द्वि-त्रि-अष्ट-आदेशः
“६.३.४७ द्व्यष्टनः सङ्ख्यायामबहुव्रीह्यशीत्योः” - द्वि-शब्दस्य, अष्टन्-शब्दस्य च अन्तिमवर्णस्य सङ्ख्यावाचके उत्तरपदे आकारादेशः भवति । यथा —
- द्वि + दश → द्वा + दश → द्वादश । एवमेव, द्वाविंशतिः, द्वात्रिंशत् ।
- अष्टन् + दश → अष्टा + दश → अष्टादश । एवमेव, अष्टाविंशतिः, अष्टात्रिंशत् ।
“६.३.४८ त्रेस्त्रयः” — त्रि-शब्दस्य अन्तिमवर्णस्य सङ्ख्यावाचके उत्तरपदे त्रयस्-आदेशः भवति । यथा —
- त्रि + दश → त्रयस् + दश → त्रयोदश । त्रि + विंशतिः → त्रयस् + विंशति → त्रयोविंशतिः ।
- त्रि + त्रिंशत् → त्रयस् + त्रिंशत् → त्रयः + त्रिंशत् → त्रयस्त्रिंशत् ।
“अशीति” इति उत्तरपदस्य विषये आकारादेशः / त्रयस्-आदेशः न भवति ।
- द्वि + अशीतिः → द्व्यशीतिः ।
- त्रि + अशीतिः → त्र्यशीतिः ।
- अष्टन् + अशीतिः → अष्ट + अशीतिः → अष्टाशीतिः । “अत्र ८.२.७ नलोपः प्रातिपदिकान्तस्य” इति नकारलोपः भवति ।
६.३.४९ विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम् ; प्राक्शतादिति वक्तव्यम् (वार्तिकम्) — चत्वारिंशत् इत्यतः अग्रे आकारादेशः / त्रयस्-आदेशः विकल्पेन भवति । शतम् इत्यस्मात् अग्रे तु एते आदेशाः नैव भवन्ति ।
द्विचत्वारिंशत् / द्वाचत्वारिंशत् | अष्टचत्वारिंशत् / अष्टाचत्वारिंशत् | त्रिचत्वारिंशत् / त्रयश्चत्वारिंशत् |
---|---|---|
द्विपञ्चाशत् / द्वापञ्चाशत् | अष्टपञ्चाशत् / अष्टापञ्चाशत् | त्रिपञ्चाशत् / त्रयःपञ्चाशत् |
द्विषष्टिः / द्वाषष्टिः | अष्टषष्टिः / अष्टाषष्टिः | त्रिषष्टिः / त्रयष्षष्टिः / त्रयःषष्टिः |
द्विसप्ततिः / द्वासप्ततिः | अष्टसप्ततिः / अष्टासप्ततिः | त्रिसप्ततिः / त्रयस्सप्ततिः / त्रयःसप्ततिः |
द्विनवतिः / द्वानवतिः | अष्टनवतिः / अष्टानवतिः | त्रिनवतिः / त्रयोनवतिः |
द्विशतम् , द्विसहस्रम्, द्विलक्षम्, … | अष्टशतम् , अष्टसहस्रम्, अष्टलक्षम्, … | त्रिशतम् , त्रिसहस्रम्, त्रिलक्षम्, … |
प्रातिपदिकानि
एक | अकारान्तः, त्रिषु लिङ्गेषु, नित्यम् एकवचने । |
---|---|
द्वि | इकारान्तः, त्रिषु लिङ्गेषु, नित्यं द्विवचने । |
त्रि | इकारान्तः, त्रिषु लिङ्गेषु, नित्यं बहुवचने । |
चतुर् | रेफान्तः, त्रिषु लिङ्गेषु, नित्यं बहुवचने । |
पञ्चन् | नकारान्तः, त्रिषु लिङ्गेषु, नित्यं बहुवचने । |
षष् | षकारान्तः, त्रिषु लिङ्गेषु, नित्यं बहुवचने । |
सप्तन्, … नवदशन् | नकारान्तः, त्रिषु लिङ्गेषु, नित्यं बहुवचने । |
विंशति | इकारान्तः, स्त्रीलिङ्गे, नित्यम् एकवचने+++(५)+++ । |
त्रिंशत्, चत्वारिंशत्, पञ्चाशत् | तकारान्तः, स्त्रीलिङ्गे, नित्यम् एकवचने । |
षष्टि, सप्तति, अशीति, नवति | इकारान्तः, स्त्रीलिङ्गे, नित्यम् एकवचने । |
शत | अकारान्तः, पुंलिङ्गनपुंसकलिङ्गयोः, नित्यम् एकवचने । |
स्त्रीलिङ्गे
- एकोनविंशतिः = एकेन ऊना विंशतिः । “२.१.३१ पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः” इति तृतीयातत्पुरुषः ।
- एकाद्नविंशतिः / एकान्नविंशतिः = एकेन न विंशतिः ।
- २.१.३० तृतीया तत्कृतार्थेन गुणवचनेन इत्यत्र तृतीया इति योगविभागात् समासः ।
