Source: TW
वाल्मीकि इति शब्दः
२३९
वल्मीकस्य अपत्यम् वाल्मीकिः । वल्मीक + इञ् (४.१.९५ अत इञ्) । तदुक्तं ब्रह्मवैवर्ते - अथाब्रवीन्महातेजा ब्रह्मा लोकपितामहः ।
वल्मीकप्रभवो यस्मात् तस्मात् वाल्मीकिरित्यसौ । — इति चम्पूरामायणव्याख्याने ।
वल्मीकः इति तु पुत्तिकाभिधैः क्षुद्रकीटैः कृतः मृत्स्तूपविशेषः । तस्य अचेतनत्वात् अपत्यस्य असम्भवः ।
तर्हि वल्मीकस्य अपत्यं इति कथम् — इति चेत्,
वस्तुतस्तु ऋक्षः इत्याख्यः कश्चन भृगुपुत्रः यदा दीर्घकालं यावत् तपः कृतवान्,
तदा तं परितः वल्मीकस्य निर्माणं जातम् ।
तदनन्तरम् वरुणेन (प्रचेतसा) निरन्तरं वर्षणं कृत्वा वल्मीकस्य भेदे कृते सः बहिः आगतः,
अतः गौणत्वेन (वल्मीकस्य पुत्रः =) वाल्मीकिः,
किञ्च (प्रचेतसः पुत्रः = ) प्राचेतसः इत्यपि नामद्वयेन सः प्रसिद्धः ।
४.१.९६ बाह्वादिभ्यश्च इत्यत्र निर्दिष्टः बाह्वादिगणः आकृतिगणः अस्ति;
अतः तत्र वल्मीकशब्दस्य ग्रहणं कृत्वा तस्मात् अपत्यार्थे इञ्-प्रत्यये कृते वाल्मीकि इति शब्दः अवश्यं सिद्ध्यति ।
अपि च, ४.२.१३८ गहादिभ्यश्च इत्यत्र निर्दिष्टे गहादिगणे अपि अयं शब्दः विद्यते ।
अतः अस्य शब्दस्य साधुत्वं निर्विवादम् ।
कुत्रचित्, पृषोदरादित्वात् ह्रस्वादेशं कृत्वा वाल्मिकि इति शब्दः अपि अस्मिन् अर्थे प्रयुज्यते । एवमेव, वल्मीकस्य इदम् इत्यर्थे अर्थेषु औत्सर्गिके अण्-प्रत्यये कृते वाल्मीक इति शब्दः अपि अस्मिन्नेव अर्थे प्रयुज्यते ।
रामायणस्य प्रथमश्लोकस्य गोविन्दराजविरचितायाः संस्कृतव्याख्यायाः अंशः