अर्थनिर्देशे ऽपूर्णता
- “भीमसेनादयः हि अर्थं निदिर्दिशुः” इति स्मर्यते — इति भट्टोजिदीक्षितः शब्दकौस्तुभे ।
- सामान्येन अर्थनिर्देशे कृते अपि धातवः विशिष्टेषु अर्थेषु प्रयुज्यन्ते । यथा, अट् / सृप् / गम् / पत् — एते सर्वे धातुपाठे “गतौ” इत्यस्मिन् अर्थे उक्ताः सन्ति, परन्तु प्रत्येकं धातोः अर्थः पृथग् एव । अतः एते पर्यायवाचकाः धातवः न ।
अनेकार्थाः धातवः इति वैयाकरणाः प्रतिपन्नाः ।
धातुपारायणेषु अर्थनिर्देशः प्रकार-परतया कृतः, न अर्थपरिगणनाय ।तत्र एकः मुख्यः अर्थः, गौणानि अर्थान्तराणि इति न अवश्यं व्यवतिष्ठते ।
अवतेः एकोनविंशतौ अर्थेषु गुण-प्रधान-भाव-कल्पना शास्त्रपारीणेन अपि विदुषा न शक्या समर्थयितुम्— शब्दापशब्दविवेकः ।
क्रियावाचित्वम् आख्यातुं
प्रसिद्धोऽर्थः प्रदर्शितः ।
प्रयोगतोऽन्ये मन्तव्या
अनेकार्था हि धातवः
— इति शिष्टवचनम् ।
इत्यादि प्रतिधातुस्थं
कियद् व्याचक्ष्महे वयम् ।
लोकात् सूरिभिर् अप्य् ऊहं
लक्ष्यमूलं हि लक्षणम्
— क्षीरतरङ्गिणी ।
सत्यपि शब्दार्थत्वे भिद्यते एव एषाम् अभिधेयम् । तथा हि, कवतिः तावद् अव्यक्ते शब्दे वर्तते — उष्ट्रः कोकूयते इति । कुवति अपि आर्तस्वरे वर्तते — चोकूयते वृषलः इति । पीडितः इत्यर्थः । कौतिस्तु शब्दमात्रे — ७.४.६३ न कवतेर्यङि इत्यत्र न्यासः ।
सूक्ष्मार्थभेदः
गत्यर्थकानां यथा, समानर्थनिर्देशानां धातूनाम् अपि सूक्ष्माः अर्थाः भिन्नाः सन्ति ।
नी / हृ / कृष् / वह्
द्विकर्मकधातूनां परिगणे अन्तिमाः चत्वारः धातवः- नी, हृ, कृष्, वह् । “चैत्रः ग्रामम् अजां नयति हरति कर्षति वहति वा” इति उदाहरणानि । एतेषां चतुर्णाम् अपि धातूनां “प्रापणम्” इत्येव सामान्यः अर्थः विद्यते ।
यदि अर्थनिबन्धना इयं संज्ञा,
तर्हि नीवह्योः अन्यतरः +++(द्विकर्मकावल्यां)+++ न पठनीयः - उभयोः अपि एकार्थकत्वात् इति चेत्, सत्यम् ।
भारं वहति, भारं नयति इत्यत्र यदि विलक्षणः अर्थः अनुभूयते,
तदा द्वयमपि पठनीयमेव ।
यदि नानुभूयते, तर्हि अन्यतरः न पठनीयः,
उभयथा अपि लक्ष्यस्य निर्बाधत्वात्
— “१.४.५१ अकथितं च” इत्यत्र तत्त्वबोधिनी ।
दण्डोद्यमन–मार्गान्तर-गमन-प्रतिबन्धन–योग्य-मार्ग-संयोजन–रूपः व्यापारः नी-धातोः अर्थः ।
वाहक-द्वारकः तादृशचलनानुकूलव्यापारः स्कन्धग्रहणादिरूपः हरतेः अर्थः ।
रज्जुबन्धनादिना बलात् चालनं कृषेः अर्थः ।
शकटाद्यारोपणादिरूपः देशान्तरसंयोगानुकूलः व्यापारः वहेः अर्थः — १.४.५१ अकथितं च इत्यत्र बालमनोरमा ।
कोपादिः
- कोपः = अनुद्भूतावस्थः ।
- रोषः = तात्कालिकः कोपः ।
- क्रोधः = उद्भूतावस्थः विकृतवाक्यप्रयोगादिरूपः ।
- अमर्षः = कृतापराधेषु स्थिरः क्रोधः ।
अनेकार्थता
अष्टाध्याय्याम्
- “८.३.११३ सेधतेर्गतौ” इत्यत्र गतिग्रहणम् धातूनाम् अनेकार्थत्वे लिङ्गम् ।
- “गुर्दँ क्रीडायामेव” इत्यत्र एवकारग्रहणम् धातूनाम् अनेकार्थत्वे लिङ्गम् ।
भाष्यम्
- “३.१.१३१ अग्नौ परिचाय्योपचाय्यसमूह्याः” इत्यत्र भाष्यकारः — “ऊहिः अपि वह्यर्थे वर्तते, कथं पुनः अन्यः? नामान्यस्य +अर्थे वर्तते ? कथम् ऊहिः वह्यर्थे वर्तते ? बह्वर्थाः अपि धातवः भवन्ति, इति ।”
धातुवृत्तयः
- “उपलक्षणम् अर्थनिर्देशः / अर्थनिर्देशस्य उपलक्षणत्वम्” — इति माधवीयधातुवृत्तिः ।
- “धातूनाम् अनेकार्थत्वात् प्रामाणिकाः अन्ये अर्थाः अपि ज्ञेयाः” — इति कृदन्तरूपमाला ।
- “उपसर्गेण धात्वर्थो बलादन्यत्र नीयते” — इत्यक्तरीत्या अपि धातूनाम् नानार्थत्वम् स्वयमेव यथायथम् ऊह्यम् — इति कृदन्तरूपमाला ।
- “धातुपाठे क्वचित् अर्थनिर्देशः उपलक्षणम्” — बृहद्धातुरूपावली ।
धातवश्चोपसर्गाश्च
निपाताश्चेति ते त्रयः ।
अनेकार्थाः स्मृताः प्राज्ञैः
पाठस्तेषां निदर्शनम्
— इति शिष्टवचनम् ।
न हि सर्वो धातुर् अनेकार्थः,
न च एकः सर्वार्थः ।
कश्चिद् एव निर्दिष्टार्थम् अतिरिच्य प्रवृत्तः दृष्टः ।
अल्पीयांसः तर्हि अनेकार्थतायाः प्रदेशाः।
— शब्दापशब्दविवेकः ।
सिद्धान्तकौमुदी
- “गत्यर्थानां बुद्ध्यर्थत्वात् हन्ति ज्ञाने” — “३.३.८६ सङ्घोद्घौ गणप्रशंसयोः” इत्यत्र सिद्धान्तकौमुदी ।