व॰८.६.११)। प्रनृत्यन्तो नर्तनपूर्वकं गच्छन्तः।
  • ‘प्रनृत्यतीव सङ्ग्रामे चापहस्तो धनञ्जयः’ (भा॰वि॰६२.९)। हर्षाविष्टः प्रनृत्तवान् (=नर्तितुमारब्ध)। प्रशब्द आदिकर्मणि।
  • ‘ये तदास्मान् प्रनृत्यन्ति पुनर्गौरिति गौरिति’ (भा॰८.८३.४३)। अवहेलयन्तो नर्तकवृत्तिमास्थुः।

पक्ष्

  • {प्रपक्ष्}
  • पक्ष् (पक्ष-परिग्रहे)।
  • ‘प्रपक्षः शकुनिस्तेषाम्’ (भा॰द्रो॰७.१२)। प्रपतितपक्ष इत्यर्थः।

पच्

  • {प्रपच्}
  • पच् (डुपचष्-पाके)।
  • पिटकायाः पाकः प्रपाको भवति।

पठ्

  • {प्रपठ्}
  • पठ् (पठ- व्यक्तायां वाचि)।
  • ‘यं (जप्यं) सप्तरात्रं प्रपठन् पुमान् पश्यति खेचरान्’ (भा॰पु॰४.८.५३)। प्रपठन्=उच्चैरुच्चारयन्। येन यत्नेन मन्वाद्यैरात्मवचनं प्रपाठितम् (=प्रोक्तम्, अध्यापितम्)। प्रपाठक इति तैत्तिरीयसंहितादिषु ग्रन्थैकदेशस्य सञ्ज्ञा।

पण्

  • {प्रपण्}
  • पण् (पण-व्यवहारे स्तुतौ च)।
  • ‘येन धनेन प्रपणं चरामि’ (अथर्व॰३.१५.५)। व्यवहर्तुं पण्यद्रव्यस्य परिमाणकल्पनं प्रपण इति सायणः।
  • ‘शुनं नो अस्तु प्रपणः’ (अथर्व॰३.१५.४)। प्रपणो विनिमयः।

पत्

  • {प्रपत्}
  • पत् (पत्लृ-गतौ)।
  • ‘साकं यक्ष्म प्र पत’ (ऋ॰१०.९७.१३)। प्रपत=अपध्वंस।
  • ‘गिरिभिः पुरा वसुधां प्रपतद्भिरुत्पतद्भिश्च’ (व॰सं॰३१.३)।
  • ‘ता एता देवताः सृष्टा अस्मिन्महत्यर्णवे प्रापतन्’ (ऐ॰उ॰२.१)। प्रापतन्=न्यञ्चन्।
  • ‘ये तत्र पक्षिणो भूत्वा प्रपतन्ति यथादिशम्’ (भा॰उ॰४६.९)। प्रपतन्ति=उड्डीयन्ते।
  • ‘दृष्ट्वाऽपि नाभ्यजानन्त तेऽज्ञानात्प्रपतन्त्युत’ (भा॰सभा॰३.३३)। प्रपतन्ति=स्खलन्ति।
  • ‘प्रपतेतः पापि लक्ष्मि नश्येतः’ (अथर्व॰७.११५.१)। प्रपत=दूरं गच्छ।
  • ‘पुरूरवो मा मृथा मा प्रपप्तः’ (ऋ॰१०.९५.१५)। मा पलायिष्ठाः, माऽपक्रमीः।
  • ‘न खालित्यं न पालित्यं न केशाः प्रपतन्ति च (चरके)।
  • ‘वय एवैनमेतद्भूतं प्रपातयति’ (श॰ब्रा॰३.३.४.१५)। प्रपातयति=उड्डाययति।
  • ‘प्रपातादुद्धृतोऽन्यस्मादन्यत्र पतितो ह्यसि’ (अवदा॰जा॰२४.२८)। प्रपातः=अवपातः=अवटः। प्रपातस्त्वतटो भृगुरित्यमरः।
  • ‘मधु प्रेप्सुरिवाबुद्धिः प्रपातं नावबुध्यते’ (भा॰द्रोण॰१३३.१०)। उक्तोऽर्थः।
  • ‘प्रपातैरायुधान्युग्राण्युद्वहन्त (महीधरम्) न चुक्षुभे’ (भा॰द्रोण॰१७५.७४)।
  • प्रपाताः पयसो विचित्राः कणपङ्क्तयः (यो॰वा॰६ (२) १८६.७९)। प्रपाता धारासाराः।
  • ‘शरत्प्रतीक्षः क्षमतामिमं भवाञ्जलप्रपातं रिपुनिग्रहे धृतः’ (रा॰४.२७.४८)। जलप्रपातः=जलागमः=वर्षाकालः।
  • ‘प्र राजन् पक्षिणः पतन्त्यवाऽपक्षा पद्यन्ते’ (पञ्च० ब्रा० १४।१।१२)। पक्षिणः पक्षवन्तः प्रपतन्ति उत्पतन्ति।
  • ‘पुरूरवो मा मृथा मा प्र पप्तः’ (ऋ० १०।९५।१५)। भृगोः पतनं मा कार्षीरित्यर्थः। प्रपातस्त्वतटो भृगुरित्यमरः। पुस्तके माऽपक्रमीः, मा पलायिष्ठा इति यदुक्तं तत्परेषां केषाञ्चिद् व्याख्यानं नास्माकम्। प्रकरणं च तद्विरुन्ध इति नादरणीयम्।
  • ‘तांस्ते (लोकान्) ददानि मा प्रपत प्रपातम्’ (भा० आदि० ९३।३)। प्रपातमिह णमुलन्तमिति नीलकण्ठः। तद्रभसात्। अर्थासङ्गतेः। शास्त्रानुग्रहविरहाच्च।
  • ‘महाप्रमाणै र्विपुलैः प्रपातैर्मुक्ताकलापैरिव लम्बमानैः’ (रा० ४।२८।४८)। प्रपाता निर्झराः।

पद्

  • {प्रपद्}
  • पद् (पद-गतौ)।
  • ‘यदध्वर्युश्च प्रतिप्रस्थाता च निश्चक्रामतः प्र च पद्येते’ (श॰ब्रा॰४.२.४.२२)। प्रपद्येते=प्रत्यावर्तेते।
  • ‘तम एतत्पुरुष मा प्रपत्थाः’ (अथर्व॰८.१.१०)। मा प्रपत्थाः=मा गमः।
  • ‘योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः’ (कठ॰उ॰५.७)। प्रपद्यन्ते प्राप्नुवन्ति।
  • ‘अप्रपद्यंश्च कर्माणि नित्यदेयानि’ (भा॰शां॰३४.१२)। अप्रपद्यन्=प्रापद्यन्त=आचरन्।
  • ‘पश्यामो मयि किं प्रपद्यते’ (अमरु॰२४)। मयि कथं व्यवहरतीत्यर्थः।
  • ‘धमनोर्यदा मातरिश्वा प्रपद्यते’ (सुश्रुते १.२५१.२०)। प्रपद्यते=उपैति।
  • ‘ब्रह्म प्रपद्ये ब्रह्म मा क्षत्राद् गोपायतु’ (ऐ॰ब्रा॰७.२२)। बह्म शरणं यामीत्याह।
  • ‘गच्छामित्रान् प्रपद्यस्व’ (ऋ॰६.७५.१६)। प्रपद्यस्व=आक्राम, आस्कन्द, अभियाहि।
  • ‘अथाम्बराद् भयजनना प्रपेदिरे सपादपाः…महाद्रयः’ (भा॰१.१९.२६)। पतिता इत्यर्थः।
  • ‘ते शरा स्वसमुत्थेन प्रदीप्ताश्चित्रभानुना। भूमौ सर्वे तदा राजन् भस्मभूताः’ प्रपेदिरे’ (भा॰उ॰१८०.३४-३५)। प्रपेदिरे=अवपेतुः।
  • ‘श्रुत्वेदानीं प्रपद्येथाः स्वां मतिम्। निश्चयं याहीत्यर्थः।
  • ‘अनन्यशरणा चाद्यैव प्रभृति प्रपद्यस्व मनसा वाच क्रियया च … देवदेव त्रिभूवनगुरुं त्र्यम्बकम्’ (हर्ष॰१)। प्रपद्यस्व=शरणं याहीत्यर्थः।
  • ‘प्रगृहीते ततो धर्मे प्रपत्स्यति कृतं युगम्’ (हरि॰३.४.४६)। प्रवेक्ष्यति, प्रक्रंस्यत इति वाऽर्थः।
  • अप्रवृत्ताः प्रपत्स्यन्ते समयाः शपथास्तथ (हरि॰३.३.३०)। प्रवर्तिष्यन्ते, प्रचरिष्यन्ति प्रथिष्यन्त इत्याह।
  • ‘द्वारैवैनं पितृलोकं प्रपादयति’ (श॰ब्रा॰१३.८.१.५)। गमयति प्रापयतीत्यर्थः।
  • अथैनं शालां प्रपादयति (श॰ब्रा॰३.१.२.२१)। प्रपादयति=प्रापयति=प्रवेशयति।
  • ‘इन्द्रं मध्यं प्रपादयन्ति’ (=अन्तः प्रवेशयन्ति)।
  • ‘अपरस्याह्नः सन्धिकाले गृहान् प्रपादयेत्’ (व॰गृ॰१५.१४)। उक्तोऽर्थः।
  • ‘अथाऽस्य स्थानं व्रजपरिहितं प्रपाद्य’ (लौ॰गृ॰३.४)। गोसमूहो व्रजः, तेन परिहितमधिष्ठितं स्थानं प्रपाद्य प्रवेश्येति देवपालः।
  • ‘अथ यत्र पूर्वया द्वारा वसतीवरीः प्रपादयन्ति। तदपरया द्वारा नेष्टा परिस्रुतं प्रपादयति’ (श॰ब्रा॰५.१.२.१६)। प्रपादयन्ति=प्रणयन्ति।
  • ‘द्वारा पुरं प्रपित्सेत्’ (श॰ब्रा॰११.१.१.३)। प्रपत्तुं प्रवेष्टुमिच्छेदित्याह।
  • ‘शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम्’ (गीता॰२.७)। प्रपन्नम्=शरणागतम्।
  • पीडिते तु विपन्नः स्यात्प्रपन्नः शरणागते (औ॰पदा॰२.४१)।
  • ‘मनोवाक्कर्मभिर्देव त्वां प्रपन्नान् भजस्व नः’ (भा॰कर्ण॰३३.६२)। प्रपन्नान्=शरणागतान्।
  • ‘प्रपन्ना मामियं चेति दयां कर्तुमिहार्हसि’ (भा॰आश्व॰६७.१९)। उक्तोऽर्थः।
  • ‘प्रपन्नवत्सलो देवः’ (भा॰अनु॰१७.६८)।
  • ‘भीतं प्रपन्नं प्रददाति यो वै’ (भा॰उ॰१२.२०)।
  • ‘त्वं प्रसादं प्रसन्नात्मन् प्रपन्नानां कुरुष्व नः’ (वि॰पु॰१.९.७४)।
  • ‘त्रायन्तां वो मधुरिपोः प्रपन्नार्तिच्छिदो नखाः’ (ध्वन्यालोके १.१)।
  • ‘प्रपन्नानां परित्राता प्रजानां प्रियकारकः’ (शिव॰१.१५)। अत्र सर्वत्र प्रपन्नः शरणागत उच्यते।
  • ‘शरणं ये प्रपन्नानां भवन्ति शरणार्थिनाम्’ (भा॰वि॰१६.२७)। प्रपन्नानां प्राप्तानामुपेतानाम्। अस्मात्प्रयोगादवसीयते यत्र क्वापि प्रपन्नशब्दः शरणागतमाह तत्र शरणमिति द्वितीयान्तं गम्यमानत्वाल्लुप्तमिति द्रष्टव्यम्।
  • ‘प्रपन्नं साधयन्नर्थम्’ (याज्ञ॰२.४०)। इह प्रपन्नं प्रतिपन्नमभ्युपेतमाह।
  • ‘इयं प्रपन्ना तपसे तपोवनम्’ (कु॰५.५६)। प्रस्थिता गतेत्यर्थः।
  • ‘प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः (शा॰१.१)। प्रपन्नः=सम्पन्नः=उपपन्नः=सङ्गतः।
  • ‘रात्र्यां प्रपन्नायाम्’ (=अवतीर्णायां त्रियामायाम्) (रा॰२.४२.३२)।
  • ‘क्षमां च तत्रात्मवतां प्रपत्तुम्’ (अवदा॰जा॰१९.३३)। प्रपत्तुम्=आचरितुम्=कर्तुम्।
  • ‘कुर्वीत यस्ता हृदयेऽपि तावत्स्यात्सोऽपहास्यः किमुत प्रपत्ता’ (अवदा॰जा॰२०.१७)। प्रपत्ता=अनुष्ठाता।
  • ‘उक्तं गृहप्रपदनम्’ (आश्व॰गृ॰२.१०.१)। गृहप्रपदनम्=गृहप्रवेशः।
  • ‘अप्रवृत्ताः प्रपत्स्यन्ते समयाः शपथास्तथा’ (हरि० ३।३।३०)। प्रपत्स्यन्ते प्रवर्त्स्यन्ति प्रवर्तिष्यन्ते।
  • ‘यदि पूर्वया द्वारा राजानं प्रपादयन्ति’ (शां० ब्रा० ९।६)। प्रपादयन्ति प्रवेशयन्ति। राजानं सोमम्।
  • ‘तं (विनाशं) यदि नेच्छसि तदा प्रत्तव्यः’ (रा० ५।२१।२० इत्यत्र भूषणे)। प्रपत्तव्यः शरणीकर्तव्यः।
  • ‘ननु भरतकृता प्रतिपत्तिः कुतो नाफलत्’ (रा० १।१।३४ इत्यत्र भूषणे गोविन्दराज)। प्रपत्तिः शरणागतिः।
  • ‘एतद्वै खलु लोकद्वारम्। विदुषां प्रपदनं विरोधोऽविदुषाम्’ (छां० उ० ८।६।५)। प्रपदनं प्रापकम्।

पा

  • {प्रपा}
  • पा (पा-पाने)।
  • ‘यत्त्वा देव प्रपिबन्ति तत आप्यायसे पुनः’ (ऋ॰१०.८५.५)। पूर्णं पिबन्ति इत्यर्थः। प्रशब्दः पानस्य पर्याप्तिं कार्त्स्न्यमाह।
  • ‘ऋजुः पश्यति यः सर्वं चक्षुषा प्रपिबन्निव’ (भा॰उ॰३४.२३)। आत्मानं दर्शनेन प्रत्यग्रतां नयन् इत्यर्थः।
  • ‘प्रपित्वे अह्नः कुयवं सहस्रा’ (ऋ० ४।१६।१२)। प्रपित्वे प्रक्रमे।
  • ‘आपित्वे नः प्रपित्वे तूयमागहि’ (ऋ० ८।४।३)।

पिष्

  • {प्रपिष्}
  • पिष् (पिष्लृ-सञ्चूर्णने)।
  • ‘करेण येन प्रापनष्टि कुञ्जरान्न तेन सिंहो मशकान् प्रबाधते’ (पञ्चत॰१.२२६)। प्रशब्दः प्रकर्षे। सञ्चूर्णयति न त्ववचूर्णयति।

पुष्

  • {प्रपुष्}
  • पुष् (पुष-पुष्टौ)।
  • ‘प्रो त्ये अग्नयोऽग्निषु विश्वं पुष्यन्ति वार्यम्’ (ऋ॰५.६.६)। प्रशब्दः प्रकर्षे। पोषस्य कार्त्स्न्यमाह।

पूर्

  • {प्रपूर्}
  • पूर् (पूरी-आप्यायने)।
  • ‘क्व गतिमानुषाणां च धनुषोऽस्य प्रपूरणे’ (रा॰१.६७.२०)। प्रसज्य धनुष आकर्णकर्षण इत्यर्थः।

पृच्

  • {प्रपृच्}
  • पृच् (पृची सम्पर्के)।
  • ‘वायो तव प्रपृञ्चती धेना जिगाति दाशुषे’ (ऋ० १।२।३)। प्रपृञ्चती प्रकर्षेण सोमसम्पर्कं कुर्वती। धेना वाक्।

पॄ

  • {प्रपॄ}
  • पॄ (पॄ-पालनपूरणयोः)।
  • ‘प्र यत्समुद्रमतिशूर पर्षि पारया तुर्बशं यदुं स्वस्ति’ (ऋ॰१.१७४.९)। प्रपर्षि=पारं नय। लेटि रूपम्। स्वस्ति=क्षेमेण।
  • ‘प्र प्र यज्ञं पृणीतन’ (ऋ॰५.५.५)। कृत्स्नं कुरुतेत्यर्थः।
  • ‘शाब्दी ह्याकाङ्क्षा शब्देनैव प्रपूर्यते’ (साहित्य॰)। दुह-प्रपूरण इति धातुपाठः। पूरणाभाव एव सः। इति प्रस्थानप्रसृतिपदे विरुद्धार्थस्य दर्शनादिति शाकटायनीये धातुपाठे। स्वाम्यप्येतमेवार्थमनुवदति क्षीरतरङ्गिण्याम्। वस्तुतः स्वामिशाकटायनयोः सम एष भ्रमः। अद्यापि हैमवतीषु वसतिषु दोहनार्थे ‘दूध भरना’ इति व्यवहरन्त्याबालवृद्धं लोकाः। पयसा पात्रपूरणस्येष्टत्वाद् दोहनस्य च तदर्थत्वान्माङ्गलिकः प्रयोक्ता दोहनं प्रपूरणमाह। गां दुग्धे इत्यस्य गोः स्तनेभ्यः पयो निष्कास्य क्षारयित्वा पात्रं भरतीत्यर्थः। कामान् दुग्धे इत्यादिषु सर्वत्र प्रपूरणमेवार्थः। पूरणाभावस्तु सुतरां दुःश्लिष्ट इति न बहु वक्तव्यमस्ति।

प्याय्

  • {प्रप्याय्}
  • प्याय् (ओ प्यायी वृद्धौ)।
  • ‘प्रास्मै दिशः प्यायन्ते’ (तै० सं० १।६।११।४)। प्रप्यायन्ते=प्रवर्धन्ते समृध्यन्ति समृद्धिमत्यो भवन्ति।
  • ‘प्रप्यानश्चन्द्रमाः।’ प्यायितुमारब्धः। पूर्यमाण इत्यर्थः।

प्लु

  • {प्रप्लु}
  • प्लु (प्लुङ्-गतौ)।
  • ‘तेऽधराञ्चः प्रप्लवन्ताम्’ (अथर्व॰३.६.७)। नदीप्रवाहस्योपर्येव गच्छन्त्वित्यर्थः । स ऐक्षत।
  • ‘यमिममात्मानमप्सु प्रापिप्लवम्’ (श॰ब्रा॰६.२.१.८)। प्रावाहयमित्याह। प्रापिाप्लवम् इति ण्यत्तस्य प्लवतेर्लुङि रूपम्।
  • ‘तद्यथा लोके समुद्रं प्रप्लवेरन्’ (ऐ० ब्रा० ६।२१)। प्रप्लवो बाहुभ्यामितरतीरप्राप्तिः।

बन्ध्

  • {प्रबन्ध्}
  • बन्ध् (बन्ध्-बन्धने)।
  • ‘योऽनवद्यं कवते न तु प्रबध्नाति स घटमानः (कविः)’ (का॰मी॰१.५)। प्रबध्नाति प्रबन्धं रचयति।
  • ‘स यथा शकुनिः सूत्रेण प्रबद्धो दिशं दिशं पतित्वाऽन्यत्रायतनमलब्ध्वा बन्धमुपश्रयते’ (छां॰उ॰६.८.२)। प्रबद्धः=दृढं बद्धः।
  • ‘अविज्ञातप्रबन्धस्य वचो वाचस्पतेरपि। व्रजत्यफलतामेव… (कि॰११.४३)। प्रबन्धः पूर्वापरसम्बन्धः।
  • ‘नानद्यतनवत्क्रियाप्रबन्धसामीप्ययोः’ (पा॰३.३.१३५)। अत्र क्रियाप्रबन्धः क्रियासातत्यम्। प्रबन्धप्रहितं बाणवर्षम्=सातत्येन प्रेरिता बाणवृष्टिः।
  • ‘अनुज्झितार्थसम्बन्धः प्रबन्धो दुरुदाहरः’ (शिशु॰२.७३)। प्रबन्धः सन्दर्भः।
  • ‘अर्थै रर्थाः प्रबध्यन्ते गजाः प्रतिगजैरिव’ (कौ० अ० ९।४।२७)। प्रबध्यन्ते बध्यन्ते। अर्थाः सन्तायन्त इत्यपि। प्रबन्धः सन्तानो भवति।
  • ‘स दर्भेण सुवर्णं हिरण्यं प्रबध्य पश्चाद्धरेत्’ (जै० ब्रा० १।६२)। प्रबध्य बद्ध्वा।
  • ‘सूर्यप्रभां न सहते स्रवति प्रबद्धम्’ (सुश्रुत० उत्तर० १९।९)। प्रबद्धमिति क्रियाविशेषणम्। सततं निरन्तरमित्यर्थः।
  • ‘अभिजनप्रबन्धो वंशः’ (पा० ४।१।१६३ इत्यत्र वृत्तौ)। प्रबन्धः सन्तानः, अविच्छेदः।

बाध्

  • {प्रबाध्}
  • बाध् (बाधृ-लोडने)।
  • ‘प्रबाधिता सहसा दैव्येन’ (ऋ॰१०.१०८.९)।
  • ‘दैव्येन बलेनाग्रतः प्रेरितेति विवक्षा। बाहुभ्यां प्रबाधते कर्माणि’ (नि॰३.९)।

बुध्

  • {प्रबुध्}
  • बुध् (बुधिर्-बोधने, बुध-अवगमने)।
  • ‘अभुत्स्यु प्र देव्या वाचाहमश्विनोः’ (ऋ॰८.९.१६)। प्राभुत्सि=अजागरिषम्।
  • ‘अप्रबुद्धा पशोः शक्तिः प्रबुद्धा कौलिकस्य च। नरेश्वरे जगत्सर्वं निमीलति निमीलति… तत्प्रबोधे प्रबुध्यते (हित॰४.१३५)॥ (१) प्रबाधते प्रतनोतीत्यर्थः। प्रशब्दोऽर्थविपर्यासकृत्। न मृत्युसेनामायान्ती जातु कश्चित् प्रबाधते (=वारयति)।
  • ‘कथं न दैवं शक्येत पौरुषेण प्रबाधितुम्’ (भा॰सभा॰४६.२०)। प्रबाधितुम्=पीडयितुम्, विरोद्धुम्, निहन्तुम्। ‘दिनकरभाः प्रबाधमानं वर्षत्रम्’ (रा॰२.१०७.१८)। दिनकरभा इति द्वितीयाबहुवचने रूपम्। प्रबाधमानम्=निवारयत्।

F.N.

