५.३.२२ सद्यःपरुत्परार्यैषमःपरेद्यव्यद्यपूर्वेद्युरन्येद्युरन्यतरेद्युरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः —
सद्यःप्रभृतयः शब्दाः निपात्यन्ते । प्रकृतिः, प्रत्ययः, आदेशः, कालविशेषः इति सर्वमेतन्निपातनाल्लभ्यते
— काशिका ।
- सद्यः = समान + द्यस् । समानशब्दस्य सभावः । “समाने अहनि” (on the same day)
- परुत् = पूर्व + उत् । पूर्वशब्दस्य परभावः । “पूर्वस्मिन् संवत्सरे” (in the previous year)
- परारि = पूर्वतर + आरि । पूर्वतरशब्दस्य परभावः । “पूर्वतरे संवत्सरे” (in the year before the previous year) ।
- ऐषमः = इदम् + समसण् । इदम्शब्दस्य इश्भावः । “अस्मिन् संवत्सरे” (in this year)
- परेद्यवि = पर + एद्यवि । “परस्मिन् अहनि” (on the other day / next day / different day)
- “परेद्युः” इति अनुचितः शब्दः ।+++(५)+++ वस्तुतः शब्दकल्पद्रुमे परेद्युः = पर + एद्युस् इति मुग्धबोधव्याकरणम् इति उक्तम् अस्ति । तथापि पाणिनीयव्याकरणमतेन अयम् असाधु शब्दः एव; यतः मुनित्रयेण अस्य प्रतिपादनं नैव कृतम् ।
- अद्य = इदम् + द्य । इदम्शब्दस्य अश्भावः । “अस्मिन् अहनि” (today)
अत्र सर्वत्र विद्यमानः एद्युस्-प्रत्ययः पूर्वान्यान्यतरेतरापराधरोभयोत्तरेभ्योऽहनि एद्युस् इति वार्त्तिकस्वरूपेण, अथ वा पूर्वादिभ्योऽष्टभ्योऽहन्येद्युस् इति रूपेण व्याख्यानेषु पाठितः -
पूर्वेद्युः | पूर्व + एद्युस् | पूर्वस्मिन् दिने (On the previous day) |
---|---|---|
अन्येद्युः | अन्य + एद्युस् | अन्यस्मिन् दिने (On the other day) |
अन्यतरेद्युः | अन्यतर + एद्युस् | अन्यतरस्मिन् दिने (On either day) |
इतरेद्युः | इतर + एद्युस् | इतरस्मिन् दिने (On a different day) |
अपरेद्युः | अपर + एद्युस् | अपरस्मिन् दिने (On another day) |
अधरेद्युः | अधर + एद्युस् | अधरस्मिन् दिने (On a previous day) |
उभयेद्युः | उभय + एद्युस् | उभययोः दिनयोः (On both days) |
उत्तरेद्युः | उत्तर + एद्युस् | उत्तरस्मिन् दिने (On a later day) |
५.३.२२ सद्यःपरुत्… इति सूत्रेण सिद्धानि सर्वाणि अपि शब्दस्वरूपाणि अव्ययसंज्ञकानि सन्ति । अतः एतेभ्यः विभक्तिप्रत्ययाः न प्रयोक्तव्याः । अतः, सद्ये दिने, ऐषमे वर्षे, पूर्वेद्यौ आदयः प्रयोगाः अनुचिताः एव ।