उपलब्धिः

डुलभँष् (पाके) इति षित् धातुः अस्ति, अतः अस्मात् धातोः ३.३.१०४‌ षिद्भिदादिभ्योऽङ् इत्यनेन अङ् इति कृत्प्रत्ययः भवेत् । परन्तु अस्मात् धातोः अङ्-प्रत्ययः न भवति अपितु क्तिन्-प्रत्ययः एव भवति, येन “लब्धि” इति शब्दः सिद्ध्यति । अस्य साधुत्वम् इत्थम् —

  • “क्तिन् आबादिभ्यश्च वक्तव्यः” इति वार्त्तिकेन आप्, राध्, दीप्, लभ् —‌ एतेभ्यः धातुभ्यः अ/अङ्-प्रत्ययं बाधित्वा क्तिन्-प्रत्ययः विधीयते — इति काशिका । अमरकोशस्य सुधाटीकायाम् अपि इदमेव उक्तम् ।
  • भाष्यप्रयोगात्, बाहुलकात् वा क्तिन् — इति तत्त्वबोधिनी ।
  • डुलभँ इति षकारं विना एव धातुग्रहणं करणीयम्, येन अङ्-प्रत्ययस्य प्राप्तिरेव न स्यात्, अतः औत्सर्गिकः क्तिन्-प्रत्ययः एव भवेत् — इति दुर्घटवृत्तौ शरणदेवः ।
  • रभ्/लभ्-धातोः एकत्वस्मरणात् रब्धि-सदृशम् ‘लब्धि’ इति रूपम् अपि सिद्ध्येत् — इत्यपि दुर्घटवृत्तौ अपरः पक्षः ।

उपलब्धिः / अनुपलब्धिः इत्येतयोः साहित्ये विद्यमानाः केचन प्रयोगाः —

  • प्रेक्षोपलब्धिश्चित्संवित्प्रतिपत्ज्ञप्तिचेतना (अमरकोषे १.५.१, बुद्धिः इत्यस्य समानार्थकाः शब्दाः)
  • अनर्थकास्तु प्रतिवर्णमर्थानुपलब्धेर्वर्णव्यत्ययापायोजनविकारेष्वदर्शनाद् (महाभाष्यम्, १.२.४५ अर्थवदधातुरप्रत्ययः प्रातिपदिकम् इत्यत्र)