(१.इत्यादयः पञ्च पङ्क्तयः स्थानभ्रष्टा बाधृधातुप्रसङ्गे कर्माणीत्यतोऽनन्तरम्पाठ्याः।)

बृह्

  • {प्रबृह्}
  • बृह् (बृह बृहि-वृद्धौ)।
  • ‘प्र हि क्रतुं बृहथो यं वनुथो रध्रस्य स्थो यजमानस्य चोदौ (ऋ॰२.३०.६)।
  • ‘धृष्टद्युम्नः सोमकानां प्रबर्हः’ (भा॰आदि॰१९३.१)। प्रबर्हः श्रेष्ठः।
  • ‘तत्रोपतस्थुर्भरतप्रबर्हाः’ (भा॰वन॰२४.२५)।
  • ‘भवान् प्रबर्हः शास्त्राणां प्रगल्भश्चातिबुद्धिमान्’ (भा॰शां॰३१८.६४)। उक्तोऽर्थः।

ब्रू

  • {प्रब्रू}
  • ब्रू (ब्रूञ्-व्यक्तायां वाचि)।
  • ‘अस्येदु प्रब्रूहि प्र पूर्व्याणि कर्माणि’ (ऋ॰१.६१.१३)। प्रब्रूहि=आख्याहि। विस्तरेण शंसेत्यर्थः।
  • ‘कदा नु ते भ्रात्रं प्रब्रवाम’ (ऋ॰४.२३.६)। घोषयामेत्याह।
  • ‘प्रैतानि तक्मने ब्रूमः’ (अथर्व॰५.२२.८)। प्रब्रूमः=रहस्यनिर्भेदपूर्वं ब्रूमः।
  • ‘इदं वाव तज्ज्येष्ठाय पुत्राय पिता ब्रह्म प्रब्रूयात्’ (छां॰उ॰३.११.५)। शिष्याद् उपदिशेदित्यर्थः।
  • ‘यदचरस्तन्वा वावृधानो बलानीन्द्र प्रब्रुवाणो जनेषु’ (ऋ॰१०.५४.२)। प्रब्रुवाणः=प्रख्यापयन्।
  • ‘हुत उपसृष्टां प्रब्रूतादित्याह’ (का॰श्रौ॰४.२.१८)। प्रशब्दोऽनर्थकः। हतेऽग्निहोत्रे। उपसृष्टा=वत्सेन सङ्गता गौः।
  • ‘एतस्यैव बलिहरणस्यान्ते कामं प्रब्रुवीत भवति हैवास्य’ (गो॰गृ॰१.४.२८)। प्रब्रुवीत=शब्दतः कथयेत, न तु मनसा प्रार्थयेत। प्रशब्दः प्रकर्षे।
  • ‘स निलायत। सोऽपः प्राविशत्। तं देवताः प्रैषमैच्छन्। तं मत्स्यः प्राब्रवीत्’ (तै० सं० २।६।३१।१)। प्राब्रवीत्=अयमसाविति सनिर्भेदमकथयत्।

भक्ष्

  • {प्रभक्ष्}
  • भक्ष् (भक्ष-अदने)।
  • ‘ततः स कालः क्षुधितो देवांश्चासुरांश्च प्राभक्षयत’ (का॰सं॰कल्प॰रेवती॰५)। भक्षयितुमारब्धेत्यर्थः। प्रशब्द आदिकर्मणि।

भा

  • {प्रभा}
  • भा (दीप्तौ)।
  • प्रभातायां शर्वर्याम्=भातुं प्रवृत्तायाम्।
  • ‘अथ यदेतत् प्रातः प्रभाति’ (जै० ब्रा० १।६)। प्रभाति व्युच्छति।

भाष्

  • {प्रभाष्}
  • भाष् (भाष-व्यक्तायां वाचि)।
  • ‘अम्बाम्बेति यथा बालः शिक्षमाणः प्रभाषते’ (वा॰प॰१.१५२)। शिक्ष्यमाणोऽपभाषत इति पाठान्तरम्।

भिद्

  • {प्रभिद्}
  • भिद् (भिदिर्-विदारणे।
  • ‘उत्तमे वयसि सर्व एव (दन्ताः) प्रभिद्यन्ते’ (श॰ब्रा॰११.४.१.५)। शीयन्ते, भ्रश्यन्ति प्रपतन्तीत्याह।
  • ‘न त्वां प्रभिन्नं जानामि किमिदं भरतर्षभ’ (भा॰मौ॰८.६)। प्रभिन्नं पराजितम्।
  • ‘छिन्ना भिन्नाः प्रभिन्ना वा’ (रा॰५.२६.१०)। भिन्ना भित्तिवत्। प्रभिन्ना घटवत् शकलीकृता इत्यर्थः।
  • प्रभिन्नो गजितो मत्तः (गजः) इत्यमरः।
  • ‘प्रभिन्नमिव मातङ्गं परिकीर्णं करेणुभिः’ (भा॰वि॰१९.२९)।
  • ‘ततो महामेघमहीधराभं प्रभिन्नमत्यङ्कुशमत्यसह्यम्’ (रा॰२.१५.४६)। उक्तोऽर्थः।
  • ‘प्रभिन्ननरनारीकः समाजोत्सवशोभितः’ (रा०२.१००.४४)। प्रभेदः सन्तोष इति तिलकः। प्रहृष्टनरनारीक इति क्वचित् पाठः।
  • ‘यथा वै लाङ्गलेनोर्वरां प्रभिन्दन्ति’ (तै० सं० ६।६।७।२९)। प्रभिन्दन्ति प्रकर्षेण कृषन्ति।

भुज्

  • {प्रभुज्}
  • भुज् (भुजो-कौटिल्ये)।
  • ‘प्रभुज्य दक्षिणं जानुम्’ (वा॰गृ॰५.२५)। अन्वाच्येत्यर्थः।
  • ‘दक्षिणं जानुं प्रभुज्य’ (कौ॰सू॰१.१८)। उक्तोऽर्थः।
  • ‘प्रभुजति वाससी’ (प्रतिमायाः) (पा० १।३।६६ सूत्रे भाष्ये)।
  • ‘प्राञ्च वै त्रयस्त्रिंशो यज्ञं प्रभुजति’ (पञ्च० ब्रा० २०।२।४)। प्रकर्षेण कुटिलं करोतीत्यर्थः। प्राञ्चम् ऋजुत्वेन गच्छन्तम्।

भू

  • {प्रभू}
  • भू (भू-सत्तायाम्)।
  • ‘भुवः प्रभवः’ (पा॰१.४.३१)।
  • भवनपूर्वके निःसरणे प्रभवतिर्वर्तत इति पदमञ्जरी।
  • हिमवतो गङ्गा प्रभवति। ततः प्रादुर्भवतीत्यर्थः।
  • ‘(शराः) प्रभवन्तः शरासनात्’ (भा॰वि॰५८.४१)। निःसरन्त इत्यर्थः।
  • ‘अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्यहरागमे’ (गीता ८.१८)। प्रादुर्भवन्तीत्यर्थः।
  • वनेऽपि दोषाः प्रभवन्ति रागिणाम्। उक्तोऽर्थः
  • ‘स्वायम्भुवान्मरीचेर्यः प्रबभूव प्रजापतिः’ (शा॰७.९)। जज्ञ इत्यर्थः।
  • ततः प्रजानां पतयः प्राभवन्नेकविंशतिः (भा॰आदि॰१.३३)।
  • ‘लोभात् क्रोधः प्रभवति’ (हित॰)।
  • ‘द्वजातिपूर्वको लोकः क्रमेण प्रभविष्यति’ (भा॰वन॰१६०.८९)। प्रभविष्यतीति शक्तिसम्पन्नो भविष्यतीत्याह।
  • ‘विश्वासात्प्रभवन्त्येते’ (हित॰)। प्रभवः समर्था भवन्तीत्यर्थः।
  • ‘मदनसन्तप्ताऽपि न खल्वात्मनः प्रभवामि’ (शा॰३)। नात्मन ईश इत्याह।
  • ‘प्रभवति निजस्य कन्यकाजनस्य महाराजः’ (मालती॰४)। महाराजस्य कन्यास्वधिकार इति विवक्षति।
  • ‘विधिरपि न येभ्यः प्रभवति’ (भर्तृ॰२.९४)। दैवमपि येषां नेष्ट इत्यर्थः।
  • प्रभवति मल्लो मल्लाय। तुल्यबली भवतीत्याह।
  • ‘प्रभवन्त्योऽपि हि भर्तृषु कारणकोपाः कुटुम्बिन्यः’ (माल॰)। प्रभवः सत्योऽपीत्याह।
  • ‘कथं मृत्युः प्रभवति वेदशास्त्रविदाम्’ (मनु॰३.२)। अभिभवति प्रसहत इत्यर्थः।
  • ‘यज्ञो हैभ्यो विहृतो न प्रबभूव’ (ऐ॰ब्रा॰१.१८)। एषां सहायो न बभूव, नैतांस्तर्पयामास।
  • ‘देवेभ्यो वै सुवर्गो लोको न प्राभवत्’ (तै॰सं॰६.६.११.२)।
  • ‘प्र स्तोमो बभूत्वग्नये’ (ऋ॰१.१२७.१०)। प्रबभूतु=उपकरोतु, उपयोगं व्रजतु।
  • ‘रयिमिव पृष्ठं प्रभवन्तम्’ (ऋ॰२.१३.४)। पृष्ठवाह्यादभ्यधिकमित्यर्थः।
  • ‘पशवो रेवत्यां प्राभवन्’ (तै॰ब्रा॰१.५.२.५)। प्रभूता अतिबहुला अभवन्नित्यर्थः।
  • ‘प्राभवंस्तस्या विवेकगुणाः क्रियाः’ (राजत॰५.३५२)। उक्तोऽर्थः।
  • ‘भवत्सम्भावनोत्थाय परितोषाय मूर्छते। अपि व्याप्तदिगन्तानि नाङ्गानि प्रभवन्ति मे’ (कु॰६.५९)॥ पर्याप्तानि न भवन्ति।
  • ‘गुरुः प्रहर्षः प्रबभूव नात्मनि’ (रघु॰३.१७)। शरीरे न ममावित्यर्थः।
  • ‘मुदा शरीरे प्रबभूव नात्मनः पयोधिरिन्दूदयमूर्छितो यथा’ (भ॰पु॰१.११.६)। मुदा आत्मनः शरीरे न प्रबभूवेत्यन्वयः। शरीरेऽस्य वशो नाभूदित्यर्थः। प्रहर्षविधेयोऽभूदिति पर्यवसितोऽर्थः। इत्थम्भूतो वाग्विन्यासः प्रचरद्भाषाशैल्याऽत्यन्तं संवदत इति सुधीभिरस्यार्वाचीनत्वमवसेयम्भवति।
  • ‘(गोमिनः) प्रभावयन्ति राष्ट्रं च व्यवहारं कृषिं तथा’ (भा॰शां॰८७.३८)। प्रभावयन्ति सामर्थ्ययुतं कुर्वन्ति, एधयन्तीत्यर्थः।
  • ‘गात्रेषु वलयः प्राप्ताः श्वेताश्चैव शिरोरुहाः। जरया पुरुषो जीर्णः किं हि कृत्वा प्रभावयेत्’ (रा॰२.१०५.११)॥ शक्तिमान्त्स्यादित्याह।
  • ‘कथं च खल्वात्मबलं च तत्त्वतः प्रभावयेन्मां चरणे दशाननः’ (रा॰५.३७.३५)। अनुभवेद् विजानीयात्, परिचिनुयात्, विविञ्च्यादित्यर्थः।
  • ‘एवं मनःप्रधानानि इन्द्रियाणि प्रभावयेत्’ (रा॰२.१०५.२१)। मनः प्रधानानामिन्द्रियाणां प्रभवेत्। तानि नियच्छेदित्यर्थः।
  • ‘स यदि राजोपदस्येत्। तमत एव तत्वीरन्नतः प्रभावयेयुः’ (श॰ब्रा॰)। निष्क्रमयेयुरित्यर्थः।
  • ‘एतत् प्रबिभावयिषन्ति चतुर्थस्याह्न उद्यत्यै’ (ऐ॰ब्रा॰५.३)। प्रभुत्वमक्षरस्प कर्तुमिच्छन्तीत्याह।
  • ‘ब्रह्मणो हि प्रभूतोऽग्निरग्नेरपि च काञ्चनम्’ (भा॰अनु॰८५.५१)। प्रभूतो जात इत्यर्थान्तरम्।
  • ‘कच्चिच्च वो मूलफलं प्रभूतम् (=प्रचुरम्)।
  • ‘अकिञ्चनः सन् प्रभवः स सम्पदाम्’ (कु॰५.७७)। प्रभवः=स्रोतः।
  • ‘प्रभवार्थाय भूतानां धर्मप्रवचनं कृतम् (भा॰शां॰१०९.१०)। प्रभवो भूतिः समृद्धिः।
  • यथा नदीनां प्रभवः समुद्रः, यथाऽऽहुतीनां प्रभवो हुताशः। (समुद्रः प्रभवः सङ्गमस्थानम्। आहुतिभिर्हुताशः प्रभूतो भवति)
  • ‘यथेन्द्रियाणां प्रभवं मनोऽपि (प्रभवं प्रभु) तथा प्रभुर्नो भगवानुपेन्द्रः’ (म॰व्या॰१.५१)॥
  • ‘पुत्र दुर्योधन! अहं तव प्रभावी ननु’ (पञ्च॰१)। प्रभावोऽस्यास्ति, प्रभुः। अहं ते प्रभवामीत्यर्थः।
  • ‘देवोऽयं दिनकृत्कुलैकतिलको न प्राभविष्यद्यदि’ (हनुमन्नाटके १।५२)। प्राभविष्यद् आविरभविष्यत्, अवातरिष्यत्।
  • ‘ततो वै तेभ्यो यज्ञः प्राभवत्’ (तै० ब्रा० २।२।२।६)। प्राभवत् पर्याप्नोत्।
  • ‘रक्तबीजस्य बै क्षिप्रं वधो हि प्रभविष्यति’ (स्कन्द पु० के० ८६।६१)। अनर्थकः प्रशब्दः।
  • ‘आकाशं प्रबभूवाथ विमानैश्च सुशोभितम्’ (स्कन्द पु० के० ८८।२८)। इहाप्यनर्थकः प्रो व्यवहारं विरुन्धे।
  • ‘वाचेमे होत्रे (पोतृनेष्ट्राख्ये) प्रभावयेमेति’ (ऐ० ब्रा० ६।१४)। प्रभावयेम समृद्धे करवाम।
  • ‘ऋचाग्नीध्रीयां प्रभावयाञ्चक्रुः’ (ऐ० ब्रा० ६।१४)। प्रभूतां चक्रुरित्यर्थः।
  • ‘ओषधयो वै प्रजाः प्रभवन्तीः प्रत्याभवन्ति’ (तै० सं० १।७।२)। प्रभवन्तीः प्रभवन्त्यः प्रभुत्वोपेताः।
  • ‘द्रोणस्य पुङ्खसंकाशां प्रभवन्तः शरासनात्। एको दीर्घ इवादृश्यदाकाशे संहतः शरः’ (भा० वि० ५८।४१)॥ प्रभवन्तः=निष्क्रामन्तः=निःसरन्तः। अदृश्यत्=अदृश्यत।
  • ‘तास्ते (धानाः) सन्तूद्भ्वीः प्रभ्वीः’ (अथर्व० १८।४।४३)। प्रभ्वीः=प्रभावुकाः।
  • ‘यज्ञस्य प्रभूत्यै’ (तै० ब्रा० २।२।२।६)। प्रभूत्यै पर्याप्त्यै।

भृ

  • {प्रभृ}
  • भृ (भृञ्-भरणे)।
  • ‘प्र वां ब्रह्माणि कारवो भरन्ते’ (ऋ॰७.७२.४)। उपहरन्तीत्यर्थः।
  • ‘इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रभरामहे मतीः’ (वा॰सं॰१६.४८)। उक्तोऽर्थः।
  • ‘वयं घा ते अपूर्व्येन्द्र ब्रह्माणि वृत्रहन्। पुरूतमासः पुरुहूत वज्रिवो भृतिं न प्र भरामसि’ (ऋ॰८.६६.११)। भृतिरुपहारः। केवलस्यापि भृञ उपहरणमर्थः।
  • ‘प्र वो भ्रियन्त इन्दवो मत्सरा मादयिष्णवः’ (ऋ॰१.१४.४)।
  • अथैनं सर्वेषामनुवाकानां प्रभृतीरभिव्याहारयति। प्रभूतिरादिर्भवति। लोके प्रभृतिरव्ययमनव्ययं च। उभयथा हि प्रयोगाः प्रथन्ते।
  • ‘यज्ञस्य चक्षुः प्रभृतिः’ (अथर्व॰२.३५.५)। प्रभृतिरादिः, आदिभूतम्। इदमग्निमुद्दिश्योक्तम्।
  • सम्भाराणां प्रकर्षेण भूतिर्भरणमायोजनं प्रभृतिः, तया वर्तते यः स प्राभृतः। चिकित्सायां प्राभृतः - ‘चिकित्साप्राभृत’ इति चरके (सू॰१६.२९) गङ्गाधरः।
  • ‘भयेन प्रभृता नित्यं विचरिष्यन्ति शाश्वतम्’ (रा० ६।९४।३३)। प्रभृता भृताः पूर्णाः।
  • ‘इदं हि वां प्रभृतं मध्वो अग्रम्’ (ऋ० ७।९१।५)। प्रभृतमुपहृतमुपायनीकृतम्।
  • ‘यथा वै सोदर्कमेवं सप्रभृति’ (शां० ब्रा० २०।४)। समानोपक्रमं समानापवर्गम् इत्याह। प्रभृतिरादिः।

मथ्

  • {प्रमथ्}
  • मथ् (मथे-विलोडने)।
  • ‘सन्निपातावधूतैश्च प्रमाथोन्मथनैस्तथा’ (हरि॰२.३०.३२)। प्रमाथो (मल्लस्थ) भूमौ पातनम्। भारते (विराट॰१३.२७) अप्ययं श्लोकः पठ्यते।
  • तत्र नीलकण्ठ एव विवृणोति- निपात्य पेषणं भूमौ प्रमाथ इति कथ्यते। यत्तूत्थायाङ्गमथनं तदुन्मथनमुच्यते।

मद्

  • {प्रमद्}
  • मद् (मदी-हर्षे)।
  • ‘द्यूते पाने तथा स्त्रीषु मृगयायां च यो नरः। न प्रमाद्यति मोहात्…’ (भा॰शां॰२८८.२६)॥ द्यूते इत्यादयः सामीप्ये सप्तम्यः। न प्रमाद्यति आत्मानं विस्मृत्य तत्राभिनिविष्टो न भवतीत्यर्थः।
  • ‘मा जीवेभ्यः प्रमदः’ (अथर्व॰८.१.७)। प्रपूर्वो मदिरनवधाने वर्तते। अनवहितो मा स्म भूरित्याह।
  • नोपगच्छेत्प्रमत्तोऽपि स्त्रियमार्तवदर्शने। प्रमत्तः कामशरैः पीडितः।
  • ‘प्रमदसम्मदौ हर्षे’ (पा॰३.३.६८)।
  • ‘दश धर्मं न जानन्ति धृतराष्ट्र निबोध तान्। मत्तः प्रमत्त उन्मत्तः…’ (भा॰उ॰३३.१०१)। प्रमत्तोऽनवहितः।
  • ‘कथां प्रमत्तः प्रथमं कृतामिव (शा॰४.१)।
  • ‘यन्ति प्रमादमतन्द्राः’ (अथर्व॰२०.१८.३)। प्रमादं प्रकर्षेण मादयितारं तस्य मदकरं सोमम् इति सायणः।

मन्

  • {प्रमन्}
  • मन् (मन ज्ञाने, मनु अवबोधने)।
  • ‘वेदा एनं शब्दमर्थवन्तं कल्पयिष्यन्ति यदि कल्पयितव्यं प्रसंस्यन्ति’ (मी० १।१।५ शा० भा०)। प्रमंस्यन्ति प्रमंस्यन्ते निश्चेष्यन्ते।
  • ‘धीभि र्विप्रः प्रमतिमिच्छमानः’ (ऋ० ७।९३।४)। प्रमतिमनुग्रहबुद्धिम्।
  • ‘विभाहि ते प्रमतिं देव जामिवत्’ (ऋ० १०।२३।७)। उक्तोऽर्थः।

मन्द्

  • {प्रमन्द्}
  • मन्द् (मदि-स्तुतिसोदामदस्वप्नकान्तिगतिषु)।
  • ‘यां त्वा जनो भूमिरिति प्रमन्दते’ (वा॰म॰१२.६४)। प्रमन्दते प्रसीदति मोदत इति सायणः।

मा

  • {प्रमा}
  • मा (माङ्-माने)।
  • ‘प्रेमां मात्रां मिमीमहे’ (अथर्व॰१८.२.३९)। प्रकर्षेण मिमीहे।
  • ‘यज्ञस्य (सोमः) प्रमाऽभिमोन्मा प्रतिमा वेद्यां क्रियमाणायाम्’ (कठक॰३४.१४)। प्रमा=प्रमितिः।
  • ‘सहस्रस्य प्रामसि सहस्रस्य प्रतिमाऽसि सहस्रस्योन्मासि (वा॰सं॰१५.६५)।
  • ‘काऽऽसीत्प्रमा प्रतिमा किं निदानम्’ (ऋ॰१०.१३०.३)।
  • ‘न संस्कृतं प्र मिमीतः’ (अश्विनौ) (ऋ० ५।७६।२)। न प्रमिमीतो न हिंस्तामिति सायणः। अनेकार्थत्वाद्धातूनां हिंसार्थः।
  • ‘मीनातेः प्रयोगे विकरणभेदश्च। प्रमातुश्चेत्प्रमाणापेक्षा सिद्धिः कस्य प्रमित्सा स्यात्’ (उपदे० सा० २।९९)। प्रमातुमिच्छा प्रमित्सा।

मिह्

  • {प्रमिह्}
  • मिह् (मिह-सेचने)।
  • ‘यास्तिष्ठन्त्यः प्रमेहन्त यथैवोष्ट्रदशेरकाः’ (भा॰कर्ण॰४०.३७) प्रशब्दोऽनर्थकः।
  • ‘रजः प्रमेहान्नारीणां मासि मासि विशुध्यति। सर्वं शरीरं दोषाश्च न प्रमेहन्त्यतः स्त्रियः’ (माधव० ३३।३६ इत्यत्र मधुकोशव्याख्यानामुद्धृतम्)। प्रमेहरोगेण न ग्रस्यन्त इत्याह।

मी

  • {प्रमी}
  • मी (मीङ्-हिंसायाम्)।
  • ‘त्वां मृत्युर्दयतां मा प्रमेष्ठाः’ (अथर्व॰८.१.५)। मा प्रमेष्ठाः=मा मृथाः। प्रपूर्व एव सीङ् मृत्युमाचष्टे न केवलः, यथा प्रमायुको भवतीत्यत्र। न तस्य लोमाऽपि मीयत इत्यत्र मीयते क्षीयते छिद्यत इत्यर्थस्य दर्शनात्।
  • ‘अथ तद्भीतया राज्ञ्या रक्के प्रमयमागते’ (राजत॰६.२८४)। प्रमयो मृत्युः।
  • ‘न चाकाले प्रमीयते’ (सौन्दर० १।१५)। न प्रमीयते न प्राणैर्वियुज्यते, न म्रियते।

मुच्

  • {प्रमुच्}
  • मुच् (मुच्लृ मोक्षणे)।
  • ‘तस्मादश्वः प्रमुक्तो बन्धनमागच्छति’ (तै० ब्रा० ३।८।९।४)। प्रमुक्तः स्वेच्छासंचाराय मुक्तः। अयमेव मोक्षप्रकर्षः प्रशब्दद्योत्यः।

मुह्

  • {प्रमुह्}
  • मुह् (मुह वैचित्ये)।
  • ‘प्रमूढसंज्ञः परमापदं गतः’ (रा० २।८५।२१)। प्रमूढसंज्ञः नष्टसंज्ञः।

मृ

  • {प्रमृ}
  • मृ (मृङ् प्राणत्यागे)।
  • ‘प्रम्रियमाणे वा राजन्यमात्यः कुल्यकुमारमुख्यान् …विक्रामयेत्’ (कौ० अ० ५।६।२।२५)। प्रम्रियमाणे आसन्नमरणे।

मृज्

  • {प्रमृज्}
  • मृज् (मृजू-शुद्धौ)।
  • ‘विष्णोः स्तूपोऽसीति कर्षन्निवाहवनीयं प्रति प्रस्तरमपादत्ते… न प्रमार्ष्टि’ (आप॰श्रौ॰२.३.८.५)। न प्रमार्ष्टि=न स्पृशत्यन्येन हस्तेन।
  • ‘त्रिराचामेदपः पूर्वं द्विः प्रमृज्यात्ततो मुखम्’ (मनु॰२.६०)। शोधयेदित्यर्थः।