- प्रक्रियायाम् “६.३.७६ एकादिश्चैकस्य चादुक्” इत्यनेन नञ्-शब्दः प्रकृत्या भवति, “एक” शब्दस्य च “आदुक्” आगमः भवति । अग्रे ८.४.४५ यरोऽनुनासिकेऽनुनासिको वा इति विकल्पेन अनुनासिकादेशे कृते द्वे रूपे भवतः । एकाद् + न + विंशतिः → एकाद्नविंशतिः, एकान्नविंशतिः ।
- नवदश = नवाधिकाः दश इति तत्पुरुषसमासः । अथ वा, नव च दश च अनयोः समाहारः इति समाहारद्वन्द्वः ।
- त्रयोदश = त्र्यधिकाः दश इति तत्पुरुषसमासः । अथ वा, त्रयश्च दश च इति समाहारद्वन्द्वः ।
- त्रयोविंशतिः = त्र्यधिका विंशतिः इति तत्पुरुषसमासः । अथ वा, त्रयश्च विंशतिश्च इति समाहारद्वन्द्वः ।
- अस्य शब्दस्य स्त्रीत्वं लोकात् ।
त्रिसहस्रम्
- 1003 people = त्र्यधिकसहस्रं जनाः / त्र्युत्तरसहस्रं जनाः ।
- 3000 people = त्रिगुणितं सहस्त्रं जनाः ।
- कुत्रचित् “त्रिसहस्रं जनाः” इति अपि शब्दः श्रूयते । तस्य विग्रहः “त्रिगुणितं सहस्रम्” इत्येव । वस्तुतः एतादृशः विग्रहः प्राचीनग्रन्थेषु नैव दृश्यते । केवलं स्थितस्य गतिः चिन्तनीया इति न्यानेन अयं विग्रहः कृतः ।
“त्रिसहस्रम्” इत्यस्य विग्रहः वस्तुतः “त्र्यधिकं सहस्रम्” (1003) तथा च “त्रिगुणितं सहस्रम्” (3000) इति उभयथा सम्भवति ।
परन्तु लोकव्यवहारे तु “त्रिगुणितं सहस्रम्” (3000) इत्यस्यैव कृते त्रिसहस्रम् इति शब्दः प्रयुक्तः दृश्यते । 1003 इत्यस्य कृते लोकव्यवहारे त्र्यधिकसहस्रम् / त्र्युत्तरसहस्रम् इति विग्रहवाक्यमेव प्रयुज्यते, तत्र समस्तपदं न प्रयुज्यते ।
द्वित्रादयः
- 2 or 3 people = द्वित्राः जनाः ।
- द्वौ वा त्रयः वा = द्वित्राः । “२.२.२५ संख्ययाऽव्ययासन्नादूराधिकसंख्याः संख्येये” इति बहुव्रीहिसमासः, ततः “५.४.७३ बहुव्रीहौ संख्येये डजबहुगणात्” इति डच्-प्रत्ययः । द्वि + त्रि + डच् → द्वित्र ।
- 3 or 4 people = त्रिचतुराः जनाः । त्रयः वा चतुराः त्रिचतुराः । “२.२.२५ संख्ययाऽव्ययासन्नादूराधिकसंख्याः” संख्येये इति बहुव्रीहिसमासः, ततः “५.४.७७ अचतुर…” इत्यत्र पाठितेन “चतुरोऽच्प्रकरणे त्र्युपाभ्यामुपसङ्ख्यानम्” इति वार्त्तिकेन अच्-प्रत्ययः । त्रि + चतुर् + अच् → त्रिचतुर ।
- 5 or 6 people = पञ्चषाः जनाः । पञ्च वा षड् वा = पञ्चषाः । “२.२.२५ संख्ययाऽव्ययासन्नादूराधिकसंख्याः संख्येये” इति बहुव्रीहिसमासः, ततः “५.४.७३ बहुव्रीहौ संख्येये डजबहुगणात्” इति डच्-प्रत्ययः । पञ्चन् + षष् + डच् → पञ्चष ।
- 3000 or 4000 people = जनानां त्रिचतुराणि सहस्राणि ।
- सहस्रम् इति शब्दः नित्यैकवचनान्तः । परन्तु सङ्ख्याने अर्थे तस्य त्रिषु वचनेषु प्रयोगः सम्भवति । यथा, जनानां एकम् सहस्रम्, जनानां द्वे सहस्रे, जनानां त्रीणि सहस्राणि, जनानां बहूनि सहस्राणि… ।
- जनानां त्रिचतुरसहस्त्री । त्रिचतुराणां सहस्राणां समाहारः = त्रिचतुरसहस्री । अयं द्विगुः ।
- त्रिसहस्रं चतुःसहस्रं वा जनाः ।
- त्रिगुणितं सहस्रं त्रिसहस्रम् । चतुर्गुणितं सहस्रं चतुःसहस्रम् ।
- अत्र 3000 or 4000 people इत्यस्य निर्देशः ‘त्रिचतुर’ तथा ‘सहस्रम्’ एतयोर्मध्ये कर्मधारयसमासं कृत्वा न सम्भवति, यतः अत्र द्वौ अपि शब्दौ सङ्ख्यावाचकौ स्तः, अतश्च तयोर्मध्ये विद्यमानः समासः “२.१.५० दिक्सङ्ख्ये संज्ञायाम्” इत्यनेन नियम्यते । केवलं विशिष्टेषु उदाहरणेषु एव सङ्ख्यावाचकपूर्वपदेन सह कर्मधारयसमासः भवति (त्रिचतुराणि सहस्राणि इत्यत्र न भवति) इत्याशयः ।