सत्-कोश-प्रामाण्यम्
शिष्टप्रयोगः परमं प्रमाणं
न कोशमात्रं न बलेन सिद्धिः।
तत्रापि वैकल्पिकशब्दयुग्मे
यो व्याकृतः साधुतरः स एव॥
इति कुशाग्रः २०२४-तमे वर्षे।
तत्र द्वितीयार्धो ऽभिनन्दनीयः - “यो व्याकृतः साधुतरः स एवे"ति।
“न कोशमात्रम्” इत्यत्र प्रामाण्यवैकल्यबुद्धिर् हेयैवेति -
शिष्टप्रयोगोऽस्ति न वेति तात
साक्षी भवानेव न ते किमन्ये ।
नित्यं सकाशे खलु भूसुराणां
संसर्गमाप्त्वा स्वकृतीषु वव्रुः॥
अद्यैव किं जातु कुशाग्रबुद्धिर्
जातो भुवि प्रांशुकृतीर् विलोक्य।
निश्चेतुम् अर्हत्य् अवितर्क्य बन्धान्
काले निगीर्णान् अनुशिष्टबद्धान्॥
शिष्ट-परिग्रहः
शिष्ट-परिगृहीत-कोश-मात्रेण प्रामाण्यं सिद्धम् इति धीः।
तत्र “शिष्टपरिगृहीत” इत्यत्र वैमत्यम्। कः कोशः केन शिष्टेन परिगृहीतः? अमरकोशः ✅ हेमचन्द्राचार्यस्य अभिधानचिन्तामणिः?? Monier Williams??? पाश्चात्त्यैस्तत्रान्तिम आद्रियते। भारतीयैस्तदन्यत्। अत्र विप्रतिपत्तिः।
सन्तोऽपि पाश्चात्या न पस्पशाह्निकादौ परिभाषिताश् शिष्टाः। अस्मद्-अविच्छिन्न-सम्प्रदाय-वर्तिन ऊचुर् “इदम् प्रमाणम्, इदं ने"ति - व्याकरणेषु कोशेषु वा।
सर्वत्रैवम् एव व्यवस्था - यो ग्राम्यो बुभूषति, तस्य ग्रामवृद्धाः प्रमाणम्,
यो लोकगायकस् तस्य नटविटादयः,
यः पुनर् आर्षसम्प्रदायशिष्टान् अनुचिकीर्षति, तस्य स एव सम्प्रदायः।
अतो दृश्यन्ते वैदिक-संस्कृतम् अनुकुर्वन्तः केचिद्, ये ऽर्वाचीन-संस्कारम् बहुत्र तिरस् कुर्वन्ति।
कोशोद्देशः
पुनः कोशस्योद्देशोऽपि परिज्ञेयः - किं प्राचीनानां शिष्टाशिष्टकृतानाम् आर्षानार्षाणाम् प्रयोगानाम् परिज्ञानम्? उत सत्-सम्प्रदाय-पल्लवितानाम् बालानां शिक्षणम्?
तत्-तद्-ध्येय-कृतः प्रयोग-प्रामाण्य-भेदश् च फलत्य् एव।