मृण्

  • {प्रमृण्}
  • मृण् (मृण-हिंसायाम्)।
  • ‘रुजन् परिरुजन्मृणन् प्रमृणन् प्रेहि शत्रून्’ (अथर्व॰१६.१.२, ४.३१.३)। उच्चैरुत्सादयन्नित्यर्थः।

मृष्

  • {प्रमृष्}
  • मृष् (मृष तितिक्षायाम्)।
  • ‘न तत्ते अग्ने प्र मृषे निवर्तनं यद् दूरे सन्निहाभवः’ (ऋ० ३।९।२)।

म्लुच्

  • {प्रम्लुच्}
  • म्लुच् (म्लुचु-गत्यर्थे)।
  • ‘प्रम्लोचन्ती चानुम्लोचन्ती चाप्सरसौ’ (वा॰सं॰१५.१७)। प्रम्लोचति नरं प्रत्यात्मानं दर्शयतीति प्रम्लोचन्तीति महीधरः।
  • ‘अहोरात्रे तु ते, ते हि प्र च म्लोचतोऽनु च म्लोचतः’ (श॰ब्रा॰८.६.१.१८)। उदयेते अस्तमयेते चेत्यर्थः।

यज्

  • {प्रयज्}
  • यज् (यज-देवपूजासङ्गतिकरणदानेषु)।
  • ‘देवानामुत यो मर्त्यानां यजिष्ठः स प्रयजतामृतावा’ (ऋ॰६.१५.१३)। प्रशब्दो विशेषकृन्न। यो यजेरर्थः स एव प्रयजेः।
  • ‘प्रयाजवदनूयाजं प्रायणीयं कार्यमनूयाजवत्’ (तै० सं० ६।१।५।३६)। प्रारम्भे यष्टव्याः प्रयाजाः, अनु पश्चात् समाप्तौ यष्टव्या अनुयाजाः।

यत्

  • {प्रयत्}
  • यत् (यती-प्रयत्ने)।
  • ‘प्र रश्मिभिर्यतमानाः’ (तै॰ब्रा॰२.८.२.२)। प्रयतमानाः प्रभवन्तः, प्रवृत्तिमन्तः।
  • ‘प्रयतेतार्थसिद्धये’ (मनु॰७.२१५)। चेष्टेतेत्यर्थः।
  • ‘लोमानि प्रयतिर्मम’ (वा॰सं॰२०.१३)। प्रयत्न इत्यर्थः।
  • ‘स्वधाऽवस्तात्प्रयतिः परस्तात्’ (ऋ॰१०.१२९.५)। प्रयतिः प्रयतिता।

यम्

  • {प्रयम्}
  • यम् (यम-उपरमे)।
  • ‘हुत्वा प्रयताञ्जलिः कवातिर्यङ् अग्निमुपतिष्ठेत’ (बौ॰ध॰२.२.११)। प्रयताञ्जलिः सम्पुटितकरः, बद्धाञ्जलिः।
  • ‘तापसी तु तदा शक्रमुवाच प्रयताञ्जलिः’ (भा॰अनु॰१२.४४)।
  • ‘प्रयता ऋष्टयः’ (ऋ॰१.६६.४)। प्रयता निष्कृष्टा उद्यता असयः।
  • ‘इदं दीर्घं प्रयतं सधस्थम्’ (ऋ॰१.१५४.३)। प्रयतमायामवत्।
  • ‘शतमश्वान् प्रयतान्मद्य आदम्’ (ऋ॰१.१२६.२)। प्रयतान्=प्रत्तान्=उपायनीकृतान्।
  • ‘अत्ता हवींषि प्रयतानि बर्हिषि’ (ऋ॰१०.१५.११)। प्रयतानि=निक्षिप्तानि=स्थापितानि।
  • ‘अद्धि त्वं देव प्रयता हवींषि’ (अथर्व॰१८.३.४२)। प्रयता=प्रयतानि=दत्तानि।
  • ‘य इमं परमं गुह्यं श्रावयेद् ब्रह्मसंसदि। प्रयतः…’ (कठ॰उ॰३.१७)। प्रयतः पूतः।
  • ‘प्रयतात्मा जितेन्द्रियः’ (मनु॰४.१४५)। बाह्याभ्यन्तरशौचोपेतः।
  • ‘तमनु प्रयतो व युः पुण्यगन्धवहः शुभः। ववौ संहर्षयन् पार्थम् …’ (भा॰)। प्रयतो मन्दः।
  • नीवाकस्तु प्रयामः स्यादित्यमरः। नियतं वचनं नीवाकः, तुलाकृतं न्यूनाधिक्यं क्रयादरो वेति स्वामी।
  • ‘नाप्सु सतः प्रयमणं विद्यते’ (आप॰ध॰१.५.१५.१०)। येन प्रयतो भवति तत्प्रयमणमाचमनम्। प्रयतः पूतः।
  • ‘अस्मभ्यं तद्धर्यश्व प्रयन्धि’ (तै० सं० १।७।१३)। प्रयन्धि देहि।
  • ‘प्रयम्यमानान् प्रति षू गृभाय’ (ऋ० ३।३६।२)। प्रयम्यमानान् प्रदीयमानान् उपह्रियमाणान् इति सायणः। पूयमानान् इत्यर्थग्रहणे कः प्रतिबन्धः। प्रयतः पूतो भवति।
  • ‘प्रयतपरिग्रहद्वितीयः’ (रघु० १।९५)। प्रयतो नियतो नियमवान्, व्रती।
  • ‘पुष्पेण प्रयता स्नाता निशि कुन्ती चतुष्पथे’ (भा० आदि० १२०।३९)। प्रयता व्रतवती। पुष्पेण=आर्तवोपलक्षिता।
  • ‘पाणी प्रयन्तारा स्तुवते राध इन्द्र’ (ऋ० ४।२१।९)। प्रयन्तारा प्रयन्तारौ प्रदातारौ। तृन्नन्तमेतत्।
  • ‘प्रभूतैधोदके ग्रामे यत्रात्माधीनं प्रयमणं तत्र वासो धर्म्यो ब्राह्मणस्य’ (सत्या० श्रौ० २६।४।८१)। प्रयमणं प्रायत्यं मूत्रपुरीषप्रक्षालनादीनि।
  • ‘लोमानि प्रयतिर्मम’ (तै० ब्रा० २।६।५।८)। प्रयतिः शुद्धिः। शुद्धिकराणि सन्त्वित्यर्थः।

यस्

  • {प्रयस्}
  • यस् (यसु-प्रयत्ने)।
  • ‘उखा चिदिन्द्र येषन्ती प्रयस्ता फेनमस्यति’ (ऋ॰३.५३.२२)। उत्सिच्यमानेत्यर्थः।
  • प्रयस्तं स्यात् सुसंस्कृतम् इत्यमरः। सुष्ठु राद्धम्।
  • ‘प्रायसदुत्प्लवाय सः’ (नै॰१.१२५)। प्रयत्तवान् इत्यर्थः।

या प्रापणे

  • {प्रया प्रापणे}
  • या-प्रापणे (प्रापणमिह गतिः)।
  • ‘प्र ये ययुरवृकासो रथा इव’ (ऋ॰७.७४.६)। प्रययुः=यानमारब्धाः ,प्रवव्रजुः।
  • ‘ततः प्रायामहं तेन स्यन्दनेन’ (रा॰गोरेसियो॰ २.४४.२५), (भा॰३.१२०.६८)।
  • ‘रथेन खरयुक्तेन प्रयातो दक्षिणामुखः’ (रा॰श्लेगल॰२.६६.१५)। प्रयातः प्रस्थितः।
  • ‘प्रजासु कः केन पथा प्रयातीत्यशेषतो वेदितुमस्ति शक्तिः’ (शा॰६.२६)। सत्पथेन विपथेन वा याति, सद्व्यवहरत्यसद्वेत्यर्थः।
  • ‘वियति बहुतरं स्तोकमुर्व्यां प्रयाति (शा॰१)। प्रयाति प्रसरति अग्रे धावति।
  • यद्येनमायतनाद् बाधेरन् वा प्र वा यापयेयुः (श॰ब्रा॰११.८.१३)। प्रयापयेयुः निष्क्रमयेयुः बहिर्गमयेयुः।
  • ‘राजानं प्रयियासन्तम्’ (श॰ब्रा॰१४.७.१.४४)। प्रयातुं प्रस्थातुमिच्छन्तम्।
  • ‘मार्गं तावच्छृणु कथयतस्त्वत्प्रयाणानुरूपम्’ (मेघ॰१३)। प्रयाणं यात्रा।
  • ‘प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः’ (गीता ७.३०)।
  • ‘कामं पुरः शुक्रमिव प्रयाणे’ (कु॰३.४३)। प्रयाणेऽभियानेऽभिक्रमे।
  • ‘प्रायात्रिकं चानयताशु सर्वम्’ (भा॰द्रोण॰२.२९)। प्रयात्रा युद्धार्थं प्रयाणम्। तदर्हम् प्रायात्रिकम्।
  • ‘यथाकाममप्रयाप्यः (ऐ० ब्रा० ७।२९)। अप्रयाप्यः=अप्रेष्यः=अनिर्वास्यः।

याच्

  • {प्रयाच्}
  • याच् (टु याचृ-याच्ञायाम्)।
  • ‘एवं प्रयाचति तदा भास्करे मुनिसत्तमः’ (भा॰अनु॰९६.१)। प्रशब्दोऽनर्थकः।
  • ‘स पारिजातं यदि न प्रदास्यति प्रयाच्यमानो भवता’ (हरि॰२.६८.३९)। सानुबन्धं प्रार्थ्यमान इत्यर्थः स्यात्।

यु

  • {प्रयु}
  • यु (यु-मिश्रणामिश्रणयोः)।
  • ‘श्रीरसीति पार्श्वेन वसाहोमं प्रयौति’ (आप॰श्रौ॰७.८.२५.४)। प्रयौति घट्टयति, लोडयति।
  • ‘विष्णोः स्तूपोऽसीति कर्षन्निवाहवनीयं प्रति प्रस्तरमपादत्ते नोद्यौति न प्रयौति’ (आप॰श्रौ॰२.३.८.५)। न प्रयौति=न पुरस्तात् सारयति।
  • ‘प्रयुतो न पातारः’ (ग्रावाणः)। प्रयुतः=घट्टयितारः। प्रपूर्वस्य यौतेः क्विपि रूपम्।
  • ‘इति (वपां) प्रयौति’ (भा॰श्रौ॰७.१४.१२)। प्रयौति अपनयति उत्खिदति।
  • ‘युवा प्रयौति कर्माणि (नि॰४.१९)। प्रयौति सम्मिश्रयति अविवेकित्वात्।
  • ‘प्रयुवती गच्छति’ (नि॰९.२६)। '
  • नकिष्टं कर्मणा नशन्न प्रयोषत् (ऋ॰८.३१.१७)। प्रयोषत्=पृथक्करोति=एकतः करोति।
  • ‘धेनुं चरन्तीं प्रयुतामगोपाम्’ (ऋ॰३.५७.१)। वा॰सं॰११.७५ इत्यत्र प्रयुतां वियुक्तां व्रजाद् भ्रष्टामाह।
  • ‘रात्रिं रात्रिमप्रयावम्’ (अथर्व॰१९.५५.१)। अप्रयावमिति सायणधृतः पाठः। अप्रयातमिति पाठान्तरम्। अप्रयावम्=अप्रच्छिद्या। इह प्रयुर्विश्लेषे वर्तत इत्यभिप्रेतं सायणस्य।
  • ‘स्वप्नश्चेदनृतस्य प्रयोता’ (ऋ॰७८६.६)।
  • ‘पार्श्वेन वसाहोमं प्रयौति’ (तै० सं० ६।३।११।५७)। होतव्यां वसां प्रयौति आलोडयति। बौधायनश्रौतसूत्रे (४।९) प्येष ग्रन्थः स्थितः।
  • ‘यमुना प्रयुवती गच्छतीति वा’ (नि० ६।२६।१)। पुस्तके धृतचरोऽयङ् ग्रन्थः, अर्थो न निर्दिष्टः। स निर्दिश्यते। प्रयुवती संभिश्रयन्ती स्वानि जलानि।
  • ‘सर्वाणि ग्राम्याण्यारण्यान्याज्येन प्रयुत्य’ (वाराहश्रौ० २।२।४।९)। प्रयुत्य संमिश्र्य।
  • ‘स्वप्नश्च नेदनृतस्य प्रयोता’ (ऋ० ७।८६।६)। पुस्तके न्यस्तपूर्वमपीदमर्थनिर्देशाय पुनर्दीयते। प्रयोता प्रेरयिता। प्रयोक्ता।

युच्छ्

  • {प्रयुच्छ्}
  • युच्छ् (युच्छ-प्रमादे)।
  • ‘या सम्राजा मनसा न प्रयुच्छतः’ (ऋ॰१०.६५.५)। यौ सम्राजौ मनसाऽसन्निहितौ न भवत इत्यर्थः। न प्रमाद्यत इति धातूक्तोऽर्थः।
  • ‘वेननन्ता न प्र युच्छतः। धृतव्रताय दाशुषे’ (ऋ॰१.२५.६)। केवलस्य युच्छतेस्त्वपसरणमपसर्पणं वाऽर्थः- ‘न यो युच्छति तिष्यो यथा दिवः’ (अथवं॰५.५४.१३)।
  • ‘कदाचन प्रयुच्छसि’ (तै० सं० १।४।२२)। कदाचन न युच्छसि न प्रमाद्यसि। प्रशब्दो धात्वर्थस्य निवृत्तिं करोति प्रस्मरणं प्रस्थानं प्रपूरणमित्यत्र यथेति भट्टभास्करः। प्रशब्दो निषेधार्थ इति च सायणः।
  • ‘अप्रयुच्छन् पुर एतु प्रजानन्’ (तै० ब्रा० २।४।१।६)। अप्रयुच्छन् अप्रमाद्यन्।

युज्

  • {प्रयुज्}
  • युज् (युजिर्-योगे)।
  • ‘प्र यदा मर्त्यान् प्रयुनक्षि धीरः’ (अथर्व॰१९.५६.१)। सम्बध्नासीत्याह।
  • ‘एते देवास्त्रिः संवत्सरस्य प्रयुज्यन्ते’ (तै॰ब्रा॰१.६.२.२)। प्रयुज्यन्ते पूज्यन्त इज्यन्ते कीर्त्यन्ते सत्क्रियन्त इत्यर्थः।
  • ‘यज्ञादेव तद्यज्ञं प्रयुङ्क्ते’ (तै॰ब्रा॰३.२.५.६)। प्रयुङ्क्ते=उद्धरति=उपादत्ते।
  • ‘यज्ञपात्राणि प्रयुनक्ति’ (आप॰श्रौ॰१.४.११.५)। प्रयुनक्ति=व्यस्यति=निधत्ते।
  • ‘ये प्रचलैर्विलोचनैस्तवाक्षिसादृश्यमिव प्रयुञ्जते’ (कु॰५.३५)। अभिनयेन दर्शयन्ति।
  • ‘उत्तरं रामचरितं तत्प्रणीतं प्रयोक्ष्यते’ (उत्तर॰१.२)। अभिनयेन दृश्यतां नेष्यत इत्यर्थः।
  • ‘इहापि तावद् धनसम्पदर्थिनः प्रयुञ्जते धनं दुरात्मनि (अवदा॰ब्रह्मजा॰१७)। वृद्ध्यर्थं धनं ददतीत्यर्थः।
  • ‘धेनुरुष्ट्रो वहन्नश्वो यश्च दम्यः प्रयुज्यते’ (मनु॰८.१४६)। वृद्ध्यर्थं कृषकादये कञ्चित्कालं प्रदीयते।
  • ‘प्रायुङ्क्त राज्ये बत दुष्करे माम्’ (भट्टि॰३.५१)। न्ययुङ्क्तेत्याह।
  • ‘आशिषं प्रयुयुजे न वाहिनीम्’ (रघु॰११.६)। व्यवजहारेत्यर्थः।
  • ‘गृहस्थधर्मान् प्रयुञ्जान इमानि व्रतान्यनुकर्षेत्’ (गौ॰ध॰१.९.१)। प्रयुञ्जानः=अनुतिष्ठन्।
  • ‘तादृग्भार्यायां मृतायामुत्सवः कर्तुं प्रयुज्यते’ (पञ्चत॰)। प्रयुज्यते=युज्यते। अस्थाने प्रशब्दः।
  • ‘शक्वरीं श्वो यज्ञे प्रयोक्तासे’ (त॰सं॰२.६.२.३)।
  • ‘सर्वेभ्यः कामेभ्यो यज्ञः प्रयुज्यते’ (तै॰सं॰२.४.११.२)। प्रयुज्यते=अनुष्ठीयते।
  • ‘(पृषतीः) प्रयुञ्जती दिव एति ब्रुवाणा’ (ऋ॰५.४७.१)। प्रयुञ्जती=युञ्जती=वाहने प्रसजतीत्यर्थः।
  • ‘उष् ये ते प्र यामेषु युञ्जते मनः’ (ऋ॰१.४८.४)। प्रयुञ्जते=युञ्जते युक्तं कुर्वन्तीत्यर्थः।
  • ‘तेनाभिवादं भवतां न प्रयुञ्जे’ (भा॰आदि॰८९.२)। प्रयुञ्जे कुर्वे।
  • ‘तेभ्यः प्रयुज्यतां पूजा प्रोवाच मधुसूदनः’ (भा॰उ॰८३.६३)। प्रयुज्यताम् क्रियताम्।
  • ‘गृणातिस्त्ववपूर्वो न प्रयुज्यत इति भाष्यम्’ (१.३.५१)। न व्यवह्रियत इत्याह।
  • ‘भर्त्रा ध्रुवदर्शनाय प्रयुज्यमाना’ (भट्टि॰७.८५)। प्रयुज्यमाना=प्रेर्यमारणा।
  • ‘नैकं प्रयोजनं योगारम्भं प्रयोजयति’ (भाष्यम्)। प्रयोजयति=प्रवर्तयति=कारयति। योगारम्भस्य निमित्तं भवतीत्यर्थः।
  • ‘लिङ्गविशिष्टस्य ग्रहणमेकशब्दह्रस्वत्वं प्रयोजयति’ (६.३.६२ सूत्रे वृत्तिः)। प्रयोजयति=प्रवर्तयति। एकशब्दह्रस्वत्वं प्रयोजनमुद्दिश्य क्रियत इत्याह।
  • ‘अनुतिष्ठेत्समारब्धमनारब्धं प्रयोजयत् (कारयेत्)’ (का॰नी॰सा॰११.५७)।
  • ‘साम्नैवार्थं ततो लिप्सेत् कर्म चास्मै प्रयोजयेत्’ (भा॰वन॰३२.५५)।
  • ‘मा स्म लुब्धांश्च मूर्खांश्च कामार्थेषु प्रयूयुजः’ (भा॰शां॰७१.८)। मा स्म व्यापीपरः, मा नियुक्था इत्यर्थः।
  • ‘भोजयेत्सह भृत्यैस्तावान्नृशंस्यं प्रयोजयन्’ (मनु॰३.११२)। आनृशंस्यं प्रयोजयन् अनुकम्पां दर्शयन्नित्याह।
  • ‘अनुजानीहि मां तात आशिषश्च प्रयोजय’ (भा॰भीष्म॰४३.३७)। प्रयोजय=प्रयुङ्क्ष्व।
  • ‘एकः शब्दः सम्यग्ज्ञातः शास्त्रान्वितः सुप्रयुक्तः स्वर्गे लोके कामधुग्भवति’ (भाष्ये ६.२.८४)। सुव्यवहृतः, सुप्रयोगविषयीकृतः।
  • ‘एष एतेषां पशूनां प्रयुक्ततमो यदजः’ (तै॰ब्रा॰२.८)। व्यवहृततमः। भूयिष्ठं हि वहनकर्मणि व्यापार्यते इत्यर्थः।
  • ‘प्रयुक्तपाणिग्रहणोपचारौ’ (रघु॰७.८६)। प्रयुक्तः कृतः, उपचारः सत्कारः (आचारः) ययोस्तौ।
  • ‘प्रयुक्तं राक्षसैः सह वैरम्… (रा॰३.६७.१२)। प्रयुक्तं प्रक्रान्तम्, प्रारब्धम्।
  • ‘अथ माढव्यं प्रति भवता किमेवं प्रयुक्तम्’ (शा॰७)। प्रयुक्तं व्यवहृतम्, आचरितम्।
  • ‘आरोहणार्थं नवयौवनेन कामस्य सोपानमिव प्रयुक्तम्’ (कु॰१.३९)। प्रयुक्तं निर्मितम्।
  • ‘अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः (गीता ३.३६)। प्रयुक्तः=प्रेरितः।
  • ‘भावप्रयुक्तया युक्तया तया गुणकथया’ (अवदा॰जा॰८)। भावप्रयुक्तया=सद्भावप्रेरितयेत्याह।
  • ‘परप्रयुक्तः पुरुषो विचेष्टते’ (भा॰उ॰३२.१३)। उक्तोऽर्थः।
  • ‘नापोऽभ्यवयन्त्यध्वं जानुभ्यामगुरुप्रयुक्ताः’ (गो॰गृ॰३.१.३२)। गुरुणाऽननुज्ञाताः।
  • ‘शते प्रयुक्तेऽशीतिभागं प्रतिमासं वृद्धिं गृह्णीयात्’ (मनु॰८.१४० इत्यत्र कुल्लूकः)। प्रयुक्ते वृद्ध्यर्थं दत्ते (धने)।
  • ‘दीयमानं न गृह्णाति प्रयुक्तं यः स्वकं धनम्’ (अग्निपु॰२५५.४)। उक्तोऽर्थः।
  • ‘गोखरोष्ट्रप्रयुक्तैश्च मानैः’ (भा॰शल्य॰३५.२३)। प्रयुक्तैः=युक्तैः। प्रायेरणात्रार्थे प्रशब्दो न प्रयुज्यते।
  • ‘उद्धारोऽर्थप्रयोगस्तु कुसीदं वृद्धिजीविका’ (अमरः)।
  • ‘अन्यः प्रयोगे स्यादत्र किल्बिषी जन्तुनाशने’ (भा॰अनु॰१.४६)। प्रयोगे प्रवर्तने।
  • इदं वयं मृच्छकटिकं नाम प्रकरणं प्रयोक्तुं व्यवसिताः। प्रयोक्तुम् अभिनयेन दृश्यतां नेतुम्।
  • ‘उत्तमर्णाधमर्णौ द्वौ प्रयोक्तृग्राहकौ क्रमात्’ (अमरः)। इह यो वृद्ध्यर्थं धनमन्यस्मै ददाति स प्रयोक्तेत्युक्तः।
  • ‘परदारप्रयोक्तारस्ते वै निरयगामिनः। हर्त्रभिमर्शिनोर्दृताः…’ (भा॰अनु॰२३.६१)॥ परदाराणां प्रयोक्तारः=प्रेरयितारः, दुष्कर्मणि प्रवर्तयितारः।
  • ‘न चावज्ञा प्रयोक्तव्या कामक्रोधवशादपि’ (रा॰१.१५)। प्रयोक्तव्या कर्तव्या।
  • ‘समानम् आ पात्राणां प्रयोजनात्’ (भा॰श्रौ॰६.१६.६)। प्रयोजनं क्रमिका रचना क्रमेण न्यासः।
  • ‘शरीरं सर्वे प्राविशन्नायुजः प्रयुजो युजः’ (अथर्व॰११.८.२५)। अत्र सायणः- युजो योजनानि। उपसर्गवशादेषामर्थभेदोऽवगन्तव्य इति। स च सायणस्याप्यनवगतः। अवगतश्चेदभविष्यत्कथं नावक्ष्यत्।
  • ‘फाल्गुन्यां पौर्णमास्यां प्रयुङ्क्ते’ (शां० ब्रा० ५।१)। प्रयुङ्क्ते प्रारभते।
  • ‘तेभ्यः पूजां प्रयुञ्जीथा ब्राह्मणेभ्यः परन्तप’ (भा० अनु० ६०।९)। प्रयुञ्जीथा आचर, अनुतिष्ठ।
  • ‘पूजा प्रयुज्यतामाशु मुनीनां भावितात्मनाम्’ (भा० उ० ९४।४४)। प्रयुज्यतां क्रियतां रच्यतां विधीयताम्।
  • ‘कुवलयनयनेऽर्जुनः कफोऽब्धेः सह सितया सुनिराचरीकरोति। प्रियकरमिव कामिनी नवोढा लघुकुचशालिनि वक्षसि प्रयुक्तम्’ (वैद्यजीवने ३।२३)। प्रयुक्तं व्यापारितम्। चरीकरोतीति वाग्भ्रंशः सदृशो वैद्यस्य।
  • ‘परप्रयुक्ते न कथं विभावयेत्’ (भा० शां० १४०।७०)। परप्रयुक्ते परेणाभियोगे कृते सतीति नीलकण्ठः।
  • ‘स्तुति निन्दाप्रयुक्तमध्यारोपितार्थवचनमधिकार्थवचनम्’ (पा० २।१।३३ सूत्रे वृत्तौ)। प्रयुक्तं प्रवर्तितं कारितम्।

युध्

  • {प्रयुध्}
  • युध् (युध-सम्प्रहारे)।
  • ‘आदित्यं वोसनसं वाऽवस्थाय प्रयोधयेत्’ (आश्व॰गृ॰३.१२.१६)। प्रयोधयेत्=युद्धमारभेत। प्रशब्द आदिकर्मणि।
  • ‘शूरा इव प्रयुधः प्रोत युयुधुः’ (ऋ॰५.५९.५)। उक्तोऽर्थः।
  • ‘सेनामुखे प्रयुद्धानां भीमसेनो भविष्यति’ (भा॰उ॰५८.२३)। प्रयुद्धानां युध्यमानानाम्।

रभ्

  • {प्ररभ्}
  • रभ् (रभ-राभस्ये)।
  • ‘तां पूष्णः सुमतिं वयं वृक्षस्य प्र वयामिव। इन्द्रस्य च रभामहे’ (ऋ॰६.५७.५)। प्ररभामहे गृह्णीमः।

रम्

  • {प्ररम्}
  • रम् (रमु-क्रीडायाम्)।
  • ‘रात्रिः कस्मात् प्ररमयति भूतानि नक्तञ्चराणि’ (नि॰२.१८.२)। प्रकर्षेण रमयति=विनोदयति=प्रमोदयति।

रिच्

  • {प्ररिच्}
  • रिच् (रिचिर्-विरेचने)।
  • ‘दिवश्चित्ते प्ररिरिचे महित्वम्’ (ऋ॰१.५९.५)।
  • ‘अस्येदेव प्ररिरिचे महित्वं दिवस्पृथिव्याः पर्यन्तरिक्षात्’ (अथर्व॰२०.३५.९)। अत्र प्रेत्युपसर्गो धात्वर्थं बाधते प्रस्मरणं प्रस्थानम् इत्यत्र यथा।
  • ‘प्र ते मह्ना रिरिचे रोदस्योः’ (ऋ० ६।२४।३)। प्ररिरिचे अतिरिरिचे।
  • ‘आसन्न इव वा ऽयं लोकः। प्ररिक्त इवासावन्यः’ (तै० ब्रा० २।३४)। प्ररिक्तो दूरस्थो विप्रकृष्टः।

री

  • {प्ररी}
  • री (री-गतिरेषणयोः)।
  • ‘यद् देवस्य शवमा प्रारिणा असुम्’ (ऋ॰२.२२.४)। प्रारिणाः=उपयुङ्क्याः।

रुच्

  • {प्ररुच्}
  • रुच् (रुच-दीप्तावभिप्रीतौ च)।
  • ‘प्र रोच्यस्या उषसो न सूरः (ऋ॰१.१२१.६)। न प्ररोचि=नाभात्=नोदभासत।
  • ‘किं प्ररोचते’ (श॰ब्रा०१.६.२.३)। प्ररोचते=रुचिविषयी भवति।
  • ‘अथैभ्योऽग्निः प्रारोचत’ (श॰ब्रा॰३.२.३.९)। अग्निस्तैः समगंस्तेत्यर्थः।
  • ‘य एभ्यो यज्ञं प्रारोचयत्’ (श॰ब्रा॰१.६.२.५)।
  • ‘यज्ञमेषां रुचविषयतामापादयत्। तेभ्यः (ऋषिभ्यः) देवा वैव प्ररोचयाञ्चक्रुः स्वयं चैव दध्रिरे’ (श॰ब्रा॰१.६.२.३)। ऋषिषु रुचिमुत्पादयाञ्चक्रुः। विधिविहितमर्थवादप्ररोचितं मन्त्रेण स्मृतमभ्युदयकारि भवति। प्ररोचितम्=प्रशस्तम्, स्तुत्या प्रेरितम्।
  • ‘क्षुधां करोति प्ररुचिं तनोति’ (वैद्यजीवने १।३५)। प्ररुचिः प्रकृष्टा रुचिः।

रुद्

  • {प्ररुद्}
  • रुद् (रुदिर्-अश्रुविमोचने)।
  • ‘श्वानः प्ररुदन्त इव’ (व॰सं॰४६.६८)।
  • ‘न गर्भस्थः प्ररोदिति’ (सुश्रुते १.३१९)। उभयत्र प्रशब्दो न धात्वर्थं विशिनष्टि।
  • ‘अथाकस्मात्प्रववृते तया साध्व्या प्ररोदितुम्’ (कथा॰१०.३६)। प्रशब्दः प्रकर्षे। सा साध्वी उच्चैः क्रन्दितुं प्रवृत्तेत्यर्थः।

रुध्

  • {प्ररुध्}
  • रुध् (रुधिर्-आवरणे)।
  • ‘अतीर्थेन वा अयमध्वर्युराहुतीः प्रारौत्सीत्’ (श॰ब्रा॰११.४.२.१४)। प्रारौत्सीत्=अभ्रंशयत्।

रुह्

  • {प्ररुह्}
  • रुह् (रुह-बीजजन्मनि)।
  • ‘काण्डात्काण्डात् प्ररोहन्ती’ (वा॰सं॰१३.२०)। अङ्कुरानुद्गमयन्ती।
  • ‘न ह्यनुप्तं प्ररोहति’ (भा॰अनु॰१६३.११)। नाङ्कुरितं भवतीत्याह।
  • न पर्वताग्रे नलिनी प्ररोहति। न हि दुर्बलदग्धानां कुले किञ्चित्प्ररोहति। अत्र प्ररोहणं वृद्ध्युपक्रममाहोपचारेण। न समृध्यति नैधत इत्याह।
  • ‘गोभिः पशुभिरश्वैश्च कृष्णया सुसमृद्धया। कुलानि न प्ररोहन्ति यानि हीनानि वृत्ततः’ (भा॰५.१२९०)।
  • ‘कुर्वन्ति सामन्तशिखामणीनां प्रभाप्ररोहास्तमयं रजांसि’ (रघु॰६.३३)। प्ररोहाः=अङ्कुराः।
  • ‘मूढाः प्ररूढिं नोज्झन्ति द्रोहश्रीलोभमोहिताः’ (राजत॰६.१४६)।
  • ‘यास्ते रुहः प्ररुहो यास्त आरुहः’ (अथर्व॰१३.१८)। प्ररुहः=अभिनवाः शाखाः।
  • ‘यथा प्ररोहन्ति तृणान्ययत्नतः क्षितौ प्रयत्नात्तु भवन्ति शालयः’ (सौन्दर० ९।३९)। प्ररोहन्ति अङ्कुरितानि भवन्ति।

लप्

  • {प्रलप्}
  • लप् (लप-व्यक्तायां वाचि)।
  • तै॰ब्रा॰२.२.१०.३ इत्यत्र प्रपूर्वस्य लपेर्मूढोक्तौ प्रयोगोऽव्यक्तोक्तौ वा।
  • ‘प्रलपत्येष वैधेयः’ (शा॰२)।
  • ‘प्रलापोऽनर्थकं वचः’ (अमरः)।
  • न तत्र प्रलपेत्प्राज्ञो बधिरेष्विव गायनः। अत्र प्रशब्दोऽर्थान्तरकृन्न।
  • ‘आर्ताहं प्रलपामीदम्’ (भा॰वन॰३२.२)। अत्र प्रलापो विलाप उक्तः।
  • ‘अप्युन्मत्तात्प्रलपतो बालाच्च परिजल्पतः’ (भा॰उ॰३४.३२)। प्रलपतोऽनर्थकं लपत इत्यर्थः।
  • ‘सोऽद्य मां प्रलपिष्यति’ (वि॰पु॰५.१७.१०)। मया संलपिष्यतीत्यर्थः। प्रशब्दोऽस्थाने।
  • ‘आलापाश्च प्रलापाश्च’ (अथर्व॰११.१०.२५)। प्रलापा अनर्थकानि वचनानि।
  • ‘नाभानेदिष्ठो रपति प्र वेनन्’ (ऋ० १०।६१।१८)। प्ररपति प्रलपति स्तौति।

लभ्

  • {प्रलभ्}
  • लभ् (डुलभष्-प्राप्तौ)।
  • ‘त्वामेव कुरवो व्यक्तं प्रलम्भन्ते जनार्दन’ (भा॰सभा॰३७.२८)। प्रलम्भन्ते (=प्रलभन्ते)=विप्रलभन्ते=वञ्चयन्ते। अत्रार्थे ‘गृधिवञ्च्योः प्रलम्भने’ (पा॰१.३.६९) इति सूत्रं मानम्।
  • ‘मया प्रलब्धो ब्रह्मर्षिर्नारदः सुमहातपाः’ (भा॰वन॰६६.५)। वञ्चितः, अतिसहित इत्यर्थः।
  • ‘इत्यब्रुवन्त ते राजन् प्रलब्धास्तैर्दुरात्मभिः’ (भा॰मौ॰१.२२)। उक्तोऽर्थः।
  • ‘मेने प्रलब्धमात्मानं कृष्णेनामित्रघातिना’ (भा॰आश्व॰५५.२३)।
  • ‘एवं प्रलब्धा मुनयस्तानूचुः कुपिता नृप’ (भा॰पु॰११.१.१६)। इदं प्रपूर्वस्य लभेरतिसन्धानार्थे प्रयोगप्राचुर्यं व्यनक्ति। पूर्वे मुनय एकोपसर्गपूर्वस्य प्रयोगमरोचयन्त, न तु विप्राभ्यामुपसृष्टस्य, यथाऽद्यत्वे।
  • ‘तैरिमां प्रापितो योनिं प्रलब्धः स्वेन पाप्मना’ (भा॰पु॰१०.३४.१३)।
  • प्रलब्धैः कुपितैरिति श्रीधरः। इदमर्थस्वीकारे कवेः स्वाच्छन्द्यमेव हेतुः।
  • ‘प्रलब्धश्च हृषीकेशस्तच्च कर्माविचारितम्’ (भा॰शल्य॰५.९)। प्रलब्धोऽवमानित इत्यर्थो भाति।
  • ‘एवं प्रलम्भान् विविधान् प्राप्य’ (भा॰सभा॰४७.१४)। प्रलम्भान्=वञ्चनानि।
  • ‘अनसूयुर्दुष्प्रलम्भः स्यात्’ (आप॰ध॰१.७.२०.५)। मिथ्याफलाख्यानेन वञ्चयितुं न शक्यः स्यादित्यर्थः।

लिख्

  • {प्रलिख्}
  • लिख् (लिख अक्षरविन्यासे)।
  • ‘या प्रलिखते तस्यै खलतिः’ (तै० सं० २।५।१।७)।
  • ‘या केशान् प्रलिखति तस्यै खलतिः’ (पा० सू० २।३।६२ वृत्तौ)।

लिप्

  • {प्रलिप्}
  • लिप् (लिप उपदेहे)।
  • ‘भस्मप्रलिप्तदेहाय नकुलाय कपालिने’ (स्कन्दपु० के० ८६।४८)। प्रलिप्तोऽनुलिप्तः।
  • ‘स त्रिविधः–प्रलेपः प्रदेह आलेपश्च’ (सुश्रुत० सूत्र० १८।३)। तेषामन्तरम्–प्रलेपः शीतस्तनुरविशोषी विशोषी वा। प्रदेहस्तूष्णः शीतो बहलो ऽबहुरविशोषी च। मध्यमो ऽत्रालेपः।

ली

  • {प्रली}
  • ली (लीङ्-श्लेषणे)।
  • ‘अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्यहरागमे। रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसञ्ज्ञके’ (गीता ८.१८)॥ प्रलीयन्ते=विलीयन्ते, तिरोभवन्ति, नश्यन्ति।
  • ‘एकः प्रजायते जन्तुरेक एव प्रलीयते’ (मनु॰२.२४०)। प्रलीयते म्रियते।
  • ‘सह मेघेन तडित्प्रलीयते’ (कु॰४.३३)। तिरोधत्ते इत्याह।
  • ‘असितं ते प्रलयनम्’ (अथर्व॰१.२३.३)। प्रलीयते प्रकर्षेण लीयते संश्लिष्यत्यत्रेति प्रलयनमुत्पत्तिस्थानम् इति सायणः।

लुप्

  • {प्रलुप्}
  • लुप् (लुप्लृ-छेदने)।
  • ‘दर्भान् केचित्प्रलुम्पन्ति हस्तः’ (हरि॰३.३२.१७)।
  • ब्राह्मणस्य हविर्ध्वाङ्क्षैः प्रलुप्यते। अपह्रियत इत्यर्थः। ध्वाङ्क्षा विलुम्पन्तीति पाठान्तरम्।

लुभ्

  • {प्रलुभ्}
  • लुभ् (लुभ-गार्ध्ये)।
  • ‘यन्मे माता प्रलुलुभे विचरन्त्यप्रतिव्रता’ (मनु॰९.२०)। प्रातिवत्यं धर्ममतीयाय, पुमन्तरे लुब्धा बभूव।
  • ‘त्रिस्तनी कुब्जेन सह प्रलुब्धा’ (पञ्चत॰)। कुब्जे बद्धभावाऽजनीत्यर्थः।
  • ‘यद्वयं संशितात्मानं प्रलोब्धं त्वामिहागताः’ (भा॰आदि॰२१७.३)। प्रलोभयितुं धर्माद् विभ्रश्यात्मनि (स्वस्मिन्) प्रणयवन्तं कर्तुमित्यर्थः।

लू

  • {प्रलू}
  • लू (लू छेदने)।
  • ‘विशाखदामानि प्रलवांश्च’ (सत्या० श्रौ० २४।२।६)। प्रलवाः स्वयं विशीर्णानि तृणानि।

वच्

  • {प्रवच्}
  • वच् (वच-परिभाषणे)।
  • ‘प्र नु वोचं चिकितुषे जनाय मा गामनागामदितिं वधिष्ट’ (ऋ॰८.९०.१५)। प्रवोचम्=प्रब्रवीमि=उपदिशामि=अनुशास्मि।
  • ‘तं प्रवक्ष्यामि भारतीम्’ (रा॰२.६४.३७)। प्रवक्ष्यामि=वक्ष्यामि। प्रशब्दो धात्वर्थानुवादी।
  • ‘ओमिति ब्रह्मणः प्रवक्ष्यन्नाह’ (तै॰उ॰१.८)।
  • ‘यो मा प्रावोचः’ (तै॰सं॰२.६.६.१)। यो मद्रहस्यमन्यस्मा आख्यद् इत्याह।
  • ‘मा नो अग्ने दुर्भृतये प्रवोचः’ (ऋ॰७.१.२२)। मा नः परादाः मा नः परस्मै रीरध इत्याह।
  • ‘प्र णः पूर्वस्मै सुविताय वोचत’ (ऋ॰८.२७.१०)।
  • ‘प्र च दातारममूतेषु वोचः’ (मै॰सं॰४.१३.७)। प्रवोचः=कीर्तय=प्रख्यापय।
  • ‘सञ्ज्ञप्तः पशुरिति प्रोक्ते’ (का॰श्रौ॰६.५.२३)। प्रोक्ते=प्रकरणोक्ते=उच्चार्व्याहृते।
  • ‘न हि पाणिनिना शब्दाः प्रोक्ताः किन्तर्हि सूत्रम् (भाष्ये)। प्रोक्ता उच्चारिताः।
  • ‘तस्मै हाप्रोच्यैव प्रवासाञ्चक्रे’ (छां॰उ॰४.१०.२)। अप्रोच्य=अनिवेद्य=अनामन्त्र्य। इहापि प्रशब्दो विशेषकृन्न।
  • ‘अग्र्याः सर्वेषु वेदेषु सर्वप्रवचनेषु च’ (मनु॰३.१०४)। प्रकर्षेणोच्यते व्याख्यायते वेदार्थ एभिरिति प्रवचनान्यङ्गानि।
  • ‘स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम्’ (तै॰उ॰१.११.१)। प्रवचनमध्यापनम्।
  • ‘बृहस्पतिश्च प्रवक्ता इन्द्रश्चाध्येता’ (भाष्ये पस्पशायाम्)। प्रवक्ता=अध्यापकः।
  • ‘प्र तं विवक्मि वक्म्यो य एषाम्’ (ऋ० १।१।६७।७)। प्रविवक्मि प्रविवच्मि वर्णयामि।
  • ‘कस्तमेवं प्रवक्ष्यति’ (मात्स्य पु० २४२।३९)। प्रवचिरिह निन्दायाम्। अन्यत्रात्रार्थे विरलः प्रयोगः।

वद्

  • {प्रवद्}
  • वद् (वद-व्यक्तायां वाचि)।
  • ‘यो वै भवति यः श्रेष्ठतामश्नुते तस्य वाचं प्रोदितामनुप्रवदन्ति’ (ऐ॰ब्रा॰२.२५)। प्रोदितां विस्पष्टमुच्चारिताम्।
  • ‘सत्यं वचो यत्प्रवदन्ति विप्राः’ (रा॰५.२८.३)।
  • ‘शिवाश्चाशिवा वाचः प्रवदन्ति महास्वनाः’ (रा॰६.१६.११)। शिवाः क्रोष्टारः (क्रोष्ट्र्यश्च) प्रवदन्ति क्रोशन्तीत्यर्थः।
  • ‘एष दात्यूहको हृष्टः…प्रवदन्मन्मथाविष्टः …स्वकान्तामनुतिष्ठति’ (रा॰३.७९.१२)। ** प्रवदन्=उच्चैर्वाश्यमानः।**
  • ‘(आपः) अप्रवदन्त्यः’ (आश्व॰गृ॰२.७.७)। ( अशब्दायमानाः )।
  • ‘पुरा वाचः प्रवदितोर्निर्वपेत् (ऐ॰ब्रा॰२.१५)। प्रशब्द आदिकर्मणि। वाग्विसर्जनात्प्रागित्यर्थः।
  • ‘प्रसिद्धौ कार्याणां प्रवदति जनः पार्थिवबलम्’ (अवि॰१.५)। प्रवदति घोषयति।
  • ‘प्राग्वयसां प्रवादात्’ (आश्व॰श्रौ॰४.१३.१)। अर्वाक शकुनीनां विरावादित्याह।
  • ‘प्रवादेन मत्स्यानां राजा नाम्नाऽयमुच्यते’ (भा॰वि॰२२.९)। प्रवादः, प्रथितो वादः लोकवादः।
  • ‘प्रवदतां श्रेष्ठः’ (हरि॰२.४९.२५)। प्रवदतां प्रवाचाम्।
  • ‘या अवनेजनप्रवादा ऋचः’ (भा॰श्रौ॰६.६.३.१३)। अवनेजनं शोधनं प्रवदन्ति अभिवदन्तीति ताः।
  • ‘बाणान् पञ्च प्रवदति जनः’ (हनुमन्नाटके २।१०)। पञ्चबाणः काम इति जनप्रवाद इत्यर्थः। प्रसृतः प्रथितो वादः प्रवादः।
  • ‘पुरा वाचः प्रवदितो र्निर्वपेत्’ (तै० सं० २।२।९।५)। यावद् वयसां विरावस्तावदेवोत्थाय निर्वपेदित्यर्थः।
  • ‘पराङेव परा वद पराचीमनु संवतम्’ (अथर्व० ६।२९।३)। परावद दूरे वद।

वप्

  • {प्रवप्}
  • वप् (डुवप्-बीजसन्ताने, बीजसन्तानो बीजविकरणम्)।
  • ‘मिहः प्र तम्र अवपत् तमांसि’ (ऋ॰१०.७३.५)। प्रावपत्=प्रास्यत्=प्राणुदत्=अपाकरोत्=व्यगमयत्।
  • ‘प्रवपाणि वपुर्वह्नौ’ (भट्टि॰२०.३६)।
  • ‘प्रवपाणि शिरो भूमौ वानरस्य वनच्छिदः’ (भट्टि॰९.९८)। छित्त्वा पातयामीति जयमङ्गला।
  • ‘सधनुः सशरः साश्वः प्रवपन् सायकान् रणे’ (भा॰भीष्म॰५२.६७)। प्रवपन्=विकिरन, विसृजन्।
  • ‘प्रवपन् सायकान् बहून्’ (भा॰द्रोण॰१४७.४६)। उक्तोऽर्थः।
  • ‘पर्जन्यधोषान् प्रवपन् शरौघान्’ (भा॰उ॰२२.११)।

वल्ह्

  • {प्रवल्ह्}
  • वल्ह् (वल्ह-परिभाषणहिंसाच्छादनेषु)।
  • ‘यत्किञ्चित्प्रवह्लितमादित्यकर्मैव तत्’ (नि॰७.११.१३)। प्रहेलिकारूपम् प्रवह्लितम्।

वस्

  • {प्रवस्}
  • वस् (वस-निवासे, वस-स्नेहच्छेदापहरणेषु)।
  • ‘पतङ्गे प्रवसति’ (व॰बृ॰सं॰२७.२)। सूर्ये गगनादपकामति, अस्तं गच्छति सति।
  • ‘वर्षगणं प्रोवास’ (छां॰उ॰४.४.५)। वर्षपूगं देशान्तरे वसतिं चकारेत्यर्थः।
  • ‘अमा वै नोऽद्य वसुर्वसति यो नः प्रावात्सीत्’ (श॰ब्रा॰१.६.४.३)। अपाक्रमीत्, अपागादित्याह।
  • परिमलः पवनानुसारी दिशि दिगि प्रावात्सीत्। विस्तृतिमगमदित्यर्थः।
  • ‘विधाय वृत्तिं भार्यायाः प्रवसेत् कार्यवान्नरः’ (मनु॰९.७४)। विदेशं विप्रकृष्टं देशं गच्छेदित्याह।
  • ‘न मे वैरं प्रवसत्येकाहमपि’ (हरि॰२.५०.८४)। प्रवसति विश्राम्यति विरमतीत्याहोपचारेण।
  • ‘निर्वासयेल्लिङ्गं वा सवृषणं परिवास्य’ (बौ॰ध॰२.१.१४)। परिवास्य=छित्त्वा।
  • प्रवासनं परासनं निषूदनं निहिंसनम् इत्यमरः।
  • ‘प्रवासयेद् दण्डयित्वा ब्राह्मणं तु विवासयेत्’ (मनु॰८.१२३)। प्रवासयेन्मारयेत्। अर्थशास्त्रे प्रवासशब्दस्य मारणे प्रयोगाद् इति याज्ञ॰२.८१ इत्यत्र मिताक्षरायाम्।
  • ‘ततः प्रवासितो विद्वान् विदुरेण नरस्तदा (भा॰आदि॰१४१.५) प्रवासितः प्रेषितः।
  • ‘मुषितं प्रवासितं चैषामनिर्गतं रात्रौ ग्रामस्वामी दद्यात्’ (कौ॰अ॰४.९०)। प्रवासितम्=अन्यत्र नीतं (धनम्)।
  • ‘यो वै गृहेभ्यः प्रवसन् प्रियाणां नानुसंस्मरेत्’ (भा॰वि॰४.४७)। प्रवसन्-प्रयान्।
  • ‘अस्मिन् (नरके) निवासोऽसुलभप्रवासः’ (अवदा॰श्रेष्ठि॰५)। प्रवासो देशान्तरगमनम्॥
  • ‘अत्यन्तनिद्रोपगमाय मुक्ता (शिला) निद्राप्रवासाय कपेर्बभूव (अवद॰जा॰२४.२१)। निद्राप्रवासायेति निद्रापगमायेत्याह।
  • ‘प्रवासादुपावृत्तेन काश्यपेन’ (शा॰)। प्रवसत्यस्मिन्निति प्रवासो देशान्तरम्। प्रशब्दो विप्रर्षे।
  • ‘पूर्ववद् विराटक्रमैरुपस्थायाशित्वा प्रवसथमेष्यन्’ (आप॰श्रौ॰६.७.२४.५)। प्रवसथः प्रवासः। सा ह वागुच्चक्राम।
  • ‘संवत्सरं प्रोष्य’ (छां॰उ॰५.१.८)। प्रोष्य=दूर उषित्वा।
  • ‘नाचार्यस्यानपाकृत्य प्रवासं प्राज्ञः कुर्वीत’ (भा० उ० ४४।१५)। प्रवास आश्रमान्तरे स्थितिः।

वह्

  • {प्रवह्}
  • वह् (वह-प्रापणे)।
  • ‘इदमापः प्रवहत यत्किं च दुरितं मयि’ (ऋ॰१०.९.८)। अपस्रावयतेत्यर्थः। अपनयत शोधयतेति तात्पर्यार्थः।
  • ‘यथा बलिं न प्रवक्ष्यति’ (गो॰गृ॰३.८१४)। वहेर्लृटि प्रयोगः। उक्तोऽर्थः।
  • ‘यदनोवाह्यं स्यात्पूर्वं तं प्रवहेयुः’ (आप॰६.८.२८.४) प्रवहेयुः=नयेयुः, हारयेयुः।
  • ‘कथं रथं त्वया हीनं प्रवक्ष्यन्ति रथोत्तमाः’ (रा॰२.५२.४३)।
  • ‘रथं देव प्रवह’ (आश्व॰गृ॰२.८.५)। प्रवह अग्रतः कर्ष।
  • ‘अश्विना त्वा प्रवहतां रथेन’ (ऋ॰१०.८५.२६)। प्रवहताम्=नयताम्।
  • ‘प्रोह्यमाणः सोम आगतः’ (वा॰सं॰८.५६)। शकटादागतोऽवरूढ इत्यर्थः।
  • ‘परेत पितरः सोम्यास इति प्रवाहण्या पितॄन् प्रवाहयति’ (आप॰श्रौ॰१.३.१०.५)। प्रवाहणी शिबिकाविशेषः।
  • कर्णीरथः प्रवहणं डयनं च समं त्रयम् इत्यमरः। प्रवहत्यनेनेति प्रवहणम्।
  • ‘गिरिप्रवोढारमिवानिलं द्रुमाः’ (भा॰द्रोण॰२.१२)। गिरेः प्रवोढारं समीरयितारमपनोत्तारम्। अत्र सोढुं नालमिति शेषः।
  • ‘शयानः प्रौढपादश्च’ (मनु॰४.११२)। आसनारूढपाद इति कुल्लूकः।
  • ‘प्रौढपादो न कुर्वीत स्वाध्यायं पितृतर्पणम्’ (अत्रि॰श्लो॰३२५)।
  • ‘प्रोह्य पादौ हस्तिनं वाहयति’ (५.४.१२८ सूत्रवृत्तौ)। प्रोह्य=प्रणुद्य।
  • ‘प्रवहतु हृदये नः प्राणनाथः किशोरः’ (कृष्णामृते १३)। प्रवहतु प्रकर्षेण वर्तताम्।
  • ‘तप्तां भूमिमपास्य च प्रवहणं मन्ये क्वचित्संस्थितम्’ (मृच्छ० ८।११)। कर्णीरथः प्रवहणं डयनं च समं त्रयमित्यमरः।
  • ‘प्रवहो गमनं बहिः’ (अमरः)। बहिर्गमनं बहिर्यात्रा।

वह्ल्

  • {प्रवह्ल्}
  • वह्ल् (वह्ल् परिभाषणहिंसाच्छादनेषु)।
  • ‘प्रवह्लिकाभिर्देवा असुरान् प्रवह्ल् याथैनानत्यायन्’ (ऐ० ब्रा० ६।३३)। प्रवह्लनं निर्हृदयं सान्त्वं वचनमुच्यत इति षड्गुरुशिष्यः।

वा

  • {प्रवा}
  • वा (वा-गतिगन्धनयोः)।
  • ‘अहमेव वात इव प्रवामि’ (ऋ॰१०.१३७.२)। प्रशब्देन नार्थः।
  • ‘वनाच्च वायुः सुरभिः प्रवायात्’ (भा॰आदि॰७१.४२)।
  • ‘वातस्य प्रवामुपवामनुवात्यर्चिः’ (अथर्व॰१२.१.५१)। प्रवाः=वातवीचिः।
  • स यदग्निः। प्रवानिव दहति (ऐ॰ब्रा॰३.४) वान् इति शत्रन्तस्य प्रथमायामेकवचने।

विच्

  • {प्रविच्}
  • विच् (विचिर्-पृथग्भावे)।
  • ‘प्रविवेककामत्वादुद्यानपुष्करिण्यास्तीरे… मधुकरगणोपकूजिते पर्यङ्कणे निषण्णस्य’ (अवदा॰जा॰२)। प्रविवेककामत्वात्=विविक्तसेवनेच्छुकत्वात्।
  • ‘स तं गृहिजनसंसर्गं प्रविवेकसुखप्रमाथिन व्यासङ्गविक्षेपान्तरायकरमबहुमन्यमानः (अवदा॰जा॰७)। उक्तोऽर्थः।

विज्

  • {प्रविज्}
  • विज् (विजिर्-पृथग्भावे, ओविजी-भयचलनयोः)।
  • ‘उपाविशन् गरुत्मन्तः शरैर्गाढं प्रवेजिताः’ (भा॰वि॰३२.१७)। प्रवेजिताः=उद्वेगं प्रापिताः। उत्पूर्वस्य विजेः प्रयोगस्तु बहुलतमः। सम्पूर्वस्य क्वाचित्कः। प्रपूर्वस्य विरलतमः।

विद्

  • {प्रविद्}
  • विद् (विद-ज्ञाने, विद्लृ-लाभे)
  • ‘न हि प्रवेद सुकृतस्य पन्थाम्’ (ऋ॰१०.७१.६)। न प्रवेद=सुष्ठु न वेद।
  • ‘याँश्च विद्म याँ उ च न प्रविद्म’ (ऋ॰१०.१५.१३)।
  • ‘मा त इदं पुष्टं कश्चन प्रविदत’ (श॰ब्रा॰१.९.१.५)। मा प्रविदत=मा प्रापत्=मा स्मासदत्।

विश्

  • {प्रविश्}
  • विश् (विश-प्रवेशने)।
  • ‘देवरं प्रविशेत्कन्या तप्येद्वाऽपि तपः पुनः’ (भा॰अनु॰४४.५२)। देवरं प्रविशेत्=देवरमाश्रयेत्। ऋतुकाले मनस्विनी।
  • ‘पत्नी द्रुपदराजस्य द्रुपदं प्रविवेश ह’ (भा॰५.७३.९७) प्रविवेश=संविवेश=सम्बभूव। द्रुपदेन सह शिष्ये।
  • ‘तं (अर्जुनम्) प्रवेक्ष्यन्ति ये सर्वे राजानः शस्त्रयोधिनः’ (हरि॰२.१९.७८) पार्थात् तिरोभविष्यन्ति, मन्दप्रतापा भविष्यन्तीत्यर्थः।

वी

  • {प्रवी}
  • वी (वी-प्रजनगत्यसनखादनेषु)।
  • ‘यदि वशां न विन्देदपि यैव का चाप्रवीता स्यात्’ (श॰ब्रा॰५.५.१.११)। अप्रवीता=अनापन्नसत्त्वा=अगर्भिणी। अत्रार्थे प्रशब्दो दुष्परिहरः। तमन्तरेण तदर्थानवगतेः। नानार्थेषु धातुषूपसर्गाणां द्योतकत्वस्याभ्युपेतत्वात्।
  • ‘छन्दोभिरेवास्मै पशून् प्र जनयति …प्रैव तेन वापयति’ (तै० सं० ३।४।९।३०)। प्रवापयति गर्भं ग्राहयति।
  • ‘प्रजने वीयतेः’ (पा० ६।१।५५)। पुरोवातो गाः प्रवापयति (वृत्तौ)। उक्तोऽर्थः।

वृ

  • {प्रवृ}
  • वृ (वृङ्-सम्भक्तौ)
  • ‘दभ्रेभिः प्रवृणोति भूयसः’ (ऋ॰७.८२.६)। अल्पसङ्ख्याकैर्भूयः सङ्ख्यान् पराणुदतीत्यर्थः।
  • ‘वर्जयित्वा तु मे वज्रं प्रवृणीष्व यथेच्छसि’ (भा॰वन॰३१०.१९)। यथेष्टं वरयेत्याह। अत्रार्थे प्रशब्दो द्योतको नावश्यकः। केवलस्यापि प्रयोगदर्शनात्- ‘वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः’ (कि॰२.३०)।
  • ‘करोमि कामं कं तेऽद्य प्रवृणीष्व यमिच्छसि’ (भा॰द्रोण॰१२.४)। ण्यन्तस्य प्रशब्दपूर्वत्वं नियतम्।
  • ‘तं ते प्रवारयामासुर्निरासुश्च परावसुम्’ (भा॰वन॰१३८.२०)। प्रवृणीष्व कामं याचस्वेति प्रायूयुजन्।
  • ‘ननु भोज्येषु पानेषु वस्त्रेष्वाभरणेषु च। प्रवारयति सर्वान्नः…’ (रा॰२.७७.१५)। बहून्याभरणादीनि दिव्यवस्तून्युपस्थाप्य अङ्ग एषु किं तेऽपेक्षितं गृहाणेति प्रकर्षेणास्मदिष्टवरणं कारयतीत्यर्थ इति तिलकः।
  • ‘प्रवारणं तु बालानां पूर्वं कार्यमिति श्रुतिः। तस्मात्प्रवारणं पूर्वमर्हः पार्थो धनञ्जयः’ (भा॰उ॰७.१७) |
  • काम्यदानं प्रवारणम् इत्यमरः।
  • ‘तद्वृणीतां भवानग्रे प्रवार्यस्त्वं हि धर्मतः’ (भा॰उ॰७.२०)। काम्यं ते ददानीति प्रेर्यः।

वृज्

  • {प्रवृज्}
  • वृज् (वृजि/वृजी-वर्जने)।
  • ‘प्रवावृजे सुप्रया बर्हिरेषाम्’ (ऋ॰७.३९.२)।
  • ‘विप्रुतं रेभमुदनि प्रवृक्तम्’ (ऋ॰१.११६.२४)। उभयत्र वृजिः प्रक्षेपणे परासने वर्तते।
  • ‘घर्मश्चित्तप्तः प्रवृजे य आसीदयस्मयः’ (ऋ॰५.३०.१५)। प्रवर्जनमिहाधिश्रयणं श्रपणं वा वक्ति।
  • ‘तं देवा अग्नौ प्रावृञ्जन्’ (श॰ब्रा॰७.१.२.६)। समतपन्नित्यर्थः।
  • ‘यथा धर्मं प्रवृञ्ज्यादेवं प्रवृणक्ति’ (श॰ब्रा॰१.७.१.११)।
  • ‘न प्रथमयज्ञे प्रवृञ्ज्यात्’ (श॰ब्रा॰१४.२.२.४४)। प्रवर्ग्यं नानुतिष्ठेदित्याह।
  • ‘अवकाश्यस्य प्रवृञ्ज्यात्’ (का॰श्रौ०२६.७.५२)। प्रवर्ग्यं कुर्यात्। ज्ञातिप्रियानूचाना एते त्रयोऽवकाशाः। अवकाशशब्दवाच्याः। अवकाशा एवावकाश्याः।
  • ‘धर्मो वा एष प्रवृज्यते (=सन्तप्यते)
  • ‘यदग्निहोत्रम्’ (काठक॰६.२)।
  • ‘न बृहत्या वषट् कुर्यात् पशूनामप्रवर्गाय’ (जै० ब्रा० १।१२०)। प्रवर्गो नाशः।

वृत्

  • {प्रवृत्}
  • वृत् (वृतु-वर्तने)।
  • ‘किं…राजिलेषु गरुडः प्रवर्तते’ (रघु॰११.२७)। प्रवर्तते=शत्रूयते, द्रुह्यति, अवस्कन्दति।
  • ‘प्रावृतद् गृहात्’ (भट्टि॰१५७)। प्रास्थितेत्यर्थः। तस्य दृग्भ्यामवारितम्।
  • ‘अश्र प्रववृते’ (कथा॰१३.१२६)। प्रववृते प्रसुस्राव।
  • ‘प्रवर्ततां प्रकृतिहिताय पार्थिवः’ (शा॰७.३५)। प्रवर्ततां=चेष्टताम्=प्रयतताम्।
  • ‘तदर्थव्याख्यानाय ब्राह्मणं प्रवर्तते’ (बृ॰उ॰शं॰भा॰)। ब्राह्मणमारभ्यते।
  • ‘राजन् प्रजासु ते कश्चिदपचारः प्रवर्तते’ (रघु॰१५.४.७)। प्रवर्तते=प्रथते=प्रचरति।
  • ‘तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः प्रवर्तन्ते’ (गीता १७.२४)। प्रवर्तन्ते=एधन्ते=समृध्यन्ति=पुष्यन्ति।
  • ‘स्वामिसेवकयोरेवं वृत्तिचक्रं प्रवर्तते’ (पञ्चत॰१.८१)। अविच्छेदेन वर्तते।
  • ‘प्रवर्तमानं च न दृश्यते रजः’ (शा॰७)। प्रवर्तमानमुत्तिष्ठत्।
  • ‘अथ याः समापयिष्यामः संवत्सरमित्यासत तासामश्रद्धया शङ्गाणि प्रावर्तन्त (ऐ॰ब्रा॰४.१७)। प्रावर्तन्त=न्यवर्तन्त=निवृत्तान्यभवन्, प्रपतितानि विशीर्णानि जातानि। न्यर्थे प्रशब्द इति षड्गुरुशिष्यः। अयमेवार्थो युक्तो भाति। अव्यवहितपूर्वायाः ता या उदतिष्ठंस्ता एताः शृङ्गिण्य इति श्रुतेः श्रवणात्।
  • ‘स यो द्रोणकलशे शुक्रः परिशिष्ट आस तं प्रवर्तयाञ्चकार’ (श॰ब्रा॰१.६.३.८)। प्रवर्तयाञ्चकार =आवर्जयामास=अवसिषिचे।
  • ‘इतस्तर्हि देवः प्रवर्तयतु पुष्पकम्’ (उत्तर॰)। प्रस्थापयतु प्रेरयत्वित्यर्थः।
  • ‘कश्चिद् राजा ब्राह्मणानां यथावत् प्रवर्तते पूर्ववत् तात वृत्तिम्’ (भा॰उ॰२३.१५)। प्रवर्तते=प्रवर्तयति=घटयति=प्रणयति=संविधत्ते। अन्तर्णीतण्यर्थको वृतिः।
  • ‘हन्त प्रवृत्तं सङ्गीतकम्’ (माल॰१)। प्रवृत्तं प्रारब्धम्।
  • ‘प्रवृत्तोऽश्वतरी रथः’ (छां॰उ॰५.१३.२)। स्थित इत्यर्थः।
  • ‘देवालयं स्त्री प्रयता प्रवृत्ता (प्रस्थिता)’ (व॰वृ॰सं॰२७ (२५.८)।
  • ‘प्रवृत्तां श्रुतिं दूषयति’ (भा॰अनु॰२४.८ इत्यत्र नीलकण्ठः)। प्रवृत्तां विसृमरां प्रचरन्तीम्।
  • ‘वने प्रवृत्तामिव नीलकण्ठीम्’ (रा॰५.११.२३)। प्रवृत्तां विहरन्तीम्।
  • ‘प्रवृत्तशिखा ज्येष्ठप्रथमाः कनिष्ठजघन्याः’ (आश्व॰गृ॰४.२.७)। प्रवृत्तशिखाः=मुक्तशिखाः। ज्येष्ठः प्रथमः पुरःसरो येषां ते ज्येष्ठप्रथमाः। जघन्यः=पश्चाद्भवः=पृष्ठतोगामी।
  • ‘आकालिकीं वीक्ष्य मधुप्रवृत्तिम् (कु॰३.३४)। प्रवृत्तिम्=प्रारम्भम्।
  • ‘रात्री केशा हरितौ प्रवर्तौ’ (अथर्व॰१५.२.५)।
  • ‘खादिरं पात्रं चतुःस्रक्ति प्रयुनक्ति। सौवर्णस्य प्रवर्तशतमानस्य कृतम्’ (आप॰श्रौ॰)। प्रवर्तः कर्णाभरणं कुण्डलमिति सायणः।
  • ‘कृच्छ्रं चान्द्रायणं चैव लोहितस्य प्रवर्तने’ (बौ॰ध॰२.१.१.७)। प्रवर्तने प्रवाहणे स्यन्दने स्रावणे। तदेतत् पूर्णमप्रवर्ति।
  • ‘पूर्णामप्रवर्तिनीं श्रियं लभते य एवं वेद’ (छां॰उ॰३.१२.९)।
  • ‘उद्यानस्थं वरं द्रष्टुं प्रावर्तत निजात् पुरात्’ (कथा० ३५।१३६)। प्रावर्तत प्रातिष्ठत।
  • ‘प्रवृत्तं हि मलं स्निग्धो विरेको निर्हरेत् सुखम्’ (अष्टाङ्ग० सूत्र० १८।५५)। प्रवृत्तमीषत् पतितम्।
  • ‘तदेतत्पूर्णमप्रवर्तिं पूर्णामप्रवर्तिनीं श्रियं लभते’ (छां० उ० ३।१२।९)। अप्रवर्ति अचलं स्थिरम्।

वृध्

  • {प्रवृध्}
  • वृध् (वृधु-वृद्धौ)
  • ‘पापान् प्रवर्धतो दृष्ट्वा कल्याणानवसीदतः’ (भा॰अनु॰१२४.३६)। नार्थः प्रशब्देन।
  • लोकानुग्रहकर्तारः प्रवर्धन्ते महीभुजः।

वृष्

  • {प्रवृष्}
  • वृष् (वृषु-सेचने)।
  • ‘विषये वासवस्तस्य सम्यगेव प्रवर्षति’ (भा॰अनु॰२.१४)। प्रशब्देन नार्थः। सम्यक्छब्देन प्रकर्षस्योक्तत्वात्।
  • ‘शैलेन्द्रमिव धाराभिः प्रवर्षन्ति पयोधराः’ (रा॰३.३१.९)। प्रशब्दोऽभेरर्थे।
  • ‘वार्षिकांश्चतुरो मासान्यथेन्द्रोद्भिः प्रवर्षति’ (मनु॰९.३०४)। सिञ्चति भुवमित्यर्थः।

वृह्

  • {प्रवृह्}
  • वृह् (वृहू-उद्यमने)।
  • ‘तं स्वाच्छरीरात्प्रवृहेन्मुञ्जादिवेषीकां धैर्येण’ (कठ॰उ॰२.३.१३)। विश्लेषयेदित्यर्थः।
  • ‘तेषां (लोकानाम्) तप्यमानानां रसान् प्रावृहद् अग्निं पृथिव्या वायुमन्तरिक्षादादित्यं दिवः’ (छां॰उ॰४.१७.१)। निरकासयदित्याह।
  • ‘तस्य पादमगृह्णात्स प्रावृह्यत’ (काठक॰१३.२)। भग्नोऽभूत, विश्लिष्टोऽभूदित्याह।
  • ‘जह्यसुष्वीन् प्रवृहापृणतः’ (ऋ॰६.४४.११)। प्रवृह=उन्मूलय।
  • ‘प्र हि क्रतुं वृहथो यं वनुथो रध्रस्य स्थो यजमानस्य चोदौ’ (ऋ॰२.३०.६)। प्रवृहथः=उत्सादयथः ध्वंसयथः।
  • ‘ते सवनानि प्रावृहन्त’ (श॰ब्रा॰११.५.९.४)। आत्मानम्प्रत्याकर्षन् आत्मीयान्यकुर्वन्नित्यर्थः।
  • ‘शूलात्प्रवृह्य हृदयं कुम्भ्यामवधाय’ (आप॰श्रौ॰७.७.२३.७)। प्रवृह्य=अपनीय।
  • ‘यो ग्रीवाभ्यः प्रवृढाभ्यो रसः समस्रवत्’ (काठक॰३४.३)। प्रवृढाभ्यः=अवकृत्ताभ्यः।
  • ‘प्रजापति र्लोकानभ्यतपत्। तेषां तप्यमानानां रसान्प्रावृहत्’ (छां० उ० ४।१७।१)। प्रावृहत् उदहरत्।
  • ‘यमेवामुं त्रय्यै विद्यायै तेजो रसं प्रावृहत्’ (शां० ब्रा० ६।११)। उक्तोऽर्थः।
  • ‘मर्त्यः प्रवृह्य धर्म्यम्’ (कठोप० १।२।१३)। धर्मसाधनं धर्मसाध्यं वेदं शरीरं प्रवृह्य पृथक् कृत्वा। प्रारब्धावसानसमये परित्यज्येति यावत्।

वे

  • {प्रवे}
  • वे (वेञ्-तन्तुसन्ताने)।
  • प्रोयतेऽस्यामिति प्रवाणी। प्रवयन्ति तयेति वा प्रवाणी (काशिका ५.४.१६०)।
  • ‘इषीकातूलमग्नौ प्रोतम्’ (छां॰उ॰५.२४.३)। प्रोतं न्यस्तम्।
  • ‘तरुच्छिद्रप्रोतान् (शशिनः करान्) बिसमिति करी सङ्कलयति’ (सुभा॰)। प्रोतान् प्रस्यूतान्।
  • ‘तत्र सर्वमिदं प्रोतमोतं चैवाखिलं जगत्। ततो जगज्जगत्तस्मिन् स जगच्चाखिलं मुने’ (विष्णु॰पु॰२.६४)। उक्तोऽर्थः।
  • ‘अथो दिश्येव दिशं प्र वयति’ (तै० सं० ५।७।९।३९)। प्रवयति प्रोतां करोति। कोणासु दिक्षु अन्यासामनुप्रवेशाद् दिशः प्रोता इत्युच्यन्ते।
  • ‘प्र वयाप वयेत्यासते तते’ (ऋ० १०।१३०।१)। प्रवाणं भोक्तव्यप्रपञ्चस्य निर्माणम्।
  • ‘मूले प्रवय इति समुच्चये ऽन्यतरस्याम्’ (३।४।३) इत्यनेन लोट्।

वेप्

  • {प्रवेप्}
  • वेप् (टुवेपृ-कम्पने)।
  • ‘प्रावेपत भयोद्विग्ना प्रवाते कदली यथा’ (भा॰उ॰१३.३)।

वेष्ट्

  • {प्रवेष्ट्}
  • वेष्ट् (वेष्ट-वेष्टने)।
  • भुजबाहू प्रवेष्टो दोः (अमरः)।

व्यध्

  • {प्रव्यध्}
  • व्यध् (व्यध-ताडने)।
  • ‘तां सङ्क्लिश्याप्सु प्राविध्यत्’ (श॰ब्रा॰६.१.१.१२)। प्राविध्यत्=प्राक्षिपत्।
  • ‘वायुप्रविद्धाः शरदि मेघजाला इवाम्बरे’ (रा॰२.९३.१२)। वातप्रेरिता इत्याह।
  • ‘प्रविद्धो रक्षसां भागः पर्वणीवाहिताग्निना’ (रा॰२.४३.५)। प्रविद्धः=प्रक्षिप्तः।
  • ‘अपकीर्णजटाभारं प्रविद्धकलशोदकम्’ (रा॰२.६३.३६)। प्रविद्धं पर्यस्तम्।
  • ‘देवतार्चाः प्रविद्धाश्च’ (रा॰२.७१.४०)। प्रतिमा निरस्तपूजना जाता इत्याह।

व्ली

  • {प्रव्ली}
  • व्ली (व्ली वरणे)।
  • ‘प्रजापतिर्यज्ञमसृजत सोऽस्मात्सृष्टः प्राङैत् स प्र यजुर्व्लीनात्’ (तै० सं० ६।१।२)। प्राव्लीनात् आच्छादयत्।

व्रज्

  • {प्रव्रज्}
  • व्रज् (वज/व्रज-गतौ)।
  • ‘तौ ह शान्तहृदयौ प्रवव्रजतुः’ (छां॰उ॰८.८.३)। प्रतस्थाते इत्याह।
  • ‘गृह्णीयुरपि मातङ्गान् मत्तान् प्रव्रजतो वने’ (रा॰१४.१७.२८)। प्रव्रजतः स्वच्छन्दगतीन् इति कतकः।
  • ‘अजातश्मश्रवो मन्दाः कुले जाताः प्रवव्रजुः’ (भा॰शां॰११.२)। परिव्रज्यां परिजगृहतुरित्यर्थः। पुनर्गृहं प्रति न गन्तव्यमिति प्रकर्षेण गता इति तिलकः।
  • ‘अत एव ब्रह्मचर्यवान् प्रव्रजति’ (आप॰ध॰२.२१.१९)। प्रव्रजति प्रकर्षेण व्रजति न प्रत्यावर्तत इत्यर्थः।
  • ‘द्विप्रव्राजिनी’ (आश्व० गृ० १।५।६)। द्वो प्रव्रजतीति। पुंश्चलीति यावत्।

शंस्

  • {प्रशंस्}
  • शंस् (शंसु-स्तुतौ)।
  • ‘प्र ते महे विदधे शंसिषम्’ (अथर्व॰२०.३०.१)। प्रशंसिषम्=प्राशंसिषम्। प्रास्ताविषमित्यर्थः।

शद्

  • {प्रशद्}
  • शद् (शद्लृ-शातने)।
  • ‘अन्तर्वेदिशाखायाः पलाशान्यसर्वाणि प्रशात्य मूलतः शाखां परिवास्योपवेषं करोति’ (आप॰श्रौ॰१.२.६.६)।
  • ‘अपि वा काममा मार्गादा मधुन आ प्राशातिकाद्’ (आप॰श्रौ॰४.१.३.८)। प्राशातिकं कोशीधान्यम्, यस्मात्प्रशातनेनोद्ध्रियते। भक्ष्यकाण्डेषु मृगमांसपर्यन्तानां रसेषु मधुपर्यन्तानाम् अन्नेषु च प्राशातिकपर्यन्तानां भक्षणे याथाकामी, एभ्योऽवशिष्टेभ्यः परेषामभक्षणमेव (इति रुद्रदत्तः)।

शम्

  • {प्रशम्}
  • शम् (शमु-उपशमे, शम-लक्ष आलोचने)।
  • ‘प्रशाम्य नगरं दानवांश्च निहत्य तान्’ (भा॰वन॰१७२.३५)। प्रशाम्य प्रकर्षेणालोच्येति नीलकण्ठः
  • ‘प्रशान्तं पावकास्त्रम्’ (उत्तर॰६)। निर्वाणमित्यर्थः।
  • ‘निर्वाते ज्वलितो वह्निः स्वयमेव प्रशाम्यति’ (पञ्चत॰३.५६)। उक्तोऽर्थः।

शास्

  • {प्रशास्}
  • शास् (शासु-अनुशिष्टौ, आङः शासु-इच्छायामू)।
  • ‘अपि साक्षात् प्रशिष्यास्त्वं कृच्छ्रेष्विन्द्रपुरोहितम्’ (भट्टि॰१९.१९)। शासितुमुपदेष्टुमर्हसीति कवेर्विवक्षितम्।
  • ‘प्रशाधि धर्मेण वसुन्धराम्’ (अवदा॰जा॰२२.९९)। प्रशाधि=ईशिष्य।
  • ‘गां प्रशाधि गलितावधिकालम्’ (नै॰५.२४)। उक्तोऽर्थः।
  • ‘प्रशाधि यन्मया कार्यम्’ (मार्क॰पु॰)।
  • ‘इदं कविभ्यः पूर्वेभ्यो नमोवाकं प्रशास्महे’ (उत्तर॰११)। प्रशास्महे याचामहे इति यावत्। नमोवाकम्=नम इत्युक्त्वेत्यर्थ इति कश्चित्। अत्रार्थे आङ् युज्यते वक्तुम्। न ह्यत्रार्थे आङं व्यभिचरति धातुः। आङ् प्रायिक इति तु रभसोक्तिः। यत्तु प्रशासनं निर्देश इति वीरराघवस्याभिमानः स प्रयोगैः समर्थनां न लभत इति नादृत्यो भवति।
  • ‘इन्द्रप्रसूता वरुणप्रशिष्टा ये’ (ऋ॰१०.६६.२)। प्रशिष्टाः=आदिष्टाः।
  • ‘प्रशास्तृ-सूत-सेनानी मन्त्र्यमात्य-पुरोधसाम्’ (का॰नी॰सा॰१४.४५)। प्रशास्तारः=कलाध्यक्षा इति मङ्गला। प्रशास्तारः सैन्यप्रसाधका इत्युपाध्यायनिरपेक्षा।
  • ‘आशिषः प्रशिषश्च संशिषो विशिषश्च याः’ (अथर्व॰११.१०.२७)। प्रशिषः=प्रशासनानि।

शिष्

  • {प्रशिष्}
  • शिष् (शिष्लृ विशेषणे)।
  • ‘ओष्ठ एनयोः साधारणो भवति तं गृहपतिरेव प्रशिंष्यात्’ (ऐ० ब्रा० ७।१)। प्रशिंष्यात् प्रविभज्य दद्यात्।

शृ

  • {प्रशृ}
  • शृ (शृञ्-हिंसायाम्)।
  • ‘शृणातु ग्रीवाः प्रशृणातूष्णिहाः’ (अथर्व॰६.१३४.१)। प्रशब्दः प्रकर्षे।
  • ‘प्र पर्वाणि जातवेदः शृणीहि’ (ऋ० १०।८७।५)। प्रशृणीहि छिन्द्धि। प्रशब्दः प्रविवेके पार्थक्ये।

श्यै

  • {प्रश्यै}
  • श्यै (श्यैङ्-गतौ)।
  • ‘यद्वै शीतस्य प्रशीतं तद्धिमस्य जरायु’ (श॰ब्रा॰९.१.२.२६)। प्रशब्दः प्रकर्षे। शीतमिति निष्ठायां सम्प्रसारणे रूपम्। सम्प्रसारणविरहे तु श्यानमाश्यानं संश्यानमिति भवत्युपसर्गान्वयव्यतिरेकाभ्याम्।

श्रि

  • {प्रश्रि}
  • श्रि (श्रिञ्-सेवायाम्)।
  • ‘अयं तु प्रकृत्युद्धतो रामः कथमित्थमतिप्रश्रयते’ (बा॰रा॰४)। अतिप्रश्रयतेऽतिविनीतो भवति, अतिनम्रो वर्तत इति यावत्।
  • ‘प्रत्युद्गमप्रश्रयणाभिवादनम्’ (भा॰पु॰४.३.२२)। प्रश्रयो विनयः तदर्शनम्।
  • ‘जनयति खलु रोषं प्रश्रयो भिद्यमानः’ (चारु॰१.१४)। प्रश्रयः=विनयः प्रणयः प्रार्थना विज्ञापना।
  • ‘तच्छ्लोककूटमद्यापि ग्रथितं सुदृढं मुने। भेत्तुं न शक्यतेऽर्थस्य गूढत्वात् प्रश्रितस्य च’ (भा॰आदि॰१.८२)। प्रमेयेण स्वप्रकाशार्थं श्रितं शब्दप्रमाणं तस्यापि गौण्यादिवृत्तिभेदेन गूढत्वम् (इति नीलकण्ठः)।
  • ‘बहुप्रकारं धर्मज्ञः प्रश्रितं प्रश्रिताञ्जलिः’ (रा॰३.६१.३१)। प्रश्रितं विनीतम्।
  • निभृतविनीतप्रश्रिताः समा इत्यमरः। प्रश्रिताञ्जलिः=बद्धाञ्जलिः।
  • ‘तद्दर्शनोपास्तिकता नित्यं तद्भावभाविता। तत्कारिता प्रश्रयिता वृत्तं संश्रयिणां स्मृतम्’ (का॰नी॰सा॰११.२८)॥ संश्रयिणः=आश्रिताः। प्रश्रयिता सादरता। प्रश्रयोऽस्यास्तीति प्रश्रयी। तस्य भावः प्रश्रयिता।
  • ‘अथैनं प्राञ्चं प्रश्रित्य विस्रस्य राजानं ग्रावाणमुपांशुसवनमभि मिमीते’ (बौ० श्रौ० ७।५)। प्रश्रित्य निधाय।

श्रु

  • {प्रश्रु}
  • श्रु (श्रु-श्रवणे)।
  • ‘यस्ते अग्ने सुमतिं मर्तो अक्षत् सहसः सूनो प्रति स प्र शृण्वे’ (ऋ॰१०.११.७)। प्रशृण्वे प्रकर्षेण श्रूयते विश्रूयते।
  • ‘प्राश्रावयं शवसा तुर्वशं यदुम्’ (ऋ० १०।४९।८)। प्राश्रावयं प्रश्रुतौ विश्रुतावकार्षम्।

श्वस्

  • {प्रश्वस्}
  • श्वस् (श्वस-प्राणने)।
  • ‘तानभि प्राश्वासीत्। तस्य श्वसथाद् ईषमाणा विश्वे देवा अद्रवन्’ (ऐ॰ब्रा॰३.२०)। तेषामभिमुखः सन् श्वासममुचत् इत्याह।
  • ‘तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः’ (यो॰सू॰भा॰२.४९)। कोष्ठ्यस्य वायोर्निःसारणं प्रश्वासः।
  • ‘कुतो वा प्रश्वसिति उच्छ्वसित्यपि वा पुनः’ (भा॰आश्व॰२०.४२)।
  • ‘ये के चास्मच्छ्रेयांसो ब्राह्मणाः, तेषां त्वयाऽऽसनेन प्रश्वसितव्यम्’ (तै० उ० १।११।३)। आसनदानेन विनयेन वर्तितव्यमिति गोपालानन्दस्वामी। प्रश्वसनं प्रश्वासः श्रमापनयः। आसनदानेन तेषां श्रमोऽपनेतव्य इति तु शङ्करः।

सञ्ज्

  • {प्रसञ्ज्}
  • सञ्ज् (षञ्ज-सङ्गे)।
  • ‘रुद्रियेण ह पशून् प्रसजेत्’ (श॰ब्रा॰१.७.४.१२)। प्रसजेत्=युञ्जीत बध्नीयात्।
  • ‘तद्वहति रथयुगप्रासङ्गम्’ (पा॰४.४.७६) इत्यत्रापि धातुर्बन्धने वर्तते। उपसर्गस्य दीर्घः।
  • ‘कामा मनुष्यं प्रसजन्त एते’ (भा॰उ॰२७.४)। बध्नन्तीत्यर्थः।
  • ‘तन्मा प्रसाङ्क्षीः’ (छां॰उ॰४.१.२)। अत्र तच्छब्देन ज्योतिः परामृश्यते। तेनात्रापि सजतिः सकर्मकः। मा स्प्राक्षीरित्यर्थः।
  • ‘नेदशृतया समया यज्ञं प्रसजामेति’ (श॰ब्रा॰३.८.२.२०)। प्रसङ्गो दुःसङ्गो व्यसनं व्यासङ्ग इति वा।
  • ‘इन्द्रियाणां प्रसङ्गेन दोषमृच्छत्यसंशयम्’ (मनु॰२.९३)। प्रसङ्गः प्रसक्तिरासक्तिः। विषयेष्विति शेषः।
  • ‘प्राकृता अपि बलवता सह प्रसङ्गं न कुर्वन्ति’ (भा॰आदि॰१.१५० इत्यत्र नीलकण्ठः)। प्रसङ्गः सङ्घर्षः।
  • ‘विशेषा हि प्रसङ्गिनः’ (भा॰उ॰३८.४४)। प्रसङ्गः सङ्घर्षस्तत्कारिणः।
  • ‘प्रतिग्रहसमर्थोऽपि प्रसङ्गं तत्र वर्जयेत्’ (मनु॰४.१८६)। प्रसङ्गः पुनः पुनः प्रवृत्तिः।
  • ‘स्त्रियो राजकुले याश्च…। प्रसक्तास्त्वां निरीक्षन्ते, पुमांसं कं न मोहयेः’ (भा॰वि॰९.२३)॥ प्रसक्ता एकाग्रमनसः।
  • ‘प्रसक्तमभिवीक्षेथाः स कामवशगो भवेत्’ (भा॰वि॰९.२६)। प्रसक्तमिति क्रियाविशेषरणम्। चेतः प्रसज्येत्यर्थः।
  • ‘विवेश गां तोयमिवाप्रसक्ता (शक्तिः) यशो विशालं नृपतेर्दहन्ती’ (भा॰शल्य॰१७.५०)। अप्रसक्ताऽप्रतिहताऽविघ्निता।
  • ‘प्रसक्तस्तस्य तु श्रमः’ (स्वप्न॰१.१५)। प्रसक्तो निरन्तरोऽविरतः।
  • ‘तत्पक्षस्थोपि यो न प्रसजति यजने’ (विश्व० च० २९।३६६)। प्रसजति व्याप्रियते।
  • ‘हितं च पथ्यं च नयप्रसक्तं …वाक्यम्’ (रा० ४।३०।१९)। नयप्रसक्तं नीतियुक्तम्।
  • ‘प्रसज्य रामेण च वैरमुत्तमम्’ (रा० ३।५४।३०)। प्रसज्य बद्ध्वा समुत्पाद्य।
  • ‘यत्र द्वौ प्रसङ्गावन्यार्थावेकंस्मिन्युगपत् प्राप्नुतः’ (पा० १।४।२ सूत्रे वृत्तौ)। प्रसज्येते विधीयेते इति प्रसङ्गौ विधी इति न्यासः।
  • ‘सप्रासङ्गं च शकटं सधान्यं वस्त्रसंयुतम्’ (भा० अनु० ६४।१९)। प्रासङ्गो धान्यादिपिधानयोग्यं चतुरस्रम् इति नीलकण्ठः।
  • ‘प्रासङ्ग इत्यत्र उपसर्गस्य घञ्यमनुष्ये बहुलम्’ (पा० ६।३।१२२) इत्यनेनोपसर्गस्य दीर्घः।
  • ‘यदि वयं स्वतन्त्रां काञ्चित् प्रागवस्थां जगतः कारणत्वेनाभ्युपगच्छेम प्रसञ्जयेम तदा प्रधानकारणवादम्’ (ब्र० सू० शां० भा० १।४।३)। प्रसञ्जयेम उपस्थापयेम।

सद्

  • {प्रसद्}
  • सद् (षद्लृ-विशरणगत्यवसादनेषु)।
  • ‘क्रिया हि वस्तूपहिता प्रसीदति’ (रघु॰३.२९)। नावसीदति, सफला भवतीत्यर्थः।
  • ‘त्रय्या हि रक्षितो लोकः प्रसीदति न सीदति’ (कौ॰अ॰३.१)। प्रसीदति=समध्यति।
  • ‘निमित्तमुद्दिश्य हि यः प्रकुप्यति ध्रुवं स तस्यापगमे प्रसीदति’ (पञ्चत॰१.२८७)। प्रसीदति=शाम्यति।
  • ‘अवेहि मां कामदुघां प्रसन्नाम्’ (रघु॰२.६३)। प्रसन्नाम्=परितुष्टाम्।
  • ‘तमालपत्रास्तरणासु रन्तुं प्रसीद शश्वन्मलयस्थलीषु’ (रघु॰६.६४)। प्रसीद=अनुरुध्यस्व।
  • ‘फलं कतकवृक्षस्य यद्यप्यम्बुप्रसादकम्। न नामग्रहणादेव तस्य वारि प्रसीदति’ (मनु॰६.६७)। प्रसीदति विमली भवति।
  • ‘दिशः प्रसेदुर्मरुतो ववुः सुखाः’ (रघु॰३.१४)। दिशो नीरजस्काः प्रकाशा बभूवुरित्यर्थः।
  • ‘प्रसन्नो ब्राह्मणशेष इति श॰ब्रा॰ भाष्ये सायणः। विशदो व्याख्यानिरपेक्ष इत्यर्थः।
  • ‘प्रसन्नस्ते तर्कः’ (विक्रम॰२)।
  • ‘प्रसन्नप्रायस्ते तर्कः’ (मालती॰१)। प्रसन्नः शुद्धः, सत्योऽवितथः।
  • ‘तथा प्रासादे’ (आप॰ध॰१.१७.७)। प्रासादो दारुमयो मञ्च इति हरदत्तः।

सस्ज्

  • {प्रसस्ज्}
  • सस्ज् (षस्ज-सङ्गे)
  • ‘प्रसज्जन्तीं तु तां प्राह’ (वि॰पु॰५.२७.१५)। आसजन्तीम् इत्याह।

सह्

  • {प्रसह्}
  • सह् (षह-मर्षणे)।
  • ‘आशीर्भिर्बृहितानस्मान्न पापं प्रसहिष्यति’ (भा॰आदि॰१४३.१६)। प्रसहिष्यति=प्रसहिष्यते=अभिभविष्यति=अधिकरिष्यते।
  • ‘संयुगे सांयुगीनं तमुद्यतं प्रसहेत कः’ (कु॰२.५७)।
  • ‘ह्रियमाणावकाशं तु दानप्रीत्या पुनः पुनः। न प्रसेहे मनस्तस्य च्छेददुःखं विगाहितुम्’ (अवदा॰जा॰८.४४)। इह प्रशब्दोऽनर्थकः।
  • ‘प्रसह्य वित्ताहरणं न कल्कः’ (भा॰आदि॰१.२७५)। प्रसह्य=प्रकर्षेण दुःखं सोढ्वेत्यर्थः।
  • ‘प्रसह्य धर्षितस्तत्र सोमो वै राजयक्ष्मणा’ (हरि॰१.२५.४७)। प्रसह्य=बलात्=हठात्।
  • ‘प्रसह्य सिंहः किल तां चकर्ष’ (रघु॰२.२७)। उक्तोऽर्थः। ‘प्रसहनमभिभव इत्यधेः प्रसहने’ (पा॰१.३.३३) सूत्रे वृत्तिः।
  • ‘विषादो यं प्रसहते विक्रमे समुपस्थिते’ (रा० ४।६४।१०)। प्रसहतेऽभिभवति। यो विषादं प्रसहत इति पाठान्तरम्। तन्नादेयमनिष्टार्थगतेः।
  • ‘काककङ्ककुररचाषभासशशघात्युलूकचिल्लिश्येनगृध्रप्रभृतयः प्रसहाः’ (सुश्रुत० सू० ४६।७२)। प्रसह्य भक्षयन्तीति प्रसहाः।

साध्

  • {प्रसाध्}
  • साध् (राध/साध-संसिद्धौ)।
  • ‘इदमूषु प्रसाधय’ (अथर्व॰१.२४.४)। किलासाक्रान्तमङ्गं साधू कुर्वित्याह।
  • ‘प्रसाध्य शत्रुं यन्मित्रम्’ (कौ॰अ॰७.११६)। प्रसाध्य=जित्वा।
  • प्रसाधनी कङ्कतिका इत्यमरः।

सि

  • {प्रसि}
  • सि (षिञ् बन्धने)।
  • ‘कण्ठं तस्य प्रसिनु रभसाद् बाहुपाशद्वयेन’ (सा० द० ७।१८ व्याख्यायां समचरणतर्कवागीशकृतायामुद्धृतः श्लोकांशः)। प्रसिनु प्रसिनीहि बधान।
  • ’ त्रिर्यातुधानः प्रसितिं त एतु’ (ऋ० १०।८७।११)। प्रसितिर्बन्धनम्।
  • ‘कृणुष्व पाजः प्रसितिं न पृथ्वीम्’ (शां० ब्रा० ८।४)। प्रसितिः पाश्या मृगबन्धनहेतुभूता। पाजस्तेजः।
  • ‘प्रसितोत्सुकाभ्यां तृतीया च’ (पा० २।३।४४)। प्रसितः=प्रसक्तः=यस्तत्र नित्यमेवावबद्ध इति वृत्ति:।

सिच्

  • {प्रसिच्}
  • सिच् (षिच-क्षरणे)।
  • ‘उदपानाश्च कुम्भाश्च प्रासिञ्चन् शतशो जलम्’ (भा॰उ॰८४.७)। प्रासिञ्चन्=प्राक्षारयन्।
  • ‘उदकाञ्जलिं प्रसिञ्चेत्’ (द्रा॰गृ॰१.२)। प्रसिञ्चेत् अवसिञ्चेत्।
  • ‘इत्येभिर्हेतुभिस्तस्य त्रिभिश्चित्तं प्रसिच्यते (भा॰शां॰२८.७)। द्रवति क्लिन्नं श्लथं भवतीत्याह।
  • ‘यल्लोहमयः स्यात्प्रसिच्येत’ (श॰ब्रा॰१४.२.२.५४)। प्रसिच्येत द्रवेत, द्रुतं स्यन्नं स्यादित्याह।
  • ‘सकृत्प्रसिञ्चन्त्युदकं नामगोत्रेण वाग्यताः’ (याज्ञ० ३।५)। प्रसिञ्चन्ति परासिञ्चन्ति।

सिध्

  • {प्रसिध्}
  • सिध् (षिधु-संराद्धौ)।
  • ‘भूतं भव्यं भविष्यं च सर्वं वेदात् प्रसिध्यति’ (मनु॰१२.९७)। प्रसिध्यति प्रभवति प्रादुर्भवति।
  • ‘तथैकवृत्तिता तयोः स्वरश्च मे प्रसिध्यति’ (पा॰३.१.१२२ इत्यत्र श्लो॰वा०)। प्रसिध्यति व्यक्तिमेति, व्याख्यातो भवति।
  • ‘यथा प्रसिद्धैर्मधुरं शिरोरुहैर्जटाभिरप्येवमभूत्तदाननम् (कु॰५.९)। प्रसिद्धैर्भूषितैः।
  • प्रसिद्धौ ख्यातभूषितावित्यमरः॥
  • ‘न प्रसिध्यन्ति कर्माणि क्रियतामविचारणात्’ (हरि० २।५१।२१)। प्रसिध्यन्ति सिध्यन्ति। अनर्थकः प्रशब्दः। क्रियतां कुर्वताम्।
  • ‘ताभ्यां युक्त्वा प्रासेधत् न उदजयत्’ (पञ्च० ब्रा० १४।३।१३)। प्रासेधत् प्रागच्छत् प्रातिष्ठत।
  • ‘एतौ मे गावौ प्रमरस्य युक्तौ मो षु प्र सेधीर्मुहुरिन्ममन्धि’ (ऋ० १०।२७।२०)। मा प्रसेधीः=मा स्म अपाजः, माऽपगमय।
  • ‘धनुष्कोणानिषुणा व्रात्याः प्रसेधमाना यन्ति (लाट्या० श्रौ० ८।६।८)।

सु

  • {प्रसु}
  • सु (षु-प्रसवैश्वर्ययोः)।
  • ‘गौरिव प्रसवत्यर्थान् रसमुत्तमशालिनी (भा॰अश्व॰२१.२२)। प्रसवति=सूते=उत्पादयति। प्रसव इह उत्पाद उक्तो नाभ्यनुज्ञानम्।
  • ‘…भक्ष्योऽयं मम सुप्रियः। स्नेहस्रवान् प्रसवति’ (भा॰आदि॰१५२.८)। उक्तोऽर्थः।
  • ‘तत्रेमं यज्ञं यजमानं च धेह्यो प्रणयेति प्रसौति’ (आप॰श्रौ॰३.६.१९.१)। अभ्यनुजानातीत्यर्थः।
  • ‘यज्ञेषु चैतदादयः प्रसवाः’ (आप॰ध॰१.४.१३.८)। प्रसवा निर्देशा अनुज्ञावाक्यानि।
  • ‘त्रैलोक्यदर्शनं चैव प्राधान्यं प्रसवे तथा’ (हरि॰१.३१.३७)। प्रसवोऽभ्यनुज्ञा।

सु

  • {प्रसु}
  • सु (षुञ्-अभिषवे, अभिषवः स्नपनं पीडनं स्नानं सुरासन्धानं च)।
  • ‘सुतं तस्मात्तव प्रसुतमासुतं कुले दृश्यते’ (छां॰उ॰५.१२.१)। प्रसुतं सन्ततं सवनम्।
  • ‘तस्मात्तव सुतं प्रसुतमासुतं कुले दृश्यते’ (छां० उ० ५।१२।१)। एकाहः अहीनः सत्रम् इति विभागः कर्मणाम्। तेषु प्रवर्तमानं सोमाभिषवणं क्रमात् सुतादिशब्दैरभिधीयते।

सू

  • {प्रसू}
  • सू (षूङ्-प्राणिगर्भविमोचने, प्राणिप्रसवे)।
  • ‘यथा शूद्रो ब्राह्मण्यां बाह्यं जन्तुं प्रसूयते’ (मनु॰१०.३०)। जनयतीत्यर्थः।
  • ‘तद्वः सर्वं प्रवक्ष्यामि प्रसवे च गुणागुणान्’ (मनु॰३.२२)। प्रसवे=सन्तानेऽपत्येषु।
  • ‘एषां सूतिप्रसूतिभ्यामिदमापरितं जगत्’ (वि॰पु॰१.८.१०)। सूतिप्रसूतिभ्याम्=पुत्रपौत्रादिभिः।
  • ‘पुष्पवतीः प्रसूमतीः फलिनीरफला उत’ (अथर्व॰८.७.२७)। प्रसूः=नवाङ्कुरः।
  • ‘प्रसूमयं बर्हिः प्रस्तरश्च’ (आप॰श्रौ॰८.१.१.१०)। प्रसूमयम्=पुष्पमयम्।
  • ‘सूश्च मे प्रसूश्च मे’ (वा॰सं॰१८.७)। सूः पुत्रादिप्रेरणसामर्थ्यम्। प्रसूः पुत्रोत्पत्त्यादिसामर्थ्यम्।
  • ‘बृहस्पतिप्रसूतो यजमानः’ (तै० सं० १।६।१।१)। प्रसूतोऽभ्यनुज्ञातः। षु प्रसवैश्वर्ययोरित्यत्र धात्वर्थनिर्देशे प्रसवो ऽभ्यनुज्ञानमाहेति विवरीतारः।
  • ‘इदमहं बृहस्पतेः सदसि सीदामि प्रसूतो देवेन सवित्रा’ (का० श्रौ० २।२।१)। उक्तोर्थः।
  • ‘प्रवात्सु घोरेष्वपि मारुतेषु न ह्यप्रसूतास्तरवश्चलन्ति’ (सौन्दर० १६।१०)। अप्रसूता अजाता अनुद्भूताः।
  • ‘संस्कृतं प्रसवं याति’ (भा० वन० ३।८२)। संस्कृतं पक्वमन्नं वर्धत इत्यर्थः।
  • ‘तरवो भूरिवर्ष्माणः प्रासूयन्त मधुच्युतः’ (भा० पु० ४।१९।८)। प्रासूयन्त पुष्पफले उदपादयन्नित्यर्थः। तथा चामरः पठति–स्यादुत्पादे फले पुष्पे प्रसवो गर्भमोचने इति।

सू

  • {प्रसू}
  • सू (षू-प्रेरणे)।
  • ‘प्रेमां देवा असाविषुः सौभगाय’ (अथर्व॰१.१८.२)। प्रासाविषुः=प्रेरितवन्तः।
  • ‘तद्यदेताभ्यामप्रसूतः करोत्यकृतं तत् अकृतमकरिति वै निन्दन्ति’ (ऐ॰ब्रा॰१०.६)। अप्रसूतः=अनभ्यनुज्ञातः।
  • ‘एका दीक्षा तिस्र उपसदः…प्रसूतः’ (आप॰श्रौ॰१०.१५.१)। प्रसूत इति यजमानस्य सञ्ज्ञा।
  • ‘शेषमुपह्वयस्वेत्यामन्त्र्यामन्त्र्य भक्षणमुपहूत इति प्रसूतः’ (का॰श्रौ॰४.२.१३)। प्रसूतोऽभ्यनुज्ञातः।
  • ‘तत्प्रसूतः कर्माणि कुर्वीत’ (गौ॰ध॰२.२.१३)। उक्तोऽर्थः।
  • ‘गोभिः सन्नद्धा पतति प्रसूता’ (ऋ॰६.७५.११)। प्रसूता=प्रेरिता=क्षिप्ता (इषुः)।
  • ‘तदस्मै सविता प्रसविता प्रासुवत्, तत्सवितृप्रसूत उदजयत् (श॰ब्रा॰५.१.१.४)। प्रासुवत्=प्रैरयत्। सवितृप्रसूतः=सवित्रा प्रेरितः।
  • ‘अर्षन्त्वापस्त्वयेह प्रसूताः’ (ऋ० ३।३०।९)। प्रसूताः प्रेरिताः।

सृ

  • {प्रसृ}
  • सृ (सृ-गतौ)।
  • ‘प्रसरति परिमाथी कोऽप्ययं देहदाहः’ (मालती॰१.४१)। प्रसरति=विसर्पति।
  • ‘भित्त्वा भित्त्वा प्रसरति बलात् कोऽपि चेतोविकारः’ (उत्तर॰३.३६)। उक्तोऽर्थः।
  • ‘न मे हस्तौ प्रसरतः’ (शा॰२)। आयच्छेते।
  • ‘लोहिताद्या महानद्यः प्रसस्रुस्तत्र चासकृत्’ (भा॰)। प्रसस्रुः=सस्यन्दिरे।
  • ‘न चैनं (गुरुम्) अभि प्रसारयीत’ (आप॰ध॰१.६.३)। अभिः कर्मप्रवचनीयः। प्रसारयीत=प्रसारयेत्। न प्रसारयेत् नाततौ कुर्यात्।
  • ‘दृश्यते ज्ञानयोगेन आवां च प्रसृतौ ततः’ (भा॰शां॰३३४.४२)। प्रसृतौ निःसृतौ।
  • ‘प्रसृते च परिचये तस्या हस्ते न्यासं निक्षेपं च निदध्यात्’ (कामसूत्रे)। प्रसृते=उपचिते=वृद्धिं गते।
  • प्रवृद्धप्रसृते (समे) इत्यमरः।
  • ‘न तेजस्तेजस्वी प्रसृतमपरेषां विषहते’ (उत्तर॰६.१४)। उक्तोऽर्थः।
  • ‘कौतूहलप्रसृतलोलतरनयनाः’ (अवदा॰महा॰जा॰)। प्रसृते=व्यायते (लोचने)।
  • अन्वेषणप्रसृते च मित्रगणे। गवेषणायां प्रगते
  • पाणिर्निकुब्जः प्रसृतिः, तौ युतावञ्जलिः पुमान् इत्यमरः। अत्र केचित्प्रसृत इति पठन्ति। स्वामी तु प्रस्मृतिप्रसृतावुभावपि स्वीकरोति। प्रसृत इति प्राक्तनः पाठ एव साधुर्भवति।
  • ‘प्रसृतेन प्राशयेत’ (आश्व॰गृ॰१.११.२) इत्यत्रार्धाञ्जलावर्थे प्रयोगदर्शनात्
  • ‘द्वौ दापयेत् प्रसृतौ शर्करामधुसंयुतौ’ (का॰सं॰खिल॰३.९१)। इत्यत्र च तथा दर्शनात्।
  • ‘पेया च पञ्च प्रसृता’ (अष्टाङ्ग॰१६.४१)। द्वे पले प्रसृतं विदुः।
  • ‘प्रसृतश्च गजः श्रीमानौपवाह्यः प्रतीक्षते’ (रा० २।१५।११)। प्रसृतः=स्रवन्मदः।
  • ‘आश्चर्यं भोः प्रसारणं कृतं गणिकाया नानापक्षिसमूहै’ (मृच्छ० ४)। इतस्ततः प्रसृता दृश्यन्ते पक्षिसमूहा इत्यर्थः।
  • ‘सर्वतो वनाजीवः प्रसारः’ (कौ० अ० १०।२।५)। प्रसारो नाम सर्वतः स्थितेभ्यो वनेभ्य आजीवोपकरणसङ्ग्रहणम्।

सृज्

  • {प्रसृज्}
  • सृज् (सृज-विसर्गे)
  • ‘जयो वैरं प्रसृजति दुःखमास्ते पराजितः’ (भा॰उ॰७२.५९)। प्रसृजति=सृजति, उत्पादयति।
  • ‘ततोऽर्जुनः प्रासृजद् उग्रधन्वा भुजावुभौ गाण्डिवं चानुमृज्य। नाराचनालीकवराहकर्णान्…’ (भा॰कर्ण॰८९.१४)॥ प्रासृजत्=व्यसृजत्=प्राक्षिपत्।
  • ‘न तदहः प्रसृज्येत’ (गो॰गृ॰१.५.२१)। प्रसृज्येत=त्यज्येत। गृहमिति शेषः।
  • ‘गुरवे प्रस्रक्ष्यमाणो नाम प्रब्रुवीत’ (आश्व॰गृ॰३.८.१)। प्रलक्ष्यमाणः=विलक्ष्यमाणः=गृहाय प्रहीयमारणः।
  • ‘अथैनमुदञ्चं प्राञ्चं प्रसृजतः’ (श॰ब्रा॰१३.४.२.१५)। प्रसृजतः=विसृजतः।
  • ‘तलैर्वज्रनिपातैश्च प्रसृष्टाभिस्तथैव च’ (भा॰वि॰१३.२८)। अङ्गुल्यः प्रसृता यास्तु ताः प्रसृष्टा उदीरिता इति नीलकण्ठः।
  • ‘कीलैर्वज्रनिपातैश्च प्रसृष्टाभिस्तथैव च’ (हरि॰२.३०.३४)। प्रसृष्टाभिः सर्वाङ्गसंश्लेषणैः।
  • ‘प्रसृष्टास्वनुमन्त्रयेत’ (आश्व॰गृ॰४.८.५)। दत्तास्वार्घ्याप्सु इत्याह।
  • ‘सञ्जहारास्त्रमथ तत्प्रसृष्टं पाण्डवर्षभः’ (भा॰वन॰२४५.२९)। प्रसृष्टम्=प्रक्षिप्तम्।
  • ‘प्रसृष्टवृषणो ह्येष वृषलीभूतो भवति’ (जै॰गृ॰१.१२)। प्रसृष्टवृषणः=त्याजितमुष्कः।
  • ‘प्रान्तर्ऋषयः स्थाविरीरसृक्षत’ (ऋ० ९।८६।४)। अन्तः पात्रमध्ये प्रासृक्षत प्रसृजन्ति क्षिपन्ति।
  • ‘ग्राम्यान्पशून् आलभन्ते प्रारण्यान् सृजन्ति’ (पञ्च० ब्रा० २१।४।१३)। प्रसृजन्ति उत्सृजन्ति।
  • ‘नेद्रक्षसां भागेन दैवं भागं प्रसृजानि’ (शां० ब्रा० १०।४)। रक्षोभागात् परेण स्थापयामि।
  • ‘मुखे प्रस्रक्ष्यमाणो नाम प्र ब्रुवीत’ (आश्व० गृ० ३।१०।१)। समावर्तनकाले विस्रक्ष्यमाण इत्यर्थः।
  • ‘त्वत्प्रसृष्टं माऽभिवदेत्प्रतीतः।’ (कठोप० १।१।१०)। त्वत्प्रसृष्टं त्वया विसृष्टम्।
  • ‘यथापुरस्ताद् भविता प्रतीत औद्दालकिरारुणिर्मत्प्रसृष्टः’ (कठोप० १।१।११)। मत्प्रसृष्टः=मया प्रेरितः।
  • ‘अन्येषां च प्रसृष्टस्त्रीकाणाम्’ (कौ० अ० ३।४।२२)। प्रसृष्टा दत्तकामचारानुज्ञाः।
  • ‘प्रसृष्टा अनुमन्त्रयेत’ (अर्ध्या अपः)। (आश्व० गृ० ४।७।१३)। प्रसृष्टा निनीताः।

सुप्

  • {प्रसुप्}
  • सृप् (सृप्लृ-गतौ)।
  • ‘प्रसर्पकाले सम्प्राप्ते नानादिग्भ्यः समागतान्’ (भा॰सभा॰१२.१६)। प्रसर्पोऽग्निविसर्जनम् इति निघण्टुरिति नीलकण्ठः।
  • ‘ततः प्रसर्पकेभ्यस्तु हिरण्यं सुसमाहितः’ (रा॰१.१५.५१)। अभ्यागतेभ्य इति तिलकः। परिचारकद्विजेभ्य इति च कतकः।
  • ‘आलर्कं विषमिव सर्वतः प्रसृप्तम्’ (उत्तर॰१.४०)। प्रसृप्तम्=विसृप्तम्।

स्कन्द्

  • {प्रस्कन्द्}
  • स्कन्द् (स्कन्दिर्-गतिशोषणयोः)।
  • ‘य आगच्छेत्तं ब्रूयाच्छणशुल्बेन जिह्वां निर्मृजानः शालायाः प्रस्कन्देति’ (कौ॰सू॰२५.२२)। निष्क्राम, निष्पत, निर्याहीत्यर्थः।
  • ‘वासुदेवस्ततो योगी प्रचस्कन्द महारथात्’ (भा॰भीष्म॰१०६.५६)। प्रचस्कन्द=अवचस्कन्द=अवततार।
  • ‘समुत्क्षिप्य नदन् क्रुद्धः प्रचस्कन्द रथोत्तमात्’ (भा॰द्रोण॰१५.४)। प्रचस्कन्द=अवपुप्लुवे।
  • ‘प्रस्कन्दयेच्च मनसा भुक्त्वा चाग्निमुपस्पृशेत्’ (भा॰अनु॰१०४.५६)। अन्नशेषं त्यजेत् इत्यर्थः।
  • ‘शोणितोदां रथावर्तां नागनक्रां दुरत्ययाम्। नदीं प्रस्कन्दयिष्यामि परलोकप्रवाहिणीम् (भा॰वि॰६१.२०)। प्रवाहयिष्यामीत्याह।
  • ‘ततो रथाभ्यां प्रस्कन्ध भ्रातरौ क्षत्रियर्षभौ’ (भा॰वि॰३३.५)। प्रस्कन्ध=प्रस्कद्य=अवतीर्य।
  • ‘अग्निप्रस्कन्दनपरस्त्वं चाप्येवं भविष्यसि’ (भा॰आदि॰८४.२६)। प्रस्कन्दनं श्रौतस्मार्ताद्यग्निसाध्यकर्मत्यागः।
  • ‘तत्रावहसितश्चासीत्प्रस्कन्दन्निव सम्भ्रमात्’ (भा॰आदि॰१.१३६)। प्रस्कन्दन् स्खलन्।
  • ‘एते विनिहताः सर्वे प्रस्कन्नाः पाण्डुवाहिनीम् ‘(भा॰शल्य॰१८.२२)। प्रस्कन्नाः प्रपन्नाः।
  • ‘यन्मुखेन (स्त्रियं न स्पृशति) तेनाग्निप्रस्कन्दिना (लोकानवरुन्धे) (गो॰ब्रा॰पू॰२.४)। अग्निप्रस्कन्दिनाम् = ज्वलितहिरण्यरेतस्यात्मानं जुह्वताम्।
  • ‘प्राणं वा एते स्कन्दन्ति ये दिवा रत्या संयुज्यन्ते’ (प्रश्नोप० १।१३)। प्रस्कन्दन्ति विकिरन्ति।
  • ‘स्नेहप्रस्कन्नमनसा मयैतत् समुदीरितम्’ (रा० ५।३८।७)। प्रस्कन्नं शिथिलमिति भूषणकारः।
  • ‘जग्मुस्तत्र ततो देवीं विष्णुमायां प्रतुष्टुवुः’ (दुर्गा० ५।७)। प्रतुष्टुवुः स्तोतुमारेभिरे। प्रशब्द आदिकर्मणि। अनर्थको वा।
  • ‘गत्वा ननाम तं कृष्णं प्रतुष्टाव यथागमम्’ (ब्रह्मवै० पु० ४।१५।९१)। उक्तोऽर्थः।
  • ‘कथयितुं प्रास्तावीत्’ (हर्ष०)। प्रास्तावीत् प्रारब्ध।
  • ‘बृहस्पतिरभिकनिक्रदद् गा उत प्रास्तौत्’ (तै० सं० ३।४।११।४३)। मेघसन्निधानादिना वृष्ट्या ऽभिमुख्यवतीः कृतवानित्यर्थ इति भट्टभास्करः।
  • ‘दृष्ट्वा माद्यति मोदते ऽभिरमते प्रस्तौति विद्वानपि’ (प्र० च० ४।८)। प्रस्तौति पुनः पुनस्तदेवारभते।
  • ‘(भूतेश्वरम्) द्वैतध्वान्तमपास्य यान्ति कृतिनः प्रस्तौमि तं पूरुषम्’ (प्र० च० ६।१४)। प्रस्तौमि तात्पर्येण प्रतिपादयामि।
  • ‘यथेप्सितं प्रस्तुत कर्म धर्म्यम्’ (भट्टि० २।२८)। प्रस्तुत प्रारभध्वम्। पुस्तके त्वन्यथा गृहीतमन्यथा च व्याख्यातम्। तच्छोध्यम्।
  • ‘तत्रोपमन्त्रितस्तेन प्रस्तुतो भोक्तुम्’ (बृ० क० म० वेताल १।१७०)। प्रस्तुतः प्रारब्धः। प्रवृत्तः।
  • ‘गन्तुं किं युज्यते पुत्रि प्रस्तावे ऽत्र भयावहे’ (बृ० क० को० ६७।२५)। प्रस्तावो ऽवसरः।

स्तु

  • {प्रस्तु}
  • स्तु (ष्टुञ्-स्तुतौ)।
  • ‘प्र सम्राजं चर्षणीनामिन्द्रं स्तोता नव्यं गीर्भिः’ (ऋ॰८.१६.१)। प्रशब्दः प्रकर्षे।
  • ‘ता वामद्य स्तुतिभिः शुभस्पती अश्विना प्रस्तुवीमहि’ (ऋ॰८.२२.६)। उक्तोऽर्थः।
  • ‘प्रणम्य स कथयितुं प्रास्तावीत्’ (हर्ष॰७)। प्रास्तावीत्=उपाक्रंस्त, आरब्ध। प्रपूर्वः स्तौतिः प्रारम्भे वर्तते इति (भट्टि॰२.२८) इत्यत्र जयमङ्गला। इदं च लोके प्रायेणेति द्रष्टव्यम्।
  • ‘प्रस्तूयतां विवादवस्तु’ (माल॰१)। उक्तोऽर्थः
  • ‘राज्ञोऽपि दुर्गणान् वक्ति प्रत्यक्षमविशङ्कितः। स वक्ता गुणतुल्यांस्तान्न प्रस्तौति कदाचन’ (शुक्र॰२.३२३)। अनर्थकः प्रशब्दः। स्तौतीत्येवार्थः। स्तुतिमात्रेऽभिप्रायो न तु स्तुतिविशेषे।
  • ‘यत्रालोकपथावतारिणि रतिं प्रस्तौति नेत्रोत्सवः’ (महा॰च॰२.४५)। प्रस्तौति जनयतीत्यर्थान्तरम्।
  • ‘स तु प्रस्तावयज्ञेषु कां प्रदास्यति दक्षिणाम्’ (पञ्चत॰२.१७६)। प्रस्तावः संवादः, यत्र वक्तारः स्वस्वमतोपन्यासेनोपकुर्वन्ति।
  • ‘नाममात्रप्रस्तावः’ (शा॰७)। प्रस्तावः कीर्तनम्। उद्देशः। अत्र स्तौतिर्विशेषं परिहत्य सामान्ये कीर्तनेऽर्थे प्रयुक्तः।
  • ‘लोकेषु पञ्चविधं सामोपासीत पृथिवी हिङ्कारोऽग्निः प्रस्तावः’ (छां॰उ॰२.२.१)। साम्न आद्यानि पदान्युपोद्घातरूपाणि प्रस्तावो भवति।
  • ‘त्वराप्रस्तावोऽयं न खलु परिहासस्य विषयः’ (मालती॰९.४५)। प्रस्तावोऽवसरः
  • ‘संस्काराभिनयौ तेषां प्रस्तावानां च धारणम् (हरि॰२.९३.१०)। प्रस्तावः क्रियाणां प्रसञ्जनम्
  • ‘यथेप्सितं प्रस्तुतं कर्म धर्म्यम्’ (भट्टि॰२.२८)। प्रस्तुतं प्रारब्धम्।
  • ‘यदिदं प्रस्तुतं कर्म त्वया गोविन्द लौकिकम्’ (हरि॰२.४.३६)। उक्तोऽर्थः।
  • ‘नलिन्यां प्रस्तुता क्रीडा भवता भोगिनामिति’ (बृ॰श्लो॰स॰५.११३)।
  • ‘उद्गीथः प्रस्तुतं स्तुतम्’ (अथर्व॰११.७.५)। प्रस्तोत्रा गीयमानः प्रस्तावाख्यो भागः प्रस्तुतम्। प्रस्तूयते स्तुतेः प्रारम्भः क्रियतेऽनेनेति प्रस्तुतम्।
  • ‘प्रस्तावना कपटनाटकस्य’ (का॰शुक्र॰)। अवतरणिका।
  • कृतमनेनाप्रस्तुतप्रशंसया। असम्बद्धार्थकथनेन नार्थ इत्याह।

स्तृ

  • {प्रस्तृ}
  • स्तृ (स्तृञ्-आच्छादने)।
  • ‘स प्रस्तरः’ (आप॰श्रौ॰१.२.३.१२)। प्रस्तरः प्रथमलूनो मुष्टिः।
  • ‘गृहान्व्रजित्वाऽधः प्रस्तरे त्र्यहमनश्नन्त आसीरन्’ (इदं वसिष्ठवचनमिति याज्ञ॰३.१६ मिताक्षरायां स्थितम्)। शयनासनार्थस्तृणमयः प्रस्तर इति च मिताक्षरा।

स्था

  • {प्रस्था}
  • स्था (ष्ठा-गतिनिवृत्तौ)।
  • ‘या ते काकुत्सुकृता या वरिष्ठा यया शश्वत् पिबसि मध्व ऊर्मिम्। तया पाहि प्र ते अध्वर्युरस्थात्’ (ऋ॰६.४१.२)। प्रास्थात्=उपास्थित=अभिमुखोस्थात्।
  • ‘द्रविणोदाः पिपीषति जुहोत प्र च तिष्ठत’ (वा॰सं॰२६.२२)। प्रतिष्ठत=प्रतिष्ठध्वम्, कर्मणि प्रवृत्ता भवतेत्याह। पिपीषति- पेतुं पातुमिच्छति। पीङः सनि रूपम्। परस्मैपदं त्वार्षम्।
  • ‘पारसीकास्ततो जेतुं प्रतस्थे स्थलवर्त्मना’ (रघु॰४.६०)। प्रशब्दो धात्वर्थं विपर्यासयति। प्रतस्थे=गन्तुं प्रववृते।
  • ‘खण्डेन लोहितकेन शरावेण ग्रामे प्रतिष्ठेत’ (आप॰ध॰१.९.२४.१४)। ग्रामं गच्छेदित्यर्थः।
  • ‘पूरो बलानां सवनाम्बुशीकरः शनैः प्रतस्थे सुरभिः समीरणः’ (कि॰१४.२८)। प्रतस्थे=ववौ।
  • ‘तस्मिंश्च प्रतिष्ठमाने सर्वा एव प्रतिष्ठन्ते’ (प्रश्न॰उ॰)। प्रतिष्ठमाने प्रतितिष्ठति, स्थेमानं लभमाने। प्रतिष्ठन्ते=स्थितिमत्यो भवन्ति।
  • ‘वाक्यैरमृतकल्पैस्तैः प्रतिष्ठन्ति व्रजन्ति च’ (भा॰शां॰१५३.८)। प्रतिष्ठन्ति=प्रतितिष्ठन्ति=तिष्ठन्ति।
  • ‘भिक्षाभुजश्च ये केचित्परिव्राड्ब्रह्मचारिणः। तेऽप्यत्रैव प्रतिष्ठन्ते गार्हस्थ्यं तेन वै परम्’ (वि॰पु॰३.९.११)। प्रतिष्ठन्ते प्रतितिष्ठन्ति।
  • ‘वेदा इह प्रतिष्ठेरन्नेष नः काङ्क्षितो वरः’ (भा॰शां॰३२७.४१)। प्रतितिष्ठेयुः।
  • ‘देवो वः सविता प्रार्पयत्विति शाखया गोचराय गाः प्रस्थापयति’ (आप॰श्रौ॰१.१.२.४)। प्रस्थापयति=कालयति।
  • ‘स्थगिता तत्कथापापस्पर्शभीत्या सरस्वती। कथं चित्त्रस्नुरश्वेव सेयं प्रस्थाप्यते मया’ (राजत॰५.४१६)। प्रवर्त्यते। प्रवीयते।
  • ‘इन्द्राग्निभ्यां छागं हविर्वपां मेदः प्रस्थितं प्रेष्य’ (पा॰२.३.६१ सूत्रे वृत्तिः)। हविषः प्रस्थितस्य प्रतिषेधो वक्तव्य इति च वार्तिकम्। प्रस्थितं प्रवृत्तम्।
  • ‘अध्वर्युभिः प्रस्थितं सोम्यं मधु’ (अथर्व॰२०.६७.७)। उक्तोऽर्थः।
  • ‘उशन्निन्द्र प्रस्थितान् पाहि सोमान्’ (अथर्व॰२०.८७.२)। पाहि=पिब। प्रस्थितान् पवमानान्।
  • ‘वायो तान् (सोमान्) प्रस्थितान् पिब’ (ऋ॰१.२३.१) उक्तोऽर्थः।
  • ‘तस्यापि सुमहांस्तापः प्रस्थितस्योपजायते’ (भा॰शां॰२९१.९)। प्रस्थितस्य मृतस्य। योगे प्रवृत्तस्येति वा। अनन्तरार्थे तापो नरकजं दुःखम्।
  • ‘लीलामन्दं प्रस्थितं च स्थितं च। स्त्रीणामेतद् भूषणं चायुधं च’ (शृ॰ति॰श्लो॰३)।
  • ‘ह्रदप्रस्थितसञ्चया’ (हरि॰२.४६.३५)। ह्रदात्प्रस्थितः चलितो मत्स्यादिसमुदायो यस्याः सा।
  • ‘सन्देहश्चेन्निरीक्षस्व नभःप्रस्थापितेक्षणः’ (बृ॰श्लो॰सं॰३.८२)। वियत्प्रहितलोचन इत्याह।
  • ‘सप्रस्थानाः क्षत्रधर्मा विशिष्टाः’ (भा॰शां॰६४.२२)। प्रस्थानं पारिव्राज्यम्। प्रतिष्ठतेऽस्मिन्निति प्रस्थो गिरेः समा भूः। वनस्य प्रस्थः=वनप्रस्थः। वनप्रस्थे भवो वानप्रस्थः।
  • ‘प्र सोता जीरो अध्वरेष्वस्थात्’ (ऋ० ७।९२।२)। प्रास्थात् प्रातिष्ठिपत्। पुरस्तादुत्तरवेदिं प्रापितवानिति सायणः।
  • ‘अग्नीषोमा हविषः प्रस्थितस्य वीतम्’ (तै० सं० २।३।१४।२)। प्रस्थितस्य उपस्थितस्य प्रारब्धस्य वा।
  • ‘कोदण्डो गिरिराज एष भुजगप्रष्ठस्तदीयो गुणः’ (त्रिपुर० १।७ )। प्रष्ठोऽग्रगामी।
  • ‘प्रष्ठो ऽग्रगामिनि’ (पा० ८।३।९२ इत्यत्र निपातितम्)।

स्ना

  • {प्रस्ना}
  • स्ना (ष्णा-शौचे)।
  • ‘समुद्रं वा एते प्रस्नान्ति ये संवत्सरं (संवत्सरसाध्यं गवामयनम्) उपयन्ति’ (ताण्ड्यब्रा॰५.८.५)। प्रस्नान्ति अप्रवगाहन्ते।
  • ‘तीर्थेन यथा समुद्रं नायुः’ (श॰ब्रा॰१२.२.१.१)। प्रस्नायुरिति स्नातेर्लिङि रूपम्। प्रविशेयुरित्यर्थः।
  • ‘यो वा अप्लवः समुद्रं प्रस्नाति न स तत उदेति’ (पञ्च० ब्रा० ४।५।१७)। प्रस्नाति अवगाहते प्रविशति।
  • ‘मा नो देवानां विशः प्रस्नातीरिवोस्राः कृशं न हासुरध्नियाः’ (तै० सं० २।६।११।२)। प्रस्नातीः त्रस्नुवतीः प्रस्नुताः।
  • ‘करस्नौ बाहू कर्मणां प्रस्नातारौ’ (नि० ६।१७।१)। प्रस्नातारौ निर्वर्तयिताराविति दुर्गः।
  • प्रस्नान्यस्मिन्निति प्रस्नः। स्नानीयं बृहद् भाजनम्। घञर्थे काविधानं स्थास्नापाव्यधिनियुध्यर्थम् इति स्नातेः कः।

स्नु

  • {प्रस्नु}
  • स्नु (ष्णु प्रस्रवणे)।
  • ‘प्रास्मा इमे लोकाः स्नुवन्ति’ (तै० सं० २।१।४।८)। सस्नेहं वसूनि दुहन्तीत्यर्थः।

स्फुट्

  • {प्रस्फुट्}
  • स्फुट् (स्फुटिर्-विकसने, स्फुट-विकसने, स्फुट-भेदने)।
  • ‘नगानां प्रास्फुटन् कुम्भाः’ (भा॰कर्ण॰२२.२४)। अभिद्यन्तेत्यर्थः।

स्मृ

  • {प्रस्मृ}
  • स्मृ (स्मृ-चिन्तायाम्, स्मृ-आध्याने)।
  • ‘भ्रातॄन् सन्दृश्य निहतान् प्रास्मरंस्ते हि तद्वचः’ (भा॰भीष्म॰८८.३२)। प्रास्मरन्=अस्मरन्। प्रकर्षेणास्मरन्निति वा। इह प्रशब्दो नार्थं विपर्यासयति यथाऽन्यत्र।

स्यन्द्

  • {प्रस्यन्द्}
  • स्यन्द् (स्यन्दू-प्रस्रवणे)।
  • ‘प्रस्यन्दिनि’ (गौ॰ध॰२.७.४२)। प्रकृष्टं स्यन्दनं वर्षं प्रस्यन्दः, तद्वति काल इति सूत्रार्थः।
  • ‘स रथं युक्त्वा। सुकन्यार्थं शर्यातीमुपाधाय प्रसिष्यन्द’ (श॰ब्रा॰४.१.५.६)। तत्वरे इत्यर्थः। स्यदो जवो भवति, स्यन्दनश्च जवनोऽनुद्घाती रथः।

स्रंस्

  • {प्रस्रंस्}
  • स्रंस् (स्रंसु-अवस्रंसने)।
  • ‘ते जन्या उभयतोऽप्रस्रंसाय बर्सो नह्यति’ (ऐ॰ब्रा॰२.५)। अप्रस्रंसाय=अशिथिलत्वाय। बर्सो बन्धनविशेषो भवति।

स्रु

  • {प्रस्रु}
  • स्रु (स्रु-गतौ)।
  • ‘हिमवतः प्रस्रवन्ति सिन्धौ समहः सङ्गमः’ (अथर्व॰६.२.१)। प्रस्रवन्ति=प्रस्यन्दन्ते=प्रवहन्ति=प्रभवन्ति।
  • ‘रुधिरेणावसिक्ताङ्गं प्रस्रवन्तं यथाऽचलम्’ (भा॰अनु॰१.३)। प्रस्रवन्तं निर्भरवन्तमित्याह।
  • ‘नाऽऽतपतिं प्रस्रावयेत्’ (श॰ब्रा॰१४.१.१.३३)। सूर्ये वितपमाने न मेहेदित्यर्थः।
  • ‘स यत्पुरैतस्य होमात्प्रसर्पेद्वा प्र वा स्रावयेत्’ (श॰ब्रा॰४.२.४.८)। उक्तोऽर्थः।
  • ‘स्रवद्धिः शोणितं गात्रैः प्रस्रुताविव वारणौ (भा॰द्रोण॰९८.२३)। प्रस्रुतौ प्रभिन्नौ मदवारि विमुञ्चन्तौ।

स्वप्

  • {प्रस्वप्}
  • स्वप् (ञिष्वप्-शये)।
  • ‘स यत्रायं प्रस्वपिति’ (श॰ब्रा॰१४.७.१.१०)। प्रसुप्तः सुषुप्तो भवति।
  • स्विद् (ञिश्विदा-गात्रप्रक्षरणे)।
  • ‘ततः प्रसिष्विदे कृष्णः स्विन्नश्चार्जुनमब्रवीत्’ (भा॰द्रोण॰१९.२१)। प्रशब्द आदिकर्मणि स्यादनर्थको वा। प्रकर्षद्योतकस्तु न। स्विन्न इत्यनन्तरोक्तेः।

हन्

  • {प्रहन्}
  • हन् (हन-हिंसागत्योः)।
  • ‘रात्री तस्य प्रतीत्य प्र ग्रीवाः प्र शिरो हनत्’ (अथर्व०१९.४९.९)।
  • ‘अथ तुषान् प्रहन्ति’ (श॰ब्रा॰१.१.४.२१)। प्रक्षिपतीत्याह।
  • ‘ईषद् धौतं नवं श्वेतं सदृशं यन्त्रधारितम्। निर्णेजकाक्षालितं चाप्रहतं वास उच्यते॥ हतप्रहतविध्वस्ता विवर्मायुधवाहनाः’ (भा॰कर्ण॰३१.६)। हतास्ताडिताः। प्रहताश्छिन्नावयवाः।
  • खिलाप्रहते समे इत्यमरः। अप्रहत एष पन्थाः। अक्षुण्ण इत्यर्थः।
  • प्रहताश्च पातकपथाः। पापमार्गाः पादचारेण लोकेन क्षुण्णा इत्यर्थः।
  • ‘अगारैकदेशे प्रघणः प्रघाणश्च’ (पा॰३.३.७९)। आलिन्देऽर्थे प्रपूर्वाद् हन्तेरपि घञि च निपातनं पाणिनीये।
  • ‘सर्पान् हरन्ति विततप्रहणाः सुपर्णाः’ (अवदा॰जा॰३२.३२)। विवृतमुखा इत्याह।

हा

  • {प्रहा}
  • हा (ओहाक्-त्यागे)।
  • ‘श्रुतं मे मा प्रहासीः’ (ऐ॰उ॰)। अन्तर्णीतण्यर्थोऽत्र जहातिः। मा स्म हाफ्य इत्यर्थः।
  • ‘नीडं शकुन्ता इव जातपक्षाश्छन्दांस्येनं प्रजहत्यन्तकाले’ (भा० उ० ४३।५)। प्रजहति विजहति। प्रशब्दः प्रकर्षे।
  • ‘आयुर्मा प्रहासीत्’ (तै० ब्रा० १।२।१।२७)। मा प्रहासीत् मा त्याक्षीत्।

हि

  • {प्रहि}
  • हि (हि-गतौ वृद्धौ च)।
  • ‘प्राहिणोच्चन्द्रसङ्काशान् कुपितानिव तान् हयान्’ (भा॰वि॰५७.४)। प्राहिणोत्=प्राचोदयत्। प्राजत्।
  • ‘खड्गं सहदेवाय प्राहिणोत्’ (भा॰शल्य॰२८.३८)। खड्गेन सहदेवे प्राहरदित्यर्थः।
  • ‘विषदिग्धमिषुं प्राहिणोत्’ (तन्त्रा॰२.३)। प्रास्यदित्यर्थः।
  • ‘बृहस्पतेरञ्जलिं प्राहिणोत्सः’ (भा॰आश्व॰९.२२)।
  • ‘तेऽकृतार्थं प्रहिण्वन्ति प्राणा रायः सुतादयः’ (भा॰पु॰१०.४९.२३)। विहाय गच्छन्तीति विवक्षति कविः। तदस्य स्वातन्त्र्यम्।
  • ‘वेगेन प्रहितं बाहुं निजग्राह हसन्निव’ (भा॰आदि॰१५३.३९)। प्रहितमुत्क्षिप्तम्।
  • ‘यातुधाना हेती रक्षांसि प्रहेतिः’ (वा॰सं॰१५.१६)। प्रकृष्टा हेतिः प्रहेतिः। यस्मिन्नस्त्रे मुक्ते रावणसेनेव परस्परं रिपवो घ्नन्ति सा प्रहेतिः। प्रहेतिर्बाणप्रासादि प्रहरमिति कश्चित्।
  • ‘ततस्तां प्रहितां देवीमिन्द्राणीं सा समन्वगात्’ (भा॰उ॰१४.५)। प्रहिता=प्रस्थिता। हि गतौ वृद्धौ चेति प्राकृतेऽर्थे प्रयोगः, अन्यत्रान्तर्भूतण्यर्थको हिनोतिः प्रयुक्तो दृश्यते।
  • ‘प्रहीयमाणः प्रवरश्च वादिकैः’ (रा॰२.१६.४६)। प्रेर्यमाण इत्याह। राम इति कर्तृपदमुद्देश्यम्।
  • ‘भिनत्ति सम्यक् प्रहितो भेदः स्थिरमतीनपि’ (तन्त्रा॰१.१२.१२९)। प्रहितः प्रयुक्तः प्रणीतः।
  • ‘अहं हि सततं गोषु भवतां प्रहितः पुरा’ (भा॰वि॰३.१०)। प्रहितोऽधिकृतः।
  • ‘प्रहितोऽश्वोऽश्वतर उपतिष्ठति’ (जै० ब्रा० १।३८)। प्रहितः प्राजितः।
  • ‘इयमद्य निशा पूर्वा सौमित्रे प्रहिता वनम्। वनवासस्य…’ (रा० २।४६।२)॥ प्रहिता गतप्रायेति गोविन्दराजः। एवं वनमित्यनन्वयं तिष्ठति। वनं प्रहिता वने प्राप्तेति रामानुजीयं व्याख्यानम्। एवमपि वनमिति द्वितीया नोपपत्तिमती भवति। अहं तु मन्ये वनं प्रहिता वयम् इति मध्येवाक्यमवान्तरवाक्यं प्रक्षिप्तम् इति।
  • ‘इत ऊती वो अजरं प्रहेतारमप्रहितम्। आशुं जेतारं हेतारं रथीतमम्…’ (अथर्व० २०।१०५।३)॥ प्रहेतारम् प्रेरयितारम्। अप्रहितम् अन्येनाप्रेरितम्।

हु

  • {प्रहु}
  • हु (हु-दानादनयोः प्रीणन इत्येके)।
  • ‘प्रहुतो भौतिको बलिः’ (मनु॰३.७४)।
  • ‘प्रहुतो भौतिको बलिः’ (मनु० ३।७४)। प्रहुत इति भूतबलेः संज्ञान्तरं मुन्यन्तरकृतम्।

हृ

  • {प्रहृ}
  • हृ (हृञ्-हरणे)।
  • ‘इन्द्रो वृत्राय वज्रं प्राहरत्’ (तै॰सं॰५.२.६)। प्रास्यदित्यर्थः। वृत्राय=वृत्रं हन्तुम्।
  • ‘इन्द्रो ह वृत्राय वज्रं प्रजहार, स प्रहृतश्चतुर्धाऽभवत्’ (श॰ब्रा॰५.२.४.१)। प्रजहार=प्रचिक्षेप=प्रास।
  • ‘अग्नेरथ वचः श्रुत्वा तद्रक्षः प्रजहार ताम्’ (भा॰आदि॰६.१)। प्रजहार=अपजहार।
  • ‘धिगस्तु मम वार्ष्णेय यदस्मै प्रहराम्यहम्’ (भा॰द्रोण॰१४७.२७)। अस्त्रमस्यामीत्यर्थः।
  • ‘न क्षीणशक्तौ प्रहरामि वज्रम्’ (भा॰आश्व॰९.२९)। प्रक्षिपामीत्यर्थः।
  • ‘आर्तत्राणाय वः शस्त्रं न प्रहर्तुमनागसि’ (शा॰१)। अनपराद्धे क्षेपाय नेत्याह।
  • ‘सह शाखया प्रस्तरं प्रहरति’ (का॰श्रौ॰)। क्षिपति, जुहोतीत्यर्थः।
  • ‘न स्रुवमग्नौ प्रहरेत्’ (गो॰गृ॰१.८.२१)। क्षिपेदित्यर्थः।
  • ‘स्थाल्यां पिण्डान् समवधाय ये समाना इति सकृदाच्छिन्नमग्नौ प्रहरति’ (आप॰श्रौ॰१.३.१०.१०)। उक्तोऽर्थः।
  • ‘दिवमनु विक्रमस्वेति दिवमनु विक्रमते प्रहरति पादम्’ (श॰ब्रा॰६.७.२.१५)। प्रहरति=अग्रे निधत्ते।
  • ‘शतधा ते शिरो वज्री वज्रेण प्रहरिष्यति’ (भा॰सभा॰६८.७०)। खण्डयिष्यतीत्याह।
  • ‘यथा न बाणा नास्त्राणि प्रहरिष्यन्ति ते रणे’ (भा॰द्रोण॰९४.३५)। आहनिष्यन्ति इत्यर्थः।
  • ‘बिभेत्यल्पश्रुताद्वेदो मामयं प्रहरिष्यति’ (भा॰आदि॰१.२६८)। उक्तोऽर्थः।
  • ‘अस्मा इन्दुं प्रतवसे तुराय। प्र यो न हर्मि (=हरामि) स्तोमं माहिनाय’ (अथर्व॰२०.३५.१)। प्रहर्मि=प्रकर्षेण हरामि। इह प्रपूर्वो हरतिस्ताडनं प्रक्षेपणं वा नाह। प्रशब्दो धात्वर्थे विशेषमाधत्ते।
  • ‘अग्नये प्रह्रियमाणायानुब्रूहि’ (श॰ब्रा॰३.६.३.९)। प्रह्रियमारणाय=प्रणीयमानाय।
  • ‘प्रहरिष्यन् प्रह्रियमाणायानुब्रूहि’ (भा॰श्रौ॰७.१०.४)। प्रहरिष्यन्=प्रणेष्यन्।
  • ‘प्रह्रियमाणायाभिरूपा’ (ऐ॰ब्रा॰३.५)। आहवनीये प्रक्षिप्यमाणोऽयं मथितोऽग्निः प्रह्रियमाण इति सायणः।
  • ‘प्रत्येत्यग्निं प्रहरिष्यन्’ (श॰ब्रा॰९.२.२.१)। प्रशब्द आङोऽर्थे। आहरिष्यन्नित्याह।
  • ‘तेन पुत्रेण बालेन प्रहृतं तस्य वै पुनः’ (हरि॰१.२९.७२)। प्रहृतमपहृतम्। प्रशब्दोऽपस्यार्थे। राज्यमिति शेषः।
  • ‘यदि वाश्मा प्रहृतो जघान’ (अथर्व॰४.१२.७)। प्रहृतः=प्रक्षिप्तः।
  • ‘प्रहृत्य तृणं तेन चरति’ (का॰श्रौ॰४.४.१०)। प्रहृत्य=प्रक्षिप्य।
  • ‘प्रहृत्य परिधीन् सम्प्रेष्यति’ (भा॰श्रौ॰८.३.१२)। उक्तोऽर्थः।
  • ‘प्रहारे च पराक्रान्तः शूरः पञ्चत्वमागतः’ (रा॰४.२३.१२)। प्रहारे=सम्प्रहारे=युद्धे।
  • ‘तस्मादक्षणया पशवोऽङ्गानि प्रहरन्ति’ (तै० सं० ५।२।७।४०)। प्रहरन्ति गमनादिषु क्षिपन्ति। (शयनादिषु चोपसंहरन्ति)।
  • ‘ततः शिलां च महतीं प्रगृह्य दनुजः किल। भ्रामयित्वा दशगुणं प्राहरत् केशवोरसि’ (हरि० ३।१२३।१०-११)॥ प्राहरत् प्रास्यत्, प्राक्षिपत्।
  • ‘पादाविव प्रहरन् अन्यमन्यं कृणोति पूर्वमपरं शचीभिः’ (ऋ० ६।४७।१५)। प्रहरन् प्रक्षिपन्।
  • ‘स्वतन्त्रेण त्वया शम्भो सर्वगर्वप्रहारिणा’ (शिव पु० २।४।१५।७०)। प्रहारिणा=हारिणा। अस्थाने प्रः।
  • ‘ताविन्द्रो नाशकदभि वज्रं प्रहर्तुम्’ (शां० ब्रा० ३।६)। प्रहर्तुं प्रासितुम्।

हृष्

  • {प्रहृष्}
  • हृष् (हृष-तुष्टौ)।
  • ‘गुरुः प्रहर्षः प्रबभूव नात्मनि’ (रघु॰३.१७)। प्रवृद्धो हर्षः शरीरे नामादित्याह।
  • ‘तं विचिन्तयतः शापं प्रहर्षः समजायत’ (भा॰आदि॰१२५.२०)। प्रहर्षः काम इति नीलकण्ठः। उपस्थेन्द्रियोत्थानमिति त्वापटेकोषः।

ह्वे

  • {प्रह्वे}
  • ह्वे (ह्वेञ्-स्पर्धायां शब्दे च)।
  • प्रह्वः प्रणतः।
  • ‘एष प्रह्वोऽस्मि भगवन् एषा विज्ञापना च नः’ (महा॰च॰१.४७)।
  • ‘प्रह्वेष्वनिर्बन्धरुषो हि सन्तः’ (रघु॰१६.८०)। प्रह्वो विधेयो नम्रः।
  • ‘तिष्ठन्नासीनः प्रह्वो वा नियमो यत्र नेदृशः’ (गो॰स्मृ॰१.१०)। प्रह्वः=आसनाद्युपाश्रित्य प्रणतः प्रवणः स्थितः।
  • ‘प्रति त्यं चारुमध्वरं गोपीथाय प्र हूयसे’ (ऋ० १।१९।१)। प्रहूयसे आकार्यसे, निमन्त्र्यसे।
  • ‘तिष्ठन्नासीनः प्रह्वो वा नियमो यत्र नेदृशः। तदासीनेन कर्त्तव्यं न प्रह्वेन न तिष्ठता’ (गो० स्मृ० १।१०)॥ पुस्तके प्रथमार्धस्य न्यासः। उत्तरार्धन्यासाय कृत्स्नः श्लोक आवर्त्यते विवक्षितार्थस्य कार्त्स्न्याय।